॥ अथ अच्सन्धिप्रकरणम् ॥
47: इको यणचि (6-1-77)
इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्यः इति स्थिते । स्थानत आन्तर्यादीकारस्य यकारः । सुध्य् उपास्य इति जाते ॥
48: अनचि च (8-4-47)
अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वम् ॥
49: स्थानिवदादेशोऽनल्विधौ (1-1-56)
आदेशः स्थानिवत्स्यात् न तु स्थान्यलाश्रयविधौ । अनेनेह यकारस्य स्थानिवद्भावेनाच्त्वमाश्रित्य अनचि च 48 इति द्वित्वनिषेधो न शङ्क्योऽनल्विधाविति इति तन्निषेधात् ॥
50: अचः परस्मिन्पूर्वविधौ (1-1-57)
अल्विध्यर्थमिदम् । परनिमित्तोऽजादेशः स्थानिवत्स्यात्स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इति यणः स्थानिद्भावे प्राप्ते ॥
51: न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (1-1-58)
पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । इति स्थानिवद्भावनिषेधः ॥
52: झलां जश् झशि (8-4-53)
स्पष्टम् । इति धकारस्य दकारः ॥
53: अदर्शनं लोपः (1-1-60)
प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् ॥
54: संयोगान्तस्य लोपः (8-2-23)
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् । इति यलोपे प्राप्ते ॥यणः प्रतिषेधो वाच्यः (वा) ॥ यणो मये द्वे वाच्यो (वा) ॥ मय इति पञ्चमी यण इति षष्ठी इति पक्षे यकारस्यापि द्वित्वम् । तदिह धकारयकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि ॥ एकधमेकयम् । द्विधं द्वियम् । द्विधमेकयम् । एकधं द्वियम् । सुद्ध्युपास्यः । मद्ध्वरिः । धात्रंशः । लाकृतिः ।
55: नादिन्याक्रोशे पुत्रस्य (8-4-48)
पुत्रशब्दस्य न द्वे स्त आदिनीशब्दे परे आक्रोशे गम्यमाने । पुत्रादिनी त्वमसि पापे । आक्रोशे किम् । तत्वकथने द्विर्वचनं भवत्येव । पुत्रादिनी सर्पिणी ॥ तत्परे च (वा) ॥ पुत्रादिनी त्वमसि पापे ॥वा हतजग्धयोः (वा) ॥ पुत्रहती । पुत्त्रहती । पुत्रजग्धी । पुत्त्रजग्धी ॥
56: त्रिप्रभृतिषु शाकटायनस्य (8-4-50)
त्र्यादिषु संयुक्तेषु वा द्वित्वम् । इन्न्द्रः । इन्द्रः । राष्ष्ट्रम् । राष्ट्रम् ॥
57: सर्वत्र शाकल्यस्य (8-4-51)
द्वित्वं न । अर्कः । ब्रह्मा ।
58: दीर्घादाचार्याणाम् (8-4-52)
द्वित्वं न । दात्रम् । पात्रम् ।
59: अचो रहाभ्यां द्वे (8-4-46)
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । हर्य्यनुभवः । नह्य्यस्ति ॥
60: हलो यमां यमि लोपः (8-4-64)
हलः परस्य यमो लोपः स्याद्वा यमि । इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् । लोपारम्भफलं तु, आदित्यो देवताऽस्येत्यादित्यं हविरित्यादौ । यमां यमीति यथासङ्ख्यविज्ञानान्नेह । माहात्म्यम् ॥
61: एचोऽयवायावः (6-1-78)
एचः क्रमादय् अव् आय् आव् एते स्युरचि ॥
62: तस्य लोपः (1-3-9)
तस्येतो लोपः स्यात् । इति यवयोर्लोपो न । उच्चारणसामर्थ्यात् । एवं च इत्संज्ञापीह न भवति । हरये । विष्णवे । नायकः । पावकः ।
63: वान्तो यि प्रत्यये (6-1-79)
यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । गोर्विकारो गव्यम् । गोपयसोर्यत् 1538 इति यत् । नावा तार्यं नाव्यम् । नौवयोधर्मं 1643 इत्यादिना यत् ॥गोर्यूतौ छन्दस्युपसङ्ख्यानम् (वा) ॥ ।अध्वपरिमाणे च (वा) 3544 ॥ गव्यूतिः । ऊतियूति 3274 इत्यादिना यूतिशब्दो निपातितः । वान्तः इत्यत्र वकाराद्गोर्यूतावित्यत्र छकाराद्वा पूर्वभागे लोपो व्योर्वली 873ति लोपेन वकारः प्रश्लिष्यते । तेन श्रूयमाणवकारान्त आदेशः स्यात् । वकारो न लुप्यत इति यावत् ॥
64: धातोस्तन्निमित्तस्यैव (6-1-80)
यादौ प्रत्यये परे धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव नान्यस्य । लव्यम् । अवश्यलाव्यम् । तन्निमित्तस्यैवेति किम् । ओयते । औयत ॥
65: क्षय्यजय्यौ शक्यार्थे (6-1-81)
यान्तादेशनिपातनार्थमिदम् । क्षेतु शक्यं क्षय्यम् । जेतु शक्यं जय्यम् । शक्यार्थे किम् । क्षेतुं योग्यं क्षेयं पापम् । जेयं मनः ॥
66: क्रय्यस्तदर्थे (6-1-82)
तस्मै प्रकृत्यर्थायेदं तदर्थम् । क्रेतारः क्रीणीयुरिति बुद्ध्या आपणे प्रसारितं क्रय्यम् । क्रेयमन्यत् । क्रयणार्हमित्यर्थः ॥
67: लोपः शाकल्यस्य (8-3-19)
अवर्णपूर्वयोः पदान्तयोर्यवयोर्वा लोपोऽशि परे ॥ पूर्वत्रासिद्धम् 12 इति लोपशास्त्रस्यासिद्धत्वान्न स्वरसन्धिः । हर एहि । हरयेहि । विष्ण इह । विष्णविह । श्रिया उद्यतः । श्रियायुद्यतः । गुरा उत्कः । गुरावुत्कः ॥ कानि सन्ति कौ स्तः इत्यत्रास्तेरल्लोपस्य स्थानिवत्त्वेन यणावादेशौ प्राप्तौ न पदान्ते 51ति सूत्रेण पदान्तविधौ तन्निषेधान्न स्तः ॥
68: एकः पूर्वपरयोः (6-1-84)
इत्यधिकृत्य ।
69: आद् गुणः (6-1-87)
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्संहितायाम् । उपेन्द्रः । रमेशः । गङ्गोदकम् ॥
70: उरण् रपरः (1-1-51)
ऋ इति त्रिंशतः संज्ञेत्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । तत्रान्तरतम्यात् कृष्णर्द्धिरित्यत्राऽर् । तवल्कार इत्यत्राऽल् । अचो रहाभ्याम् 51 इति पक्षे द्वित्वम् ॥
71: झरो झरि सवर्णे (8-4-65)
हलः परस्य झरो लोपो वा स्यात्सवर्णे झरि । द्वित्वाभावे लोपे सत्येकधम् । असति लोपे द्वित्वलोपयोर्वा द्विधम् । सति द्वित्वे लोपे चासति त्रिधम् । कृष्णर्धिः । कृष्णर्द्धिः । कृष्णर्द्द्धिः । यण इति पञ्चमी मय इति षष्ठीति पक्षे ककारस्य द्वित्वम् । लस्य तु अनचि च 48 इति । तेन तवल्कार इत्यत्र रूपचतुष्टयम् ॥ द्वित्वं लस्यैव कस्यैव नोभयोरूभयोरपि । तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम् ॥
72: वृद्धिरेचि (6-1-88)
आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् ॥
73: एत्येधत्यूठ्सु (6-1-89)
अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । पररूपगुणापवादः । उपैति । उपैधते । प्रष्ठौहः । एजाद्योः किम् । उपेतः । मा भवान्प्रेदिधत् । पुरस्तादपवादन्यायेनेयं वृद्धिः एङि पररूपम् 78 इत्यस्यैव बाधिका न तु ओमाङोश्च 80 इत्यस्य । तेनावैहीति वृद्धिरसाधुरेव ॥ अक्षादूहिन्यामुपसङ्ख्यानम् (वा) ॥ अक्षौहिणी सेना ॥ स्वादीरेरिणोः (वा) ॥ स्वेनेरितुं शीलमस्येति स्वैरी । लिङ्विशिष्टपरिभाषया स्वैरिणी ॥ प्रादूहोढोढ्येषैष्येषु (वा) ॥ प्रौहः । प्रौढः । अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् । व्रश्चे 294ति सूत्रे राजेः पृथग्भ्राजिग्रहणाज्ज्ञापकात् ॥ तेन ऊढग्रहणेन क्तान्तमेव गृह्यते न तु क्तवत्वन्तस्यैकदेशः । प्रोढवान् । प्रौढिः । इष इच्छायां तुदादिः । इष गतौ दिवादिः । इष आभीक्ष्ण्ये क्र्यादिः । एषां घञि ण्यति च एषः एष्यः इति रूपे । तत्र पररूपे प्राप्तेऽनेन वृद्धिः । प्रैषः । प्रैष्यः ॥ यस्तु ईष उञ्छे । यश्च ईष गतिहिंसादर्शनेषु । तयोर्दीर्घोपधत्वात् । ईषः । ईष्यः । तत्राद्गुणे । प्रेषः । प्रेष्यः ॥ऋते च तृतीयासमासे (वा) ॥ सुखेन ऋतः सुखार्तः । तृतीयेति किम् । परमर्तः ॥प्रवत्सतरकम्बलवसनार्णदशानामृणे (वा) ॥ प्रार्णम् । वत्सतरार्णमित्यादि ॥ ऋणस्यापनयनाय यदन्यदृणं क्रियते तदृणार्णम् । दशार्णो देशः । नदी च दशार्णा । ऋणशब्दो दुर्गभूमौ जले च ॥
74: उपसर्गादृति धातौ (6-1-91)
अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । उपार्च्छति । प्रार्च्छति ॥
75: अन्तादिवच्च (6-1-85)
योऽयमेकादेशः पूर्वस्यान्तवत्परस्यादिवत्स्यात् । इति रेफस्य पदान्तत्वे ॥
76: खरवसानयोर्विसर्जनीयः (8-3-15)
खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात्पदान्ते । इति विसर्गे प्राप्ते । अन्तवद्भावेन पदान्तरेफस्य न विसर्गः । उभयथर्क्षु 3630 कर्तरि चर्षिदेवतयो 3167रित्यादिनिर्देशात् । उपसर्गेणैव धातोराक्षेपे सिद्धे धाताविति योगविभागेन पुनर्वृद्धिविधानार्थम् । तेन ऋत्यकः 92 इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति ॥
77: वासुप्यापिशलेः (6-1-92)
अवर्णान्तादुपसर्गादृकारादौ सुब्धातौ परे वृद्धिर्वा स्यात् । आपिशलिग्रहणं पूजार्थम् । प्रार्षभीयति । प्रर्षभीयति । सावर्ण्यात् लृवर्णस्य ग्रहणम् । प्राल्कारीयति । प्रल्कारीयति । तपरत्वाद्दीर्घे न । उपऋकारीयति । उपर्कारीयति ॥
78: एङि पररूपम् (6-1-94)
आदुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यात् । प्रेजते । उपोषति । इह वासुपीत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेन एङादौ सुब्धातौ वा । उपेडकीयति । उपैडकीयति । प्रोघीयति । प्रौघीयति ॥एवे चानियोगे (वा) ॥ नियोगोऽवधारणम् । क्वेव भोक्ष्यसे । अनवक्लृप्तावेवशब्दः । अनियोगे किम् । तवैव ॥
79: अचोऽन्त्यादिटि (1-1-64)
अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात् ॥ शकन्ध्वादिषु पररूपं वाच्यम् (वा) ॥ तच्च टेः ॥ शकन्धुः । कर्कन्धुः । कुलटा सीमन्तः केशवेशे (वा) ॥ सीमान्तोऽन्यः । मनीषा । हलीषा । लाङ्गलीषा । पतञ्जलिः । सारङ्गः पशुपक्षिणोः । सारङ्गोऽन्यः । आकृतिगणोऽयम् ॥ मर्ताण्डः ॥ ओत्वोष्ठयोः समासे वा (वा) ॥ स्थूलोतुः । स्थूलौतुः । बिम्बोष्ठः । बिम्बौष्ठः । समासे किम् । तवौष्ठः ॥
80: ओमाङोश्च (6-1-95)
ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः । शिव एहि । शिवेहि ॥
81: अव्यक्तानुकरणस्यात इतौ (6-1-98)
ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ पररूपमेकादेशः स्यात् । पटत् इति पटिति ॥ एकाचो न (वा) ॥ श्रदिति ॥
82: नाम्रेडितस्यान्त्यस्य तु वा (6-1-99)
आम्रेडितस्य प्रागुक्तं न स्यादन्त्यस्य तु तकारमात्रस्य वा स्यात् ॥डाचि बहुलं द्वे भवत ति बहुलवचनाद्द्वित्वम् (वा) ॥
83: तस्य परमाम्रेडितम् (8-1-2)
द्विरूक्तस्य परं रूपमाम्रेडितसंज्ञं स्यात् । पटत्पटेति ॥
84: झलां जशोऽन्ते (8-2-39)
पदान्तेझलां जशः स्युः । पटत्पटदिति ॥
85: अकः सवर्णे दीर्घः (6-1-101)
अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । अचि किम् । कुमारी शेते । नाज्झलाविति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः । ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः । अकः किम् । हरये ॥ अकोऽकि दीर्घ इत्येव सुवचम् ॥ ऋति सवर्णे ऋ वा (वा) ॥ होतृकारः ॥लृति सवर्णे लृ वा (वा) ॥ होत्लृकारः । पक्षे ऋकारः सावर्ण्यात् । ऋति ऋ वा लृति लृ वा इत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रम् । आद्यस्य मध्ये द्वौ रेफौ तयोरेका मात्रा । अभितोऽज्भक्तेरपरा । द्वितीयस्य तु मध्ये द्वौ लकारौ । शेषं प्राग्वत् । इहोभयत्रापि ऋत्यकः 92 इति पाक्षिकः प्रकृतिभावो वक्ष्यते ॥
86: एङः पदान्तादति (6-1-109)
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव ॥
87: सर्वत्र विभाषा गोः (6-1-122)
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः स्यात्पदान्ते । गो अग्रम् । गोऽग्रम् । एङन्तस्य किम् । चित्रग्वग्रम् । पदान्ते किम् । गोः ॥
88: अवङ् स्फोटायनस्य (6-1-123)
अतीति निवृत्तम् । अचि परे पदान्ते गोरवङ् वा स्यात् । गवाग्रम् । पदान्ते किम् । गवि । व्यवस्थितविभाषया गवाक्षः ॥
89: इन्द्रे च (6-1-124)
गोरवङ् स्यादिन्द्रे । गवेन्द्रः ॥
। इति अच्सन्धिप्रकरणम् ।
॥ अथ प्रकृतिभावप्रकरणम् ॥
90: प्लुतप्रगृह्या अचि नित्यम् (6-1-125)
प्लुताः प्रगृह्याश्च वक्ष्यन्ते तेऽचि वरे नित्यं प्रकृत्या स्युः । एहि कृष्ण 3 अत्र गौश्चरति । हरी एतौ । नित्यम् इति किम् । हरी एतावित्यादावयमेव प्रकृतिभावो यथा स्यात् इकोऽसवर्णे 91 इति ह्रस्वसमुच्चितो माभूत् ॥
91: इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (6-1-127)
पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्युर्ह्रस्वश्च वा । अत्र ह्रस्वविधिसामर्थ्यादेव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारोन कर्तव्यः इति भाष्ये स्थितम् । चक्रि अत्र । चक्र्यत्र । पदान्ताः इति किम् । गौर्यौ ॥ न समासे (वा) ॥ वाप्यश्वः ॥ सिति च (वा) ॥ पार्श्वम् ॥
92: ऋत्यकः (6-1-128)
ऋति परेऽकः प्राग्वत् । ब्रह्म ऋषिः । ब्रह्मर्षिः । पदान्ताः इत्येव । आर्च्छत् । समासेऽप्ययं प्रकृतिभावः । सप्तऋषीणाम् - सप्तर्षीणाम् ॥
93: वाक्यस्य टेः प्लुत उदात्तः (8-2-82)
इत्यधिकृत्य ॥
94: प्रत्यभिवादेऽशूद्रे (8-2-83)
अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टेः प्लुतः स्यात् स चोदात्तः । अभिवादये देवदत्तोऽहम् । भो आयुष्मानेधि देवदत्त3 ॥ स्त्रियां न (वा) ॥ अभिवादये गार्ग्यहम् । भो आयुष्मती भव गार्गि ॥ नाम गोत्रं वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्रैव प्लुत इष्यते । नेह । आयुष्मानेधि ॥ भोराजन्यविशां वेति वाच्यम् (वा) ॥ आयुष्मानेधि भोः3 । आयुष्मानेधीन्द्रवर्म3न् । आयुष्मानेधीन्द्रपालित3 ॥
95: दूराद्धूते च (8-2-84)
दूरात्संबोधने यद्वाक्यं तस्य टेः प्लुतः स्यात् । सक्तून्पिब देवदत्त3 ॥
96: हैहेप्रयोगे हैहयोः (8-2-85)
एतयोः प्रयोगे दूराद्धूते यद्वाक्यं तत्र हैहयोरेव प्लुतः स्यात् । हे3 राम । राम है3 ॥
97: गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् (8-2-86)
दूराद्धूते यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः स्यात् । दे3 वदत्त । देवद3त्त । देवदत्त3 । गुरोः किम् । वकारात्परस्याकारस्य मा भूत् । अनृतः किम् । कृष्ण3 । एकैकग्रहणं पर्यायार्थम् । इह प्राचाम् इति योगो विभज्यते । तेन सर्वः प्लुतो विकल्प्यते ॥
98: अप्लुतवदुपस्थिते (6-1-129)
उपस्थितोऽनार्ष इति शब्दः तस्मिन्परे प्लुतोऽप्लुतवद्भवति । अप्लुतकार्यं यणादिकं करोतीत्यर्थः । सुश्लोकेति । वत्किम् । अप्लुत इत्युक्तेऽप्लुत एव विधीयेत प्लुतश्च निषिध्येत । तथा च प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणंन स्यात् । अग्नी3 इति ॥
99: ई3 चाऽक्रवर्मणस्य (6-1-130)
ई3 प्लुतोऽचि परेऽप्लुतवद्वा स्यात् । चिनुही3 इति । चिनुहीति । चिनुही3 इदम् । चिनु हीदम् । उभयत्रविभाषेयम् ॥
100: ईदूदेद्द्विवचनं प्रगृह्यम् (1-1-11)
ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू । पचेते इमौ । मणीवोष्ट्रस्येति तु इवार्थे वशब्दो वाशब्दो वा बोध्यः ॥
101: अदसोमात् (1-1-12)
अस्मात्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात् किम् । अमुकेऽत्र । असति माद्ग्रहणे एकारोऽप्यनुवर्तेत ॥
102: शे (1-1-13)
अयं प्रगृह्यः स्यात् । अस्मे इन्द्राबृहस्पती ॥
103: निपात एकाजनाङ् (1-1-14)
एकोऽज्निपात आङ्वर्जः प्रगृह्यः स्यात् । इ विस्मये । इ इन्द्रः । उ वितर्के । उ उमेशः । अनाङित्युक्तेरङिदाकारः प्रगृह्य एव । आ एवं नु मन्यसे । आ एवं किल तत् । ङित्तु न प्रगृह्यः । ईषदुष्णम् ओष्णम् ॥ ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥
104: ओत् (1-1-15)
ओदन्तो निपातः प्रगृह्यः स्यात् । अहो ईशाः ॥
105: संबुद्धौ शाकल्यस्येतावनार्षे (1-1-16)
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति । विष्ण इति । विष्णविति । आनर्ष इति किम् । ब्रह्मबन्धवित्यब्रवीत् ॥
106: उञः (1-1-17)
उञ इतौ वा प्रागुक्तम् । उ इति । विति ॥
107: ऊँ (1-1-18)
उञ इतौ दीर्घोऽनुनासिकः प्रगृह्यश्च ऊँ इत्ययमादेशो वा स्यात् । ऊँ इति ॥
108: मय उञो वो वा (8-3-33)
मयः परस्य उञो वो वा स्यादचि । किमु उक्तम् । किम्वुक्तम् । वत्वस्यासिद्धत्वान्नानुस्वारः ॥
109: ईदूतौ च सप्तम्यर्थे (1-1-19)
सप्तम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात् । सोमो गौरी अधिश्रितः । मामकी तनू इति । सुपां सुलुक् 3561 इति सप्तम्या लुक् । अर्थग्रहणं किम् । वृत्तावर्थान्तरोपसङ्क्रान्ते माभूत् । वाप्यामश्वो वाप्यश्वः ॥
110: अणोऽप्रगृह्यस्यानुनासिकः (8-4-57)
अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । दधिं । दधि । अप्रगृह्यस्य किम् । अग्नी ॥
। इति अच्सन्धिप्रकरणम् ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें