चटक, चटक, रे चटक
चिँव्, चिँव् कूजसि त्वं विहग।।ध्रु।।
नीडे निवससि
सुखेन डयसे
खादसि फलानि
मधुराणि ।
विहरसि विमले
विपुले गगने
नास्ति जनः खलु
वारयिता।।1।।
मातापिरौ इह मम
न स्तः
एकाकी खलु
खिन्नोऽहम् ।
एहि समीपं
चिँव् चिँव् मित्र
ददामि तुभ्यं
बहुधान्यम्।।2।।
चणकं स्वीकुरु
पिब रे नीरं
त्वं पुनरपि रट
चिँव् चिँव् चिँव् ।
तोषय मां कुरु
मधुरालापं
पाठय मामपि तव
भाषाम्।।3।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें