वैयाकरणसिद्धान्तकौमुदी (तत्पुरुषसमासप्रकरणम्‌)

 ॥ अथ तत्पुरुषसमासप्रकरणम्‌ ॥

684: तत्पुरुषः (2-1-22) अधिकारोऽयम् । प्राग्बहुव्रीहेः ॥

685: द्विगुश्च (2-1-23) द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम् । संख्यापूर्वो द्विगुश्चेति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम् । पञ्चराजम् ॥

686: द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (2-1-24) द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीत इत्यादि ॥ गम्यादीनामुपसंख्यानम् (वा 1247) ॥ ग्रामं गमी ग्रामगमी । अन्नं बुभुक्षुः अन्नबुभुक्षुः ॥

687: स्वयं क्तेन (2-1-25) द्वितीया’– (सू.686) इति न संबद्ध्यते अयोग्यत्वात् । स्वयंकृतस्यापत्यं स्वायंकृतिः ॥

688: खट्वा क्षेपे (2-1-26) खट्वाप्रकृतिकं द्वितीयान्तं क्तान्तप्रकृतिकेन सुबन्तेन समस्यते निन्दायाम् । खट्वारूढो जाल्मः । नित्यसमासोऽयम् । नहि वाक्येन निन्दा गम्यते ॥

689: सामि (2-1-27) सामिकृतम् ॥

690: कालाः (2-1-28) क्तेनेत्येव । अनत्यन्तसंयोगार्थं वचनम् । मासप्रमितः प्रतिपच्चन्द्रः । मासं परिच्छेत्तुमारब्धवानित्यर्थः ॥

691: अत्यन्तसंयोगे च (2-1-29) काला इत्येव । अक्तान्तार्थं वचनम् । मुहूर्तं सुखं मुहूर्तसुखम् ॥

692: तृतीया तत्कृतार्थेन गुणवचनेन (2-1-30) तत्कृतेति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह प्राग्वत् । शङ्कुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थो धान्यार्थः । तत्कृतेति किम् । अक्ष्णा काणः ॥

693: पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (2-1-31) तृतीयान्तमेतैः प्राग्वत् । मासपूर्वः । मातृसदृशः । पितृसमः । ऊनार्थे । माषोनं कार्षापणम् । माषविकलम् । वाक्कलहः । आचारनिपुणः । गुडमिश्रः । आचारश्लक्ष्णः । मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम् । ‘मिश्रं चानुपसर्गमसन्धौ’(सू. 3888) इत्यत्रानुपसर्गग्रहणात् । गुडसंमिश्रा धानाः ॥ अवरस्योपसंख्यानम् (वा 1256) ॥ मासेनावरो मासावरः ॥

694: कर्तृकरणे कृता बहुलम् (2-1-32) कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्रागवत् । हरिणा त्रातो हरित्रातः। नखैर्भिन्नो नखभिन्नः ॥ कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् (प 29) ॥ नखनिर्भिन्नः । कर्तृकरणे इति किम् । भिक्षाभिरुषितः । हेतावेषा तृतीया । बहुलग्रहणं सर्वोपाधिव्यभिचारार्थम् । तेन दात्रेण लूनवानित्यादौ न। कृता किम् । काष्ठैः पचतितराम् ॥

695: कृत्यैरधिकार्थवचने (2-1-33) स्तुतिनिन्दाफलकमर्थवादवचनमधिकार्थवचनं तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । वातच्छेद्यं तृणम् । काकपेया नदी ॥

696: अन्नेन व्यञ्जनम् (2-1-34) संस्कारकद्रव्यवाचकं तृतीयान्तमन्नेन प्राग्वत् । दध्ना ओदनो दध्योदनः । इहान्तर्भूतोपसेकक्रियाद्वारा सामर्थ्यम् ॥

697: भक्ष्येण मिश्रीकरणम् (2-1-35) गुडेन धानाः गुडधानाः । मिश्रणक्रियाद्वारा सामर्थ्यम् ॥

698: चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः (2-1-36) चतुर्थ्यन्तार्थाय यत्तद्वाचिनाऽर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् । तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते । बलिरक्षितग्रहणाज्ज्ञापकात् । यूपाय दारु यूपदारु । नेह । रन्धनाय स्थाली । अश्वघासादयस्तु षष्ठी समासाः ॥ अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् (वा 1273-1274) ॥ द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् ॥

699: पञ्चमी भयेन (2-1-37) चोराद्भयं चोरभयम् ॥ भयभीतभीतिभीभिरिति वाच्यम् (वा1275) ॥ वृकभीतः । वृकभीतिः । वृकभीः ॥

700: अपेतापोढमुक्तपतितापत्रस्तैरल्पशः (2-1-38) एतैः सहाल्पं पञ्चम्यन्तं समस्यते स तत्पुरुषः । सुखापेतः । कल्पनापोढः । चक्रमुक्तः । स्वर्गपतितः । तरङ्गापत्रस्तः । अल्पशः किम् । प्रसादात्पतितः ॥

701: स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (2-1-39) स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः । ‘पञ्चम्याः स्तोकादिभ्यः’(सू. 159) इत्यलुक् ॥

702: षष्ठी (2-2-8) राज्ञः पुरुषो राजपुरुषः ॥

703: याजकादिभिश्च (2-2-9) एभिः षष्ठ्यन्तं समस्यते । ‘तृजकाभ्यां कर्तरि’(सू. 709) इत्यस्य प्रतिप्रसवोऽयम् । ब्राह्मणयाजकः । देवपूजकः ॥ गुणात्तरणे तरलोपश्चेति वक्तव्यम् (वा 3841) ॥ तरबन्तं यद्गुणवाचि तेन सह समासस्तरप्प्रत्ययलोपश्च । ‘न निर्धारणे’(सू. 704) इति ‘पूरणगुण’(सू. 705) इति च निषेधस्य प्रतिप्रसवोऽयम् । सर्वेषां श्वेततरः सर्वश्वेतः । सर्वेषां महत्तरः सर्वमहान् ॥ कृद्योगा च षष्ठी समस्यत इति वाच्यम् (वा 1317) ॥ इध्मस्य व्रश्चनः इध्मव्रश्चनः ॥

704: न निर्धारणे (2-2-10) निर्धारणे या षष्ठी सा न समस्यते । नृणां द्विजः श्रेष्ठः ॥ प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम् (वा 1320) ॥ सर्पिषो ज्ञानम् ॥

705: पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (2-2-11) पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते । पूरणे । सतां षष्ठः । गुणे । काकस्य कार्ष्ण्यम् । ब्राह्मणस्य शुक्लाः । यदा प्रकरणादिना दन्ता इति विशेष्यं ज्ञातं तदेवमुदाहरणम् । अनित्योऽयं गुणेन निषेधः । ‘तदशिष्यं संज्ञाप्रमाणत्वात्’(सू. 1295) इत्यादिनिर्देशात् । तेनार्थगौरवम् बुद्धिमान्द्यमित्यादि सिद्धम् । सुहितार्थास्तृप्त्यर्थाः । फलानां सुहितः । तृतीयासमासस्तु स्यादेव । स्वरे विशेषः । सत् । द्विजस्य कुर्वन्कुर्वाणो वा । किंकरः इत्यर्थः । अव्ययम् । ब्राह्मणस्य कृत्वा । पूर्वोत्तरसाहचर्यात्कृदव्ययमेव गृह्यते । तेन तदुपरीत्यादि सिद्धमिति रक्षितः । तव्ये । ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव । स्वकर्तव्यम् स्वरे भेदः । समानाधिकरणेन । तक्षकस्य सर्पस्य । विशेषणसमासस्त्विह बहुलग्रहणान्न । गोर्धेनोरित्यादिषु ‘पोटायुवति’(सू. 744) इत्यादीनां विभक्त्यन्तरे चरितार्थानां परत्वाद्बाधकः षष्ठीसमासः प्राप्तः। सोऽप्यनेन वार्यते ॥

706: क्तेन च पूजायाम् (2-2-12) मतिबुद्धि’–(सू. 3089) इति सूत्रेण विहितो यः क्तस्तदन्तेन षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा । राजपूजित इत्यादौ तु भूते क्तान्तेन सह तृतीयासमासः ॥

707: अधिकरणवाचिना च (2-2-13) क्तेन षष्ठी न समस्यते । इदमेषामासितं गतं भुक्तं वा ॥

708: कर्मणि च (2-2-14) उभयप्राप्तौ कर्मणि’(सू. 624) इति या षष्ठी सा न समस्यते । आश्चर्यो गवां दोहोऽगोपेन ॥

709: तृजकाभ्यां कर्तरि (2-2-15) कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः । अपां स्रष्टा । वज्रस्य भर्ता । ओदनस्य पाचकः । कर्तरि किम् । इक्षूणां भक्षणमिक्षुभक्षिका । पत्यर्थभर्तृशब्दस्य तु याजकत्वादिसमासः । भूभर्ता । कथं तर्हि घटानां निर्मातुस्त्रिभुवनविधातुश्च कलह इति । शेषषष्ठ्या समास इति कैयटः ॥

710: कर्तरि च (2-2-16) कर्तरि षष्ठ्या अकेन न समासः । भवतः शायिका । नेह तृजनुवर्तते । तद्योगे कर्तुरभिहितत्वेन कर्तृषष्ठ्या अभावात् ॥

711: नित्यं क्रीडाजीविकयोः (2-2-17) एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य संज्ञा । ‘संज्ञायाम्’(सू. 3286) इति भावे ण्वुल् । जीविकायां । दन्तलेखकः । तत्र क्रीडायां विकल्पे जीविकायां ‘तृजकाभ्यां कर्तरि’(सू. 709) इति निषेधे प्राप्ते वचनम् ॥

712: पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (2-2-1) अवयविना सह पूर्वादयः समस्यन्ते, एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्वं कायस्य पूर्वकायः । अपरकायः । एकदेशिना किम् । पूर्वं नाभेः कायस्य । एकाधिकरणे किम् । पूर्वश्छात्राणाम् । सर्वोऽप्येकदेशोऽह्ना समस्यते । ‘संख्याविसाय’–(सू. 238) इति ज्ञापकात् । मध्याह्नः । सायाह्नः । केचित्तु सर्वोप्येकदेशः कालेन समस्यते न त्वह्नैव । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन मध्यरात्रः । उपारताः पश्चिमरात्रगोचरा इत्यादि सिद्धमित्याहुः ॥

713: अर्धं नपुंसकम् (2-2-2) समांशवाच्यर्धशब्दो नित्यं क्लीबे स प्राग्वत् ॥ एकविभक्तावषष्ठ्यन्तवचनम् (वा 673) ॥ एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन ‘पञ्चखट्वी’ इत्यादि सिद्ध्यति । अर्धं पिपल्या अर्धपिप्पली । क्लीबे किम् । ग्राम्यार्धः । द्रव्यैक्य एव । अर्धं पिप्पलीनाम् ॥

714: द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् (2-2-3) एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिक्षाया द्वितीयभिक्षा । एकदेशिना किम् । द्वितीयं भिक्षाया भिक्षुकस्य । अन्यतरस्यांग्रहणसामर्थ्यात् ‘पूरणगुण’–(सू. 705) इति निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ॥

715: प्राप्तापन्ने च द्वितीयया (2-2-4) पक्षे द्वितीयाश्रिता’–(सू. 686) इति समासः । प्राप्तो जीविकां प्राप्तजीविकः । जीविकाप्राप्तः । आपन्नजीविकः । जीविकापन्नः । इह सूत्रे द्वितीयया अ इति छित्वा अकारोऽपि विधीयते । तेन जीविकां प्राप्ता स्त्री प्राप्तजीविका । आपन्न जीविका ॥

716: कालाः परिमाणिना (2-2-5) परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य मासजातः । द्व्यहजातः । द्वयोरह्नोः समाहारो द्व्यहः । द्व्यहो जातस्य यस्य सः इति विग्रहः ॥ उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम् (वा 1288) ॥ द्वे अहनी जातस्य यस्य स द्व्यह्नजातः । ‘अह्नोऽह्न’- (सू. 790) इति वक्ष्यमाणोऽह्नादेशः । पूर्वत्र तु न ‘सङ्ख्यादेः समाहारे’(सू. 793) इति निषेधः ॥

717: सप्तमी शौण्डैः (2-1-40) सप्तम्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौण्डः अक्षशौण्डः । अधिशब्दोऽत्र पठ्यते । ‘अध्युत्तरपदात्’(सू. 2079) इति खः । ईश्वराधीनः ॥

718: सिद्धशुष्कपक्वबन्धैश्च (2-1-41) एतैः सप्तम्यन्तं प्राग्वत् । सांकाश्यसिद्धः । आतपशुष्कः । स्थालीपक्वः । चक्रबन्धः ॥

719: ध्वाङ्क्षेण क्षेपे (2-1-42) ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् । तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः । तीर्थकाकः ॥

720: कृत्यैर्ऋणे (2-1-43) सप्तम्यन्तं कृत्प्रत्ययान्तैः सह प्राग्वदावश्यके । मासेदेयं ऋणम् । ऋणग्रहणं नियोगोपलक्षणार्थम् । पूर्वाह्णेगेयं साम ॥

721: संज्ञायाम् (2-1-44) सप्तम्यन्तं सुपा प्राग्वत् संज्ञायाम् । वाक्येन संज्ञानवगमान्नित्यसमासोऽयम् । अरण्येतिलकाः । वनेकसेरुकाः । ‘हलदन्तात्सप्तम्या’(सू. 966) इत्यलुक् ॥

722: क्तेनाहोरात्रावयवाः (2-1-45) अह्नो रात्रेश्चावयवाः सप्तम्यन्ताः क्तान्तेन सह प्राग्वत् । पूर्वाह्णकृतम् । अपररात्रकृतम् । अवयवग्रहणं किम् । अह्नि दृष्टम् ॥

723: तत्र (2-1-46) तत्रेत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत् । तत्र भुक्तम् ॥

724: क्षेपे (2-1-47) सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायाम् । अवतप्तेनकुलस्थितं त एतत् ॥

725: पात्रेसमितादयश्च (2-1-48) एते निपात्यन्ते क्षेपे । पात्रेसमिताः । भोजनसमये एव संगताः नतु कार्ये । गेहेशूरः । गेहेनर्दी । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषां समासान्तरे घटकतया प्रवेशो न । परमाः पात्रेसमिताः ॥

726: पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (2-1-49) विशेषणं विशेष्येण’(सू. 736) इति सिद्धे पूर्वनिपातनियमार्थं सूत्रम् । एकशब्दस्य ‘दिक्संख्ये संज्ञायाम्’(सू. 727) इति नियमबाधनार्थं च । पूर्वं स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकनाथः । सर्वयाज्ञिकाः । जरन्नैयायिकाः । पुराणमीमांसकाः । नवपाठकाः । केवलवैयाकरणाः ॥

727: दिक्संख्ये संज्ञायाम् (2-1-50) समानाधिकरणेनेत्यापादपरिसमाप्तेरधिकारः । संज्ञायामेवेति नियमार्थं सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । नेह । उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ॥

728: तद्धितार्थोत्तरपदसमाहारे च (2-1-51) तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वद्वा । पूर्वस्यां शालायां भवः पौर्वशालः । समासे कृते ‘दिक्पूर्वपदादसंज्ञायां ञः’(सू. 1328) इति ञः ॥ सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः (वा 1376) ॥ आपरशालः । पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तेन शाला शब्दे आकारः उदात्तः । पूर्वशालाप्रियः । दिक्षु समाहारो नास्त्यनभिधानात् । संख्यायास्तद्धितार्थे । षण्णां मातॄणामपत्यं षाण्मातुरः । पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते ॥ द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् (वा 1287) ॥

729: गोरतद्धितलुकि (5-4-92) गोन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तद्धितलुकि । पञ्चगवधनः ॥

730: संख्यापूर्वो द्विगुः (2-1-52) तद्धितार्थ’–(सू. 728) इत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगोः स्यात् ॥

731: द्विगुरेकवचनम् (2-4-1) द्विग्वर्थः समाहार एकवत्स्यात् । ‘स नपुंसकम्’(सू. 821) इति नपुंसकत्वम् । पञ्चानां गवां समाहारः पञ्चगवम् ॥

732: कुत्सितानि कुत्सनैः (2-1-53) कुत्स्यमानानि कुत्सनैः सह प्राग्वत् । वैयाकरणखसूचिः । मीमांसकदुर्दुरूढ॥

733: पापाणके कुत्सितैः (2-1-54) पूर्वसूत्रापवादः । पापनापितः । आणककुलालः ॥

734: उपमानानि सामान्यवचनैः (2-1-55) घन इव श्यामो घनयामः । इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते । पूर्वनिपातनियमार्थं सूत्रम् ॥

735: उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (2-1-56) उपमेयं व्याघ्रादिभिः सह प्राग्वत्साधारणधर्मस्याप्रयोगे सति । विशेष्यस्य पूर्वनिपातार्थं सूत्रम् । पुरुषव्याघ्रः । नृसोमः । व्याघ्रादिराकृतिगणः । सामान्यप्रयेगे किम् । पुरुषो व्याघ्र इव शूरः ॥

736: विशेषणं विशेष्येण बहुलम् (2-1-57) भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात् क्वचिन्नित्यम् । कृष्णसर्पः । क्वचिन्न । रामो जामदग्न्यः ॥

737: पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च (2-1-58) पूर्वनिपातनियमार्थमिदम् । पूर्ववैयाकरणः । अपराध्यापकः ॥ अपरस्यार्धे पश्चभावो वक्तव्यः (वा 3253) ॥ अपरश्चासावर्धश्च पश्चार्धः । कथमेकवीर इति । ‘पूर्वकालैक’–(सू. 726) इति बाधित्वा परत्वादनेन समासे वीरैक इति हि स्यात् । बहुलग्रहणाद्भविष्यति ॥

738: श्रेण्यादयः कृतादिभिः (2-1-59) श्रेण्यादिषु च्व्यर्थवचनं कर्तव्यम् (वा 1296) ॥ अश्रेणयः श्रेणयः कृताः श्रेणीकृताः ॥

739: क्तेन नञ्विशिष्टेनानञ् (2-1-60) नञ्विशिष्टेन क्तान्तेनानञ् क्तान्तं समस्यते । कृतं च तदकृतं च कृताकृतम्। शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (वा 1310) ॥ शाकप्रियः पार्थिवः शकपार्थिवः। देवब्राह्मणः ॥

740: सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (2-1-61) सद्वैद्यः । वक्ष्यमाणेन महत आकारः । महावैयाकरणः । पूज्यमानैः किम् । उत्कृष्टो गौः । पङ्कादुद्धृत इत्यर्थः ॥

741: वृन्दारकनागकुञ्जरैः पूज्यमानम् (2-1-62) गोवृन्दारकः ॥ व्याघ्रादेराकृतिगणत्वादेव सिद्धे सामान्यप्रयोगार्थं वचनम् ॥

742: कतरकतमौ जातिपरिप्रश्ने (2-1-63) कतरकठः । कतमकलापः । गोत्रं च चरणैः सहेति जातित्वम् ॥

743: किं क्षेपे (2-1-64) कुत्सितो राजा किंराजा । यो न रक्षति ॥

744: पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः (2-1-65)

745: तत्पुरुषः समानाधिकरणः कर्मधारयः (1-2-42)

746: पुंवत्कर्मधारयजातीयदेशीयेषु (6-3-42) कर्मधारये जातीयदेशीययोश्च परतो भाषितपुंस्कात्पर ऊङभावो यस्मिंस्तथाभूतं पूर्वं पुंवत् । पूरणीप्रियादिष्वप्राप्तः पुंवद्भावोऽनेन विधीयते । महानवमी । कृष्णचतुर्दशी । महाप्रिया । तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसूयते । पाचकस्त्री । दत्तभार्या । पञ्चमभार्या। स्त्रौघ्नभार्या । सुकेशभार्या । ब्राह्मणभार्या । एवं । पाचकजातीया । पाचकदेशीयेत्यादि । इभपोटा । पोटा स्त्री पुंसलक्षणा । इभयुवतिः । अग्निस्तोकः । उदश्चित्कतिपयम् । गृष्टिः सकृत्प्रसूतागोगृष्टिः । धेनुर्नवप्रसूतिकागोधेनुः । वशा वन्ध्यागोवशा । वेहत् गर्भघातिनी । गोवेहत् । बष्कयणी तरुणवत्सागोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः ॥

747: प्रशंसावचनैश्च (2-1-66) एतैः सह जातिः प्राग्वत् । गोमतल्लिका । गोमचर्चिका । गोप्रकाण्डम् । गवोद्धः। गोतल्लजः । प्रशस्ता गौरित्यर्थः । मतल्लिकादयो नियतलिङ्गाः न तु विशेष्यनिध्नाः । जातिः किम् । कुमारी मतल्लिका ॥

748: युवा खलतिपलितवलिनजरतीभिः (2-1-67) पूर्वनिपातनियमार्थं सूत्रम् । लिङ्गविशिष्टपरिभाषया युवतिशब्दोऽपि समस्यते । युवा खलतिः युवखलतिः । युवतिः खलती युवखलती । युवजरती । युवत्यामेव जरतीधर्मोपलम्भेन तद्रूपारोपात्समानाधिकरण्यम् ॥

749: कृत्यतुल्याख्या अजात्या (2-1-68) भोज्योष्णम् । तुल्यश्वेतः । सदृशश्वेतः । अजात्या किम् । भोज्य ओदनः। प्रतिषेधसामर्थ्याद्विशेषणसमासोऽपि न ॥

750: वर्णो वर्णेन (2-1-69) समानाधिकरणेन सह प्राग्वत् । कृष्णसारङ्गः ॥

751: कडाराः कर्मधारये (2-2-38) कडारादयः शब्दाः कर्मधारये वा पूर्वं प्रयोज्याः । कडारजैमिनिः । जैमिनिकडारः ॥

752: कुमारः श्रमणादिभिः (2-1-70) कुमारी श्रमणा कुमारश्रमणा । इह गणे श्रमणा प्रव्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम् ॥

753: चतुष्पादो गर्भिण्या (2-1-71) चतुष्पाज्जातिवाचिनो गर्भिणी शब्देन सह प्राग्वत् । गोगर्भिणी ॥ चतुष्पाज्जातिरिति वक्तव्यम्‌ (वा 1311) ॥ नेह । स्वस्तिमती गर्भिणी ।

754: मयूरव्यंसकादयश्च (2-1-72) एते निपात्यन्ते । मयूरो व्यंसको । मयूरव्यंसकः । व्यंसको धूर्तः । उदक्चावाक् च उच्चावचम् । निश्चितं च प्रचितं च निश्चप्रचम् । नास्ति किंचन यस्य सः अकिंचनः । नास्ति कुतो भयं यस्य सोऽकुतोभयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मात्रम् । आख्यातमाख्यातेन क्रियासातत्ये (ग 20) । अश्नीत पिबतेत्येवं सततं यत्राभिधीयते सा अश्नीतपिबता । पचतभृज्जता । खादतमोदता । एहीडादयोऽन्यपदार्थे (ग 18) ॥ एहीड इति यस्मिन्कर्मणि तदेहीडम् । एहिपचम् । उद्धर कोष्ठादुत्सृज देहीति यस्यां क्रियायां सा उद्धरोत्सृजा । उद्धमविधमा । असातत्यार्थमिह पाठः ॥ जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति (ग 29) ॥ जहीत्येतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्ये समासेन चेत्कर्ताभिधीयत इत्यर्थः ॥ जहिजोडः । जहिस्तम्बः ॥ नास्ति कुतो भयं सोऽकुतोभयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मात्रम् ॥

755: ईषदकृता (2-2-7) ईषत्पिङ्गलः ॥ ईषद्गुणवचनेनेति वाच्यम् (वा1316) ॥ ईषद्रक्तम् ॥

756: नञ् (2-2-6) नञ् सुपा सह समस्यते ॥

757: नलोपो नञः (6-3-73) नञो नस्य लोपः स्यादुत्तरपदे । न ब्राह्मणःअब्राह्मणः ॥

758: तस्मान्नुडचि (6-3-74) लुप्तनकारन्नञ उत्तरपदस्याजादेर्नुडागमः स्यात् । अनश्वः । अर्थाभावे अव्ययीभावेन सहायं विकल्पते । रक्षोहागमलघ्वसंदेहाः प्रयोजनम् इतिअद्रुतायामसंहितम् (वा 1167) इति च भाष्यवार्तिकप्रयोगात् ॥ तेनानुपलब्धिरविवादोऽविघ्नमित्यादि सिद्धम् ॥ नञो नलोपस्तिङि क्षेपे (वा 3984) ॥ अपचसि त्वं जाल्म ॥ नैकधेत्यादौ तु न शब्देन सह ‘सुपा’(सू. 649) इति समासः ॥

759: नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या (6-3-75) पाद् शत्रन्तः । वेदाः इत्यसुन्नन्तः । न सत्या असत्याः । न असत्या नासत्याः । न मुञ्चति इति नमुचिः । न कुलमस्य नकुलम् । न खमस्य नखम् । नस्त्रीपुमान् नपुंसकम् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न क्षरतीति नक्षत्रम् । क्षरतेः क्षीयतेर्वा क्षत्रमिति निपात्यते । न क्रामतीति नक्रः । क्रमेर्डः । न अकस्मिन्निति नाकः ॥

760: नगोऽप्राणिष्वन्यतरस्याम् (6-3-77) नग इत्यत्र नञ्प्रकृत्या वा । नगाः अगाः पर्वताः । अप्राणिषु इति किम् । अगो वृषलः शीतेन । ‘नित्यं क्रीडा’(सू. 711) इत्यतो नित्यमित्यनुवर्तमाने ॥

761: कुगतिप्रादयः (2-2-18) एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । ‘गतिश्च’(सू. 23) इत्यनुवर्तमाने ॥

762: ऊर्यादिच्विडाचश्च (1-4-61) एते क्रियायोगे गतिसंज्ञा स्युः । ऊरीकृत्य । शुक्लीकृत्य । पटपटाकृत्य ॥ । कारिकाशब्दस्योपसंख्यानम् (वा 1132) ॥ कारिका क्रिया कारिकाकृत्य ॥

763: अनुकरणं चानितिपरम् (1-4-62) खाट्कृत्य । अनितिपरं किम् । खाडिति कृत्वा निरष्ठीवत् ॥

764: आदरानादरयोः सदसती (1-4-63) सत्कृत्य । असत्कृत्य ॥

765: भूषणेऽलम् (1-4-64) अलंकृत्य । भूषणे किम् । अलं कृत्वौदनं गतः । पर्याप्तमित्यर्थः । ‘अनुकरणम्’–(सू. 763) इत्यादित्रिसूत्री स्वभावात्कृञ्विषया ॥

766: अन्तरपरिग्रहे (1-4-65) अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम् । अन्तर्हत्वा गतः । हतं परिगृह्य गत इत्यर्थः ॥

767: कणेमनसी श्रद्धाप्रतीघाते (1-4-66) कणेहत्य पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातऽभिलाषातिशये वर्तते । मनः शब्दोऽप्यत्रैव ॥

768: पुरोऽव्ययम् (1-4-67) पुरस्कृत्य ॥

769: अस्तं च (1-4-68) अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् ॥ अस्तंगत्य ॥

770: अच्छ गत्यर्थवदेषु (1-4-69) अव्ययमित्येव । अच्छगत्य । अच्छोद्य । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । अव्ययं किम् । जलमच्छं गच्छति ॥

771: अदोऽनुपदेशे (1-4-70) अदःकृत्य अदःकृतम् । परं प्रत्युपदेशे प्रत्युदाहरणम् । अदः कृत्वा अदः कुरु ॥

772: तिरोऽन्तर्धौ (1-4-71) तिरोभूय ॥

773: विभाषा कृञि (1-4-72) तिरस्कृत्य । तिरकृत्य । तिरः कृत्वा ॥

774: उपाजेऽन्वाजे (1-4-73) एतौ कृञि वा गतिसंज्ञौ स्तः । उपाजेकृत्य । उपाजेकृत्वा । अन्वाजेकृत्य । अन्वाजेकृत्वा । दुर्बलस्य बलमाधायेत्यर्थः ॥

775: साक्षात्प्रभृतीनि च (1-4-74) कृञि वा गतिसंज्ञानि स्युः ॥ च्व्यर्थ इति वाच्यम् (वा 1142) ॥ साक्षात्कृत्य। साक्षात्कृत्वा । लवणंकृत्य । लवणं कृत्वा । मान्तत्वं निपातनात् ॥

776: अनत्याधान उरसिमनसी (1-4-75) उरसिकृत्य । उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य । मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषणं तत्र न । उरसि कृत्वा पाणिं शेते ॥

777: मध्ये पदे निवचने च (1-4-76) एते कृञि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । निवचनेकृत्य । निवचने कृत्वा । वाचं नियम्येत्यर्थः ॥

778: नित्यं हस्ते पाणावुपयमने (1-4-77) कृञि । उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये । हस्तेकृत्य । पाणौकृत्य ॥

779: प्राध्वं बन्धने (1-4-78) प्राध्वमित्यव्ययम् । प्राध्वंकृत्य । बन्धनेनानुकूल्यं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे । प्राध्वं कृत्वा ॥

780: जीविकोपनिषदावौपम्ये (1-4-79) जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य। औपम्ये किम् । जीविकां कृत्वा । प्रादिग्रहणमगत्यर्थम् । सुपुरुषः । अत्र वार्तिकानि ॥ प्रादयो गताद्यर्थे प्रथमया (वा 1335) ॥ प्रगत आचार्यः प्राचार्यः ॥ अत्यादयः क्रन्ताद्यर्थे द्वितीयया (वा 1336) ॥ अतिक्रान्तो मालामतिमालः ॥ अवादयः क्रुष्टाद्यर्थे तृतीयया (वा 1337) ॥ अवक्रुष्टः कोकिलया अवकोकिलः ॥ पर्यादयो ग्लानाद्यर्थे चतुर्थ्या (वा 1338) ॥ परिग्लानोऽध्ययनाय पर्यध्ययनः ॥ निरादयः क्रान्ताद्यर्थे पञ्चम्या (वा 1339) ॥ निष्क्रान्तः कौशाम्ब्या निष्कशाम्बिः ॥ कर्मप्रवचनीयानां प्रतिषेधः (वा 1339) ॥ वृक्षं प्रति ॥

781: तत्रोपपदं सप्तमीस्थम् (3-1-92) सप्तम्यन्ते पदे ‘कर्मणि’–(सू. 2913) इत्यादौ वाच्यत्वेन स्थितं कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्तस्मिंश्च सत्येव वक्ष्यमाणः प्रत्ययः ॥

782: उपपदमतिङ् (2-2-19) उपपदं सुबन्तं समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यम् । अतिङ् किम् । मा भवान् भूत् । ‘माङि लुङ्’(सू. 2219) इति सप्तमीनिर्देशान्माङुपपदम् । अतिङ्ग्रहणं ज्ञापयति सुपेत्येन्नेहानुवर्तत इति । पूर्वसूत्रेऽपि गतिग्रहणं पृथक्कृत्यातिङ्ग्रहणं तत्रापकृष्यते । सुपेति च निवृत्तम् । तथा च गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः (प 76) इति सिद्धम् ॥ व्याघ्री । अश्वक्रीती । कच्छपी ॥

783: अमैवाव्ययेन (2-2-20) अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते । स्वादुंकारम् । नेह ॥ ‘कालसमयवेलासु तुमुन्’(सू. 3179) ॥ कालः समयो वेला वा भोक्तुम् । अमैवेति किम् । अग्रे भोजम् । अग्रे भुक्त्वा । ‘विभाषाऽग्रेप्रथमपूर्वेषु’ (सू. 3345) इति क्त्वाणमुलौ । अमा चान्येन च तुल्यविधानमेतत् ॥

784: तृतीयाप्रभृतीन्यन्यतरस्याम् (2-2-21) उपदंशस्तृतीयायाम्’(सू. 3368) इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुङ्क्ते । मूलकोपदंशम् ॥

785: क्त्वा च (2-2-22) तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चैः कृत्य । उच्चैः कृत्वा । ‘अव्ययेऽयथाभिप्रेत’–(सू. 3381) इति क्त्वा । तृतीयाप्रभृतीनीति किम् । अलं कृत्वा । खलु कृत्वा ॥

786: तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः (5-4-86) संख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलं दारु । निर्गतमङ्गुलिभ्यो निरङ्गुलम् ॥

787: अहस्सर्वैकदेशसंख्यातपुराणाच्च रात्रेः (5-4-87) एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः ॥ अहर्ग्रहणं द्वन्द्वार्थम् (वा 3353 ) ॥ अहश्च रात्रिश्चाहोरात्रः । सर्वा रात्रिः सर्वरात्रः । पूर्वं रात्रेः पूर्वरात्रः । संख्यातरात्रः । पुण्यरात्रः । द्वयोः रात्र्योः समाहारो द्विरात्रम् । अतिक्रान्तो रात्रिमतिरात्रः ॥

788: राजाहस्सखिभ्यष्टच् (5-4-91) एतदन्तात्तत्पुरुषाट्टच् स्यात् । परमराजः । अतिराजी । कृष्णसखः ॥

789: अह्नष्टखोरेव (6-4-145) टिलोपः स्यान्नान्यत्र । उत्तमाहः । द्वे अहनी भृतो द्व्यहीनः क्रतुः । तद्धितार्थे द्विगुः । ‘तमधीष्टः’–(सू. 1744) इत्यधिकारे द्विगोर्वेत्यनुवृत्तौ ‘रात्र्यहस्संवत्सराच्’(सू. 1751) इति खः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्नेह । मद्राणां राज्ञी मद्रराज्ञी ॥

790: अह्नोऽह्न एतेभ्यः (5-4-88) सर्वादिभ्यः परस्याहन्शब्दस्याह्नादेशः स्यात्समासान्ते परे ॥

791: अह्नोऽदन्तात् (8-4-7) अदन्तपूर्वपदस्थाद्रेफात्परस्यऽह्नादेशस्य नस्य णः स्यात् । सर्वाह्णः । पूर्वाह्णः । संख्याताह्नः । द्वयोरह्नोर्भवः ॥ ‘कालाट्ठज्ञ्’(सू. 1381) ॥ ‘द्विगोर्लुगनपत्य’(सू. 1080) इति ठञो लुक् । द्व्यह्नः। स्त्रियामदन्तत्वाट्टाप् । द्वयह्ना । द्व्यह्नप्रियः । अत्यह्नः ॥

792: क्षुभ्नादिषु च (8-4-39) एषु णत्वं न स्यात् । दीर्घाह्नी प्रावृट् । एवं चैतदर्थमह्न इत्यदन्तानुकरणक्लेशो न कर्तव्यः । ‘प्रातिपदिकान्त’–(सू. 1055) इति णत्ववारणाय क्षुभ्नादिषु पाठस्यावश्यकत्वात् । अदन्तादिति तपकरणान्नेह । परगतमहः पराह्नः ॥

793: न संख्यादेः समाहारे (5-4-89) समाहारे वर्तमानस्य संख्यादेरह्नादेशो न स्यात् । संख्यादेरिति स्पष्टार्थम्। द्व्योरह्नोः समाहारो द्व्यहः । त्र्यहः ॥

794: उत्तमैकाभ्यां च (5-4-90) आभ्यामह्नादेशो न । उत्तमशब्दोऽन्त्यार्थः । पुण्यशब्दमाह । पुण्यैकाभ्यामित्येव सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तवाची । एकाहः । उत्तमग्रहणमुपान्त्यस्यापि संग्रहार्थमित्येके । संख्याताहः ॥

795: अग्राख्यायामुरसः (5-4-93) टच् स्यात् । अश्वानामुर इव अश्वोरसम् । मुख्योऽश्व इत्यर्थः ॥

796: अनोऽश्मायस्सरसां जातिसंज्ञयोः (5-4-94) टच्स्याज्जातौ संज्ञायां च । उपानसम् । अमृताश्मः । कालायसम् । मण्डूकसरसमिति जातिः । महानसम् । पिण्डाश्मः । लोहितायसम् । जलसरसमिति संज्ञा ॥

797: ग्रामकौटाभ्यां च तक्ष्णः (5-4-95) ग्रामस्य तक्षा ग्रामतक्षः । साधारण इत्यर्थः । कुट्यां भवः कौटः स्वतन्त्रः स चासौ तक्षा च कौटतक्षः ॥

798: अतेः शुनः (5-4-96) अतिश्वो वराहः । अतिश्वी सेना ॥

799: उपमानादप्राणिषु (5-4-97) अप्राणिविषयकोपमानवाचिनः शुनष्टच्स्यात् । आकर्षः श्वेव आकर्षश्वः । अप्राणिषु किम् । वानरः श्वेव वानरश्वा ॥

800: उत्तरमृगपूर्वाच्च सक्थ्नः (5-4-98) चादुपमानात् । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकमिव सक्थि फलकसक्थम् ॥

801: नावो द्विगोः (5-4-99) नौशब्दान्ताद्द्विगोष्टच् स्यान्न तु तद्धितलुकि । द्वाभ्यां नौभ्यामागतः द्विनावरूप्यः । ‘द्विगोर्लुगनपत्ये’(सू.1080) इत्यत्र अचीत्यस्यापकर्षणाद्धलादेर्न लुक् । पञ्चनावप्रियः । द्विनावम् । त्रिनावम् । अतद्धितलुकीति किम् । पञ्चभिर्नौभिः क्रीतः पञ्चनौः ॥

802: अर्धाच्च (5-4-100) अर्धान्नावष्टच् स्यात् । नावोऽर्धम् । अर्धनावम् । क्लीबत्वं लोकात् ॥

803: खार्याः प्राचाम् (5-4-101) द्विगोरर्धाच्च खार्याष्टज्वा स्यात् । द्विखारम् । द्विखारि । अर्धखारम् । अर्धखारि॥

804: द्वित्रिभ्यामञ्जलेः (5-4-102) टज्वा स्याद् द्विगौ । द्व्यञ्जलम् । द्व्यञ्जलि । अतद्धितलुकीत्येव । द्वाभ्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः ॥

805: ब्रह्मणो जानपदाख्यायाम् (5-4-104) ब्रह्मान्तात्तत्पुरुषाट्टच् स्यात्समासेन जानपदत्वमाख्यायते चेत् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः ॥

806: कुमहद्भ्यामन्यतरस्याम् (5-4-105) आभ्यां ब्रह्मणो वा टच् स्यात् तत्पुरुषे । कुत्सितो ब्रह्मा कुब्रह्मः । कुब्रह्मा ॥

807: आन्महतः समानाधिकरणजातीययोः (6-3-46) महत आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्मः । महाब्रह्मा । महादेवः । महाजातीयः । समानाधिकरणे किम् । महतः सेवा महत्सेवा । लाक्षणिकं विहाय प्रतिपदोक्तः ‘सन्महत्’(सू. 740) इति समासोऽत्र ग्रहीष्यते इति चेत्महाबाहुर्न स्यात् । तस्मात् लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य (प 114) इति परिभाषा नेह प्रवर्तते । समानाधिकरणग्रहणसामर्थ्यात् । आदिति योगविभागादात्वम् । ‘प्रागेकादशभ्यः’(सू. 1995) इति निर्देशाद्वा । एकादश । महतीशब्दस्य ‘पुंवत्कर्मधारय’(सू. 746) इति पुंवद्भावे कृते आत्त्वम् । महाजातीया ॥ महदात्त्वे घासकरविशिष्टेषूपसंख्यानं पुंवद्भावश्च (वा 3950) ॥ असामानाधिकरण्यार्थमिदम् । महतो महत्या वा घासो महाघासः । महाकरः । महाविशिष्टः ॥ अष्टनः कपाले हविषि (वा 3951) ॥ अष्टाकपालः ॥ गवि च युक्ते (वा 3952) ॥ गोशब्दे परे युक्त इत्यर्थे गम्येऽष्टन आत्त्वं वक्तव्यमित्यर्थः ॥ अष्टागवं शकटम् । ‘अच्प्रत्यन्वव’ (सू.943) इत्यत्राजिति योगविभागाद्बहुव्रीहावप्यच् । अष्टानां गवां समाहारः अष्टगवम् । तद्युक्तत्वाच्छकटमष्टागवमिति वा॥

808: द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः (6-3-47) आत्स्यात् । द्वौ च दश च द्वादश । द्व्यधिका दशेति वा । द्वाविंशतिः । अष्टादश । अष्टाविंशतिः । अबहुव्रीह्यशीत्योः किम् । द्वित्राः । द्व्यशीतिः ॥ प्राक्शतादिति वक्तव्यम् (वा 3953) ॥ नेह । द्विशतम् । द्विसहस्त्रम् ॥

809: त्रेस्त्रयः (6-3-48) त्रिशब्दस्य त्रयस् स्यात्पूर्वविषये । त्रयोदश । त्रयोविंशतिः । बहुव्रीहौ तु त्रिर्दश त्रिदशाः। सुजर्थे बहुव्रीहिः । अशीतौ तु त्र्यशीतिः । प्राक् शतादित्येव । त्रिशतम् । त्रिसहस्त्रम् ॥

810: विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् (6-3-49) द्व्यष्टनोस्त्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे । द्विचत्वारिंशत् । द्वाचत्वारिंशत् । अष्टचत्वारिंशत् । अष्टाचत्वारिंशत् । त्रिचत्वारिंशत् । त्रयश्चत्वारिंशत् । एवं पञ्चाशत्षष्टिसप्ततिनवतिषु ॥

811: एकादिश्चैकस्य चादुक् (6-3-76एकादिर्नञ्प्रकृत्या स्यादेकस्य च अदुगागमश्च । नञो विंशत्या सह समासे कृते एकशब्देन सह तृतीयेति योगविभागात्समासः । अनुनासिकविकल्पः । एकेन नविंशतिः एकान्नविंशतिः । एकाद्नविंशतिः । एकोनविंशतिरित्यर्थः ॥ षष उत्त्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च धासु वेति वाच्यम् (वा) ॥ षोडन् । षोडश । षोढा । षड्धा ॥

812: परवल्लिङ्गं द्वन्द्वतत्पुरुषयो (2-4-26) एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली ॥ द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वाच्यः (वा 1545) ॥ पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै अलंकुमारिः। अत एव ज्ञापकात्समासः । निष्कौशाम्बिः ॥

813: पूर्ववदश्ववडवौ (2-4-27) द्विवचनमतन्त्रम् । अश्ववडवौ । अश्ववडवान् । अश्ववडवैः ॥

814: रात्राह्नाहाः पुंसि (2-4-29) एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अनन्तरत्वात्परवल्लिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते । अहोरात्रः । रात्रेः पूर्वभागः पूर्वरात्रः । पूर्वाह्णः । द्व्यहः ॥ संङ्ख्यापूर्वं रात्रं क्लीबम्(लि. 131) । द्विरात्रम् । त्रिरात्रम् । गणरात्रम् ॥

815: अपथं नपुंसकम् (2-4-30) तत्पुरुषः इत्येव । अन्यत्र तु अपथो देशः । कृतसमासान्तनिर्देशान्नेह । अपन्थाः॥

816: अर्धर्चाः पुंसि च (2-4-31) अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः । अर्घर्चम् । ध्वजः । ध्वजम् । एवं तीर्थशरीरमण्डपीयूषदेहअङ्कुशकलश इत्यादि ॥

817: जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् (1-2-58) एकोऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याः । ब्राह्मणः पूज्यः ॥

818: अस्मदो द्वयोश्च (1-2-59) एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षे अहं ब्रवीमि । आवां ब्रूवः इति वा ॥ सविशेषणस्य प्रतिषेधः (वा 721) ॥ पटुरहं ब्रवीमि ॥

819: फल्गुनीप्रोष्ठपदानां च नक्षत्रे (1-2-60) द्वित्वे बहुत्वप्रयुक्तं कार्यं वा स्यात् । पूर्वे फल्गुन्यौ । पूर्वाः फल्गुन्यः॥ पूर्वे प्रोष्ठपदे । पूर्वाः प्रोष्ठपदाः ॥ नक्षत्रे किम् । फल्गुन्यौ माणविके ॥

820: तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् (1-2-63) बहुत्वं द्वित्ववद्भवति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू । तिष्येति किम् । विशाखानूराधाः । नक्षत्रेति किम् । तिष्यपुनर्वसवो माणवकाः ॥

821: स नपुंसकम् (2-4-17) समाहारे द्विगुर्द्वन्द्वाश्च नपुंसकं स्यात् । परवल्लिङ्गपवादः । पञ्चगवम् । दन्तोष्ठम्॥ अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः (वा 1556) ॥ पञ्चमूली ॥ आबन्तो वा (वा 1557) ॥ पञ्चखट्वम् । पञ्चखट्वी ॥ अनो नलोपश्च वा द्विगुः स्त्रियाम् (वा 1558) ॥ पञ्चतक्षी । पञ्चतक्षम् ॥ पात्राद्यन्तस्य न (वा 1559) ॥ पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् ॥ पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा (वा 1553) ॥ पुण्याहम् । सुदिनाहम् ॥ पथः संख्याव्ययादेः (वा 1554) ॥ संख्याव्ययादेः परः कृतसमासान्तः पथशब्दः क्लीबमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः पन्था विपथम् । कृतसमासान्तनिर्देशान्नेह । सुपन्थाः । अतिपन्थाः ॥ सामान्ये नपुंसकम् (वा 5043) ॥ मृदु पचति । प्रातः कमनीयम् ॥

822: तत्पुरुषोऽनञ्कर्मधारयः (2-4-19) अधिकारोऽयम् ॥

823: संज्ञायां कन्थोशीनरेषु (2-4-20) कन्थान्तस्तत्पुरुषः क्लीबं स्यात्सा चेदुशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा । सुशमस्यापत्यानि सौशमयः तेषां कन्था सौशमिकन्थम् । संज्ञायां किम् । वीरणकन्था । उशीनरेषु किम् । दाक्षिकन्था ॥

824: उपज्ञोपक्रमं तदाद्याचिख्यासायाम् (2-4-21) उपज्ञान्तः उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात् तयोरुपज्ञायमानोपक्रम्यमाणयोरादिः प्राथम्यं चेदाख्यातुमिष्यते । पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः । नन्दोपक्रमं द्रोणः ॥

825: छाया बाहुल्ये (2-4-22) छायान्तस्तत्पुरुषो नपुंसकं स्यात्पूर्वपदार्थबाहुल्ये । इक्षूणां छाया इक्षुच्छायम् । ‘विभाषासेना’–(सू. 828) इति विकल्पस्यायमपवादः । इक्षुच्छायानिषादिन्यः इति तु आ समन्तान्निषादिन्य इत्याङ्श्लेषो बोध्यः ॥

826: सभा राजाऽमनुष्यपूर्वा (2-4-23) राजपर्यायपूर्वोऽमनुष्यपूर्वश्च सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम् । ईश्वरसभम् ॥ पर्यायस्यैवेष्यते (वा 519) ॥ नेह । राजसभा । चन्द्रगुप्तसभा । अमनुष्यशब्दो रूढ्या रक्षः पिशाचादीनाह । रक्षः सभम् । पिशाचसभम् ॥

827: अशाला च (2-4-24) सङ्घातार्था या सभा तदन्तस्तत्पुरुषः क्लीबं स्यात् । स्त्रीसभम् । स्त्रीसंघात इत्यर्थः। आशाला किम् । धर्मसभा । धर्माशालेत्यर्थः ॥

828: विभाषा सेनासुराच्छायाशालानिशानाम् (2-4-25) एतदन्तस्तत्पुरुषः क्लीबं वा स्यात् । ब्राह्मणसेनम् । ब्राह्मणसेना । यवसुरम् । यवसुरा । कुड्यच्छाम् । कुड्यच्छाया । गोशालम् । गोशाला । श्वनिशम् । श्वनिशा । ‘तत्पुरुषोऽनञ्कर्मधारय’–(सू. 822) इत्यनुवृत्तेर्नेह । दृढसेनो राजा । असेना । परमसेना ॥

॥ इति तत्पुरुषसमासप्रकरणम्‌ ॥

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (16) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (18) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (11) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रतियोगिता (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (4) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (46) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)