॥ अथ तिङन्तभ्वादिप्रकरणम् ॥
2151: वर्तमाने लट् (3-2-123) वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ ॥
2152: लः कर्मणि च भावे चाकर्मकेभ्यः (3-4-69)
लकाराः सकर्मकेभ्यः कर्मणि
कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ॥
2153: लस्य (3-4-77) अधिकारोऽयम् ॥
2154: तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (3-4-78)
एतेऽष्टादशलादेशाः स्युः ॥
2155: लः परस्मैपदम् (1-4-99) लादेशाः परस्मैपदसंज्ञाः स्युः ॥
2156: तङानावात्मनेपदम् (1-4-100) तङ्प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः
॥
2157: अनुदात्तङित आत्मनेपदम् (1-3-12)
अनुदात्तेत उपदेशे यो
ङित्तदन्ताच्च धातोर्लस्य स्थाने आत्मनेपदं स्यात् ॥
2158: स्वरितञितः कर्त्रभिप्राये क्रियाफले (1-3-72)
स्वरितेतो ञितश्च
धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले ॥
2159: शेषात्कर्तरि परस्मैपदम् (1-3-78)
आत्मनेपदनिमित्तहीनाद्धातोः
कर्तरि परस्मैपदं स्यात् ॥
2160: तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1-4-101)
तिङ उभयोः
पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ॥
2161: तान्येकवचनद्विवचनबहुवचनान्येकशः (1-4-102)
लब्धप्रथमादिसंज्ञानि
तिङस्त्रीणि त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः ॥
2162: युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (1-4-105)
तिङ्वाच्यकारकवाचिनि
युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः स्यात् ॥
2163: प्रहासे च मन्योपपदे मन्यतेरुत्तमे एकवच्च (1-4-106)
मन्यधातुरुपपदं यस्य
धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात्परिहासे गम्यमाने मन्यतेस्तूत्तमः
स्यात्स चैकार्थस्य वाचकः स्यात् ॥
2164: अस्मद्युत्तमः (1-4-107) तथाभूतेऽस्मद्युत्तमः स्यात् ॥
2165: शेषे प्रथमः (1-4-108) मध्यमोत्तमयोरविषये प्रथमः स्यात् । 1 भू सत्तायाम् ॥ कर्तृविवक्षायां भू ति इति स्थिते ॥
2166: तिङ्शित्सार्वधातुकम् (3-4-113)
तिङः शितश्च
धात्वधिकारोक्ता एतत्संज्ञाः स्युः ॥
2167: कर्तरि शप् (3-1-68) कर्त्रर्थे सार्वधातुके परे धातोः शप् स्यात् । शपावितौ ॥
2168: सार्वधातुकार्धधातुकयोः (7-3-84)
अनयोः परयोरिगन्ताङ्गस्य
गुणः स्यात् । अवादेशः । भवति । भवतः ॥
2169: झोऽन्तः (7-1-3) प्रत्ययावयवस्य झस्यान्तादेशः स्यात् । ‘अतो गुणे’(सू. 191) । भवन्ति । भवसि । भवथः । भवथ ॥
2170: अतो दीर्घो यञि (7-3-101) अतोऽङ्गस्य दीर्घः स्याद् यञादौ सार्वधातुके परे । भवामि ।
भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । युयं
भवथ । अहं भवामि । आवां भवावः। वयं भवामः । एहि मन्ये ओदनं भोक्ष्यसे इति भुक्तः
सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे । भोक्ष्यध्वे । भोक्ष्ये ।
भोक्ष्यावहे । भोक्ष्यामहे । मन्यसे । मन्येथे । मन्यध्वे । इत्यादिरर्थः । ‘युष्मद्युपपदे’(सू.
2162) इत्याद्यनुवर्तते । तेनेह न । एतु भवान्मन्यते ओदनं
भोक्ष्ये इति भुक्तः सोऽतिथिभिः । प्रहासे किम् । यथार्थकथने माभूत् । एहि मन्यसे
ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिरित्यादि ॥
2171: परोक्षे लिट् (3-2-115) भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् । लस्य
तिबादयः ॥
2172: लिट् च (3-4-115) लिडादेशस्तिङार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः
। तेन शबादयो न ॥
2173: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3-4-82)
लिटस्तिबादीनां नवानां णलादयोनव
स्युः । भू अ इति स्थिते ॥
2174: भुवो वुग्लुङ्लिटोः (6-4-88) भुवो वुगागमः स्यात् लुङ्लिटोरचि ।
नित्यत्वाद्वुग्गुणवृद्धी बाधते ॥
2175: एकाचो द्वे प्रथमस्य (6-1-1)
2176: अजादेर्द्वितीयस्य (6-1-2) इत्यधिकृत्य ॥
2177: लिटि धातोरनभ्यासस्य (6-1-8)
लिटि परेऽभ्यासधात्ववयवस्यैकाचः
प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य । भूव् भूव् अ इति स्थिते ॥
2178: पूर्वोऽभ्यासः (6-1-4) अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥
2179: हलादिः शेषः (7-4-60) अभ्यासस्यादिर्हल शिष्यते अन्ये हलो लुप्यन्ते । इति वलोपः
॥
2180: ह्रस्वः (7-4-59) अभ्यासस्याचो ह्रस्वः स्यात् ॥
2181: भवतेरः (7-4-73) भवतेरभ्यसोकारस्य अः स्यात् लिटि ॥
2182: अभ्यासे चर्च (8-4-54) अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः खयां चरः ।
तत्रापि प्रकृतिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेक आन्तरतम्यात् ॥
2183: असिद्धवदत्राभात् (6-4-22) इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् । समानाश्रये
तस्मिन्कर्तव्ये तदसिद्धं स्यात् । इति वुकोऽसिद्धत्वादुवङि प्राप्ते ॥
वुग्युटावुवङयणोः सिद्धौ वक्तव्यौ (वा) ॥ बभूव । बभूवतु । बभूवुः ॥
2184: आर्धधातुकस्येड् वलादेः (7-2-35)
वलादेरार्धधातुकस्येडागमः
स्यात् । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम ॥
2185: अनद्यतने लुट् (3-3-15) भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् स्यात् ॥
2186: स्यतासी लृलुटोः (3-1-33) लृ इति लृङ्लृटोर्ग्रहणम् । धातोः स्यतासी एतौ स्तो लृलुटोः
परतः । शबाद्यपवादः ॥
2187: आर्धधातुकं शेषः (3-4-114) तिङ्शिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः
स्यात् । इट् ॥
2188: लुटः प्रथमस्य डारौरसः (2-4-85)
डा रौ रस् एते
क्रमात्स्युः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ॥
2189: पुगन्तलघूपधस्य च (7-3-86) पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः
स्यात्सार्वधातुकार्धधातुकयोः । येन नाव्यवधानं तेन व्ययहितेऽपि वचनप्रामाण्यात् ।
तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः । भवित् आ । अत्रेको गुणे प्राप्ते ॥
2190: दीधीवेवीटाम् (1-2-6) दीधीवेव्योरिटश्च गुणवृद्धी न स्तः । भविता ।
2191: तासस्त्योर्लोपः (7-4-50) तासेरस्तेश्च लोपः स्यात्सादौ प्रत्यये परे ॥
2192: रि च (7-4-51) रादौ प्रत्यये प्राग्वत् । भवितारौ । भवितारः । भवितासि ।
भवितास्थः । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः ॥
2193: लृट् शेषे च (3-3-13) भविष्यदर्थाद्धातोर्लृट् स्यात्क्रियार्थायां
क्रियायामसत्यां सत्यां च । स्यः इट् । भविष्यति । भविष्यतः । भविष्यन्ति ।
भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः ॥
2194: लोट् च (3-3-162) विध्यादिष्वर्थेषु धातोर्लोट् स्यात् ॥
2195: आशिषि लिङ्लोटौ (3-3-173)
2196: एरुः (3-4-86) लोट इकारस्य उः स्यात् । भवतु ॥
2197: तुह्योस्तातङाशिष्यन्यतरस्याम् (7-1-35)
आशिषि तुह्योस्तातङ् वा
स्यात् । अनेकाल्त्वात्सर्वादेशः । यद्यपि ‘ङिच्च-’ (सू. 431) इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थ
इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थतया संभवत्प्रयोजनङकारे तातङि मन्थरं
प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समबलत्वात् । भवतात् ॥
2198: लोटो लङ्वत् (3-4-85) लोटो लङ इव कार्यं स्यात् । तेन तामादयः सलोपश्च । तथा हि ॥
2199: तस्थस्थमिपां तांतंतामः (3-4-101)
ङितश्चतुर्णां तामादयः
क्रमात्स्युः ॥
2200: नित्यं ङितः (3-4-99) सकारान्तस्यङिदुत्तमस्य नित्यं लोपः स्यात् । ‘अलोऽन्त्यस्य’–
(सू. 42) इति सस्य लोपः । भवताम् । भवन्तु ॥
2201: सेर्ह्यपिच्च (3-4-87) लोटः सेर्हिः स्यात्सोऽपिच्च ॥
2202: अतो हेः (6-4-105) अतः परस्य हेर्लुक्स्यात् । भव । भवतात् । भवतम् । भवत ॥
2203: मेर्निः (3-4-89) लोटो मेर्निः स्यात् ॥
2204: आडुत्तमस्य पिच्च (3-4-92) लोडुत्तमस्याडागमः स्यात्स पिच्च । हिन्योरुत्वं न
इकारोच्चारणसामर्थ्यात् । भवानि । भवाव । भवाम ॥
2205: अनद्यतने लङ् (3-2-111) अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् स्यात् ॥
2206: लुङ्लङ्लृङ्क्ष्वडुदात्तः (6-4-71)
एषु परेष्वङ्गस्याडागमः
स्यात्स चोदात्तः ॥
2207: इतश्च (3-4-100) ङितो लस्य परस्मैपदमिकारान्तं यत्तस्य लोपः स्यात् । अभवत्
। अभवताम् । अभवन्। अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम ॥
2208: विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिट् (3-3-161)
एष्वर्थेषु द्योत्येषु
वाच्येषु वा लिङ् स्यात् । विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम् ।
निमन्त्रणं नियोगकरणं आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं
कामचारानुज्ञा । अधीष्टः सत्कारपूर्वको व्यापारः । प्रवर्तनायां लिङ् इत्येव
सुवचम् । चतुर्णां पृथगुपादानं प्रपञ्चार्थम् ॥
2209: यासुट् परस्मैपदेषूदात्तो ङिच्च (3-4-103)
लिङः परस्मैपदानां
यासुडागमः स्यात्स योदात्तो ङिच् । ङित्त्वोक्तेर्ज्ञायते क्वचिदनुबन्धकार्येऽप्यनल्विधाविति
प्रतिषेध इति । श्नादेशस्य शानचः शित्त्वमपीह लिङ्गम् ॥
2210: सुट् तिथोः (3-4-107) लिङस्तकारथकारयोः सुट् स्यात् । सुटा यासुट् न बाध्यते ।
लिङो यासुट् तकारथकारयोः सुडिति विषयभेदात् ॥
2211: लिङः सलोपोऽनन्त्यस्य (7-2-79)
सार्वधातुकलिङोऽनन्त्यस्य
सस्य लोपः स्यात् । इति सकारद्वयस्यापि निवृत्तिः । सुटः श्रवणं त्वाशीर्लिङि ।
स्फुटतरं तु तत्राप्यात्मनेपदे ॥
2212: अतो येयः (7-2-80) अतः परस्य सार्वधातुकावयवस्य या इत्यस्य इय् स्यात् । गुणः
। यलोपः । भवेत् । सार्वधातुके किम् । चिकीर्ष्यात् । मध्येऽपवादन्यायेन हि अतो
लोप एव बाध्येत । भवेदित्यादौ तु परत्वाद्दीर्घः स्यात् । भवेताम् ॥
2213: झेर्जुस् (3-4-108) लिङो झेर्जुस् स्यात् ॥ ज इत् ॥
2214: उस्यपदान्तात् (6-1-96) अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति
प्राप्ते । परत्वान्नित्यत्वाच्च‘अतो येयः’(सू. 2212) इति प्राञ्चः । यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं
तथापि यास् इत्येतस्य इय् इति व्याख्येयम् । एवं तु सन्धिरार्षः । भवेयुः । भवेः ।
भवेतम् । भवेत । भवेयम् । भवेव । भवेम ॥
2215: लिङाशिषि (3-4-116) आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥
2216: किदाशिषि (3-4-104) आशिषि लिङो यासुट् कित्स्यात् । ‘स्कोः’-(सू. 380) इति सलोपः ॥
2217: क्ङिति च (1-1-5) गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात्
। भूयास्ताम् । भूयासुः । भूयाः। भूयास्तम् । भूयास्त । भूयासम् । भूयास्व ।
भूयास्म ॥
2218: लुङ् (3-2-110) भूतार्थावृत्तेर्धातोर्लुङ्स्यात् ॥
2219: माङि लुङ् (3-3-175) सर्वलकारापवादः ॥
2220: स्मोत्तरे लङ् च (3-3-176) स्मोत्तरे माङि लङ् स्याच्चाल्लुङ् ॥
2221: च्लि लुङि (3-1-43) शबाद्यपवादः ॥
2222: च्लेः सिच् (3-1-44) इचावितौ ॥
2223: गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (2-4-77)
एभ्यः सिचो लुक् स्यात् ।
गापाविहेणादेशपिबती गृह्येते ॥
2224: भूसुवोस्तिङि (7-3-88) भू सू एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ॥
2225: अस्तिसिचोऽपृक्ते (7-3-96) सिच्च अस् चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं
भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सौत्रो लुक् ।
विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः स्यात् । इतीण्नेह । सिचो
लुप्तत्वात् । अभूत् । हलः किम् । ऐधिषि । अपृक्तस्येति किम् । ऐधिष्ट । अभूताम् ॥
2226: सिजभ्यस्तविदिभ्यश्च (3-4-109)
सिचोऽभ्यास्ताद्विदेश्च
परस्य ङित्संबन्धिनो झेर्जुस् स्यात् । इति प्राप्ते॥
2227: आतः (3-4-110) सिज्लुक्यादन्तादेव झोर्जुस् स्यात् । अभूवन् । अभूः ।
अभूतम् । अभूत् । अभूवम् । अभूव । अभूम ।
2228: न माङ्योगे (6-4-74) अडाटौ न स्तः । मा भवान् भूत् । मा स्म भवत् भूद्वा ॥
2229: लिङ्निमित्ते लृङ् क्रियातिपत्तौ (3-3-139)
हेतुहेतुमद्भावादि
लिङ्निमित्तं तत्र भविष्यत्यर्थे लृङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् ।
अभविष्यत् । अभविष्यतम् । अभविष्यन् । अभविष्यन् । अभविष्यः । अभविष्यतम् ।
अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम ॥
2230: ते प्राग्धातोः (1-4-80) ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः ॥
2231: आनि लोट् (8-4-16) उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः
स्यात् । प्रभवाणि ॥ दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः (वा) ॥
दुःस्थितिः । दुर्भवानि ॥ अन्तः शब्दस्याङकिविधिणत्वेषूपसर्गत्वं वाच्यम् (वा) ॥
अन्तर्धा ॥ अन्तर्धिः । अन्तर्भवाणि ॥
2232: शेषे विभाषाऽकखादावषान्त उपदेशे (8-4-18)
उपदेशे कादिखादिषान्तवर्जे
गदनदादेरन्यस्मिन् धातौ परे उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णत्वं वा स्यात्
। प्रणिभवति । प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या । तदुक्तम् –
संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ इति ।
सत्ताद्यर्थनिर्देशश्चोपलक्षणम् । यागात्स्वर्गो
भवतीत्यादावुत्पद्यत इत्याद्यर्थात् । उपसर्गास्त्वर्थविशेषस्य द्योतकाः । प्रभवति
। पराभवति । संभवति । अनुभवति । अभिभवति । उद्भवति । परिभवतीत्यादौ
विलक्षणार्थावगतेः । उक्तं च –उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते
।प्रहाराहारसंहारविहारपरिहारवत् ॥इति। एध वृद्धौ । कत्थन्ताः षट्त्रिंशदनुदात्तेतः
॥
2233: टित आत्मनेपदानां टेरे (3-4-79)
टितो लस्यात्मनेपदानां
टेरेत्वं स्यात् । एधते ॥
2234: सार्वधातुकमपित् (1-2-4) अपित्सार्वधातुकं ङिद्वत्स्यात् ॥
2235: आतो ङितः (7-2-81) अतः परस्य ङितामाकारस्य इय् स्यात् । एधेते । एधन्ते ॥
2236: थासः से (3-4-80) टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । ‘अतो
गुणे’(सू. 191) । एधे । एधावहे । एधामहे ॥
2237: इजादेश्च गुरुमतोऽनृच्छः (3-1-36)
इजादिर्यो
धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि । आमो मकारस्य नेत्त्वम् ।
आस्कासोरामूविधानाज्ज्ञापकात् ॥
2238: आमः (2-4-81) आमः परस्य लुक् स्यात् ॥
2239: कृञ्चानुप्रयुज्यते लिटि (3-1-40)
आमन्ताल्लिट्पराः
कृभ्वस्तयोऽनुप्रयुज्यन्ते । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य (सू. 2240) इति सूत्रे कृञ्ग्रहणसामर्थ्यादनुप्रयोगोऽन्यस्यापीति
ज्ञायते । तेन कृभ्वस्तियोगे (सू. 2117) इत्यतः कृञो द्वितीय- (सू. 2129) इति ञकारेण प्रत्याहाराश्रयणात्कृभ्वस्तिलाभः । तेषां
क्रियासामान्यवाचित्वादाम्प्रकृतीनां विशेषवाचित्वात्तदर्थयोरभेदान्वयः ।
संपदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थत्वान्न प्रयुज्यते । कृञस्तु
क्रियाफले परगामिनि परस्मैपदे प्राप्ते ॥
2240: आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य (1-3-63)
आम् प्रत्ययो
यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्प्रकृत्या
तुल्यमनुप्रयुज्यमानात्कृञोऽप्यात्मनेपदं स्यात् ॥ इह पूर्ववदित्यनुवर्त्य
वाक्यभेदेन संबध्यते । पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति । तेन कर्तृगेऽपि
फले इन्दांचकारेत्यादौ न तङ् ॥
2241: लिटस्तझयोरेशिरेच् (3-4-81) लिडादेशयोस्तझयोरेश् इरेच् एतौ स्तः । एकारोच्चारणं ज्ञापकं,
तङादेशानां टेरेत्वं नेति । तेन डारौरसां न । कृ ए इति
स्थिते ॥
2242: असंयोगाल्लिट्कित् (1-2-5) असंयोगात्परोऽपिल्लिट्कित्स्यात् । क्ङिति च (सू. 2217) इति निषेधात् सार्वधातुकार्धातुकयोः (सू. 2168) इति गुणो न । द्वित्वात्परत्वाद्यणि प्राप्ते ॥
2243: द्विर्वचनेऽचि (1-1-59) द्वित्वनिमित्तेऽचिपरे अच आदेशो न स्याद्द्वित्वे कर्तव्ये
॥
2244: उरत् (7-4-66) अभ्यासऋवर्णस्य अत्स्यात्प्रत्यये परे । रपरत्वम् । हलादिः
शेषः (सू. 2179) प्रत्यये किम् । वव्रश्च ॥
2245: कुहोश्चुः (7-4-62) अभ्यासकवर्गहकारयोश्चवर्गादेशः स्यात् । एधांचक्रे ।
एधांचक्राते । एधांचक्रिरे ॥
2246: एकाच उपदेशेऽनुदात्तात् (7-2-10)
उपदेशे यो
धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येट् न स्यात् । उपदेशे
इत्युभयान्वयि । एकाच इति किम् । यङ्लुग्व्यावृत्तिर्यथा स्यात् । स्मरन्ति हि-
श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च ।
यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥ इति ।
एतच्चेहैवैकाज्ग्रहणेन ज्ञाप्यते । अच इत्येवैकत्वविवक्षया
तद्वतो ग्रहणेन च सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावर्त्यते । तेन
वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः । आदेशोपदेशेऽनेकाच्त्वात् ।
अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते । एधांचकृषे । एधांचक्राथे ॥
2247: इणः षीध्वंलुङ्लिटां धोऽङ्गात् (8-3-78)
इण्णन्तादङ्गत्परेषां
षीध्वंलुङलिटां धस्य मूर्धन्यः स्यात् । एधांचकृढ्वे । एधांचक्रे । एधांचकृवहे ।
एधांचकृमहे । अन्यथा हि क्रश्चानुप्रयुज्यत इति कृभ्विति वा ब्रूयात् ॥
2248: अत आदेः (7-4-70) अभ्यासस्यादेरतो दीर्घः स्यात् । परूपापवादः । एधामास ।
एधामासतुरित्यादि ॥ एधिता । एधितारौ । एधितारौ । एधितारः । एधितासे । एधितासाथे ॥
2249: धि च (8-2-25) धादौ प्रत्यये परे सलोपः स्यात् । एधिताध्वे ॥
2250: ह एति (7-4-52) तासस्त्योः सस्य हः स्यादेति परे । एधिताहे । एधितास्वहे ।
एधितास्महे ॥ एधिष्यते। एधिष्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे ।
एधिष्यध्वे । एधिष्ये । एधिष्यावहे । एधिष्यामहे ॥
2251: आमेतः (3-4-90) लोट एकारस्याम् स्यात् । एधताम् । एधेताम् । एधन्ताम् ॥
2252: सवाभ्यां वामौ (3-4-91) सवाभ्यां परस्य लोडेतः क्रमाद्व अम् एतौ स्तः । एधस्व ।
एधेथाम् । एधध्वम्॥
2253: एत ऐ (3-4-93) लोडुत्तमस्य एत ऐ स्यात् । आमोऽपवादः । एधै । एधावहै ।
एधामहै ॥
2254: आडजादीनाम् (6-4-72) अजादीनामाट् स्याल्लुङाडिषु । अटोऽपवादः । आटश्च (सू. 269) । ऐधत । ऐधेताम्। ऐधन्त । ऐधथाः । ऐधेथाम् । ऐधध्वम् ।
ऐधे । ऐधावहि । ऐधामहि ॥
2255: लिङः सीयुट् (3-4-102) सलोपः । एधेत । एधेयाताम् ॥
2256: झस्य रन् (3-4-105) लिहो झस्य रन् स्यात् । एधेरन् । एधेथाः । एधेयाथाम् ।
एधेध्वम् ॥
2257: इटोऽत् (3-4-106) लिङादेशस्येटोऽत्स्यात् । एधेय । एधेवहि । एधेमहि । आशीर्लिङि
आर्धधातुकत्वात् लिङः सलोपो न । सीयुट्सुटोः प्रत्ययावयवत्वात्षत्वम् । एधिषीष्ट ।
एधिषायास्ताम् । एधिषीरन् । एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् । एधिषीय ।
एधिषीवहि । एधिषीमहि । ऐधिष्ट । ऐधिषाताम् ॥
2258: आत्मनेपदेष्वनतः (7-1-5) अनकारात्परस्यात्मनेपदेषु झस्य अत् इत्यादेशः स्यात् ।
ऐधिषत । ऐधिष्ठाः । ऐधिषाथाम् ॥इणः षीध्वंलुङलिटां धोऽङ्गात् (सू. 2247) ऐधिढ्वम् । इड्भिन्न एव इणिह गृह्यते इति मते तु ऐधिध्वम्
। ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडशरूपाणि । ऐधिषि । ऐधिष्वहि । ऐधिष्महि ।
ऐधिष्यत । ऐधिष्येताम् । ऐधिष्यन्त । ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् ।
ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि । उदात्तत्वाद्वलादेरिट् ॥ प्रसङ्गादनुदात्ताः
संगृह्यन्ते -
ऊद्दृदन्तैर्यौति, रु, क्ष्णु, शीङ्, स्नु, नु, क्षु, श्वि, डीङ्, श्रिभिः ।
वृङ्, वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥
शक्लृ, पच्, मुच्, रिच्, वच्, विच्, सिच्, प्रच्छि, त्यज्, निजिर्, भजः ।
भञ्ज्, भुज्, भ्रस्ज्, मस्जि, यज्, युज्, रुज्, रञ्ज्, विजिर्, स्वञ्जि, सञ्ज, सृजः ॥
अद्, क्षुद्, खिद्, छिद्, तुदि, नुदः, पद्य, भिद्, विद्यति, र्विनद्, ।
शद्, सदी, स्विद्यति, स्कन्दि, हदी, क्रुध्, क्षुधि, बुध्यती ॥
बन्धिर्, युधि, रुधी, राधिर्, व्यध्, शुधः, साधि, सिद्ध्यती ।
मन्य, हन्नाप्, क्षिप्, छुपि, तप्, तिप, स्तृप्यति, दृप्यती ॥
लिप्, लुप्, वप्, शप्, स्वप्, सृपि, यभ्, रभ्, लभ्, गम्, नम्, यमो, रमिः ।
क्रुशिर्, दंशि, दिशी, दृशी, दृश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृशः, कृषिः ॥
त्विष्, तुष्, द्विष्, दुष्, पुष्य, पिष्, विष्, शिष्, शुष्, श्लिष्यतयो, घसिः ।
वसति, र्दह्, दिहि, दुहो, नह्, मिह्, रुह्, लिह्, वहिस्तथा ॥
अनुदात्ता हलन्तेषु धातवो द्वधिकं शतम् ।
तुदादौ मतभेदेन स्थितौ यौ च चुरादिषु ॥
तृप्, दृपी, तौ वारयितुं श्यना निर्देश आदृतः ।
किं च - स्विद्यपद्यौ, सिध्यबुध्यौ, मन्यपुष्यश्लिषः श्यना ॥
वसिः शपा लुका यौतिर्निर्दिष्टोऽन्यनिवृत्तये ।
णिजिर्, विजिर्, शक्लृ, इति सानुबन्धा अमी तथा ॥
विन्दतिश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते ।
व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम् ॥
रञ्जि, मस्जी, अदि, पदी, तुद्, क्षुद्, शुषि, पुषी, शिषिः ॥
भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसंमतेः ॥
स्पर्ध संघर्षे । संघर्षः पराभिभवेच्छा ।
धात्वर्थेनोपसंग्रहादकर्मकः । स्पर्धते ॥
2259: शर्पूर्वाः खयः (7-4-61) अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते । हलादिः शेषः 2179 इत्यस्यापवादः । पस्पर्धे । स्पर्धिता । स्पर्धिष्यते ।
स्पर्धताम् । अस्पर्धत । स्पर्धेत । स्पर्धिषीष्ट । अस्पर्धिष्ट । अस्पर्धिष्यत । 4 गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च । गाधते । जगाधे । 5 बाधृ लोडने । लोडनं प्रतिघातः । बाधते । 6 नाथृ 7 नाधृ याच्ञोपतापैस्वर्याशीःषु ॥ आशिषि नाथ इति वाच्यम् (वा)
॥ अस्याशिष्येवात्मनेपदं स्यात् । नाथते । अन्यत्र नाथति । नाधते । 8 दध धारणे । दधते ॥
2260: अत एकहल्मध्येऽनादेशादेर्लिटि (6-4-120)
लिण्न्मित्तादेशादिकं न
भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्याकारस्य एकारः स्यादभ्यासलोपश्च किति
लिटि ॥
2261: थलि च सेटि (6-4-121) प्रागुक्तं स्यात् । आदेशश्चेह वैरूप्यसंपादक एवाश्रीयते ।
शसिदद्योः प्रतिषेधवचनाज्ज्ञापकात् । तेन प्रकृतिजश्चरां तेषु सत्स्वपि
एत्वाभ्यासलोपौ स्त एव । देधे । देधाते । देधिरे । अतः किम् । दिदिवतुः । तपरः
किम् । ररासे । एकेत्यादि किम् । तत्सरतुः । अनादेशादेः किम् । चकणतुः ॥ लिटा
आदेशविशेषणादिह स्यादेव । नेमिथ । सेहे । 9 स्कुदि आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च ॥
2262: इदितो नुम्धातोः (7-1-58) स्कुन्दते । चुस्कुन्दे । 10 श्विदि श्वैत्ये । अकर्मकः । श्विन्दते । शिश्विन्दे । 11 वदि अभिवादनस्तुत्योः । वन्दते । ववन्दे । 12 भदि कल्याणे सुखे च । भन्दते । बभन्दे । 13 मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । मन्दते । ममन्दे । 14 स्पदि किंचिच्चलने । स्पन्दते । पस्पन्दे । 15 क्लिदि परिदेवने । शोक इत्यर्थः । सकर्मकः । क्लिन्दते
जैत्रम् । चिक्लिन्दे । 16 मुद हर्षे । मोदते । 17 दद दाने । ददते ॥
2263: न शसददवादिगुणानाम् (6-4-126) शसेर्ददेर्वकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्य
एत्वाभ्यासलोपौ न । दददे । दददाते । दददिरे । 18 ष्वद 19 स्वर्द आस्वादने । अयमनुभवे सकर्मकः । रुचावकर्मकः ॥
2264: धात्वादेः षः सः (6-1-64) धातोरादेः षस्य सः स्यात् । सात्पदाद्योः (सू. 2123) इति षत्वनिषेधः । अनुस्वदते । सस्वदे । स्वर्दते ।
सस्वर्दे । 20 उर्द माने क्रीडायां च ॥
2265: उपधायां च (8-2-78) धातोरुपदाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात्
। ऊर्दते । उर्दांचक्रे । 21 कुर्द 22 खुर्द 23 गुर्द 24 गुद क्रीडायामेव । कूर्दते । चुकूर्दे । गूर्दते । गोदते ।
जुगुदे । 25 षूद क्षरणे । सूदते । सुषूदे ॥
सेक्, सृप, सृ, स्तृ, सृज्, स्तॄ, स्त्याऽन्ये दन्त्याजन्तसादयः ।
एकाचः षोपदेशाः ष्वष्क्, स्विद्, स्वद, स्वञ्ज, स्वप्, स्मिङः ॥
दन्त्यः केवलदन्त्यो नतु तन्तोष्ठजोऽपि,
ष्वष्कादीनां पृथग्ग्रहणाज्ज्ञापकात् । 26 ह्राद अव्यक्ते शब्दे । ह्रादते । जह्रादे । 27 ह्लादी सुखे च । चादव्यक्ते शब्दे । ह्लादते । 28 स्वाद आस्वादने । स्वादते । 29 पर्द कुत्सिते शब्दे । गुदरवे इत्यर्थः । पर्दते । 30 यती प्रयत्ने । यतते । येते । 31 युतृ 32 जुतृ भासने । योतते । युयुते । जोतते । जुजुते । 33 विथृ 34 वेथृ याचने । विविथे । विवेथे । 35 श्रथि शैथिल्ये । श्रन्थते । 36 ग्रथि कौटिल्ये । ग्रन्थते । 37 कत्थ श्लाघायाम् । कत्थते । एधादयोऽनुदात्तेतो गताः ॥
अथाष्टत्रिशंत्तवर्गीयान्ताः परस्मैपदिनः ॥ 38 अत सातत्यगमने । अतति । अत आदेः 2248 आत । आततुः । आतुः । लुङि आतिस् ई त् इति स्थिते ॥
2266: इट ईटि (8-2-28) इटः परस्य सस्य लोपः स्यादीटि परे ॥ सिज्जलोप एकादेशे
सिद्धो वाच्यः (वा) ॥ आतीत् । आतिष्टाम् । आतिषुः ॥
2267: वदव्रजहलन्तस्याचः (7-2-3) वदेर्व्रजेर्हलन्तस्य चाङ्गस्याचः स्थाने वृद्धिः
स्यात्सिचि परस्मैपदेषु । इति प्राप्ते ॥
2268: नेटि (7-2-4) इडादौ सिचि प्रागुक्तं न स्यात् । मा भवानतीत् । अतिष्टाम्
। अतिषुः । 39 चिती संज्ञाने । चोतति । चिचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः । 40 च्युतिर् आसेचने । सेचनभार्द्रीकरणम् ।
आङीषदर्थेऽभिव्याप्तौ च ॥ इर इत्संज्ञावाच्या (वा) ॥ च्योतति । चुच्योत ॥
2269: इरितो वा (3-1-57) इरितो धातोश्च्लेरङ् वा स्यात्परस्मैपदे परे । अच्युतत् ।
अच्योतीत् । 41 श्च्युतिर् क्षरणे । श्च्योतति । चुश्च्योत । अश्च्युतत् । अश्च्योतीत् ।
यकाररहितोऽप्ययम् । श्चोतति । 42 मन्थ विलोडने । विलोडनं प्रतिघातः । मन्थति । ममन्थ ।
यासुटः किदाशिखि (सू. 2216) इति कित्त्वात्अनिदिताम्-415 इति नलोपः । मथ्यात् । 43 कुथि 44 पुथि 45 लुथि 46 मथि हिंसासंक्लेशनयोः । इदित्त्वान्नलोपो न । कुन्थ्यात् ।
मन्थ्यात् । 47 षिध गत्याम् । सेधति । सिषेध । सेधिता । असेधीत् । सात्पदाद्योः (सू. 2123) इति निषेधे प्राप्ते ॥
2270: उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्
(8-3-65)
उपसर्गस्थान्निमित्तादेषां
सस्य षः स्यात् ॥
2271: सदिरप्रतेः (8-3-66) प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ॥
2272: स्तन्भेः (8-3-67) स्तन्भेः सौत्रस्य सस्य षः स्यात् । योगविभाग उत्तरार्थः ।
किंच । अप्रतेरिति नानुवर्तते। बाहुप्रतिष्टम्भविवृद्धमन्युः ॥
2273: अवाच्चालम्बनाविदूर्ययोः (8-3-68)
अवात्स्तन्भेरेतयोरर्थयोः
षत्वं स्यात् ॥
2274: वेश्च स्वनो भोजने (8-3-69) व्यवाभ्यां स्वनतेः सस्य षः स्याद्भोजने ॥
2275: परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् (8-3-70)
परिनिविभ्यः परेषामेषां
सस्य षः स्यात् । निषेधति ॥
2276: प्राक्सितादड्व्यवायेऽपि (8-3-63)
सेवसित (सू. 2275) इत्यत्र
सितशब्दात्प्राग् ये सुनोत्यादयस्तेषामड्व्यवायेऽपि षत्वं स्यात् । न्यषेधत् ।
न्यषेधीत् । न्यषेधिष्यत् ॥
2277: स्थादिष्वभ्यासेन चाभ्यासस्य (8-3-64)
प्राक् सितात्
स्थादिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् । एषामेव चाभ्यासस्य न तु
सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः ॥
2278: सेधतेर्गतौ (8-3-113) गत्यर्थस्य सेधतेः षत्वं न स्यात् । गङ्गां विसेधति । 48 षिधू शास्त्रे माङ्गल्ये च। शास्त्रं शासनम् ॥
2279: स्वरतिसूतिसूयतिधूञूदितो वा (7-2-44)
स्वरत्यादेरूदितश्च परस्य
वलादेरार्धधातुकस्येड्वा स्यात् ॥
2280: झषस्तथोर्धोऽधः (8-2-40) झषः परयोस्तथयोर्धः स्यान्न तु दधातेः । जश्त्वम् । सिषेद्ध
। सिषेधिथ । सेद्धा । सेधिता । सेत्स्यति । सेधिष्यति । असैत्सीत् ॥
2281: झलो झलि (8-2-26) झलः परस्य सस्य लोपः स्यात् झलि । असैद्धाम् । असैत्सुः ।
असैत्सीः । असैद्धम् । असैद्ध । असैत्सम् । असैत्स्व । असैत्स्म । पक्षे असेधीत् ।
असेधिष्टाम् । इत्यादि । 49 खादृ भक्षणे । ऋकार इत् । खादति । चखाद । 50 खद स्थैर्ये हिंसायां च । चाद्भक्षणे । स्थैर्ये अकर्मकः ।
खदति ॥
2282: अत उपधायाः (7-2-116) उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । चखाद
।
2283: णलुत्तमो वा (7-1-91) उत्तमो णल्वाणित्स्यात् । चखाद । चखद ॥
2284: अतो हलादेर्लघोः (7-2-7) हलादेर्लघोरकारस्य इडादौ परस्मैपदपरे सिचि वृद्धिर्वा
स्यात् । अखादीत् । अखदीत् । 51 बद स्थैर्ये । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ
। बबाद । बबद । अबादीत् । अबदीत् । 52 गद व्यक्तायां वाचि । गदति ॥
2285: नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु
च (8-4-17) उसर्गस्थान्निमित्तात्परस्य नेर्णः स्यात् गदादिषु ।
प्रणिगदति । जगाद । 53 रद विलेखने । विलेखनं भेदनम् । रराद । रेदतुः । 54 णद अव्यक्ते शब्दे ॥
2286: णो नः (6-1-65) धातोरादेर्णस्य नः स्यात् । णोपदेशास्त्वनदर्-नाटि-नाथ्-नाध्-नन्द्-नक्क-नॄ-नृतः
। इति भाष्यफलितम् । नाटेर्दीर्घार्हस्य पर्युदासाद्धटादिर्णोपदेश एव ।
तवर्गचतुर्थान्तनाधतेर्नॄनद्योश्च केचिण्णोपदेसतामाहुः ॥
2287: उपसर्गादसमासेऽपि णोपदेशस्य (8-4-14)
उपसर्गस्थान्निमित्तात्परस्य
णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । प्रणिनदिति । 55 अर्द गतौ याचने च । अत आदेः (सू. 2248) ॥
2288: तस्मान्नुड्द्विहलः (7-4-71) द्विहलोधातोर्दीर्घीभूतादकारात्परस्य नुट् स्यात् । आनर्द ।
आर्दीत् । 56 नर्द 57 गर्द शब्दे । णोपदेस्तवाभावान्न णः । प्रनर्दति । गर्दति । जगर्द । 58 तर्द हिंसायाम् । तर्दति । 59 कर्द कुत्सिते शब्दे । कुत्सिते कौक्षे । कर्दति । 60 खर्द दन्दशूके । दंशहिंसादिरूपायां दन्दशूकक्रियायामित्यर्थः
। खर्दति । चखर्द। 61 अति 62 अदि बन्धने । अन्तति । आनन्त । अन्दति । आनन्द । 63 इदि परमैश्वर्ये । इन्दति । इन्दांचकार । 64 बिदि अवयवे । पवर्गतृतीयादिः । बिन्दति । अवयवं
करोतीत्यर्थः । भिदीति पाठान्तरम् । 65 गडि वदनैकदेशे। गण्डति । अन्तत्यादयः पञ्चैते न तिङ्विषया
इति काश्यपः । अन्ये तु तिङमपीच्छन्ति । 66 णिदि कुत्सायाम् । निन्दति । प्रणिन्दति । 67 टुनदि समृद्धौ ॥
2289: आदिर्ञिटुडवः (1-3-5) उपदेशे धातोराद्या एते इतः स्युः । नन्दति । इदित्वान्नलोपो
न । नन्द्यात् । 68 चदि आह्लादे । चचन्द । 69 त्रदि चेष्टायाम् । तत्रन्द । 70 कदि 71 क्रदि 72 क्लदि आह्वाने रोदने च । चकन्द । चक्रन्द । चक्लन्द । 73 क्लिदि परिदेवने । चिक्लिन्द । 74 शुन्ध शुद्धौ । शुशुन्ध । नलोपः । शुध्यात् ॥ अथ
कवर्गीयान्ता अनुदात्तेतो द्विचात्वारिंशत् ॥ 75 शीकृ सेचने । तालव्यादिः । दन्त्यादिरित्येके । शीकते ।
शिशीके । 76 लोकृ दर्शने । लोकते । लुलोके । 77 श्लोकृ संघाते । संघातो ग्रन्थः । स चेह ग्रथ्यमानस्य
व्यापारो ग्रथितुर्वा । आद्ये अकर्मको द्वितीये सकर्मकः । श्लोकते । 78 द्रेकृ 79 ध्रेकृ शब्दोत्साहयोः । उत्साहो वृद्धिरौद्धत्यं च ।
दिद्रेके । दिध्रेके । 80 रेकृ शङ्कायाम् । रेकते । 81 सेकृ 82 स्रेकृ 83 स्रकि 84 श्रकि 85 श्लकि गतौ । त्रयो दन्त्यादयः । द्वौ तालव्यादी ।
अषोपदेशत्वान्न षः । सिसेके । 86 शकि शङ्कायाम् । शङ्कते । शशङ्के । 87 अकि लक्षणे । अङ्कते । आनङ्के । 88 वकि कौटिल्ये । वङ्कते । 89 मकि मण्डने । मङ्कते । 90 कक लौल्ये लौल्यं गर्वश्चापल्यं च । ककते । चकके । 91 कुक 92 वृक आदाने । कोकते । चुकुके । वर्कते । ववृके ॥ ऋदुपधेभ्यो
लिटः कित्त्वं गुणात्पूर्वप्रतिषेधेन (वा) ॥ 93 चक तृप्तौ प्रतीघाते च । चकते । चेके । 94 ककि 95 वकि 96 श्वकि 97 त्रकि 98 ढौकृ 99 त्रौकृ 100 ष्वष्क 101 वष्क 102 मष्क 103 टिकृ 104 टीकृ 105 तिकृ 106 तीकृ 107 रघि 108 लघि गत्यर्थाः । कङ्कते । डुढौके । तुत्रौके ॥
सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः (वा) ॥ ष्वष्कते । षष्वष्के ।
अत्र तृतीयो दन्त्यादिरित्येके । लघि भोजननिवृत्तावपि । 109 अघि 110 वघि 111 मघि गत्याक्षेपे । आक्षेपो निन्दा । गतौ गत्वारम्भे
चेत्यन्ये । अङ्घते । आनङ्घे । वङ्घते । मङ्घते । मघि कैतवे च । 112 राघृ 113 लाघृ 114 द्राघृ सामर्थ्ये । राघते । लाघते । ध्राघृ इत्यपि केचित्
। द्राघृ आयामे च । आयामो दैर्घ्यम् । द्राघते । 115 श्लाघृ कत्थने । श्लाघते ॥ अथ परस्मैपदिनः पञ्चाशत् ॥ 116 फक्क नीचैर्गतौ । नीचैर्गतिः मन्दगमनमसद्व्यवहारश्च ।
फक्कति । पफक्क । 117 तक हसने । तकति । 118 तकि कृच्छ्रजीवने । तङ्कति । 119 बुक्क भषणे । भषणं श्वरवः । बुक्कति । 120 कख हसने । प्रनिकखति । 121 ओखृ 122 राखृ 123 लाखृ 124 द्राखृ 125 ध्राखृ शोषणालमर्थयोः । ओखति । ओखांचकार । 126 शाखृ 127 श्लाखृ व्याप्तौ । शाखति । 128 उख 129 उखि 130 वख 131 वखि 132 मख 133 मखि 134 णख 135 णखि 136 रख 137 रखि 138 लख 139 लखि 140 इख 141 इखि 142 ईखि 143 वल्ग 144 रगि 145 लगि 146 अगि 147 वगि 148 मगि 149 तगि 150 त्वगि 151 श्रगि 152 श्लगि 153 इगि 154 रिगि 155 लिगि गत्यर्थाः । द्वितीयान्ताः पञ्चदश ।
तृतीयान्तास्त्रयोदश । इह खान्तेषु रिख त्रख त्रिखि शिखि इत्यपि चतुरः
केचित्पठन्ति ॥
2290: अभ्यासस्यासवर्णे (6-4-78) अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि । उवोख । सन्निपातपरिभाषया
इजादेः—(सू. 2237) इत्याम्न । ऊखतुः । ऊखुः । इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्ध्रस्वः
प्राप्तो न भवति । सकृत्प्रवृत्तत्वात् । आङ्गत्वादि पर्जन्यवल्लक्षणप्रवृत्त्या
ह्रस्वे ततो दीर्घः । वार्णादाङ्गं बलीयः इति न्यायात् परत्वाच्च । उङ्खति ।
ववखतु-वङ्खति मेखतुः ॥ त्वगि कम्पने च । 156 युगि 157 जुगि 158 बुगि वर्जने । युङ्गति । 159 घघ हसने । घघति । जघाघ । 160 मघि मण्डने । मङ्घति । 161 शिघि आघ्राणे । शिङ्घति ॥ अथ चवर्गीयान्ताः ॥
तत्रानुदात्तेत एकविंशतिः ॥ 162 वर्च दीप्तौ । वर्चते । 163 षच सेचने सेवने च । सचते । सेचे । सचिता । 164 लोचृ दर्शने । लोचते । लुलोचे । 165 शच व्यक्तायां वाचि । शेचे । 166 श्वच 167 श्वचि गतौ । श्वचते । श्वञ्चते । 168 कच बन्धने । कचते । 169 कचि 170 काचि दीप्तिबन्धनयोः । चकञ्चे । चकाञ्चे । 171 मच 172 मुचि कल्कने । कल्कनं दम्भः शाठ्यं च । कथनमित्यन्ये ।
मेचे । मुमुञ्चे । 173 मचि धारणोच्छ्रायपूजनेषु । ममञ्चे । 174 पचि व्यक्तीकरणे ॥ पञ्चते । 175 ष्टुच प्रसादे । स्तोचते। तुष्टुचे । 176 ऋज गतिस्थानार्जनोपार्जनेषु । अर्जते । नुड्विधौ
ऋकारैकदेशो रेफो हल्त्वेन गृह्यते । तेन द्विहल्त्वान्नुट् । आनृजे । 177 ऋजि 178 भृजी भर्जने । ऋञ्जते । उपसर्गादृति--74 इति वृद्धिः । प्रार्ञ्जते । ऋञ्जाञ्जक्रे । आर्ञ्जिष्ट ।
भर्जते । बभृज्जे । अभर्जिष्ट । 179 एजृ 180 भ्रेजृ 181 भ्राजृ दीप्तौ । एजांचक्रे । 182 ईज गतिकुत्सनयोः । ईजांचक्रे ॥ अथ
द्विसप्ततिर्व्रज्यान्ताः परस्मैपदिनः ॥ 183 शुच शोके । शोचति । 184 कुच शब्दे तारे । कोचति । 185 कुञ्च 186 क्रुञ्च कौटिल्याल्पीभावयोः । अनिदिताम्--415 इति नलोपः । कुच्यात् । क्रुच्यात् । 187 लुञ्च अपनयने । लुच्यात् । 188 अञ्चु गतिपूजनयोः । अच्यात् । गतौ नलोपः । पूजायां तु
अञ्च्यात् । 189 वञ्चु 190 चञ्चु 191 तञ्चु 192 त्वञ्चु 193 म्रुञ्चु 194 म्लुञ्चु 195 म्रुचु 196 म्लुचु गत्यर्थाः। वच्यात् । चच्यात् । तच्यात् । त्वच्यात् । अम्रुञ्चीत् ।
अम्लुञ्चीत् ॥
2291: जॄस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च (3-1-58)
एभ्यश्च्लेरङ् वा स्यात् ।
अम्रुचत् । अम्रोचीत् । अम्लुचत् । अम्लोचीत् । 197 ग्रुचु 198 ग्लुचु 199 कुजु 200 खुजु स्तेयकरणे । जुग्रोच । अग्रुचत् । अग्रोचत् । जुग्लोच
। अग्लुचत् । अग्लोचीत् । अकोजीत् । अखोजीत् । 201 ग्लुञ्चु 202 षस्ज गतौ । अङ् । अग्लुचत् । अग्लुञ्चीत् । सस्य श्रुत्वेन
शः,
जश्त्वेन जः । सज्जति । अयमात्मनेपद्यपि । सज्जते(कुजि) 203 गुजि अव्यक्ते शब्दे । गुञ्चति । गुञ्ज्यात् । 204 अर्च पूजायाम् । आनर्च । 205 म्लेच्छ अव्यक्ते शब्दे । अस्फुटेऽपशब्दे चेत्यर्थः ।
म्लेच्छति । मिम्लेच्छ । 206 लच्छ 207 लाच्छि लक्षणे । ललच्छ । ललाञ्छ । 208 वाच्छि इच्छायाम् । वाञ्छति । 209 आच्छि आयामे । आञ्छति । अत आदेः - 1248 इत्यत्र तपरकरणं स्वाभाविकह्रस्वपरिग्रहार्थम् । तेन
दीर्घाभावान्न नुट् । आञ्छ । तपरकरणं मुखसुखार्थमिति मते तु नुट् । आनाञ्छ । 210 ह्रीच्छ लज्जायाम् । जिह्रीच्छ । 211 हुर्च्छा कौटिल्ये । कौटिल्यमपसरणमिति मैत्रेयः । उपधायां
च 2265 इति दार्घः । हूर्छति । 212 मुर्च्छा मोहसमुच्छ्राययोः । मूर्छति । 213 स्फुर्च्छा विस्तृतौ । स्फूर्च्छति । 214 युच्छ प्रमादे । युच्छति । 215 उच्छि उञ्छे । उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति
यादवः । उञ्छति । उञ्छांचकार । 216 उच्छी विवासे । विवासः समाप्तिः । प्रायेणायं विपूर्वः ।
व्युच्छति । 217 ध्रज 218 ध्रजि 219 धृज 220 धृजि 221 ध्वज 222 ध्वजि गतौ । ध्रजति । ध्रञ्जति । धर्जति । धृञ्जति । ध्वजति । ध्वञ्जति । 223 कूज अव्यक्ते शब्दे । चुकूज । 224 अर्ज 225 षर्ज अर्जने । अर्जति आनर्ज । सर्जति । ससर्ज । 226 गर्ज शब्दे । गर्जति । 227 तर्ज भर्त्सने । तर्जति । 228 कर्ज व्यथने । चकर्ज । 229 खर्ज पूजने च । चखर्ज । 230 अज गतिक्षेपणयोः । अजति ॥
2292: अजेर्व्यघञपोः (2-4-56) अजेर्वी इत्ययमादेशः स्यादार्धधातुकविषये घञमपं च
वर्जयित्वा ॥ वलादावार्धधातुके वेष्यते (वा) ॥ विवाय । विव्यतुः । विव्युः । अत्र
वकारस्य हल्परत्वात् उपधायां च (सू. 2265) इति दीर्घ प्राप्ते अचः परस्मिन्-50 इति स्थानिवद्भावेनाच्परत्वम् । नच न पदान्त-51 इति निषेधः ॥ स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत्
इत्युक्तेः (वा) ॥ थलि एकाचः (सू. 2246) इतीण्निषेधे प्राप्ते ॥
2293: कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि (7-2-13)
एभ्यो लिट इण्न स्यात् ।
क्रादीनां चतुर्णां ग्रहणं नियमार्थम् । प्रकृत्याश्रयः प्रत्ययाश्रयो वा
यावानिण्निषेधः स लिटि चेत्तर्हि क्रादिभ्य एव नान्येभ्य इति । ततश्चतुर्णां थलि
भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थम् ।
2294: अचस्तास्वत्थल्यनिटो नित्यम् (7-2-61)
उपदेशेऽजन्तो यो
धातुस्तासौ नित्यानिट् ततः परस्य थल इण्न स्यात् ॥
2295: उपदेशेऽत्वतः (7-2-62) उपदेशे अकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात् ॥
2296: ऋतो भारद्वाजस्य (7-2-63) तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मतेन ।
तेनान्यस्य स्यादेव । अयमत्र संग्रहः ॥
अजन्तोऽडकारवान्वायस्तास्यनिट् थसि वेडयम् ।
ऋदन्त ईदृङ्नित्यानिट् क्राद्यन्यो लिटि सेड्भवेत् ॥ 1 ॥
न च स्तुद्र्वादीनामपि थलि विकल्पः शङ्कयः । अचस्तास्वत्-(सू.
2294) इति उपदेशेऽत्वतः (सू. 2295) इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो
निवर्तकः । अनन्तरस्य इति न्यायात् । विवयिथ । विवेथ । आजिथ । विव्यथुः । विव्य ।
विवाय । विवय । विव्यिव । विव्यिम । वेता । अजिता । वेष्यति। अजिष्यति । अजतु ।
आजत् । अजेत् । वीयात् ॥
2297: सिचि वृद्धिः परस्मैपदेषु (7-2-1)
इगन्ताङ्गस्य वृद्धिः
स्यात्परस्मैपदपरे सिचि । अवैषीत् । आजीत् । अवेष्यत् । आजिष्यत् । 231 तेज पालने । तेजति । 232 खज मन्थे । खजति । 233 खजि गतिवैकल्ये । खञ्जति । 234 एजृ कम्पने । एजांचकार । 235 टुओस्फूर्जा वज्रनिर्घोषे । स्फूर्जति । पुस्फूर्ज । 236 क्षि क्षये । अकर्मकः । अन्तर्भावितण्यर्थस्तु सकर्मकः ।
क्षयति । चिक्षाय । चिक्षियतुः । चिक्षियुः । चिक्षयिथ । चिक्षेथ । चिक्षियिव ।
चिक्षियिम । क्षेता ॥
2298: अकृत्सार्वधातुकयोर्दीर्घः (7-4-25)
अजन्ताङ्गस्य दीर्घः
स्याद्यादौ प्रत्यये परे न तु कृत्सार्वधातुकयोः । क्षीयात् । अक्षैषीत् । 237 क्षीज अव्यक्तेशब्दे । कूजिना सहायं पठितुं युक्तः ।
चिक्षीज । 238 लज 239 लजि भर्जने । 240 लाज 241 लाजि भर्त्सने च । 242 जज 243 जजि युद्धे । 244 तुज हिंसायाम् । तोजति । तुतोज । 245 तुजि पालने । 246 गज 247 गजि 248 गृज 249 गृजि 250 मुज 251 मुजि शब्दार्थाः । गज मदने च । 252 वज 253 व्रज गतौ । वदव्रज - 2267 इति वृद्धिः । अव्राजीत् । अथ टवर्गीयान्ताः शाङ्यन्ता
अनुदात्तेतः षट्त्रिंशत् ॥ 254 अट्ट अतिक्रमणहिंसयोः । दोपधोऽयम् । तोपध इत्येके । अट्टते
। आनट्टे । 255 वेष्ट वेष्टने । विवेष्ट। 256 चेष्ट चेष्टायाम् । अचेष्टिष्ट । 257 गोष्ट 258 लोष्ट संघाते । जुगोष्टे । लुलोष्टे । 259 घट्ट चलने । जघट्टे। 260 स्फुट 261 अठि गतौ । अण्ठते । आनण्ठे । 262 वठि एकचर्यायाम् । ववण्ठे । 263 मठि 264 कठि शोके । शोक इह आध्यानम् । मण्ठते । कण्ठते । 265 मुठि पालने । मुण्ठते । 266 हेठ विबाधायाम् । जिहेठे । 267 एठ च । एठांचक्रे । 268 हिडि गत्यनादरयोः । हिण्डते । जिहिण्डे । 269 हुडि संघाते । जुहुण्डे । 270 कुडि दाहे । चुकुण्डे । 271 वडि विभजने । 272 मडि च । ववण्डे । 273 भडि परिभाषणे । परिहासः सनिन्दोपालम्भश्च परिभाषणम् ।
बभण्डे । 274 पिडि संघाते । पिपिण्डे । 275 मुडि मार्जने । मार्जनं शुद्धिर्न्यग्भावश्च । मुण्डते । 276 तुडि तोडने । तोडनं दारणं हिंसनं च । तुण्डते । 277 हुडि वरणे । वरणं स्वीकारः । हरण इत्येके । हुण्डते । 278 चडि कोपे । चण्डते । 279 शडि रुजायां संघाते च । शण्डते । 280 तडि ताडने । तण्डते । 281 पडि गतौ । पण्डते । 282 कडि मदे । कण्डते । 283 खडि मन्थे । 284 हेडृ 285 होडृ अनादरे । जिहेडे । जुहोडे । 286 बाडृ आप्लाव्ये । बशादिः । आप्लाव्यमाप्लवः । बाडते । 287 द्राडृ 288 ध्राडृ विशरणे । द्राडते । ध्राडते । 289 शाडृ श्लाघायाम् । शाडते ॥ अथ आ टवर्गीयान्तसमाप्तेः
परस्मैपदिनः ॥ 290 शौटृ गर्वे । शौटति । शुशौट । 291 यौटृ बन्धे । यौटति । 292 म्लेटृ 293 म्रेडृ उन्मादे । द्वितीयो डान्तः । टान्तमध्ये
पाठस्त्वर्थसाम्यान्नाथतिवत् । म्लेडति । म्रेडति । 294 कटे वर्षावरणयोः । चटे इत्येके । चकाट । सिचि अतो
हलादेर्लघोः 2284 इति वृद्धौ प्राप्तायाम् ।
2299: ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् (7-2-5)
हमयान्तस्य
क्षणादेर्ण्यन्त्य श्वयतेरेदितश्च वृद्धिर्न स्यादिडादौ सिचि । अकटीत् । 295 अट 296 पट गतौ । आट । आटतुः । आटुः । पपाट । पेटतुः । पेटुः । 297 रट परिभाषणे । रराट । 298 लट बाल्ये । ललाट । 299 शट रुजाविशरणगत्यवसादनेषु । शशाट । 300 वट वेष्टने । ववाट । ववटतुः । ववटुः । ववटिथ । 301 किट 302 खिट त्रासे । केटति । खेटति । 303 शिट 304 षिट अनादरे । शेटति । शिशेट । सेटति सिषेट । 305 जट 306 झट संघाते । 307 भट भृतौ । 308 तट उच्छ्राये । 309 खट काङ्क्षायां 310 षट नृतौ । 311 पिट शब्दसंघातयोः । 312 हट दीप्तौ । 313 शट अवयवे । 314 लुट विलोडने । डान्तोऽयमित्येके । 315 चिट परप्रेष्ये । 316 विट शब्दे । 317 बिट आक्रोशे । बशादिः । हिटेत्येके 318 इट 319 किट 320 कटी गतौ । एटति । केटति । कटति । ईकारः श्वीदितो
निष्ठायाम् (सू. 3039) इतीण्निषेधार्थः । केचित्तु इदितं मत्वा नुमि कृते
कण्टतीत्यादि वदन्ति । अन्ते च इ ई इति प्रश्लिष्य । अयति । इयाय । इयतुः । इयुः ।
इययिथ । इयेथ । इयाय । इयय । दीर्घस्यतु इजादेश्च-(सू. 2237) इत्यामि अयांचकारेत्याद्युदाहरन्ति । 321मडि भूषायाम् । 322 कुडि वैकल्ये । कुण्डति । कुण्डत इति तु दाहे गतम् । 323 मुड 324 प्रुड मर्दने । 325 चुडि अल्पीभावे । 326 मुडि खण्डने । मुण्डति । पुडि चेत्येके । पुण्डति 327 रुटि 328 लुटि स्तेये । रुण्टति । लुण्टति । रुठि लुठि इत्येके ।
रुडि लुडि इत्यपरे 329 स्फुटिर् विशरणे । इरित्वादङ्वा । अस्फुटत् । अस्फोटीत् ।
स्फुटि इत्यपि केचित् । इदित्त्वान्नुम् । स्फुण्टति । 330 पठ व्यक्तायां वाचि । पेठतुः । पेठिथ । अपठीत् । अपाठीत् ।
331 वठ स्थौल्ये । ववठतुः । ववठिथ । 332 मठ मदनिवासयोः । 333 कठ कृच्छ्रजीवे । 334 रट परिभाषणे । रठेत्येके । 335 हठ प्लुतिशठत्वयोः । बलात्कार इत्येके । हठति । जहाठ । 336 रुठ 337 लुठ 338 उठ उपघाते । ओठति । ऊठेत्येके । ऊठति । ऊठांचकार । 339 पिठ हिंसासंक्लेशनयोः । 340 शठ कैतवे च । 341 शुठ प्रतिघाते । शोठति । शुठीति स्वामी । शुण्ठति । 342 कुठि च । कुण्ठति । 343 लुठि आलस्ये प्रतिघाते च । 344 शुठि शोषणे । 345 रुठि 346 लुठि गतौ । 347 चुड्ड भावकरणे । भावकरणमभिप्रायसूचनम् । चुड्डति । चुचुड्ड
। 348 अड्ड अभियोगे । अड्डति । आनड्ड । 349 कड्ड कार्कश्ये । कड्डति । चुड्डादयस्रयो दोपधाः । तेन
क्विपि,
चुत् । अत् । कत् । इत्यादि । 350 क्रीडृ विहारे । चिक्रीड । 351 तुडृ तोडने । तोडति । तुतोड । तूड इत्येके । 352 हुडृ 353 हूडृ 354 होडृ गतौ । हुड्यात् । हूड्यात् । होड्यात् । 355 रौडृ अनादरे । 356 रोडृ 357 लोडृ उन्मादे । 358 अड उद्यमे । अडति । आड । आडतुः । आडुः । 359 लड विलासे । लडति । लडयोर्लळयोश्चैकत्वस्मरणाल्ललतीति
स्वम्यादयः । 360 कड मदे । कडति । कडि इत्येके । कण्डति । 361 गडि वदनैकदेशे । गण्डति । इति टवर्गीयान्ताः ॥ अथ
पवर्गीयान्ताः । तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत् । 362 तिपृ 363 तेपृ 364 ष्टिपृ 365 ष्टेपृ क्षरणार्थाः । आद्योऽनुदात्तः । क्षीरस्वामी त्वयं
सेडिति बभ्राम । तेपते । तितिपे । क्रादिनियमादिट् । तितिपिषे। तेप्ता । तेप्स्यते
।
2300: लिङ्सिचावात्मनेपदेषु (1-2-11)
इक्समीपाद्धलः परौ झलादी
लिङ् आत्मनेपदपरः सिच्चेत्येतौ कितौ स्तः । कित्त्वान्न गुणः । तिप्सीष्ट ।
तिप्सीयास्ताम् । तिप्सीरन् । लुङि । झलौ झलि-(सू. 2281) इति सलोपः । अतिप्त । अतिप्साताम् । अतिप्सत । तेपते ।
तितेपे । तिष्टिपे । तिष्टिपाते । तिष्टिपिरे । तिष्टिपे । तिष्टेपाते ।
तिष्टेपिरे ॥ तेपृ कम्पने च । 366 ग्लेपृ दैन्ये । ग्लेपते । 367 टुवेपृ कम्पने । वेपते । 368 केपृ 369 गेपृ 370 ग्लेपृ च । चात्कम्पने गतौ च । सूत्रविभागादिति स्वामी ।
मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पने इत्यपेक्षत इत्याह । ग्लेपेरर्थभेदात्पुनः
पाठः । 371 मेपृ 372 रेपृ 373 लेपृ गतौ । 374 त्रपूष् लज्जायाम् । त्रपते ॥
2301: तॄफलभजत्रपश्च (6-4-122) एषामत एकारोऽभ्यासलोपश्च स्यात्किति लिटि सेटि थलि च ।
त्रेपे । त्रेपाते। त्रेपिरे । ऊदित्वादिड्वा । त्रपिता । त्रप्ता । त्रपिषीष्ठ ।
त्रप्सीष्ट । 375 कपि चलने । कम्पते । चकम्पे । 376 रबि 377 लबि 378 अबि शब्दे । ररम्बे । ललम्बे । आनम्बे । 379 लबि अवस्रंसने च । 380 कबृ वर्णे । चकबे । 381 क्लीबृ अधाष्टर्थे । चिक्लीबे । 382 क्षीबृ मदे । क्षीबते । 383 शीभृ कत्थने । शीभते । 384 चीभृ च। 385 रेभृ शब्दे । रिरेभे । अभिरभी क्वचित्पठ्यते । अम्भते ।
रम्भते । 386 ष्टभि 387 स्कभि प्रतिबन्धे । स्तम्भते । उत्तम्भते । उदः स्थास्तम्भोः-(सू. 118) इति पूर्वसवर्णः । विस्तम्भते । स्तन्भेः- (सू. 2272) इति षत्वं तु न भवति। श्नुविधौ निर्दिष्टस्य सौत्रस्यैव
तत्र ग्रहणात् । तद्बीजं तु उदः स्थास्तम्भोः-(सू. 118) इति पवर्गीयोपधपाठः, स्तन्भेः (सू. 2272) इति तवर्गीयोपधपाठश्चेति । माधवः । केचिदस्य टकार औपदेशिक
इत्याहुः । तन्मते, ष्टम्भते । टष्टम्भे । 388 जभि 389 जृभि गात्रविनामे ॥
2302: रधिजभोरचि (7-1-61) एतयोर्नुमागमः स्यादचि । जम्भते । जजम्भे । जम्भिता ।
जम्भिष्ट । जृम्भते । जजृम्भे । 390 शल्भ कत्थने । शशल्भे । 391 वल्भ भोजने । दन्त्योष्ठ्यादिः । ववल्भे । 392 गल्भ धाष्टर्थे । गल्भते । 393 श्रम्भु प्रमादे । तालव्यादिर्दन्त्यादिश्च । श्रम्भते ।
स्रम्भते । 394 ष्टुभु स्तम्भे । स्तोभते । विष्टोभते । तुष्टुभे । व्यष्टोभिष्ट ॥ अथ
परस्मौपदिनः ॥ 395 गुपू रक्षणे ॥
2303: गुपूधूपविच्छिपणिपनिभ्य आयः (3-1-28)
एभ्य आयप्रत्ययः
स्यात्स्वार्थे । पुगन्त-(सू. 2189) इति गुणः॥
2304: सनाद्यन्ता धातवः (3-1-32) सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः
स्युः । धातुत्वाल्लडादयः । गोपायति ॥
2305: आयादय आर्धधातुके वा (3-1-31)
आर्धधातुकविवक्षायामायादयो
वा स्युः ॥
2306: कास्प्रत्ययादाममन्त्रे लिटि (3-1-35)
कास्धातोः
प्रत्ययान्तेभ्यश्चाम् स्याल्लिटि न तु मन्त्र ॥ कास्यनेकाज् ग्रहणं कर्तव्यम् (वा)
॥ सूत्रे प्रत्ययग्रहणमपनीय तत्स्थानेऽकाच इति वाच्यमित्यर्थः ॥
2307: आर्धधातुके (6-4-46) इत्यधिकृत्य ॥
2308: अतो लोपः (6-4-48) आर्धधातुकोपदेशकाले यदकारान्तं तस्याकारस्य लोपः
स्यादार्धधातुके परे । गोपायांचकार । गोनपायांबभूव । गोपायामास । जुगोप । जुगुपतुः
। ऊदित्वाद्वेट् । जुगोपिथ । जुगोप्थ । गोपायिता । गोपिता । गोप्ता । गोपाय्यात् ।
गुप्यात् । अगोपायीत् । अगोपीत् । अगौप्सीत् । 396 धूप संतापे । धूपायति । धूपायांचकार । दुधूप । धूपायितासि
। धूपितासि । 397 जप 398 जल्प व्यक्तायां वाचि । जप मानसे च । 399 चप सान्त्वने । 400 षप समवाये । समवायः संबन्धः सम्यगवबोधो वा । सपति । 401 रप 402 लप व्यक्तायां वाचि । 403 चुप मन्दायां गतौ । चोपति । चुचोप । चोपिता । 404 तुप 405 तुम्प 406 त्रुप 407 त्रुम्प 408 तुफ 409 तुम्फ 410 त्रुफ 411 त्रुम्फ हिंसार्थाः । तोपति । तुतोप । तुम्पति । तुतुम्प ।
तुतुम्पतुः । संयोगात्परस्य लिटः कित्त्वान्नलोपो न । किदाशिषि (सू. 2216) इति कित्वान्नलोपः । तुप्यात् । (ग) प्रात्तुम्पतौ गवि
कर्तरि इति पारस्करादिगणे पाठात्सुट् । प्रस्तुम्पति गौः । श्तिपा निर्देशाद्यङ्लुकि
न । प्रतोतुम्पीति । त्रोपति। त्रुम्पति । तोफति । तुम्फति । त्रोफति । त्रुम्फति
। इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफाः । अन्येसरेफाः । आद्याश्चत्वारः प्रथमान्ताः
। ततो द्वितायान्ताः । अष्टावप्युकारवन्तः । 412 पर्प 413 रफ 414 रफि 415 अर्ब 416 पर्ब 417 लर्ब 418 बर्ब 419 मर्ब 420 कर्ब 421 खर्ब 422 गर्ब 423 शर्ब 424 षर्ब 425 चर्ब गतौ । आद्यः प्रथमान्तः । ततो द्वौ द्वितीयान्तौ । तत
एकादश तृतीयान्ताः । द्वितीयतृतीयौ मुक्त्वा सर्वे रोपधाः । पर्पति । पपर्प। रफति
। रम्फति । अर्बति । आनर्ब । पर्बति । लर्बति । बर्बति । पवर्गीयादिरयम् । मर्बति
। कर्बति । खर्बति। गर्बति । शर्बति । सर्बति । चर्बति । 426 कुबि आच्छादने । कुम्बति । 427 लुबि 428 तुबि अर्दने । लुम्बति । तुम्बति । 429 चुबि वक्रसंयोगे । चुम्बति । 430 षृभु 431 षृम्भु हिंसार्थौ । सर्भति । ससर्भ । सर्भिता । सृम्भति ।
ससृम्भ । सृभ्यात् । षिभु । षिम्भु इत्येके । सेभति । सिम्भति । 432 शुभ 433 शुम्भ भाषणे । भासने इत्येके । हिंसायामित्यन्ये ॥
अथानुनासिकान्ताः ॥ तत्र कम्यन्ता अनुतात्तेतो दश ॥ 434 घिणि 435 घुणि 436 घृणि ग्रहणे । नुम् । ष्टुत्वम् । घिण्णते । जिघिण्णे ।
घुण्णते । जुघुण्णे । घृण्णते । जघृण्णे । 437 घुण 438 घूर्ण भ्रमणे । घोणते । घूर्णते । इमौ तुदादौ परस्मैपदिनौ
। 439 पण व्यवहारे स्तुतौ च । 440 पन च । स्तुतावित्येव संबध्यते । पृथङ्निर्देशात् ।
पनिसाहचर्यात्पणेरपिस्तुतावेवायप्रत्ययः । व्यवहारे तु पणते । पेणे । पणितेत्यादि
। स्तुतावनुबन्धस्य केवले चरितार्थात्वादायप्रत्ययान्तान्नात्मनेपदम् । पणायति ।
पणायांचकार । पेणे । पणायितासि । पणितासे । पणाय्यात् । पनायति । पनायांचकार ।
पेने । 441 भाम क्रोधे । भामते । बभामे । 442 क्षमूष् सहने । क्षमते । चक्षमे । चक्षमिषे । चक्षंसे ।
चक्षमिध्वे । चक्षन्ध्वे । चक्षमिवहे ॥
2309: म्वोश्च (8-2-65) मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे
णत्वम् । चक्षण्वहे । चक्षमिमहे । चक्षण्महे । क्षमिष्यते । क्षंस्यते । क्षमेत ।
आशिषि,
क्षमिषीष्ट । क्षंसीष्ट । अक्षमिष्ट । अक्षंस्त । 443 कमु कान्तौ । कान्तिरिच्छा ॥
2310: कमेर्णिङ् (3-1-30) स्वार्थे । ङित्त्वात्तङ् । कामयते ॥
2311: अयामन्ताल्वाय्येत्न्विष्णुषु (6-4-55)
आम् अन्त आलु आय्य इत्रु
इष्णु एषु णेरयादेशः स्यात् । वक्ष्यमाणलोपापवादः । कामयांचक्रे । आयादय
आर्धाधातुके वा (सू. 2305) । चक्रमे । कामयिता । कमिता । कामयिष्यते । कमिष्यते ॥
2312: णिश्रिद्रुस्रुभ्यः कर्तरि चङ् (3-1-48)
ण्यन्तात् श्र्यादिभ्यश्च
च्लेश्चङ् स्यात्कर्त्रर्थे लुङि परे । काम् इ अ त इति स्थिते ॥
2313: णेरनिटि (6-4-51) अनिडादावार्धधातुकेपरे णेर्लोपः स्यात् । परत्वात्
एरनेकाचः-(सू. 272) इति यणि प्राप्ते ॥ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः
पूर्वविप्रतिषेधेनेति वार्तिकम् (वा) ॥ णिलेपस्य तु पाचयतेः पाक्तिरित्यादि
क्तिजन्तमवकाश इति भावः । वस्तुतस्त्वनिटीति वचनसामर्थ्यादार्धधातुकमात्रमस्य
विषयः । तथा चेयङादेरपवाद एवायम् । इयङ् । अततक्षत् । यण् । अटिटत् । गुणः । कारणा
। वृद्धिः । कारकः । दीर्घः । कार्यते॥
2314: णौ चङ्युपधायाह्रस्वः (7-4-1)
चङ्परे णौ यदङ्गं
तस्योपधाया ह्रस्वः स्यात् ॥
2315: चङि (6-1-11) चङि परे अनभ्यासधात्वयवस्यैकाचः प्रथमस्य द्वे
स्तोऽजादेस्तु द्वितीयस्य ॥
2316: सन्वल्लघुनि चङ्परेऽनग्लोपे (7-4-93)
चङ्परे इति बहुव्रीहिः । स
चाङ्गस्येति च द्वयमप्यावर्त्तते । अङ्गसंज्ञानिमित्तं यच्चङ्परं णिरिति यावत्
तत्परं यल्लघु तत्परो योऽङ्गस्याभ्यासस्तस्य सनीव कार्यं स्यात् णावग्लोपेऽसति ।
अथवाऽङ्गस्येति नावर्तते । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि
प्राग्वत् ॥
2317: सन्यतः (7-4-79) अभ्यासस्यात इकारः स्यात्सनि ॥
2318: दीर्घो लघोः (7-4-94) लघोरभ्यासस्य दीर्घः स्यात्सन्वद्भावविषये । अचीकमत ॥
णिङभावपक्षे कमेश्च्लेश्चङ्वक्तव्यः (वा) ॥ णेरभावान्न दीर्धसन्वद्भावौ । अचक्रमत
॥
संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते।
तत्रैव दीर्घः सन्वच्च नानेकाक्ष्विति माधवः ॥ 1 ॥
चकास्त्यर्थापत्यूपर्णोत्यादौ नाङ्गं द्विरुच्यते ।
किं त्वस्यावयवः कश्चित्तस्मादेकाक्ष्विदं द्वयम् ॥ 2 ॥
वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् ।
ऊर्णौ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे ॥ 3 ॥
चकास्तौ तूभयमिदं न स्यात्स्याच्च व्यवस्थया ।
णेर्विशेष्यं सन्निहितं लघुनीत्यङ्गमेव वा ॥ 4 ॥
इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात् ।
णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये ॥ 5 ॥
अथ क्रम्यन्तास्रिंशत्परस्मैपदिनः ॥ 444 अण 445 रण 446 वण 447 भण 448 मण 449 कण 450 क्वण 451 व्रण 452 भ्रण 453 ध्वण शब्दार्थाः । अणति । रणति । वणति ।
वकारादित्वादेत्वाभ्यासलोपौ न । ववणतुः । ववणिथ । धणिरपि कैश्चित्पठ्यते । धणति । 454 ओणृ अपनयने । ओणति । ओणांचकार । 455 शोणृ वर्णगत्योः । शोणति । शुशोण । 456 श्रोणृ संघाते । श्रोणति । 457 श्लोणृ च । शोणादयस्त्रयोऽमी तालव्योष्मादयः । 458 पैणृ गतिप्रेरणश्लेषणेषु । प्रैणृ इति क्वचित्पठ्यते ।
पिपैण । 459 ध्रण शब्दे । उपदेशे नान्तोऽयम् । रषाभ्याम्--235 इति णत्वम् । ध्रणति । नोपदेशफलं तु यङ्लुकि । दंध्रन्ति ।
बणेत्यपि केचित् । बेणतुः । बेणिथ । 460 कनी दीप्तिकान्तिगतिषु चकान । 461 ष्टन 462 वन शब्दे । स्तनति । वनति । 463 वन 464 षण संभक्तौ । वनेरर्थभेदात्पुनः पाठः सनति । ससान । सेनतुः
॥
2319: ये विभाषा (6-4-43) जनसनखनामात्वं वा स्याद्यदौ क्ङिति । सायात् । सन्यात् । 465 अम गत्यादिषु कनी दीप्तिकान्तीत्यत्र गतेः परयोः
शब्दसंभक्त्योरादिशब्देन संग्रहः । अमति । आम । 466 द्रम 467 हम्म 468 मीमृ गतौ । द्रमति । दद्राम । ह्म्यन्त- (सू. 2288) इति न वृद्धिः । अद्रमीत् । हम्मति । जहम्म । मीमति ।
मिमीत। मिमीम । अयं शब्दे च । 469 चमु 470 छमु 471 जमु 472 झमु अदने ॥
2320: ष्ठिवुक्लमुचमां शिति (7-3-75)
एषामचो दीर्घः स्याच्छिति
॥ आङि चम इति वक्तव्यम् (वा) ॥ आचामति । आङि किम् । चमति । विचमति । अचमीत् ।
जिमिं केचित्पठन्ति । जेमति । 473 क्रमु पादविक्षेपे ॥
2321: वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (3-1-70)
एभ्यः श्यन्वा
स्यात्कर्त्रर्थे सार्वधातुके परे ॥
2322: क्रमः परस्मैपदेषु (7-3-76) क्रमेर्दीर्घः स्यात्परस्मैपदपरे शिति । क्राम्यति ।
क्रामति । चक्राम । क्राम्यतु । क्रामतु ॥
2323: स्नुक्रमोरनात्मनेपदनिमित्ते (7-2-36)
अत्रैवेट् । अक्रमीत् । अथ
रेवत्यन्ता अनुदात्तेतः ॥ 474 अय 475 वय 476 पय 477 मय 478 चय 479 तय 480 णय गतौ । अयते ॥
2324: दयायासश्च (3-1-37) दय अय आस् एभ्य आम् स्याल्लिटि । अयांचक्रे । अयेत ।
अयिषीष्ट ॥
2325: विभाषेटः (8-3-79) इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा
मूर्धन्यः स्यात् । अयिषीढ्वम्। अयिषीध्वम् । आयिष्ट । आयिढ्वम् । आयिध्वम् ॥
2326: उपसर्गस्यायतौ (8-2-19) अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते ।
पलायते । निस्दुसोरुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते । निर्दुरोस्तु
। निलयते । दुलयते । प्रत्यय इति त्विणो रूपम्। अथ कथम् उदयति
विततोर्ध्वरश्मिरज्जाविति माघः । इटकिटकटी इत्यत्र प्रश्लिष्टस्य भविष्यति । यद्वा
। अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् । चक्षिङो ङित्करणाज्ज्ञापकात् ।
वादित्वात् । ववये । पेये । मेये । चेये । तेये। प्रणयते । नेये । 481 दय दानगतिरक्षणहिंसादानेषु । आदानं ग्रहणम् । दयांचक्रे । 482 रय गतौ । 483 ऊयी तन्तुसन्ताने । ऊयांचक्रे । 484 पूयी विशरणे दुर्गन्धे च । पूयते । पुपूये । 485 क्नूयी शब्दे उन्दे च । चुक्नूये । 486 क्ष्मायी विधूनने । चक्ष्माये । 487 स्फायी 488 ओप्यायी वृद्धौ । स्फायते । पस्फाये । प्यायते ॥
2327: लिड्यङोश्च (6-1-29) लिटि यङि च प्यायः पीभावः स्यात् । पुनः प्रसङ्गविज्ञानात्पीशब्दस्यद्वित्वम्
। एरनेकाचः-(सू. 272) इति यण् । पिप्ये । पिप्याते । पिप्यरे ॥
2328: दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् (3-1-61)
एभ्यश्च्लेश्चिण्वा
स्यादेकवचने तशब्दे परे ॥
2329: चिणो लुक् (6-4-104) चिणः परस्य लुक् स्यात् । अप्यायि । अप्यायिष्ट । 489 तायृ सन्तानपालनयोः । सन्तानः प्रबन्धः । तायते । तताये ।
अतायि । अतायिष्ट । 490 शल चलनसंवरणयोः । 491 वल 492 वल्ल संवरणे संचरणे च । ववले । ववल्ले । 493 मल 494 मल्ल धारणे । मेले । ममल्ले । 495 भल 496 भल्ल परिभाषणहिंसादानेषु । बभले । बभल्ले । 497 कल शब्दसंख्यानयोः । कलते । चकले । 498 कल्ल अव्यक्ते शब्दे। कल्लते । अशब्दे इति स्वामी ।
अशब्दस्तूष्णींभाव इति च । 499 तेवृ 500 देवृ 501 षेवृ 502 गेवृ 503 म्लेवृ 504 पेवृ 505 मेवृ 506 ग्लेवृ सेवने । परिनिविभ्यः –(सू. 2275) इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति
न्यासकारादयः । तद्भाष्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते ।
म्लेवते । शेवृ खेवृ केवृ इत्यप्येके । 507 रेवृ प्लवगतौ । प्लवगतिः प्लुतगतिः रेवते ॥
अथावत्यन्ताः परस्मैपदिनः ॥ 508 मव्य बन्धने । ममव्य । 509 सूर्क्ष्य 510 ईर्क्ष्य 511 ईर्ष्य ईर्ष्यार्थाः । 512 हय गतौ । अहयीत् । यान्तात्वान्नवृद्धिः । 513 शुच्य अभिषवे । अवयवानां शिथिलीकरणं सुरायाः सन्धानं
वाऽभिषवः स्नानं च । शुशुच्य । चुच्य इत्येके । 514 हर्य गतिकान्त्योः । जहर्य 515 अल भूषणपर्याप्तिवारणेषु । अलति । आल ॥
2330: अतो ल्रान्तस्य (7-2-2) ल्रेति लुप्तषष्ठीकम् । अतः समीपौ यौ ल्रौ
तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि । नेटि (सू. 2268) इति निषेधस्याअतो हलादेः–(सू. 2284) इति विकल्पस्य चापवादः। मा भवानालीत् । अयं स्वरितेदित्येके
। तन्मते,
अलते इत्याद्यपि । 516 ञिफला विशरणे । तॄफल –(सू. 2301) इत्येत्वम् । फेलतुः । फेलुः । अफालीत् । 517 मील 518 श्मील 519 स्मील 520 क्ष्मील निमेषणे । निमेषणं संकोचः । द्वितीयस्तालव्यादिः ।
तृतीयो दन्त्यादिः । 521 पील प्रतिष्टम्भे । प्रतिष्टम्भो रोधनम् । 522 णील वर्णे । 523 शील समाधौ । शीलति । 524 काल बन्धने 525 कूल आवरणे । 526 शूल रुजायां संघोषे च । 527 तूल निष्कर्षे । निष्कर्षो निष्कोषणम् । तच्चान्तर्गतस्य
बहिर्निः सारणम् । तुतूल । 528 पूल संघाते । 529 मूल प्रतिष्ठायाम् । 530 फल निष्पत्तौ । फेलतुः । फेलुः । 531 चुल्ल भावकरणे । भावकरणमभिप्रायाविष्कारः । 532 फुल्ल विकसने । 533 चिल्ल शैथिल्ये भावकरणे च । 534 तिल गतौ । तेलति । तिल्ल इत्येके । तिल्लति । 535 वेलृ 536 चेलृ 537 केलृ 538 खेलृ 539 क्ष्वेलृ 540 वेल्ल चलने । पञ्च ऋदितः । षष्ठो लोपधः । 541 पेलृ 542फेलृ 543 शेलृ गतौ । षेलृ इत्येके । 544 स्खल संचलने । चस्काल । अस्खालीत् । 545 खल संचये । 546 गल अदने । गलति । अगालीत् । 547 षल गतौ । सलति । 548 दल विशरणे । 549 श्वल 550 श्वल्ल आशुगमने । शश्वाल । अश्वालीत् । अश्वल्लीत् । 551 खोलृ 552 खोर्ऋ गतिप्रतिघाते । खोलति । खोरति । 553 धोर्ऋ गतिचातुर्ये । धोरति । 554 त्सर छद्मगतौ । तत्सार । अत्सारीत् । 555 क्मर हूर्च्छने । चक्मार । 556 अभ्र 557 वभ्र 558 मभ्र 559 चर गत्यर्थाः । चरतिर्भक्षणेऽपि । अभ्रति । आनभ्र । मा
भवानभ्रीत् । अङ्गान्त्यरेफस्यातः समीपत्वाभावान्नवृद्धिः । 560 ष्ठिवु निरसने । ष्ठिवुक्लमु–(सू. 2320) इति दीर्घः । ष्ठीवति । अस्य द्वितीयस्थकारष्ठकारो वेति
वृत्तिः । तिष्ठेव । तिष्ठिवतुः । तिष्ठिवुः । टिष्ठेव । टिष्ठिवतुः । टिष्ठिवुः ।
हलि च (सू. 354) इति दीर्घः । ष्ठीव्यात् । 561 जि जये । अयमजन्तेषु पठितुं युक्तः । जय उत्कर्षप्राप्तिः
। अकर्मकोऽयम् । जयति ॥
2331: सन्लिटोर्जेः (7-3-57) जयतेः सन्लिण्निमित्तो योऽभ्यासस्ततः परस्य कुत्वं स्यात् ।
जिगाय । जिग्यतुः । जिग्युः । जिगयिथ । जिगेथ । जिगाय । जिगय । जिग्यिव । जिग्यिम
। जेता । जीयात् । अजैषीत् । 562 जीव प्राणधारणे । जिजीव । 563 पीव 564 मीव 565 तीव 566 णीव स्थौल्ये । पिपीव । मिमीव । तितीव । निनीव। 567 क्षिवु 568 क्षेवु निरसने 569 उर्वी 570 तुर्वी 571 थुर्वी 572 दुर्वी 573 धुर्वी हिंसार्थाः । ऊर्वांचकार । उपधायां च (सू. 2265) इति दीर्घः । तुतूर्व । 574 गुर्वी उद्यमने । गूर्वति । जुगूर्व । 575 मुर्वी बन्धने । 576 पुर्व 577 पर्व 578 मर्व पूरणे । 579 चर्व अदने । 580 भर्व हिंसायाम् । 581 कर्व 582 खर्व 583 गर्व दर्पे । 584 अर्व 585 शर्व 586 षर्व हिंसायाम् । आनर्व । शर्वति । सर्वति । 587 इवि व्याप्तौ । इन्वति । इन्वांचकार । 588 पिवि 589 मिवि 590 णिवि सेचने । तृतीयो मूर्धन्योष्मादिरित्येके । सेवन इति
तरङ्गिण्याम्। पिन्वति । पिपिन्व । 591 हिवि 592 दिवि । 593 धिवि 594 जिवि प्राणनार्थाः । हिन्वति । दिन्वति ॥
2332: धिन्विकृण्व्योर च (3-1-80) अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । अतो लोपः (सू.
2308) । तस्य स्थानिवद्भावाल्लघूपधगुणो न । उप्रत्ययस्य पित्सु
गुणः । धिनोति । धिनुतः । धिन्वति ॥
2333: लोपश्चास्यान्यतरस्यां म्वोः (6-4-107)
असंयोगपूर्वो यः
प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः । धिन्वः धिनुवः ।
धिन्मः । धिनुमः । मिपि तु पत्वाद्गुणः । धिनोमि ॥
2334: उतश्च प्रत्ययादसंयोगपूर्वात् (6-4-106)
असंयोगपूर्वो यः
प्रत्ययोकारस्तदन्तादङ्गात्परस्यहेर्लुक् स्यात् । धिनु ।
नित्यत्वादुकारलोपात्पूर्वमाट् । धिनवाव । धिनवाम । जिन्वति । इत्यादि । 595 रिवि 596 रवि 597 धवि गत्यर्थाः । रिण्वति । रण्वति । धन्वति । 598 कृवि हिंसाकरणयोश्च । चकाराद्गतौ । कृणोतीत्यादि धिनोतिवत्
। अयं स्वादौ च । 599 मव बन्धने । मवति । मेवतुः । मेवुः । अमवीत् । अमावीत् । 600 अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवप्त्यालिङ्गनहिंसादानभागवृद्धिषु
। अवति । आव । मा भवानवीत् । 601 धावु गतिशुद्ध्योः । स्वरितेत् । धावति । धावते । दधाव ।
दधावे ॥ अथोष्मान्ता आत्मनेपदिनः । 602 धुक्ष 603 धिक्ष संदीपनक्लेशनजीवनेषु । धुक्षते । दुधुक्षे । धिक्षते
। दिधिक्षे । 604 वृक्ष वरणे । वृक्षते ववृक्षे । 605 शिक्ष विद्योपादाने । शिक्षते । 606 भिक्ष भिक्षायामलाभे लाभे च । भिक्षते। 607 क्लेश अव्यक्तायां वाचि । बाधन इति दुर्गः । क्लेशते
चिक्लेशे । 608 दक्ष वृद्धौ शीघ्रार्थे च । दक्षते। ददक्षे । 609 दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु । दीक्षते ।
दिदीक्षे । 610 ईक्ष दर्शने । ईक्षांचक्रे । 611 ईष गतिहिंसादर्शनेषु । ईषांचक्रे । 612 भाष व्यक्तायां वाचि । भाषते । 613 वर्ष स्नेहने । दन्त्योष्ठ्यादिः । ववर्षे । 614 गेषृ अन्विच्छायाम् । ग्लेषृ इत्येके । अन्विच्छा
अन्वेषणम् । जिगेषे । 615 पेषृ प्रयत्ने पेषते । 616 जेषृ 617 णेषृ 618 एषृ 619 प्रेषृ गतौ । जेषते । नेषते । एषांचक्रे । पिप्रेषे । 620 रेषृ 621 हेषृ 622 ह्रेषृ अव्यक्ते शब्दे । आद्यो वृकशब्दे । ततो
द्वावश्वशब्दे । रेषते । हेषते । ह्रेषते । 623 कासृ शब्दकुत्सायाम् । कासांचक्रे । 624 भासृ दीप्तौ । बभासे । 625 णासृ 626 रासृ शब्दे । नासते । प्रणासते । 627 णस कौटिल्ये । नसते । 628 भ्यस भये । भ्यसते । बभ्यसे । 629 आङः शसि इच्छायाम् । आशंसते । आशशंसे । 630 ग्रसु 631 ग्लसु अदने । जग्रसे । जग्लसे । 632 ईह चेष्टायाम् । ईहांचक्रे । 633 बहि 634 महि वृद्धौ । बंहते । बबंहे । मंहते । 635 अहि गतौ । अंहते । आनंहे । 636 गर्ह 637 गल्ह कुत्सायाम् । जगर्हे । जगल्हे । 638 बर्ह 639 बल्ह प्राधान्ये । ओष्ठ्यादी । 640 वर्ह 641 वल्ह परिभाषणहिंसाच्छादनेषु । दन्त्योष्ठ्यादी । केचित्तु
पूर्वयोर्दन्त्योष्ठ्यादितामनयोरोष्ठ्यादितां चाहुः । 642 प्लिह गतौ । पिप्लिहे । 643 वेहृ 644 जेहृ 645 बाहृ प्रयत्ने । आद्यो दन्त्योष्ठ्यादिः । अन्त्यः
केवलेष्ठ्यादी इत्यपरे । जेहतिर्गत्यर्थोऽपि । बबाहे । 646 द्राहृ निद्राक्षये । निक्षेपे इत्येके । 647 काशृ दीप्तौ । चकाशे । 648 ऊह वितर्के । ऊहांचक्रे । 649 गाहू विलोडने । गाहते । जगाहे । जगाहिषे । जघाक्षे ।
जगाहिढ्वे । जगाहिध्वे । जघाढ्वे । गाहिता ॥
2335: ढो ढे लोपः (8-3-13) ढस्य लोपः स्याड्ढे परे । गाढा । गाहिष्यन्ते । घाक्ष्यते ।
गाहिषीष्ट । घाक्षीष्ट । अगाहिष्ट । अगाढ । अघाक्षाताम् । अघाक्षत । अगाढाः ।
अघाढ्वम् । अघाक्षि । 650 गृहू गर्हणे । गर्हते । जगृहे ॥ ऋदुपधेभ्यो लिटः कित्वं
गुणात्पूर्वविप्रतिषेधेन (वा) ॥ जगृहिषे । जघृक्षे । जघृढ्वे । गर्हिता । गर्ढा ।
गर्हिष्यते । घर्क्ष्यते । गर्हिषीष्ट । घृक्षीष्ट । लुङि । अगर्हिष्ट । इडभावे ॥
2336: शल इगुपधादनिटः क्सः (3-1-45)
इगुपधो यः
शलन्तस्तस्मादनिटश्चलेः क्सादेशः स्यात् । अघृक्षत ।
2337: क्सस्याचि (7-3-72) अजादौ तङि क्सस्य लोपः स्यात् । अलोऽन्त्यस्य-(सू. 42) । अघृक्षाताम् । अघृक्षन्त । 651 ग्लह च । ग्लहते । 652 घुषि कान्तिकरणे । घुंषते । जुघुंषे । केचिद्धषेत्यदुपधं
पठन्ति ॥
अथार्हत्यन्ताः परस्मैपदिनः । 653 घुषिर् अविशब्दने । विशब्दनं प्रतिज्ञानं
ततोऽन्यस्मिन्नर्थे इत्येके । शब्दे इत्यन्ये पेठुः । घोषति । जुघोष । घोषिता ।
इरित्त्वादङ् वा । अघुषत् । अघोषीत् । 654 अक्षू व्याप्तौ ॥
2338: अक्षोऽन्यतरस्याम् (3-1-75) अक्षो वा श्नुप्रत्ययः स्यात्कर्त्रर्थे परे । पक्षे शप् ।
अक्ष्णोति । अक्ष्णुतः । अक्ष्णुवन्तः । अक्षति । अक्षतः । अक्षन्ति । आनक्ष ।
आनक्षिथ । आनष्ट । अक्षिता । अष्टा । अक्षिष्यति । स्कोः—(सू. 380) इति कलोपः । षढोः कः सि (सू. 295) । अक्ष्यति । अक्ष्णोतु । अक्ष्णुहि । अक्ष्णवानि ।
अक्ष्णोत् । आक्ष्णुवम्। अक्ष्णुयात् । अक्ष्यात् । ऊदित्वाद्वेट् । नेटि (सू. 2268) । मा भवानक्षीत् । अक्षिष्टाम् । अक्षिषुः । इडभावे तु मा
भवानाक्षीत् । आष्टाम् । आक्षुः । 655 तक्षू 656 त्वक्षू तनुकरणे ॥
2339: तनूकरणे तक्षः (3-1-76) श्नुः स्याद्वाशब्विषये । तक्ष्णोति तक्षति वा काष्ठम् ।
ततक्षिथ । ततष्ठ । अतक्षीत्। अतक्षिष्टाम् । अताक्षीत् । अताष्टाम् । तनूकरणे किम्
। वाग्भिः संतक्षति । भर्त्सयतीत्यर्थः । 657 उक्ष सेचने । उक्षांचकार । 658 रक्ष पालने । 659 णिक्ष चुम्बने । प्रणिक्षति । 660 तृक्ष 661 ष्ट्रक्ष 662 णक्ष गतौ । तृक्षति । स्तृक्षति । नक्षति । 663 वक्ष रोषे । संघात इत्येके । 664 मृक्ष संघाते म्रक्ष इत्येके । 665 तक्ष त्वचने । त्वचनं संवरणं त्वचोग्रहणं च । पक्ष परिग्रह
इत्येके । 666 सूर्क्ष आदरे । सुसूर्क्ष । अनादर इति तु क्वाचित्कोऽपपाठः।
अवज्ञावहेलनमसूर्क्षणमित्यमरः । 667 काक्षि 668 वाक्षि 669 माक्षि काङ्क्षायाम् । 670 द्राक्षि 671 ध्राक्षि 672 ध्वाक्षि घोरवासिते च । 673 चूष पाने । चुचूष । 674 तूष तुष्टौ । 675 पूष वृद्धौ । 676 मूष स्तेये । 677 लूष 678 रूष भूषायाम् । 679 शूष प्रसवे । प्रसवोऽभ्यनुज्ञानम् । तालव्योष्मादिः ॥ 680 यूष हिंसायाम् । 681 जूष च । 682 भूष अलंकारे । भूषति । 683 ऊष रुजायाम् । ऊषांचकार । 684 ईष उञ्छे । 685 कष 686 खष 687 शिष 688 जष 689 झष 690 शष 691 वष 692 मष 693 रुष 694 रिष हिंसार्थाः। तृतीयषष्ठौ तालव्योष्मादी । सप्तमो
दन्त्योष्ठादिः । चकास । चखाष । शिशेष । शिशेषिथ । शेष्टा । क्सः । अशिक्षत्।
अशेक्ष्यत् । जेषतुः । जझषतुः । शेषतुः । ववषतुः । मेषतुः ॥
2340: तीषसहलुभरुषरिषः (7-2-48) इच्छत्यादेः परस्य तादेरार्धधातुकस्योड्वा स्यात् । रोषिता
। रोष्टा । रोषिष्यति । रेषिता । रेष्टा । रेषिष्यति । 695 भष भर्त्सने । इक्ष भर्त्सनं श्वरवः । भषति । बभाष । 696 उष दाहे। ओषति ॥
2341: उषविदजागृभ्योऽन्यतरस्याम् (3-1-38)
एभ्यो लिट्याम्वा स्यात् ।
ओषांचकार । उवोष । ऊषतुः । उवोषिथ । 697 जिषु 698 विषु 699 मिषु सेचने । जिजेष । क्रादिनियमादिट् । विवेषिथ । विविषिव
। वेष्टा । वेक्ष्यति । अविक्षत् । 700 पुष पुष्टौ । पोषति । पोषिता । पोषिष्यति । अपोषीत् ।
अनिट्केषु पुष्येति श्यना निर्देसादयं नेट् । अतो न क्सः । अङ्विधौ दैवादिकस्य
ग्रहणान्नाङ् । 701 श्रिषु 702 श्लिषु 703 प्रुषु 704 प्लुषु दाहे । श्रेषति । शिश्रेष । श्रेषिता । श्लेषति ।
शिश्लेष । श्लेषिता । अयमपि सेट् । अनिट्सु दैवादिकस्यैव ग्रहणमिति कैयटादयः ।
यत्त्वनिट्कारिकान्यासे द्वयोर्ग्रहणमित्युक्तं
तत्स्वोक्तिविरोधाद्ग्रन्थान्तरविरोधाच्चोपेक्ष्यम् । पुप्रोष । पुप्लोष । 705 पृषु 706 वृषु 707 मृषु सेचने । मृषु सहने च । इतरौ हिंसासंक्लेशनयोश्च ।
पर्षति । पपर्ष । पृष्यात् । 708 घृषु संघर्षे । 709 हृषु अलीके । 710 तुस 711 ह्रस 712 ह्लस 713 रस शब्दे । तुतोस । जह्नास। जह्लास । ररास । 714 लस श्लेषणक्रीडनयोः । 715 घसॢ अदने । अयं न सार्वत्रिकः । लिट्यन्यतरस्याम् 2424 इत्यादेर्घस्लादेशविधानात् । ततश्च यत्र लिङं वचनं वास्ति
तत्रैवास्य प्रयोगः । अत्रैव पाठः शपि परस्मैपदे लिङ्गम् । लृदित्करणमङि ।
अनिट्कारिकासु पाठो वलाद्यार्धातुके । क्मरचि तु विशिष्योपादानम् । घसति । घस्ता ॥
2342: सः स्यार्धधातुके (7-4-49) सस्य तः स्यात्सादावार्धधातुके । घत्स्यति । घसतु । अघसत् ।
घसेत् । लिङाद्यभावादाशिष्यस्याप्रयोगः ॥
2343: पुषादिद्युताद्यॢदितः परस्मैपदेषु (3-1-55)
श्यन्विकरणपुषादेर्द्युतादेर्लृदितश्च
परस्य च्लेरङ स्यात्परस्मैपदेषु । अघसत् । 716 जर्ज 717 चर्च 718 झर्झ परिभाषणहिंसातर्जनेषु । 719 पिसृ 720 पेसृ गतौ । पिपिसतुः । पपेसतुः । 721 हसे हसने । एदित्त्वान्न वृद्धिः । अहसीत् । 722 णिश समाधौ । तालव्योष्मान्तः । प्रणेशति । 723 मिश 724 मश शब्दे रोषकृते च । तालव्योष्मान्तौ । 725 शव गतौ । दन्तयोष्ठ्यान्तस्तालव्योष्मादिः । शवति । अशवीत्
। अशावीत् । 726 शश प्लुतगतौ । तालव्योष्माद्यन्तः । शशाश । शेशतुः । शेशुः । शेशिथ । 727 शसु हिंसायाम् । दन्त्योष्मान्तः । न शसदद–(सू. 2263) इत्येत्त्वं न । शशसतुः । शशसुः । शशसिथ । 728 शंसु स्तुतौ । अयं दुर्गतावपीति दुर्गः । नृशंसो घातुकः
क्रूर इत्यमरः । शशंस । आशिषि नलोपः । शस्यात् । 729 चह परिकल्कने । कल्कनं शाठ्यम् । अचहीत् । 730 मह पूजायाम् । अमहीत् । 731 रह त्यागे । 732 रहि गतौ । रंहति । रंह्यात् । 733 दृह 734 दृहि 735 बृह 736 बृहि वृद्धौ । दर्हति । ददर्ह। ददृहतुः । दृंहति । बर्हति
। बृंहति । बृहि शब्दे च । बृंहितं करिगर्जितम् । बृहिर् इत्येके । अबृहत् ।
अबर्हीत् । 737 तुहिर् 738 दुहिर् 739 उहिर् अर्दने । तोहति । तुतोह । अतुहत् । अतोहीत् । दोहति । दुदोह । अदुहत् ।
अदोहीत् । अनिट्कारिकास्वस्य दुहेर्ग्रहणं नेच्छन्ति । ओहति । उवोह । ऊहतुः ।
ओहिता । माभवानुहत् । औहीत्। 740 अर्ह पूजायाम् । आनर्ह ॥
अथ कृपूपर्यान्ता
अनुदात्तेतः ॥ 741 द्युत दीप्तौ । द्योतते ॥
2344: द्युतिस्वाप्योः संप्रसारणम् (7-4-67)
अनयोरभ्यासस्य संप्रसारणं
स्यात् । दिद्युते । दिद्युताते । द्योतिता॥
2345: द्युद्भ्यो लुङि (1-3-91) द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादिसूत्रेण
परस्मैपदेऽङ् । अद्युतत् । अद्योतिष्ट । 742 श्विता वर्णे । श्वेतते । शिश्विते । अश्वितत् ।
अश्वेतिष्ट । 743 ञिमिदा स्नेहने । मेदते ॥
2346: मिदेर्गुणः (7-3-82) मिदेरिको गुणः स्यादित्संज्ञकशकारादौ प्रत्यये । एश
आदिशित्त्वाभावान्नाभावेन गुणः । मिमिदे । अमिदत् । अमेदिष्ट । 744 ञिष्विदा स्नेहनमोचनयोः । मोहनयोरित्येके । स्वेदते ।
सिष्विदे । अस्विदत् । अस्वेदिष्ट । ञिक्ष्विदा चेत्येके । अक्ष्विदत् ।
अक्ष्वेदिष्ट । 745 रुच दीप्तावभिप्रीतौ च । रोचते सूर्यः । हरये । रोचते
भक्तिः । अरुचत् । अरोचिष्ट । 746 घुट परिवर्तने । घोटते । जुघुटे । अघुटत् । अघोटिष्ट । 747 रुट 748 लुट 749 लुठ प्रतिघाते अरुटत् । अरोटिष्ट । 750 शुभ दीप्तौ । 751 क्षुभ संचलने । 752 णभ 753 तुभ हिंसायाम् । आद्योऽभावेऽपि । नभन्तामन्यके समे । मा
भूवन्नन्यके सर्वे इति निरुक्तम् । अनभत् । अनभिष्ट । अतुभत् । अतोभिष्ट । इमौ
दिवादी क्र्यादी च । 754 स्रंसु 755 ध्वंसु 756 भ्रंसु अवस्रंसने । ध्वंसु गतौ च । अङि नलोपः । अस्रसत् ।
अस्रंसिष्ट । नास्रसत्करिणां ग्रैवमिति रघुकाव्ये । भ्रंशु इत्यपि केचित्पेठुः ।
अत्र तृतीय एव तालव्यान्त इत्यन्ये । भ्रशु भ्रंशु अधः पतन इति दिवादौ । 757 स्रम्भु विश्वासे । अस्रभत् । अस्रम्भिष्ट । दन्त्यादिरयम्
। तालव्यादिस्तु प्रमादे गतः । 758 वृतु वर्तने । वर्तते ॥
2347: वृद्भ्यः स्यसनोः (1-3-92) वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च ॥
2348: न वृद्भ्यश्चतुर्भ्यः (7-2-59)
एभ्यः
सकारादेरार्धधातुकस्येण्न स्यात्तङानयोरभावे । वर्त्स्यति । वर्तिष्यते । अवृतत् ।
अवर्तिष्ट । अवर्त्स्यत् । अवर्तिष्यत । 759 वृधु वृद्धौ । 760 शृधु शब्दकुत्सायाम् । इमौ वृतिवत् । 761 स्यन्दू प्रस्रवणे । स्यन्दते । सस्यन्दे । सस्यन्दिषे ।
सस्यन्त्से । सस्यन्दिध्वे । सस्यन्ध्वे । स्यन्दिता । स्यन्ता । वृद्भ्यः स्यसनोः
(सू. 2347) इति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं
बाधित्वा चतुर्ग्रहणसामर्थ्यात् न वृद्भ्यः (सू. 2348) इति निषेधः । स्यन्त्स्यति । स्यन्दिष्यते । स्यन्त्स्यते
। स्यन्दिषीष्ट । स्यन्त्सीष्ट । द्युद्भ्यो लुङि-(सू. 2347) इति परस्मैपदपक्षे अङ् । नलोपः । अस्यदत् । अस्यन्दिष्ट ।
अस्यन्त । अस्यन्सताम् । अस्यन्त्स्यत् । अस्यन्दिष्यत । अस्यन्त्स्यत् ॥
2349: अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु (8-3-72)
एभ्यः परस्याप्राणिकर्तृकस्य
स्यन्दतेः सस्य षो वा स्यात्। अनुष्यन्दते अनुस्यन्दते वा जलम् । अप्राणिषु किम् ।
अनुस्यन्दते हस्ती । अप्राणिष्विति पर्युदासान्मत्स्योदकेअनुष्यन्देते इत्यत्रापि
पक्षे षत्वं भवत्येव । प्राणिषु नेत्युक्तौ तु न स्यात् । 762 कृपू सामर्थ्ये ॥
2350: कृपो रो लः (8-2-18) कृप उ इति छेदः । कृपेति लुप्तषष्ठीकम् । तच्चावर्तते ।
कृपो यो रेफस्तस्य लः स्यात्। कृपेरृकारस्यावयवो यो रेफसदृशस्तस्य च लकारसदृशः
स्यात् । कल्पते । चकिपे । चकिपिषे । चकिप्से इत्यादि स्यन्दिवत् ॥
2351: लुटि च कॢपः (1-3-93) लुटि स्यसनोश्च क्लृपेः परस्मैपदं वा स्यात् ॥
2352: तासि च क्लृपः (7-2-60) क्लृपेः परस्य तासेः सकारादेरार्धधातुकस्य चेण्न
स्यात्तङानयोरभावे । कल्प्तासि । कल्प्तास्थ । कल्पितासे । कल्प्तासे । कल्प्स्यति
। कल्पिष्यते । कल्प्स्यते । कल्पिषीष्ट । क्लृप्सीष्ट । अक्लृपत् । अकल्पिष्ट ।
अक्लृप्त । अकल्प्स्यत् । अकल्पिष्यत । अकल्प्स्यत ॥ वृत् ॥ वृत्तः संपूर्णो
द्युतादिर्वृतादिश्चोत्यर्थः ॥
अथ त्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च । 763 घट चेष्टायाम् । घटते । जघटे । घटादयो मित इति वक्ष्यमाणेन
मित्संज्ञा । तत्फलं तु णौ मितां ह्रस्वः (सू. 2568) इति चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (सू. 2762) इति च वक्ष्यते । घटयति । विघटयति । कथं तर्हि
कमलवनोद्घाटनं कुर्वते ये । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिवेत्यादि ।
शृणु । घट संघात इति चौरादिकस्येदम् । न च तस्यैवार्थविशेषे
मित्त्वार्थमनुवादोऽयमिति वाच्यम् । नान्ये मितोऽहेताविति निषेधात् । अहेतौ
स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः। 764 व्यथ भयसंचलनयोः । व्यथते ॥
2353: व्यथो लिटि (7-4-68) व्यथोऽभ्यासस्य संप्रसारणं स्याल्लिटि । हलादिः शेषापवादः ।
थस्य हलादिः- शेषेण निवृत्तिः । विव्यथे । 765 प्रथ प्रख्याने । पप्रथे । 766 प्रस विस्तारे । पप्रसे । 767 म्रद मर्दने । 768 स्खद स्खदने । स्खदनं विद्रावणम् । 769 क्षजि गतिदानयोः । मित्त्वसामर्थ्यादनुपधात्वेऽपि
चिण्णमुलोः (सू. 2762) इति दीर्घविकल्पः । अक्षञ्जि । अक्षाञ्जि ।
क्षञ्जं-क्षञ्जम् । क्षाञ्जंक्षाञ्जम् । 770 दक्ष गतिहिंसनयोः । योऽयं वृद्धिशैघ्र्ययोरनुदात्तेत्सु
पठितस्तस्येहार्थविशेषे मित्त्वार्थोऽनुवादः । 771 क्रप कृपायां गतौ । 772 कदि 773 क्रदि 774 क्लदि वैक्लव्ये । वैकल्य इत्येके । त्रयोऽप्यनिदित इति
नन्दी । इदित इति स्वामी । कदिक्रदी इदितौ । क्रद क्लदेति चानिदिताविति मैत्रेयः ।
कदिक्रदिक्लदीनामाह्वानरोदनयोः परस्मैपदिषूक्तानां पुनरिह पाठो मित्तवार्थ
आत्मनेपदार्थश्च । 775 ञित्वरा संभ्रमे । (ग) घटादयः षितः । षित्वादङ् कृत्सुवक्ष्यते
॥
अथ फणन्ताः परस्मैपदिनः । 776 ज्वर रोगे । ज्वरति । जज्वार । 777 गड सेचने । गडति । जगाड । 778 हेड वेष्टने । हेडृ अनादर इत्यात्मनेपदिषु गतः स
एवोत्सृष्टानुबन्धोऽनूद्यते अर्थविशेषे मित्त्वार्थम् । परस्मैपदिभ्यो ज्वरादिभ्यः
प्रागेवानुवादे कर्तव्ये तन्मध्येऽनुवादसामर्थ्यात्परस्मैपदम् । हेडति । जिहेड ।
हिडयति। अहिडि । अहीडि । अनादरे तु हेडयति । 779 वट 780 भट परिभाषणे । वट वेष्टने भट भृताविति पठितयोः परिभाषणे
मित्त्वार्थोऽनुवादः । 781 णट नृत्तौ । इत्थमेव पूर्वमपि पठितम् । तत्रायं विवेकः ।
पूर्वं पठितस्य नाट्यमर्थः । यत्कारिषु नटव्यपदेशः । वाक्यार्थाभिनयो नाट्यम् ।
घटादौ तु नृत्यं नृत्तंचार्थः । यत्कारिषु नर्तकव्यपदेशः । पदार्थाभिनयो नृत्यम् ।
गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ नट नताविति पठन्ति । गतावित्यन्ये ।
णोपदेशापर्युदासवाक्ये भाष्यकृता नाटीति दीर्घपाठाद् घटादिर्णोपदेश एव । 782 ष्टक प्रतीघाते । स्तकति । 783 चक तृप्तौ । तृप्तिप्रतीघातयोः पूर्वं पठितस्य
तृप्तिमात्रे मित्त्वार्थोऽनुवादः । आत्मनेपदिषु पठितस्य
परस्मैपदिष्वनुवादात्परस्मैपदम् । 784 कखे हसने । एदित्त्वान्न वृद्धिः । अकखीत् । 785 रगे शङ्कायाम् । 786 लगे सङ्गे । 787 ह्रगे 788 ह्लगे 789 षगे 790 ष्ठगे संवरणे । 791 कगे नोच्यते । अस्यायमर्थ इति विशिष्य नोच्यते ।
क्रियासामान्यार्थत्वात् । अनेकार्थत्वादित्यन्ये । 792 अक 793 अग कुटिलायां गतौ । 794 कण 795 रण गतौ । चकाण । रराण । 796 चण 797 शण 798 श्रण दाने च । शण गतावित्यन्ये । 799 श्रथ 800 श्लथ 801 क्रथ 802 क्लथ हिंसार्थाः । जासिनिप्रहण--617 इति सूत्रे क्राथेति मित्त्वेऽपि वृद्धिर्निपात्यते ।
क्राथयति । मित्त्वं तु निपातनात्परत्वात् चिण्णमुलोः—(सू. 2762) इति दीर्घे चरितार्थम् । अक्रथि । अक्राथि । क्रथंक्रथम्
। क्राथंक्राथम् । 803 वन हिंसायाम् । वनु च नोच्यते । वनु इत्यपूर्व एवायं
धातुर्न तु तानादिकस्यानुवादः । उदित्करणसामर्थ्यात् । तेन क्रियासामान्ये
वनतीत्यादि । प्रवनयति । अनुपसृष्टस्य तु मित्त्वविकल्पो वक्ष्यते । 804 ज्वल दीप्तौ । णप्रत्ययार्थं पठिष्यमाण एवायं
मित्त्वार्थमनूद्यते । प्रज्वलयति । 805 ह्वल 806 ह्मल चलने । प्रह्वलयति । प्रह्मलयति । 807 स्मृ आध्याने । चिन्तायां पठिष्यमाणस्य आध्याने
मित्त्वार्थोऽनुवादः । आध्यानमुकण्ठापूर्वकं स्मरणम् । 808 दॄ भये । दॄ विदारणे इति क्रादेरयं मित्त्वार्थोऽनुवादः ।
दृणन्तं प्रेरयति दरयति । भयादन्यत्र दारयति । धात्वन्तरमेवेदमिति मते तु
दरतीत्यादि । केचिद्घटादौ अत्स्मृदॄत्वर-(सू. 2566) इति सूत्रे च दॄ इति दीर्घस्थाने ह्रस्वं पठन्ति ।
तन्नेति माधवः । 809 नॄ नये । क्र्यादिषु पठिष्यमाणस्यानुवादः । नयादन्यत्र
नारयति । 810 श्रा पाके । श्रै इति क-कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम् ।
लुग्विकरणयोरलुग्विकरणस्य । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति
परिभाषाभ्याम् । श्रपयति । विक्लेदयतीत्यर्थः । पाकादन्यत्र श्रापयति ।
स्वेदयतीत्यर्थः ॥ 811 ज्ञा मारणतोषणनिशामनेषु । निशामनं चाक्षुषज्ञानमिति माधवः
। ज्ञापनमात्रमित्यन्ये । निशानेष्विति पाठान्तरम् । निशानं तीक्ष्णीकरणम् ।
एष्वेवार्थेषु जानातिर्मित् । ज्ञप मिच्चेति चुरादौ । ज्ञापनं मारणादिकं च
तस्यार्थः । कथं विज्ञापना भर्तृषु सिद्धिमेतीति । तज्ज्ञापयत्याचार्य इति च ।
शृणु । माधवमतेऽचाक्षुषज्ञाने मित्त्वाभावात् । ज्ञापनमात्रे मित्त्वमिति मते तु
ज्ञा नियोग इति चौरादिकस्य । धातूनामनेकार्थत्वात् । निशानेष्विति पठतां
हरदत्तादीनां मते तु न काप्यनुपपत्तिः । 812 चलिः कम्पने । चल कम्पने इत ज्वलादिः । चलयति शाखाम् ।
कम्पनादन्यत्र तु शीलं चालयति । अन्यथा करोतीत्यर्थः । हरतीत्यर्थ इति स्वामी ।
सूत्रं चालयति । क्षिपतीत्यर्थः । 813 छदिर् ऊर्जने । छद अपवारण इति चौरादिकस्य स्वार्थे
णिजभावे मित्त्वार्थोऽयमनुवादः । अनेकार्थत्वादूर्जेरर्थे वृत्तिः । छदन्तं
प्रयुङ्क्ते छदयति । बलवन्तं प्राणवन्तं वा करोतीत्यर्थः । अन्यत्र छादयति ।
अपवारयन्तं प्रयुङ्क्ते इत्यर्थः । स्वार्थे णिचि तु छादयति । बलीभवति,
प्राणीभवति, अपवारयति वेत्यर्थः । 814 लडिः जिह्वोन्मथने । लड विलास इति पठितस्य
मित्त्वार्थोऽनुवादः । उन्मथनं ज्ञापनम् । जिह्वाशब्देन षष्ठीतत्पुरुषः । लडयति
जिह्वाम् । तृतीयातत्पुरुषो वा । लडयति जिह्वया । अन्ये तु जिह्वाशब्देन
तद्व्यापारो लक्ष्यते । समाहारद्वन्द्वोऽयम् । लडयति शत्रुम् । लडयति दधि ।
अन्यत्र लाडयति पुत्रम् । 815 मदी हर्षग्लेपनयोः । ग्लेपनं दैन्यम् । दैवादिकस्य
मित्त्वार्थोऽयमनुवादः । मदयति । हर्षयति, ग्लेपयति वेत्यर्थः । अन्यत्र मादयति ।
चित्तविकारमुत्पादयीत्यर्थः । 816 ध्वन शब्दे । भाव्ययं मित्त्वार्थमनूद्यते । ध्वनयति
घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः ।
अत्र भोजः । दलि-वलि-स्खलि-रणि-ध्वनि-त्रपि-क्षपयश्चेति
पपाठ । तत्र ध्वनिरणी उदाहृतौ । दल विशरणे । वल संवरणे । स्खल संचलने। त्रपूष्
लज्जायामिति गताः । तेषां णौ । दलयति । वलयति । स्खलयति । त्रपयति । क्षै क्षये
इति वक्ष्यमाणस्यकृतात्वस्य पुका निर्देशः । क्षपयति । 817 स्वन अवतेसने । शब्दे इति पठिष्यमाणस्यानुवादः । स्वनयति ।
अन्यत्र स्वानयति । (ग) घटादयो मितः । मित्संज्ञा इत्यर्थः । (ग) जनीजॄष्न्कसुरञ्जोऽमन्ताश्च
। मित इत्यनुवर्तते । जॄषिति षित्त्वनिर्देशाज्जीर्यतेर्ग्रहणम् । जृणातेस्तु
जारयति । केचित्तु जनी जॄ ष्णसु इति पठित्वाष्णसु निरसने इति रदैवादिकमुदाहरन्ति ।
(ग) ज्वलह्वलह्मलममामनुपसर्गाद्वा। एषां मित्त्वं वा । प्राप्तविभाषेयम् । ज्वलयति
। ज्वालयति । उपसृष्टे तु नित्यं मित्त्वम् । प्रज्वलयति । कथं तर्हि प्राज्वालयति
। उन्नामयतीति । घयन्तात्तत्करोतीति णौ । कथं संक्रामयतीति । मितां ह्रस्वः (सू. 2568) इति सूत्रे वा चित्तविरागे (सू. 2605) इत्यतो वेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणादिति
वत्तिकृत् । एतेन राजो विश्रामयन् राज्ञाम्, धुर्यान्विश्रामयेति स इत्यादि व्याख्यातम् । (ग) ग्लास्नावनुवमां
च । अनुपसर्गादेषां मित्त्वं वा स्यात् । आद्ययोरप्राप्ते इतरयोः प्राप्ते विभाषा
। (ग) न कम्यमिचमाम् । अमन्तात्वात्प्राप्तं मित्तवमेषां न स्यात् । कामयते ।
आमयति । चामयति । 818 शमो दर्शने (ग) । शाम्यतिर्दर्शने मिन्न स्यात् । निशामयति
रूपम् । अन्यत्र तु प्रणयिनो निशमय्य वधूः कथाः । कथं तर्हि निशामय तदुत्पत्तिं
विस्तराद्गदतो ममेति । शम आलोचन इति चौरादिकस्य । धानूनामनेकार्थत्वाच्छ्रवणे
वृत्तिः शाम्यतिवत् । 819 यमो ऽपरिवेषणे (ग) । यच्छतिर्तभोजनातोऽन्यत्र भिन्न स्यात्
। आयामयति । द्राघयति, व्यापारयति वेत्यर्थः । परिवेषणे तु यमयति ब्राह्मणान् ।
भोजयतीत्यर्थः । प्रयवसितं नियमयन्नित्यादि तु नियमवच्चब्दात्तत्करोतीति णौ
बोध्यम् । (ग) 820स्खदिरवपरिभ्यां च । मिन्नेत्येव। अवस्खादयति । परिस्खादयति । अपावपरिभ्य इति
न्यासकारः । स्वामी तु न कमी ति नञमुत्तरत्रिसूत्र्यामननुवर्त्य शम अदर्शने इति
चिच्छेद । यमस्त्वपरिवेषणे मित्वमाह । तन्मते पर्यवसितं नियमयन्नित्यादि सम्यगेव ।
उपसृष्टस्य स्खदेश्चेदवादिपूर्वस्येति नियमात्प्रस्खादयतीत्याह । तस्मात् सूत्रद्वये
उदाररणप्रत्युदाहरणयोर्व्यत्यासः फलितः । इदं च मतं
वृत्तिन्यासादिविरोधादुपेक्ष्यम् । 821 फण गतौ । नेति निवृत्तमसंभवात् । निषेधात्पूर्वमसौ । न
पठितः । फणादिकार्यानुरोधात् ॥
2354: फणां च सप्तानाम् (6-4-125) एषां वा एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । फेणतुः
। फेणुः। फेणिथ । पफणतुः । पफणुः । फणयति ॥ वृत् ॥ घटादिः समाप्तः । फणेः प्रागेव
वृदित्येके । तन्मते फयतीत्येव । 822 राजृ दीप्तौ । स्वरितेत् । राजति । राजते । रेजतुः ।
रराजतुः । रेजे । रराजे । अत इत्यनुवृत्तावपि विधानसामर्थ्यादात एत्वम् । 823 टुभ्राजृ 824 टुभ्राशृ 825 टुभ्लाशृ दीप्तौ । अनुदात्तेतः । भ्राजतेरिह पाठः
फणादिकार्यार्थः । पूर्वं पाठस्तु व्रश्चादिषत्वाभावार्थः । तत्र हि राजिसाहचर्यात्
फणादेरेव ग्रहणम्। भ्रेजे । बभ्राजे । वा भ्राश (सू. 2321) इति श्यन्वा । भ्राश्यते । भ्राशते । भ्रेशे । बभ्राशे ।
भ्लाश्यते । भ्लाशते । भ्लेशे । बभ्लाशे । द्वावपीमौ तालव्यान्तौ । 826 स्यमु 827 स्वन 828 ध्वन शब्दे । स्यमादयः क्षरत्यन्ताः परस्मैपदिनः ।
स्येमतुः । सस्यमतुः । अस्यमीत् । स्वेनतुः । सस्वनतुः । अस्वानीत् । अस्वनीत् ।
विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थः । वेश्च स्वनः– (सू.2274) इति षत्वम् । फणादयो गताः । दध्वनतुः । 829 षम 830 ष्टम अवैकल्ये । ससाम । तस्ताम । 831 ज्वल दीप्तौ । अतो ल्रान्तस्य (सू. 2330) अज्वालीत् । 832 चल कम्पने । 833 जल घातने । घातनं तैक्ष्ण्यम् । 834 टल 835 ट्वल वैक्लव्ये । 836 ष्ठल स्थाने । 837 हल विलेखने । 838 णल गन्धे । बन्धन इत्येके । 839 पल गतौ । पलति । 840 बल प्राणने धान्यवारोधने च । बलति । बेलतुः । बेलुः । 841 पुल महत्त्वे । पोलति । 842 कुल संस्त्याने बन्धुषु च । संस्त्यानं संघातः ।
बन्धुशब्देन तद्व्यापारो गृह्यते । कोलति । चुकोल । 843 शल 844 हुल 845 पत्लृ गतौ । शशाल । जुहोल । पपात । पेततुः । पतिता ॥
2355: पतः पुम् (7-4-19) अङि परे । अपप्तत् ।नेर्गद-(सू. 2285) इति णत्वम् । प्रण्यपप्तत् । 846 क्वथे निष्पाके । क्वथिति । चक्वाथ । अक्वथीत् । 847 पथे गतौ । अपथीत् । 848 मथे विलोडने । मेथतुः । अमथीत् । 849 टुवम उद्गिरणे । इहैव निपातनादॄत इत्त्वमिति सुधाकरः ।
ववाम । ववमतुः । वादित्यादेत्वाभ्यासलोपौ न । भागवृत्तौ तु
वेमतुरित्याद्यप्युदाहृतं तद्भाष्यादौ न दृष्टम् । 850 भ्रमु चलने । वा भ्राश-(सू. 2321) इति श्यन्वा । भ्रम्यति । भ्रमति । भ्राम्यतीति तु
दिवादेर्वक्ष्यते ॥
2356: वा जॄभ्रमुत्रसाम् (6-4-124) एषामेत्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च ।
भ्रेमतुः । बभ्रमतुः। अभ्रमीत् । 851 क्षर संचलने । अक्षारीत् ॥
अथ द्वावनुदात्तेतौ । 852 षह मर्षणे । परिनिविभ्यः-(सू. 2275) इति षत्वम् । परिषहते । सेहे । सहिता। तीषसह–(सू. 2340) इति वा इट् । इडभावे ढत्वधत्वष्टुत्वढलोपाः ॥
2357: सहिवहोरोदवर्णस्य (6-3-112) अनयोरवर्णस्य ओत्स्याड्ढलोपे सति ॥
2358: सोढः (8-3-115) सोढ्ररूपस्य सहेः सस्य षत्वं न स्यात् । परिसोढा ॥
2359: सिवादीनां वाड्व्यवायेऽपि (8-3-71)
परिनिविभ्यः परेषां
सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यसहत । पर्यषहत । 853 रमु क्रीडायाम् । रेमे । रेमिषे । रन्ता । रंस्यते ।
रंसीष्ट । अरंस्त ॥
अथ कसन्ताः परस्मैपदिनः । 854 षद्लृ विशसणगत्यवसादनेषु ॥
2360: पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां
पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः (7-3-78) पादीनां पिबादयः स्युरित्संज्ञकसकारादौ प्रत्यये परे ।
सीदति । ससाद । सेदतुः । सेदिथ । ससत्थ । सत्ता । सत्स्यति । लृदित्वादङ् । असदत्
। सदिरप्रतेः (सू. 2271) । निषीदति । न्यषीदत् ॥
2361: सदेः परस्य लिटि (8-3-118) सदेरभ्यासात्परस्य षत्वं न स्याल्लिटि । निषसाद । निषेदतुः
। 855 शद्लृ शातने । विशीर्णतायामयम् । शातनं तु विषयतया
निर्दिश्यते ॥
2362: शदेः शितः (1-3-60) शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद । शेदतुः
। शेदिथ । शशत्थ । शत्ता । अशदत् । 856 क्रुश आह्वाने रोदने च । क्रोशति । क्रोष्टा । च्लेः क्सः
। अक्रुक्षत् । 857 कुच संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । कोचति । चुकोच ।
858 बुध अवगमने । बोधति । बोधिता । बोधिष्यति । 859 रुह बीजजन्मनि प्रादुर्भावे च । रोहति । रुरोह । रुरोहिथ ।
रोढा । रोक्ष्यति । अरुक्षत् । 860 कस गतौ । अकासीत् । अकसीत् ॥ वृत् । ग्वलादिगणः समाप्तः ॥
अथ गूहत्यन्ताः स्वरितेतः । 861 हिक्क अव्यक्ते शब्दे । हिक्कति । हिक्कते । 862 अञ्चु गतौ याचने च । अञ्चिति । अञ्चते । अचु इत्येके । अचि
इत्यपरे । 863 टुयाचृ याचनायाम् । याचति । याचते । 864 रेटृ परिभाषणे । रेटति । रेटते । 865 चते 866 चदे याचने । चचात । चेते । अञ्चातीत् । चचाद । चेदे ।
अचदीत् । 867 प्रोथृ पर्याप्तौ । पुप्रोथ । पुप्रोथे । 868 मिदृ 869 मेदृ मेधाहिंसनयोः । मिमेद । मिमिदे । मिमेदे ।
थान्ताविमाविति स्वामी । मिमेथ । धान्ताविति न्यासः । 870 मेधृ सङ्गमे च । मेधति । मिमेध । 871 णिदृ 872 णेदृ कुत्सासन्निकर्षयोः । निनेद । निनिदतुः । निनिद ।
निनेदे । 873 शृधु 874 मृधु उन्दने । उन्दनं क्लेदनम्। शर्धति । शर्धते । शर्धिता । मर्धति । मर्धते
। 875 बुधिर् बोधने । बोधति । बोधेते । इरित्वादाङ्वा । अबुधत् ।
अबोधीत् । अबोधिष्ट । दीपजन- (सू. 2328) इति चिण् तु न भवति । पूर्वोत्तरसाहचर्येण दैवादिकस्यैव
तत्र ग्रहणात् । 876 उबुन्दिर् निशामने । निशामनं ज्ञानम् । बुबुन्दे । अबुदत्
। अबुन्दीत् । 877 वेणृ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वेणति । वेणते । नान्तोप्ययम् । 878 खनु अवदारणे । खनति । खनते ॥
2363: गमहनजनखनघसां लोपः क्ङित्यनङि (6-4-98)
एषामुपधाया लोपः स्यादजादौ
क्ङिति न त्वङि । चख्नतुः । ये विभाषा –(सू. 2319) । खायात् । खन्यात् । 879 चीवृ आदानसंवरणयोः । चिचीव । चिचीवे । 880 चायृ पूजानिशामनयोः । 881 व्यय गतौ । अव्ययीत् । 882 दाशृ दाने । ददाश । ददाशे । 883 भेषृ भये । गतावित्येके । भेषति । भेषते । 884 भ्रेषृ 885 भ्लेषृ गतौ । 886 अस गतिदीप्त्यादानेषु । असति । असते । आस । आसे । अयं
षान्तोऽपि । 887 स्पश बाधनस्पर्शनयोः । स्पर्शनं ग्रन्थनम् । स्पशति । स्पशते । 888 लष कान्तौ । वा भ्राश- (सू. 2321) इति श्यन्वा । लष्यति । लषति । लेषे । 889 चष भक्षणे । 890 छष हिंसायाम् । चच्छषतुः । चच्छषे । 891 झष आदानसंवरणयोः । 892 भ्रक्ष 893 भ्लक्ष अदने । भक्ष इति मैत्रेयः । 894 दासृ दाने । 895 माहृ माने । 896 गुहू संवरणे ॥
2364: ऊदुपधाया गोहः (6-4-89) गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये । गूहति । गूहते
। ऊदित्त्वादिड्वा । गूहिता । गौढा । गूहिष्यति । घोक्ष्यति । गूहेत् । गुह्यात् ।
अगूहीत् । इडभावे । क्सः । अघुक्षत् ॥
2365: लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये (7-3-73)
एषां क्सस्य लुग्वा
स्याद्दन्ये तङि । ढत्वधत्वष्टुत्वढलोपदीर्घाः । अगूढ । अघुक्षत । क्सस्याचि (सू. 2337) इत्यन्तलोपः । अघुक्षाताम् । अघुक्षन्त । अगुह्वहि ।
अघुक्षावहि । अघुक्षामहि । अथाजन्ता उभयपदिनः । 897 श्रिञ् सेवायाम् । श्रयति । श्रयते । शिश्रियतुः । श्रयिता
। णिश्रि- (सू. 2312) इतिचङ् । अशिश्रियत् । 898 भृञ् भरणे । भरति । बभार । बभ्रतुः । बभर्थ । बभृव । बभृषे
। भर्तार ॥
2366: ऋद्धनोः स्ये (7-2-70) ऋतो हन्तेश्च स्यस्य इट् स्यात् । भरिष्यति ॥
2367: रिङ् शयग्लिङ्क्षु (7-4-28) शे यकि यादावार्धाधातुके लिङि च ऋतो रिङादेशः स्यात् । रीङि
प्रकृते रिङ्विधिसामर्थ्याद्दीर्घो न । भ्रियात् ॥
2368: उश्च (1-2-12) ऋवर्णात्परौ झलादी लिङ् तङ्परः सिच्चेत्येतौ । कितौ स्तः ।
भृषीष्ट । भृषीयास्ताम् । अभार्षीत् । अभार्ष्टाम् । अभार्षुः ॥
2369: ह्रस्वादङ्गात् (8-2-27) सिचो लोपः स्याज्झलि । अभृत । अभृषाताम् । अभरिष्यत् । 899 हृञ् हरणे । हरणं प्रापणं स्वीकारः स्तेयं नासनं च । जहर्थ
। जह्रिव । जह्रिषे । हर्ता । हरिष्यति । 900 धृञ् धारणे । धरति । अधार्षीत् । अधृत । 901 णीञ् प्रापणे । निनयिथ । निनेथ । निन्यिषे ॥ अथाजन्ताः
परस्मैपदिनः ॥ 902 धेट् पाने । धयति ॥
2370: आदेच उपदेशेऽशिति (6-1-45) उपदेशे एजन्तस्य धातोरात्वं स्यान्न तु शिति ॥
2371: आत औ णलः (7-1-34) आदन्ताद्धातोर्णल औकारादेशः स्यात् । दधौ ॥
2372: आतो लोप इटि च (6-4-64) अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः स्यात् ।
द्वित्वात्परत्वाल्लोपे प्राप्ते द्विर्वचनेचि (सू. 2243) इति निषेधः । द्वित्वे कृते आलोपः । दधतुः । दधुः । दधिथ
। दधाथ । दधिव । धाता ॥
2373: दाधा घ्वदाप् (1-1-20) दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना ॥
2374: एर्लिङि (6-4-67) घुसंज्ञानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि
। धेयात् । धेयास्ताम् । धेयासुः ॥
2375: विभाषा धेट्श्व्योः (3-1-49) आभ्यां च्लेश्चङ्वा स्यात्कर्तृवाचिनि लुङि परे । चङि (सू. 2315) इति द्वित्वम् । अदधत् । अदधताम् ॥
2376: विभाषा घ्राधेट्शाच्छासः (2-4-78)
एभ्यः सिचो लुग्वा
स्यात्परस्मैपदे परे । अधात् । अधाताम् । अधुः॥
2377: यमरमनमातां सक्च (7-2-73) एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु । अधासीत् ।
अधासिष्टाम्। अधासिषुः । 903 ग्लै 904 म्लै हर्षक्षये । हर्षक्षयो धातुक्षयः । ग्लायति । जग्लौ ।
जग्लिथ । जग्लाथ॥
2378: वान्यस्य संयोगादेः (6-4-68) घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वा
स्यादार्धधातुके किति लिङि। ग्लायात् । ग्लेयात् । अग्लासीत् । म्लायति । 905 द्यै न्यक्करणे । न्यक्करणं तिरस्कारः । 906 द्रै स्वप्ने । 907 ध्रै तृप्तौ । 908 ध्यै चिन्तायाम् । 909 रै शब्दे । 910 स्त्यै 911 ष्ट्यै शब्दसंघातयोः । स्त्यायति । षोपदेशस्यापि सत्वे
कृते रूपं तुल्यम् । षोपदेशफलं तु तिष्ट्यासति । अतिष्ट्यपदित्यत्रषत्वम् । 912 खै खदने । 913 क्षै 914 जै 915 षै क्षये । क्षायति । जजौ । ससौ । साता । घुमास्था (सू. 2462) इत्यत्र विभाषा घ्राधेट्-(सू. 2376) इत्यत्र च स्यतेरेव ग्रहणं न त्वस्य । तेन एत्वसिज्लुकौ न
। सायात् । असासीत् । 916 कै 917 गै शब्दे । गैयात् । अगासीत् । 918 शै 919 श्रै पाके । 920 पै 921 ओवै शोषणे । पायात् । अपासीत् । घुमास्था-(सू. 2462) इतीत्वं तदपवाद एर्लिङि (सू. 2374) इत्येत्वं गातिस्था (सू. 2223) इति सिज्लुक् च न । पारूपस्य लाक्षणिकत्वात् । 922 ष्टै वेष्टने । स्तायति । 923 ष्णै वेष्टने । शोभायां चेत्येके । शौच इत्यन्ये । स्नायति
। 924 दैप् शोधने । दायति । अघुत्वादेत्वसिज्लुकौ न । दायात् ।
अदासीत् । 925 पा पाने । पाघ्राध्मा- (सू. 2360) इति पिबादेशः । तस्यादन्तत्वान्नोपधागुणः । पिबति ।
पेयात् । अपात् । 926 घ्रा गन्धोपादाने । जिघ्रति । घ्रायात् । घ्रेयात् ।
अघ्रासीत् । अघ्रात् । 927 ध्मा शब्दाग्निसंयोगयोः । धमति । 928 ष्ठा गतिनिवृत्तौ । तिष्ठति । स्थादिष्वभ्यासेन- (सू. 2277) इति षत्वम् । अधितष्ठौ । उपसर्गात्-(सू. 2270) इति षत्वम् । अधिष्ठाता । स्थेयात् । 929 म्ना अभ्यासे । मनति । 930 दाण् दाने । प्रणियच्छति । देयात् । अदात् । 931 ह्वृ कौटिल्ये । ह्वरति ॥
2379: ऋतश्च संयोगादेर्गुणः (7-4-10)
ऋदन्तस्य संयोगादेरङ्गस्य
गुणः स्याल्लिटि । किदर्थमपीदंपरत्वाण्णल्यपि भवति । रपरत्वम् । उपधावृद्धिः ।
जह्वार । जह्वरतुः । जह्वरुः । जह्वर्थ । ह्वर्ता । ऋद्धनोः स्ये (सू. 2366) ह्वरिष्यति ॥
2380: गुणोऽर्तिसंयोगाद्योः (7-4-29)
अर्तेः संयोगादेर्ऋदन्तस्य
च गुणः स्याद्यकि यादावार्धधातुके लिङि च । ह्वर्यात् । अह्वर्षीत् ।
अह्वार्ष्टाम् । 932 स्वृ शब्दौपतापयोः । स्वरतिसूति-(सू. 2279) इति वेट् । सस्वरिथ । सस्वर्थ । वमयोस्तु ॥
2381: श्र्युकः किति (7-2-11) श्रिय एकाच उगन्ताच परयोर्गित्कितोरिण्न स्यात् । परमपि
स्वरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे
प्राप्ते क्रादिनियमान्नित्यमिट् । सस्वरिव । सस्वरिम् । परत्वात् ऋद्धनो—(सू. 2366) इति नित्यमिटि । स्वरिष्यति । स्वर्यात् । अस्वरीत् ।
अस्वरिष्टाम् । अस्वार्षीत् । अस्वर्ष्टाम् । 933 स्मृ चिन्तायाम् । 934 ह्वृ संवरणे । 935 सृ गतौ । क्रादित्वान्नेट् । ससर्थ । ससृव । रिङ् ।
स्नियात् । असार्षीत् । असार्ष्टाम् ॥
2382: सर्तिशास्त्यर्तिभ्यश्च (3-1-56)
एभ्यश्च्लेरङ्
स्यात्कर्तरि लुङि । इह लुप्तशपा शासिना साहचर्यात्सर्त्यर्ती
जौहोत्यादिकावेवगृह्यते । तेन भ्वाद्योर्नाङ् । शीघ्रगतौ तु पाघ्राध्मा—(सू. 2360) इति धौरादेशः । धावति । 936 ऋ गतिप्रापणयोः । ऋच्छति ॥
2383: ऋच्छत्यॄताम् (7-4-11) तौदादिकऋच्छेर्ऋधातोर्ॠतां च गुणः स्याल्लिटि । णलि
प्राग्वदुपधावृद्धिः । आर । आरतुः । आरुः ।
2384: इडत्त्यर्तिव्ययतीनाम् (7-2-66)
अद् ऋ व्येञ् एभ्यस्थलो
नित्यमिट् स्यात् । आरिथ । अर्ता । अरिष्यति । अर्यात् । आर्षीत् । आर्ष्टाम् । 937 गृ 938 घृ सेचने । गरति । जगार । जगर्थ । जग्रिव । रिङ् ।
ग्रियात् । अगार्षीत्। 939 ध्वृ हूर्छने 940 स्रु गतौ । सुस्रोथ । सुस्रुव । स्रुयात् । णिश्रि—(सू. 2312) इति चङ् । लघूपधगुणादन्तारङ्घत्वादुवङ् । असुस्रुवत् । 941 षु प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । सुषोथ ।
सुषविथ । सुषुविव । सोता ॥
2385: स्तुसुधूञ्भ्यः परस्मैपदेषु (7-2-72)
एभ्यः सिच इट्
स्यात्परस्मैपदैषु । असावीत् । पूर्वोत्तराभ्यां ञिभ्द्यां साहचर्यात्सुनोतेरेव
ग्रहणममिति पक्षे असौषीत् । 942 श्रु श्रवणे ॥
2386: श्रुवः शृ च (3-1-74) श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्यश्च शब्विषये ।
शपोऽपवादः श्नोर्ङित्त्वादद्धातोर्गुणो न । शृणोति । शृणुतः ॥
2387: हुश्नुवोः सार्वधातुके (6-4-87)
जुहोतेः
श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यण् स्यादजादौ सार्वधातुके
। उवङोऽपवादः । शृण्वन्ति । शृणोमि । शृण्वः । शृणुवः । शृण्मः । शृणुमः । शुश्रोथ
। शुश्रुव । शृणु । शृणवानि । शृणुयात् । श्रूयात् । अश्रौषीत् । 943 ध्रु स्थैर्ये । ध्रवति । अयं कुटादौ गत्यर्थोऽपि । 944 दु 945 द्रु गतौ । दुदोथ । दुदविथ । दुदविव । दुद्रोथ । दुद्रुव ।
णिश्रि—(सू. 2312) इति चङ् । अदुद्रुवत् । 946 जि 947 ज्रि अभिभवे । अभिभवो न्यूनीकरणं न्यूनीभवनं च । आद्ये
सकर्मकः । शत्रून् जयति । द्वितीये त्वकर्मकः । अध्ययनात्पराजयते । अध्येतुं
ग्लायतीत्यर्थः । विपराभ्यां जे—(सू. 2685) इति तङ् । पराजेरसोढः 589 इत्यपादानत्वम् ॥ अथ डीङन्ता ङितः ॥ 948 ष्मिङ् ईषद्धसने । स्मयते । सिष्मिये । सिष्मियिढ्वे ।
सिष्मियिध्वे । 949 गुङ् अव्यक्ते शब्दे । गवते । जुगुवे । 950 गाङ् गतौ । गाते । गाते । गाते । इट एत्वे कृते वृद्धिः ।
गै । लङ इटि । अगे । गेत । गेयाताम् । गेरन् । गासीष्ट । गाङ्कुटादिभ्यः—(सू. 2461) इति सूत्रे इङादेशस्यैव गाङो ग्रहणं न त्वस्य ।
तेनाङित्त्वात् घुमास्था—(सू. 2462) इतात्वं न । अगास्त । आदादिकोऽयमिति हरदत्तादयः । फले तु
न भेदाः । 951 कुङ् 952 घुङ् 953 उङ् 954 ङुङ् शब्दे । अन्ये तु उङ् कुङ् खुङ् गुङ् घुङ् ङुङ् इत्याहुः । कवते ।
चुकुवे । घवते । अवते । उवे । वार्णादाङ्गं बलीयम् इत्युवङ् । ततः सवर्णदीर्घः ।
ओता । ओष्यते । ओषीष्ट । औष्ट । ङवते । ञुङुवे । ङोता । 955 च्युङ् 956 ज्युङ् 957 प्रुङ् 958 प्लुङ् गतौ ज्युङ् इत्येके । 959 रुङ् गतिरेषणयोः । रेषणं हिंसा । रुरुवे । रवितासे । 960 धृङ् अवबन्धने । धरते । दध्रे । 961 मेङ् प्रणिदाने । प्रणिदानं विनिमयः प्रत्यर्पणं च ।
प्रणिमयते । नेर्गद—(सू. 2285) इति णत्वम् । तत्र घुप्रकृतिमाङिति पठित्वा ङितो
माप्कृतैरपि ग्रहणस्येष्टत्वात् । 962 देङ् रक्षणे । दयते ॥
2388: दयतेर्दिगि लिटि (7-4-9) दिग्यादेशेन द्वित्वबाधनमिष्यत इति वृत्तिः । दिग्ये ॥
2389: स्थाघ्वोरिच्च (1-2-17) अनयोरिदादेशः स्यात् सिच्च कित्स्यात्तङि । अदित । अदिथाः ।
अदिषि । 963 श्यैङ् गतौ । श्यायते । शश्ये । 964 प्यैङ् वृद्धौ । प्यायते । पप्ये । प्याता । 965 त्रैङ् पालने । त्रायते । तत्रे । 966 पूङ् पवने । पवते । पुपुवे । पविता । 967 मूङ् बन्धने । मवते । 968 डीङ् विहायसा गतौ । डयते । डयिता । 969 तॄ प्लवनतरणयोः ॥
2390:
ॠत इद्धातोः (7-1-100)
ऋदन्तस्य धातोरङ्गस्य
इत्स्यात् ॥इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन (वा) ॥ तरति । ऋच्छत्यॄताम् –(सू.
2383) इतिगुणः । तॄफल—(सू. 2301) इत्येत्वम् । तेरतुः । तेरुः ॥
2391: वॄतो वा (7-2-38) वृङ्वृञ्भ्यामॄदन्ताञ्चेटो दीर्घो वा स्यान्न तु लिटि ।
तरीता । तरिता । अलिटीति किम्। तेरिथ । हलि च 354 इति दीर्घः । तीर्यात् ॥
2392: सिचि च परस्मैपदेषु (7-2-40) अत्र वॄत इटो दीर्घो न । अतारिष्टाम् ॥ अथाष्टावनुदात्तेतः
॥ 970 गुप गोपने । 971 तिज निशाने । 972 मान पूजायाम् । 973 बध बन्धने ॥
2393: गुप्तिज्किद्भ्यः सन् (3-1-5)
2394: मान्बधदान्शान्भ्यो दीर्घश्चाऽऽभ्यासस्य (3-1-6)
सूत्रद्वयोक्तेभ्यः सन् स्यान्मानादीनामभ्यासस्येकारस्य
दीर्घश्च ॥ गुपोर्निन्दायाम् (वा) ॥ तिजेः क्षमायाम् (वा) ॥ कितेर्व्याधिप्रतीकारे
निग्रहे अपनयने नाशने संशये च (वा) ॥ मानेर्जिज्ञासायाम् (वा) ॥ बधेश्चित्तविकारे
(वा) ॥ दानेरार्जवे (वा) ॥ शानेर्निशाने (वा) ॥ नाद्यन्ता—(सू. 2304) इति धातुत्वम् ॥
2395: सन्यङोः (6-1-9) सन्नन्तस्य यङन्तस्य च प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु
द्वितीयस्य । अभ्यासकार्यम् । गुपिप्रभृतयः किद्भिन्ना निन्दाद्यर्थका
एवानुदात्तेतोदानशानौ च स्वरितेतौ । एते नित्यं सन्नन्ताः । अर्थान्तरे
त्वननुबन्धकाश्चुरादयः । अनुबन्धस्य केवलेऽचरितार्थत्वात्सन्नन्तात्तङ् ।
धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् । तेनेङ्गुणौ न । जुगुप्सते ।
जुगुप्सांचक्रे । तितिक्षते । मीमांसते । भष्भावः । चर्त्वम् । बाभत्सते । 974 रभ राभस्ये । आरभते । आरेभे । रब्धा । रप्स्यते । 975 डुलभष् प्राप्तौ । लभते । 976 स्वञ्ज परिष्वङ्गे ।
2396: दंशसञ्जस्वञ्जां शपि (6-4-25)
2397: रञ्जेश्च (6-4-26) एषां शपि नलोपः । स्वजते । परिष्वजते ।
श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लुटः कित्त्वं वेति व्याकरणान्तरम् । देभतुः ।
सस्वजे इति भाष्योदाहरणादेकदेशानुमत्या इहाप्यश्रीयते । सदेः परस्य लिटि (सू. 2361) इति सूत्रे स्वञ्जेरुपसंख्यानम् (वा) ॥ अतोऽभ्यासात्परस्य
षत्वं न । परिषस्वजे । परिषस्वञ्जे । सस्वजिषे । सस्वञ्जिषे । स्वङ्क्ता ।
स्वङ्क्ष्यते । स्वजेत । स्वङ्क्षीष्ट । प्रत्यष्वङ्क्त । प्राक्सितात्—(सू. 2276) इति षत्वम् । परिनिविभ्यस्तु सिवादीनां वा (सू. 2359) इति विकल्पः । एतदर्थमेव उपसर्गात्सुनोति—(सू. 2270) इत्येव सिद्धे स्तुस्वञ्ज्योः परिनिवीत्यत्र पुनरुपादानम्
। पर्यष्वङ्क्त । पर्यस्वङ्क्त । 977 हद पुरीषोत्सर्गे । हदते । जहदे । हत्ता । हत्स्यते । हदेत
। हत्सीष्ट । अहत्त ॥ अथ परस्मैपदिनः ॥ 978 ञिष्विदा अव्यक्तेशब्दे । 979 स्कन्दिर् गतिशोषणयोः । चस्कन्दिथ । चस्कन्थ । स्कन्ता ।
स्कन्त्स्यति । नलोपः । स्कद्यात् । इरित्वादङ् वा । अस्कदत् । अस्कान्सीत् ।
अस्कान्ताम् । अस्कान्त्सुः ॥
2398: वेः स्कन्देरनिष्ठायाम् (8-3-73)
षत्वं वा स्यात् ।
कृत्येवेदम् । अनिष्ठायामिति पर्युदासात् । विष्कन्ता । विस्कन्ता । निष्ठायां तु
। विस्कन्नः ॥
2399: परेश्च (8-3-74) अस्मात्परस्य स्कन्देः सस्य षो वा । योगविभागादनिष्ठायामिति
न संबध्यते । परिष्कन्दति । परस्कन्दति । परिष्कण्णः । पिरस्कन्नः । षत्वपक्षे
णत्वम् । न च पदद्वयाश्रयतया बहिरङ्गत्वात्षत्वस्यासिद्धत्वम् । धातूपसर्गयोः
कार्यमन्तरङ्मित्यभ्युपगमात् । पूर्वं धातुरुपसर्गेण युज्यते ततः साधनेनेति
भाष्यम् । पूर्वं साधनेनेति मतान्तरे तु न णत्वम् । 980 यभ मैथुने । येभिथ । ययब्ध । यब्धा । यप्स्यति । अयाप्सीत्
। 981 णम प्रह्वत्वे शब्दे च । नेमिथ । ननन्थ । नन्ता । अनंसीत्
। अनंसिष्टाम् । 982 गम्लृ 983 सृप्लृ गतौ ॥
2400: इषुगमियमां छः (7-3-77) एषां छः स्याच्छिति परे । गच्छति । जगाम । जग्मतुः । जग्मुः
। जगमिथ । जगन्थ । गन्ता ॥
2401: गमेरिट् परस्मैपदेषु (7-2-58)
गमेः परस्य सकारादेरिट्
स्यात् । गमिष्यति । लृदित्त्वादङ् । अनङीति पर्युदासान्नोपधालोपः । अगमत् ।
सर्पति । ससर्प ॥
2402: अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (6-1-59)
उपदेशेऽनुदात्तो य
ऋदुपधस्तस्याम्वा स्याज्झलादावकिति परे । स्रप्ता । सर्प्ता । स्रप्स्यति ।
सर्प्स्यति । असृपत् । 984 यम उपरमे । यच्छति । येमिथ । ययन्थ । यन्ता । अयंसीत् ।
अयंसिष्टाम् । 985 तप संतापे । तप्ता । अताप्सीत् ।
2403: निसस्तपतावनासेवने (8-3-102) षः स्यात् । आसेवनं पौनः पुन्यं ततोऽस्यस्मिन्विषये ।
निष्टपति । 986 त्यज हानौ । तत्यजिथ । तस्यक्थ । त्यक्ता । अत्याक्षीत् । 987 षञ्ज सङ्गे । दंशसञ्जस्वञ्जां शपि –(सू. 2396) इति नलोपः । सजति । सङ्क्ता । 988 दृशिर् प्रेक्षणे । पश्यति ॥
2404: विभाषा सृजिदृशोः (7-2-65) आभ्यां थल इड्वा ॥
2405: सृजिदृशोर्झल्यमकिति (6-1-58)
अनयोरमागमः
स्याज्झलादावकिति । दद्रष्ठ । ददर्शिथ । द्रष्टा । द्रक्ष्यति। दृश्यात् ।
इरित्त्वादङ् वा ॥
2406: ऋदृशोऽङि गुणः (7-4-16) ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङभावे ॥
2407: न दृशः (3-1-47) दृशश्च्लेः क्सो न । अद्राक्षीत् । 989 दंश दशने । दशनं दंष्ट्राव्यापारः ।
पृषोदरादित्वादनुनासिकलोपः । अत एवनिपातनादित्येके । तेषामप्यत्रैव तात्पर्यम् ।
अर्थनिर्देशस्याधुनिकत्वात् । दंशसञ्ज—(सू. 2396) इति नलोपः । दशति । ददंशिथ । ददंष्ठ । दंष्टा ।
दङ्क्ष्यति । दश्यात् । अदाङ्क्षीत् । 990 कृष विलेखने । विलेखनमाकर्षणम् । क्रष्टा । कर्ष्टा ।
क्रक्ष्यति । कर्क्ष्यति ॥ स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वाच्यः (वा) ॥
अक्राक्षीत् । अक्राष्टाम् । अकार्क्षीत् । अकार्ष्टाम् । अकार्क्षुः । पक्षे क्सः
। अकृक्षत् । अकृक्षताम् । अकृक्षन् । 991 दह भस्मीकरणे । देहिथ । ददग्ध । दग्धा । धक्ष्यति ।
अधाक्षीत् । अदाग्धाम् । अधाक्षुः । 992 मिह सेचने । मिमेह । मिमेहिथ । मेढा । मेक्ष्यति ।
अमिक्षत् । 993 कित निवासेरोगापनयने च । चिकित्सति । संशये प्रायेण विपूर्वः । विचिकित्सा तु
संशय इत्यमरः । अस्यानुदात्तेत्त्वमाश्रित्य चिकित्सते इत्यादि कश्चिदुदाजहार ।
निवासे तु केतयति । 994 दान खण्डने । 995 शान तेजने । इतो वहत्यन्ताः स्वरितेतः ॥ दीदांसते ।
शीशांसति । शीशांसते । अर्थविशेषे सन् । अन्यत्र दानयति । 996 डुपचष् पाके । पचति । पचते । पेचिथ । पपक्थ । पेचे । पक्ता
। पक्षीष्ट । 997 षच समवाये । सचिति । सचते । 998 भज सेवायाम् । भेजतुः । भेजुः । भेजिथ । बभक्थ । भक्ता ।
भक्ष्यति । भक्ष्यते । अभाक्षीत् । अभक्त । 999 रञ्ज रागे । नलोपः । रजति । रजते । अराङ्क्षीत् । अरङ्क्तः
। 1000 शप आक्रोशे । आक्रोशो विरुद्धानुध्यानम् । शशाप । शेपे ।
अशाप्सीत् । अशप्त । 1001 त्विष दीप्तौ । त्वेषति । त्वेषते । तित्विषे ।
त्वेक्ष्यति । त्विक्षीष्ट । अत्विक्षत् । अत्विक्षाताम् । 1002 यज देवपूजासङ्गतिकरणदानेषु । यजति । यजते ॥
2408: लिट्यभ्यासस्योभयेषाम् (6-1-17)
वच्यादीनां ग्रह्यादीनां
चाभ्यासस्य संप्रसारणं स्याल्लिटि । इयाज ॥
2409: वचिस्वपियजादीनां किति (6-1-15)
वचिस्वप्योर्यजादीनां च
संप्रसारणं स्यात्किति । पुनः प्रसङ्गविज्ञानाद्द्वित्वम् । ईजतुः । ईजुः । इयजिथ
। इयष्ठ । ईजे । यष्टा । यक्ष्यति । इज्यात् । यक्षीष्ट । अयाक्षीत् । अयष्ट । 1003 डुवप् बीजसन्ताने । बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं
च । अयं छेदनेऽपि । केशान्वपति । उवाप । ऊपे । वप्ता । उप्यात् । वप्सीष्ट ।
प्रण्यवाप्सीत् । अवप्त । 1004 वह प्राणणे । उवाह उवहिथ । सहिवहोरोदवर्णस्य –(सू. 2357) उवोढ । ऊहे । वोढा । वक्ष्यति । अवाक्षात् । अवोढाम् ।
अवाक्षुः । अवोढ । अवक्षाताम् । अवक्षत । अवोढाः । अवोढ्वम् । 1005 वस निवासे । परस्मैपदी । वसति । उवास ॥
2410: शासिवसिघसीनां च (8-3-60) इण्कुभ्यां परस्यैषां सस्य षः स्यात् । ऊषतुः । ऊषुः ।
उवसिथ । उवस्थ । वस्ता । सः स्यार्धधातुके –(सू. 2342) सस्य तः स्यात्सादावार्धधातुके । वत्स्यति । उष्यात् ।
अवात्सीत् । अवात्ताम् । 1006 वेञ् तन्तुसन्ताने । वयति । वयते ॥
2411: वेञो वयिः (2-4-41) वा स्याल्लिटि । इकार उच्चारणार्थः । उवाय ॥
2412: ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति
च (6-1-16) एषां किति ङिति च संप्रसारणं स्यात् । इति यकारस्य प्राप्ते
॥
2413: लिटि वयो यः (6-1-38) वयो यस्य संप्रसारणं न स्याल्लिटि । ऊयतुः । ऊयुः ॥
2414: वश्चास्यान्यतरस्यां किति (6-1-39)
वयो यस्य वो वा स्यात्किति
लिटि । ऊवतुः । ऊवुः । वयस्तासावभावात्थलि नित्यमिट् । उवयिथ । स्थानिवद्भावेन
ञित्तवात्तङ् । ऊये । ऊवे । वयादेशाभावे ॥
2415: वेञः (6-1-40) वेञो न संप्रसारणं स्याल्लिटि । ववौ । ववतुः । ववुः । वविथ
। ववाथ । ववे । वाता । ऊयात् । वासीष्ट । अवासीत् । 1007 व्येञ् संवरणे । व्ययति ॥
2416: न व्यो लिटि (6-1-46) व्येञ आत्वं न स्याल्लिटि । वृद्धिः । परमपि हलादिःशेषं
बाधित्वा यस्य संप्रसारणम् । उभयेषां ग्रहणसामर्थ्यात् । अन्यथा वच्यादीनां
ग्रह्यादीनां चानुवृत्त्यैव सिद्धे किं तेन । विव्याय । विव्यतुः । विव्युः ।
इडत्त्यर्ति—(सू. 2384) इति नित्यमिट् । विव्ययिथ । विव्याय । विव्यच । विव्ये ।
व्याता । वीयात् । व्यासीष्ट । अव्यासीत् । अव्यास्त । 1008 ह्वेञ् स्पर्धायां शब्दे च ॥
2417: अभ्यस्तस्य च (6-1-33) अभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं स्यात् । ततो द्वित्वम्
। जुहाव । जुहुवतुः। जुहुवुः । जुहोथ । जुहविथ । जुहुवे । ह्वाता । हूयात् ।
ह्वासीष्ट ॥
2418: लिपिसिचिह्वश्च (3-1-53) एभ्यश्च्लेरङ् स्यात् ॥
2419: आत्मनेपदेष्वन्यतरस्याम् (3-1-54)
अतो लोपः –(सू. 2372) । अह्वत् । अह्वताम् । अह्वन् । अह्वत्। अह्वास्त ॥ अथ
द्वौ परस्मैपदिनौ ॥ 1009 वद व्यक्तायां वाचि । अच्छ वदति । उवाद । ऊदतुः । उवदिथ ।
वदिता । उद्यात् । वदव्रज—(सू. 2267) इति वृद्धिः । अवादीत् । 1010 टुओश्वि गतिवृद्ध्योः । श्वयति ॥
2420: विभाषा श्वेः (6-1-30) श्वयतेः संप्रसारणं वा स्याल्लिटि यङि च । शुशाव । शुशुवतुः
॥ श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः (वा) ॥ तेन लिट्याभ्यासस्य—(सू. 2408) इति संप्रसारणं न । शिश्वाय । शिश्वियतुः । श्वयिता ।
श्वयेत् । शूयात् । जॄस्तम्भु—(सू. 2291) इत्यङ् वा ॥
2421: श्वयतेरः (7-4-18) श्वयतेरिकारस्य अकारः स्यादङि । पररूपम् । अश्वत् ।
अश्वताम् । अश्वन् । विभाषा धेट्श्व्योः –(सू. 2375) इति चङ् । इयङ् । अशिश्वियत् । ह्म्यन्त—(सू. 2299) इति न वृद्धिः । अश्वयीत् ॥ वृत् । यजादयो वृत्ताः ।
भ्वादिस्तवाकृतिगणः । तेन चुलुम्पतीत्यादिसंग्रहः ॥ इति तिङन्ते भ्वादयः ॥
2422: ऋतेरीयङ् (3-1-29) ऋतिः सौत्रः तस्मादीयङ् स्यात्स्वार्थे । जुगुप्सायामयं
धातुरिति बहवः । कृपायां च इत्येके । सनाद्यन्ता—(सू. 2304) इति धातुत्वम् । ऋतीयते । ऋतीयांचक्रे ।
आर्धधातुकविवक्षयां तु । आयादय आर्धधातुके वा–(सू.2305) इतीयङभावे शेषात्कर्तरि—(सू. 2259) इति परस्मैपदम् । आनर्त । अर्तिष्यति । आर्तीत् ।