॥ अथाजन्तस्त्रीलिङ्गप्रकरणम् ॥
रमा
287: औङ आपः (7-1-18) आबन्तादङ्गात्परस्यौङः शी स्यात् । औङित्यौकारविभक्तेः संज्ञा । रमे । रमाः ॥
288: संबुद्धौ च (7-3-106) आप एकारः स्यात्संबुद्धौ । ‘एङ्ह्रस्वात्’(सू. 193) इति संबुद्धिलोपः । हे रमे । हे रमे । हे रमाः । रमाम् । रमे । रमाः । स्त्रीत्वान्नत्वाऽभावः ॥
289: आङि चापः (7-3-105) आङि ओसि च परे आबन्तस्याङ्गस्य एकारः स्यात् । रमया । रमाभ्याम् । रमाभिः ॥
290: याडापः (7-3-113) आपः परस्य ङिद्वचनस्य याडागमः स्यात् । ‘वृद्धिरेचि’(सू. 72) । रमायै । सवर्णदीर्घः । रमायाः । रमायाः । रमयोः । रमाणाम् । रमायाम् । रमयोः । रमासु । एवं दुर्गादयः ॥
291: सर्वनाम्नः स्याड्ढ्रस्वश्च (7-3-114) आबन्तात्सर्वनाम्नः परस्य ङितः स्याट् स्यादापश्च ह्रस्वः । याटोऽपवादः । सर्वस्यै । सर्वस्याः । एकादेशस्य पूर्वान्तत्वेन ग्रहणात् ‘आमि सर्वानाम्नः-’(सू. 217) इति सुट् । सर्वासाम् । सर्वस्याम् । सर्वयोः । सर्वासु । एवं विश्वादयोऽप्याबन्ताः ॥
292: विभाषा दिक्समासे बहुव्रीहौ (1-1-28) अत्र सर्वनामता वा स्यात् । उत्तरपूर्वस्यै । उत्तरपूर्वायै । ‘दिङ्नामान्यन्तराले’ (सू. 845) इति प्रतिपदोक्तस्य दिक्समासस्य ग्रहणान्नेह । योत्तरा सा पूर्वा यस्या उन्मुग्धायास्तस्यै उत्तरपूर्वायै । बहुव्रीहिग्रहणं स्पष्टार्थम् । अन्तरस्यै शालायै । बाह्यायै इत्यर्थः । अपुरीत्युक्तेर्नेह । अन्तरायै नगर्यै ॥
293: विभाषा द्वितीयातृतीयाभ्याम् (7-3-115) आभ्यां ङितः स्याड्वा स्यादापश्च ह्रस्वः । इदं सूत्रं त्यक्तुं शक्यम् । तीयस्य ङित्सूपसङ्ख्यानात् । द्वितीयस्यै । द्वितीयायै । द्वितीयस्याः । द्वितीयायाः । द्वितीयस्याम् । द्वितीयायाम् । शेषं रमावत् । एवं तृतीया । ‘अम्बार्थनद्योर्ह्रस्वः’(सू. 267) । हे अम्ब । हे अक्क । हे अल्ल । ‘असंयुक्ता ये डलकास्तद्वतां ह्रस्वो न’ (वा 4592) । हे अम्बाडे । हे अम्बाले । हे अम्बिके । जरा । जरसौ । शीभावात्परत्वाज्जरस् । आमि नुटः परत्वाज्जरस् । जरसामित्यादि । पक्षे हलादौ च रमावत् । इह पूर्वविप्रतिषेधेन शीभावं कृत्वा संनिपातपरिभाषाया अनित्यतां चाश्रित्य जरसी इति केचिदाहुस्तन्निर्मूलम् । यद्यपि जरसादेशस्य स्थानिवद्भावेनाबन्ततामाश्रित्य ‘औङ् अपः’(सू. 287) ‘आङि चापः’(सू. 289) ‘याडापः’(सू. 290) ‘ह्रस्वनद्यापः’(सू. 208) ‘ङेराम्’(सू. 270) इति च पञ्चापि विधयः प्राप्ताः । एवं नस्निश्पृत्सु । तथाप्यनल्विधावित्युक्तेर्न भवन्ति । ‘आ आप’ इति प्रश्लिष्याकाररूपस्यैवापः सर्वत्र ग्रहणात् । एवं ‘हल्ङ्याप्’ (सू. 252) इति सूत्रेऽपि ‘आ आप्’‘ङी ई’ इति प्रश्लेषात्, ‘अतिखट्वः’‘निष्कौशाम्बिः’ इत्यादिसिद्धेदीर्घग्रहणं प्रत्याख्येयम् । नचैवमपि ‘अतिखट्वाय’ इत्यत्र स्वाश्रयमाकारत्वं स्थानिवद्भावेनाप्त्वं चाश्रित्य याट् स्यादिति वाच्यम् । आबन्तं यदङ्गं ततः परस्य याड्विधानात् । उपसर्जनस्त्रीप्रत्यये तदादिनियमात् । ‘पदन्नो’ (सू. 228) इति नासिकया नस् । नसः । नसा । नोभ्यामित्यादि । पक्षे सुटि च रमावत् । निशाया निश् । निशः । निशा ॥
294: व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (8-2-36) व्रश्चादीनां सप्तानां छशान्तयोश्च वकारोऽन्तादेशः स्याज्झलि पदान्ते च । षस्य जश्त्वेन डः । निड्भ्याम् । निड्भिः । सुपि ‘डः सि धुट’ (सू. 131) इति पक्षे धुट् । चर्त्त्वम् । तस्यासिद्धत्वात् ‘चयो द्वितीयाः’ (वा 5023) इति टतयोष्ठथौ न । ‘न पदान्ताट्टोः’ (सू. 114) इति ष्टुत्वं न । निट्त्सु । निट्सु ॥
295: षढोः कः सि (8-2-41) षस्य ढस्य च कः स्यात्सकारे परे । इति तु न भवति । जश्त्वं प्रत्यसिद्धत्वात् । केचित्तु व्रश्चादिसूत्रे ‘दादेर्धातोः’(सू. 325) इति सूत्रात् धातोः इत्यनुवर्तयन्ति । तन्मते जश्त्वेन जकारे । निज्भ्याम् । निज्भिः ।‘चोः कुः’(सू. 378) इति कुत्वं तु न भवति । जश्त्वस्यासिद्धत्वात् । जश्त्वम् । श्चुत्वम् । चर्त्वम् । निच्शु । निच्छु । ‘मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः शसादौ वा’ (वा 3496) । पृतः । पृता । पृद्भ्याम् । पक्षे सुटि च रमावत् । गोपा विश्वपावत् । मतिः प्रायेण हरिवत् । स्त्रीत्वान्नत्वाभावः । मतीः । नात्वं न। मत्या ॥
296: ङिति ह्रस्वश्च (1-4-6) इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ च इ-उवर्णौ स्त्रियां वा नदीसंज्ञौ स्तो ङिति परे । ‘आण्नद्याः’(सू. 268) । मत्यै । मतये । मत्याः । मत्याः । मतेः । मत्याः-मतेः। नदीत्वपक्षे ‘औत्’ (सू. 256) इति ङेरौत्त्वे प्राप्ते ॥
297: इदुद्भ्याम् (7-3-117) नदीसंज्ञकाभ्यामिदुद्भ्यां परस्य ङेराम् स्यात् । पक्षे ‘अच्च घेः’(सू. 247) । मत्याम् । मतौ । एवं श्रुतिस्मृत्यादयः ॥
298: त्रिचतुरोः स्त्रियां तिसृचतसृ (7-2-99) स्त्रीलिङ्गयोरेतयोरेतावादेशौ स्तो विभक्तौ परतः ॥
299: अचिर ऋतः (7-2-100) तिसृचतसृ एतयोर्ऋकारस्य रेफादेशः स्यादचि । गुणदीर्घोत्वानामपवादः । तिस्रः । तिस्रः । तिसृभिः । तिसृभ्यः । आमि ‘नुमचिर’ (वा 4374) इति नुट् ॥
300: न तिसृचतसृ (6-4-4) तिसृ चतसृएतयोर्नामि दीर्घो न स्यात् । तिसृणाम् । तिसृषु । स्त्रियामिति त्रिचतुरोर्विशेषणान्नेह । प्रियस्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः । मतिशब्दवत् । आमि तु प्रियत्रयाणामिति विशेषः । प्रियास्तिस्त्रो यस्य स इति विग्रहे तु प्रयतिसा । प्रियतिस्रौ । प्रियतिस्रः । प्रियतिस्रमित्यादि । प्रियास्तिस्रो यस्य तत्कुलं प्रियत्रि । स्वमोर्लुका लुप्त्तवेन प्रत्ययलक्षणाभावन्न तिस्रादेशः । ‘न लुमता’(सू. 263) इति निषेधस्यानित्यत्वापक्षे प्रियतिसृ ।‘रत्त्वात्पूर्वविप्रतिषेधेन नुम्’ (वा 5036) । प्रियतिसृणी । प्रियतिसॄणि । तृतीयादिषु वक्ष्यमाणपुंवद्भावविकल्पात्पर्यायेण नुम्रभावौ । प्रियतिसृणा । प्रियतिस्रा । इत्यादि । द्वेरत्वे सत्याप् । द्वे । द्वे । द्वाभ्याम् । द्वाभ्याम् । द्वाभ्याम् । द्वयोः । द्वयोः ।इति इदन्ताः । गौरी । गौर्यौ । गौर्यः । नदीकार्यम् । हे गौरि । गौर्यै इत्यादि । एवं वाणीनद्यादयः । प्रातिपदिकग्रहणे लिङ्विशिष्टस्यापि ग्रहणादनङि णिद्वद्भावे च प्राप्ते।‘विभक्तौ लिङ्विशिष्टाग्रहणम्’ (वा 4238) । सखी । सख्यौ । सख्यः । इत्यादि गौरीवत् । अङ्यन्तत्वान्न सुलोपः । लक्ष्मीः । शेषं गौरीवत् । एवं तरीतव्यादयः ॥ स्त्री । हे स्त्रि ॥
301: स्त्रियाः (6-4-79) स्त्रीशब्दस्येयङ् स्यादजादौ प्रत्यये परे । स्त्रियौ । स्त्रियः ॥
302: वाम्शसोः (6-4-80) अमि शसि च स्त्रिया इयङ् वा स्यात् । स्त्रियम् । स्त्रीम् । स्त्रियौ । स्त्रियः । स्त्रीः । स्त्रिया । स्त्रियै । स्त्रियाः । स्त्रियाः । स्त्रियोः । परत्वान्नुट् । स्त्रीणाम् । स्त्रियाम् । स्त्रियोः । स्त्रीषु ॥ स्त्रियमतिक्रान्तोऽतिस्त्रिः । अतिस्त्रियौ ।
गुणनाभावौत्त्वनुड्भिः परत्वात्पुंसि बाध्यते ।
क्लीबे नुमा च स्त्रीशब्दस्येयङित्यवधार्यताम् ॥
‘जसि च’(सू. 241) । अतिस्त्रियः । हे अतिस्त्रे । हे अतिस्त्रियौ । हे अतिस्त्रयः । ‘वाम्शसोः’(सू. 302) । अतिस्त्रियम् । अतिस्त्रिम् । अतिस्त्रियौ । अतिस्त्रियः । अतिस्त्रीन् । अतिस्त्रिणा । ‘घेर्ङिति’(सू. 245) अतिस्त्रये । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रियः । अतिस्त्रियः । अतिस्त्रीणाम् । ‘अच्च घेः’ (सू. 247) । अतिस्त्रौ ।
ओस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया ।
इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने ॥
क्लीबे तु नुम् । अतिस्त्रि । अतिस्त्रिणी । अतिस्त्रीणि । अतिस्त्रिणा । अतिस्त्रिणे । ङेप्रभृतावजादौ वक्ष्यमाणपुंवद्भावात्पक्षे प्राग्वद्रूपम् । अतिस्त्रये । अतिस्त्रिणः । अतिस्त्रिणः । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रिणोः । अतिस्त्रिणोः । अतिस्त्रियोरित्यादि । स्त्रियां तु प्रायेण पुंवत् । शसि अतिस्त्रीः । अतिस्त्रिया । ‘ङिति ह्रस्वश्च’(सू. 296) इति ह्रस्वान्तत्वप्रयुक्तो विकल्पः । अस्त्रीति तु इयङुवङ्स्थानावित्यस्यैव पर्युदासः । तत्संबद्धस्यैवानुवृत्तेर्दीर्घस्यायं निषेधो नतु ह्रस्वस्य । अतिस्त्रियै । अतिस्त्रये । अतिस्त्रियाः । अतिस्त्रियाः । अतिस्त्रेः। अतिस्त्रेः । अतिस्त्रीणाम् । अतिस्त्रियाम् । अतिस्त्रौ ॥ श्रीः । श्रियौ । श्रियः ॥
303: नेयङुवङ्स्थानावस्त्री (1-4-4) इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो नतु स्त्री । हे श्रीः । श्रिये। श्रियै । श्रियाः । श्रियः ॥
304: वामि (1-4-5) इयङुवङ्स्थानौ स्त्रयाख्यौ यू आमि वा नदीसंज्ञौ स्तो नतु स्त्री । श्रीणाम् । श्रियाम् । श्रियाम् । श्रियि । श्रियाम् । प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् । लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् । प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । अमि शसि च प्रध्यं प्रध्य इति विशेषः । सुष्ठु धीर्यस्याः सुष्ठु ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् । मतान्तरे तु पुंवत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेव । ग्रामणीः पुवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः । एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् । इति ईदन्ताः । धेनुः मतिवत् ॥
305: स्त्रियां च (7-1-96) स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते ॥
306: ऋन्नेभ्यो ङीप् (4-1-5) ऋदन्तेभ्यो नान्तेभ्यस्च स्त्रियां ङीप्स्यात् । क्रोष्ट्री । क्रोष्ट्रयौ । क्रोष्ट्रयः । इत्युदन्ताः। वधूः गौरीवत् । भ्रूः श्रीवत् । हे सुभ्रूः । कथं तर्हि हा पितः क्वासि हे सुभ्रु इति भट्टिः । प्रमाद एवायमिति बहवः । खलपूः पुंवत् । पुनर्भूः । ‘दृन्कर’ (वा 4118) इति यणा उवङो बाधनात् ‘नेयङुवङ’(सू. 303) इति निषेधो न । हे पुनर्भु । पुनर्भ्वम् । पुनर्भ्वौ । पुनर्भ्वः ॥
307: एकाजुत्तरपदे णः (8-4-12) एकाजुत्तरपदं यस्य तस्मिन् समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामर्थ्यान्नित्यत्वे सिद्धे पुनर्णग्रहणं स्पष्टार्थम् । यणं बाधित्वा परत्वान्नुट् । पुनर्भूणाम् । वर्षाभूः । भेकजातौ नित्यस्त्रीत्वाऽभावात् हे वर्षाभूः कैयटमते । मतान्तरे तु हे वर्षाभु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमान् इति यादवः । ‘वर्षाभ्वश्च’ (सू. 282) । वर्षाभ्वौ । वर्षाभ्वः । स्वयम्भूः पुंवत् । इत्यूदन्ताः ॥
308: न षट्स्वस्रादिभ्यः (4-1-10) षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च ङीप्टापौ न स्तः ।
स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा ।
याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥
‘अप्तृन्’(सू. 277) इति दीर्घः । स्वसा । स्वसारौ । स्वसारः । माता पितृवत् । शसि मातॄः । इत्यृदन्ताः । द्यौर्गोवत् । इत्योदन्ताः राः पुंवत् । इत्यैदन्ताः । नौः ग्लौवत् । इत्यौदन्ताः ॥
॥ इति अजन्तस्त्रीलिङ्गप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें