विस्तीर्णप्रतीरे
असङ्ख्यनृकृते
हाहाःकारेऽपि,
निःशब्दन् निःस्पृहम् -
भो
गङ्गे कथं नु गङ्गे वहस्यनिशम् ?
नैतिकतां प्रस्खलिताम्
मानवतां च अधोगताम् -
प्रेक्ष्यापि
निर्लज्जम्
वहसे
कथम् ?
ज्ञानहीने
अक्षररहिते,
लक्ष्यमाणेऽपि
निरन्नजने
मौनञ्च
कुतस्तन्- नेतृहीने?
सहस्रवर्षैः
ऐतिह्योदीरितैः च
मन्त्रैः
पुनः नव्यभारतम् -
सुसाङ्ग्रामिकं,
सर्वाग्रगमं
करोषि
न किमर्थम् ?
व्यक्तौ
यदि स्याद् व्यक्तिवादः
समाजो
भूयः व्यक्तितत्त्वहीनः -
कस्मात्
न प्रध्वंससे स्रस्तजनान् ?
त्वं
हि यदि जह्नुनन्दिनी,
तत्
पितृत्वम् किल नाममात्रम्,
नो
चेत् न प्राणेषु
प्रेरणा
कथम् ?
उन्मत्तधरां कुरुक्षेत्ररूपाम्
आलिङ्ग्य
हि घोरं
न
निद्रायमाणम् -
भीष्मसमं भारतप्रसूतम्
जागरयसि
कथम्?
मूल-असमीया-रचना/स्वरश्च-
डा: भूपेन हजारिका
संस्कृतानुवाद:/
कण्ठस्वरश्च- श्रीरंजन बेजबरुवा (असमत:)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें