॥ अथ हलन्तस्त्रीलिङ्गप्रकरणम् ॥
440: नहो धः (8-2-34) नहो हस्य धः स्याज्झलि पदान्ते च । उपानत् । उपानद् । उपानहौ । उपानहः । उपानद्भ्याम् । उपानत्सु । उत्पूर्वात् ‘ष्णिह प्रीतौ (धा 1201) इत्यस्मात् ‘ऋत्विक्’ (सू.373) आदिना क्विन् । निपातनाद्दलोपषत्वे । क्विन्नन्तत्वात्कुत्वेन हस्य घः । जश्त्वचर्त्वे । उष्णिक् । उष्णिग् । उष्णिहौ । उष्णिहः । उष्णिग्भ्याम् । उष्णिक्षु । द्यौः । दिवौ । दिवः । द्युषु । गीः । गिरौ । गिरः । एवं पूः । चतुरश्चतस्रादेशः । चतस्रः ।चतस्रः । चतसृणाम् । इति रेफान्ताः । किमः कादेशे टाप् । का । के । काः । सर्ववत् ॥
441: यः सौ (7-2-110) इदमो दस्य यः स्यात्सौ ।‘इदमो मः’(सू. 343) । इयम् । त्यदाद्यत्वं, टाप् ‘दश्च’(सू. 345) इति मः । इमे । इमाः । इमाम् । इमे । इमाः । अनया ।‘हलि लोपः’(सू. 347) । आभ्याम् ।आभ्याम् । आभ्याम् । आभिः । अस्यै । अस्याः । अनयोः । आसाम् । अस्याम् । अनयोः । आसु । अन्वादेशे तु । एनाम् । एने । एनाः । एनया । एनयोः । एनयोः ।‘ऋत्विक्’(सू. 373) आदिना सृजेः क्विन् अमागमश्च निपातितः । स्रक् । स्रग् । स्रजौ । स्रजः । स्रग्भ्याम् । स्रक्षु । त्यदाद्यत्वं टाप् । स्या । त्ये । त्याः । एवं तद् यद् एतद् । वाक् । वाग् । वाचौ । वाचः । वाग्भ्याम् । वाक्षु । अप् शब्दो नित्यं बहुवचनान्तः । ‘अप्तृन्’(सू. 277) इति दीर्घः । आपः । अपः ॥
442: अपो भि (7-4-48) अपस्तकारः स्याद्भादौ प्रत्यये परे । अद्भिः । अद्भ्यः ।अद्भ्यः । अपाम् । अप्सु । दिक् । दिग् । दिशौ । दिशः । दिग्भ्याम् । दिक्षु । ‘त्यदादिषु’(सू. 429) इति दृशेः क्विन्विधानादन्यत्रापि कुत्वम् । दृक् । दृग् । दृशौ । दृशः । इति शान्ताः । त्विट् । त्विड् । त्विषौ । त्विषः । त्विड्भ्याम् । त्विट्त्सु-त्विट्सु । सह जुषतइति सजूः । सजुषौ । सजुषः । सजूर्भ्याम् । सजूष्षु । सजूःषु । षत्वस्यासिद्धत्वाद्रुत्वम् । आशीः । आशिषौ । आशिषः । आशीर्भ्याम् । आशीर्भिः । इति षान्ताः । असौ । त्यदाद्यत्वं टाप् । औङः शी । ऊत्वमत्वे । अमू । अमूः । अमूम् । अमू । अमूः । अमुया । अमूभ्याम् । अमूभिः । अमुष्यै । अमूभ्याम् । अमूभ्यः । अमुष्याः ।अमुष्याः । अमुयोः । अमूषाम् । अमुष्याम् । अमुयोः । अमूषु । इति सान्ताः ॥
॥ इति हलन्तस्त्रीलिङ्गप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें