वन्दे त्वां भूदेवीमार्य मातरं
जयतु जयतु पदयुगलं ते निरन्तरम् ॥ ध्रुवम्॥
शुभ्र-शरच्चन्द्र-युक्त-चारुयामिनीं
विकसित-नव-कुसुम-मृदुल-दामशोभिनीं
मन्दस्मितयुक्त-वदन-मधुरभाषिणीं
सुजलां सुफलां सरलां
शिववरदां चिरसुखदां
मुकुलरदामार्य मातरम् ॥ १॥
अगणितसंतानवृन्द-कण्ठनादिनीं
अमितभुजां धृतधरिणीं तनयतारिणीं
हिमनगजां स्वाभिमान-बुद्धिदायिनीं
कमलाम् अमलाम् अतुलां
रिपु-दलिनीं बलकरणीं
धृतनलिनीं राष्ट्रमातरम् ॥ २॥ वन्दे त्वां..
धर्मस्त्वं शर्म त्वं त्वं यशोबलं
शक्तिस्त्वं भक्तिस्त्वं कर्म चाखिलं
प्रतिसदनं प्रतिमा ते त्वं महाबलं
धरणीं भरणीं जननीं
कविप्रतिभां नतसुलभां
जगदम्बां देशमातरम् ॥ ३॥ वन्दे त्वां..
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें