दीने न चेद् दयालुता हृदयेन तेन किम् ?
मधुरं न यस्य
भाषितं वदनेन तेन किम् ?
विहिता न
भक्तिरीश्वरे न च साधु-सङ्गतिः
भूभार-तुल्य-मूर्तिना
मनुजेन तेन किम् ?
वचनोपदेश-पालनैर्
विनयेन सेवया
पितरौ न येन
तोषितौ तनयेन तेन किम् ?
गृहमागतस्य
दुःखिनो नितरां बुभुक्षया
उदरो न जातु
पूरितो धनिकेन तेन किम्?
निगमाऽगमानधीत्य
तथा नाऽचरेद् यदि
अपरोपदेश-दायिना
विबुधेन तेन किम् ?
कटुता न चेत्
समुज्झिता जातो न 'विनीतः"
जड-जीवनोपयोगिना
पठितेन तेन किम् ?
आचार्य वासुदेव
द्विवेदी शास्त्री
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें