पठ्यतां हि संस्कृतं ज्ञायतां नु वाङ्मयम् ।
संस्कृतस्य पाठनाय दीयतां स्वजीवनम् ॥ ध्रुवम्॥
प्रेमशुद्धिसंप्लुतं त्यागसलिलवधितं
कष्टकोटिपावितं स्वार्थरहितचेष्टितम् ।
अचललक्ष्य-केन्द्रितं सकलशीलभूषितं
राष्ट्रधर्मरक्षणाय स्यान्मदीयजीवनम् ॥ १॥
परोपदेशवर्जकं परोपकारकारकं
द्वेष-दोषनाशकं क्रोध-मोह-लोपकम् ।
स्नेहभावगुम्फितं क्षात्रवीर्यपूरकं
ऐक्यबन्ध-वर्धनाय स्यान्मदीय-जीवनम् ॥ २॥
जातिभेदवारकं दीनदलितसेवकं
स्वाभिमानपोषकं सामरस्य-साधकम् ।
ज्ञानविनय-संयुतं विपुलगुण-गणान्वितं
लोकशक्तिवर्धनाय स्यान्मदीय-जीवनम् ॥ ३॥
जीवनस्य वाञ्छितं संस्कृतस्य वैभवं
मामकीनयौवनं संस्कृतार्थमर्पितम् ।
नैव किमपि सञ्चितं नास्ति किमपि काङ्कितं
संस्कृतप्रसारणाय स्यान्मदीयजीवनम् ॥ ४॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें