मातः
चन्दिर एकाकी
कस्मात्
गगने सञ्चरति ।
मातरं
पितरं गृहं विहाय
रात्रौ
सततं सञ्चरति ॥
वायुः
वेगेन तं नयति
सूर्यः
किरणैस्तापयति ॥
मेघो
जलेन आर्द्रयति
न कोपि
तं परिपालयति ॥
अम्ब
चन्दिरमानयतु
अस्मद्गेहे
स्थापयतु ।
तेन सहाहं
क्रीडामि
खादामि
पिबामि नन्दामि ॥
मेघो
वर्षति मेघो वर्षति प्रवहति नीरम् ।
तुष्यति
कृषिकः गच्छति गोष्ठम् ॥
नयति च
वृषभं
हलमपि
वहति ।
कर्षति
क्षेत्रं
वपति च
बीजम् ॥
रोहति
सस्यं फलति प्रकामम् ।
भवति
समृद्धिः मनुकुलवृद्धिः ॥
लेखकः- जि. महाबलेश्वरभट्टः
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें