वैयाकरणसिद्धान्तकौमुदी (हल्सन्धिप्रकरणम्‌)

 ॥ अथ हल्सन्धिप्रकरणम्‌ ॥

111: स्तोः श्चुना श्चुः (8-4-40)

सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः । हरिश्शेते । रामश्चिनोति । सच्चित् । शार्ङ्गिञ्जय ॥

 

112: शात् (8-4-44)

शात्परस्य तवर्गस्य श्चुत्वं न स्यात् । विश्नः । प्रश्नः ॥

 

113: ष्टुना ष्टुः (8-4-41)

स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ठौकसे ॥

 

114: न पदान्ताट्टोरनाम् (8-4-42)

अनामिति लुप्तषष्ठीकं पदम् । पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षट् सन्तः । षट् ते । पदान्तात्किम् । ईट्टे । टोः किम् । सर्पिष्टमम् ॥अनाम्नवतिनगरीणामिति वाच्यम् (वा) ॥ षण्णाम् । षण्णवतिः । षण्णगर्यः ॥

 

115: तोः षि (8-4-43)

तवर्गस्य षकारे परे न ष्टुत्वम् । सन्षष्ठः । झलां जशोऽन्ते 84 । वागीशः । चिद्रूपम् ॥

 

116: यरोऽनुनासिकेऽनुनासिको वा (8-4-45)

यरः पदान्तस्याऽनुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः । एतद्मुरारिः । स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः ॥ प्रत्यये भाषायां नित्यम् ॥ तन्मात्रम् । चिन्मयम् । कथं तर्हि मदोदग्राः ककुद्मन्त इति । यवादिगणे दकारनिपातनात् ॥

 

117: तोर्लि (8-4-60)

तवर्गस्य लकारे परे परसवर्णः स्यात् । तल्लयः । विद्वाँल्लिखति । नकारस्याऽनुनासिको लकारः ॥

 

118: उदः स्थास्तम्भोः पूर्वस्य (8-4-61)

उदः परयोः स्थास्तम्भोः पूर्वसवर्णः स्यात् ॥ आदेः परस्य 44 । उत्थानम् । उत्तम्भनम् । अत्राघोषस्य सस्य तादृश एव थकारः । तस्य झरो झरि 71 इति पाक्षिको लोपः । लोपाभावपक्षे तु थकारस्यैव श्रवणं न तु खरि च 121 इति चर्त्त्वम् । चर्त्त्वं प्रति थकारस्याऽसिद्धत्वात् ॥

 

119: झयो होऽन्यतरस्याम् (8-4-62)

झयः परस्य हस्य पूर्वसवर्णो वा स्यात् । घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थं एवादेशः । वाग्घरिः । वाग्हरिः ॥

 

120: शश्छोऽटि (8-4-63)

पदान्तात् झयः परस्य शस्य छो वा स्यादटि । दस्य श्चुत्वेन जकारे कृते ॥

 

121: खरि च (8-4-55)

खरि परे झलां चरः स्युः । इति जकारस्य चकारः । तच्छिवः । तच्शिवः ॥ छत्वममीति वाच्यम् (वा) ॥ तच्श्लोकेन । तच्छलोकेन । अमि किम् । वाक् श्च्योतति ॥

 

122: मोऽनुस्वारः (8-3-23)

मान्तस्य पदस्यानुस्वारः स्याद्धलि ॥ अलोऽन्त्यस्य 42 हरिं वन्दे । पदस्येति किम् । गम्यते ॥

 

123: नश्चापदान्तस्य झलि (8-3-24)

नस्य मस्य चापदान्तस्य झल्यनुस्वारः स्यात् । यशांसि । आक्रंस्यते । झलि किम् । मन्यते ॥

 

124: अनुस्वारस्य ययि परसवर्णः (8-4-58)

स्पष्टम् । अङ्कितः । अञ्चितः । कुण्ठितः । शान्तः । गुम्फितः । कुर्वन्तीत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वम् ॥

 

125: वा पदान्तस्य (8-4-59)

पदान्तस्यानुस्वारस्य ययि परे परसवर्णो वा स्यात् । त्वङ्करोषि । त्वंकरोषि । सय्ँयन्ता । संयन्ता । सवँ्वत्सरः । संवत्सरः । यल्ँलोकम् । यंलोकम् । अत्राऽनुस्वारस्य पक्षेऽनुनासिका यवलाः ॥

 

126: मो राजि समः क्वौ (8-3-25)

क्विबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् ॥

 

127: हे मपरे वा (8-3-26)

मपरे हकारे परे मस्य म एव स्याद्वा । ह्नल ह्वल चलने । किम् ह्मलयति । किं ह्नलयति ॥ यवलपरे यवला वेति वक्तव्यम् (वा) ॥

 

128: यथासङ्ख्यमनुदेशः समानाम् (1-3-10)

समसम्बन्धी विधिर्यथासङ्ख्यं स्यात् । कियूँह्यः । किंह्यः । किब्ँह्वलयति । किंह्वलयति । किल्ँह्लादयति । किंह्लादयति ॥

 

129: न परे नः (8-3-27)

नपरे हकारे मस्य नः स्याद्वा । किन्ह्नुते । किंह्नुते ॥

 

130: ङ्णोः कुक् टुक् शरि (8-3-28)

ङकारणकारयोः कुक्टुकावागमौ वा स्तः शरि । कुक्टुकोरसिद्धत्वाज्जश्त्वं न ॥ चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् (वा) ॥ प्राङ्ख्षष्ठः । प्राङ्क्षष्ठः । प्राङ्षष्ठः । सुगण्ठ्षष्ठः । सुगण्टषष्ठः । सुगण्षष्ठः ॥

 

131: डः सि धुट् (8-3-29)

डात्परस्य सस्य धुड्वा स्यात् । षट्त्सन्तः । षट्सन्तः ॥

 

132: नश्च (8-3-30)

नकारान्तात्सस्य धुड्वा । सन्त्सः । सन्सः ॥

 

133: शि तुक् (8-3-31)

नस्य पदान्तस्य शे परे तुग्वा स्यात् । शश्छोऽटी 120ति छत्वविकल्पः । पक्षे झरो झरी 7ति चलोपः । सञ्छंभुः । सञ्च्छंभुः । सञ्चशंभुः । सञ्शंभुः ॥ ञछौ ञचछा ञचशा ञशाविति चतुष्टयम् । रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥

 

134: ङमो ह्रस्वादचि ङमुण्नित्यम् (8-3-32)

ह्रस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याऽचो नित्यं ङमुडागमः स्यात् । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः ॥

 

135: समः सुटि (8-3-5)

समो रुः स्यात् सुटि । अलोऽन्त्यस्य 42 ॥

 

136: अत्रानुनासिकः पूर्वस्य तु वा (8-3-2)

अत्र रुप्रकरणे रोः पूर्वस्याऽनुनासिको वा स्यात् ॥

 

137: अनुनासिकात्परोऽनुस्वारः (8-3-4)

अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः स्यात् । खरवसानयोर्विसर्जनीयः 76 ॥

 

138: विसर्जनीयस्य सः (8-3-34)

खरि विसर्जनीयस्य सः स्यात् । एतदपवादे वा शरी 15ति पाक्षिके विसर्गे प्राप्ते ॥संपुंकानां सो वक्तव्यः (वा) ॥ संस्कर्ता । सँस्स्कर्ता ॥ समो वा लोपमेके इति भाष्यम् । लोपस्यापि रुप्रकरणस्थत्वादनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयम् । द्विसकारं तूक्तमेव । तत्र अनचि च 48 इति सकारस्य द्वित्वपक्षे त्रिसकारमपि रूपद्वयम् । अनुस्वारविसर्गजिह्वामूलीयोपध्यमानीययमानामकारोपरि शर्षु च पाठस्योपसङ्ख्यातत्वेनानुस्वारस्याप्यच्त्वात् । अनुनासिकवतां त्रयाणां शरः खयः (वा) ॥ इति कद्वित्वे षट् । अनुस्वारवतामनुस्वारस्यापि द्वित्वे द्वादश । एषामष्टादशानां तकारस्य द्वित्वे वचनान्तरेण पुनर्द्वित्वे चैकतं द्वितं त्रितमिति चतुष्पञ्चाशत् । अणोऽनुनासिकत्वेऽष्टोत्तरशतम् ॥

 

139: पुमः खय्यम्परे (8-3-6)

अम्परे खयि पुम्शब्दस्य रुः स्यात् । व्युत्पत्तिपक्षे अप्रत्ययस्ये 155ति षत्वपर्युदासात् क पयोः प्राप्तौ । अव्युत्पत्तिपक्षे तु षत्वप्राप्तौ । संपुंकानामिति सः । पुँस्कोकिलः । पुंस्कोकिलः । पुँस्पुत्रः । पुंस्पुत्रः । अम्परे किम् । पुंक्षीरम् । खयि कमि । पुंदासः ॥ख्याञादेशे न (वा) ॥ पुंख्यान्म् ॥

 

140: नश्छव्यप्रशान् (8-3-7)

अम्परे छवि नकारान्तस्य पदस्य रुः स्यान्न तु प्रशान्शब्दस्य । विसर्गः । सत्वम् । श्चुत्वम् । शार्ङ्गिच्छिन्धि । शार्ङ्गिश्छिन्धि । चक्रिंस्त्रायस्व । चक्रिंस्त्रायस्व । पदस्य किम् । हन्ति । अम्परे किम् । सन्त्सरुः खड्गमुष्टिः । अप्रशान् किम् । प्रशान्तनोति ॥

 

141: नॄन्पे (8-3-10)

नॄनित्यस्य रुः स्याद्वा पकारे परे ॥

 

142: कुप्वोः कपौ च (8-3-37)

कवर्गे पवर्गे च परे विसर्जनीयस्य क्रमाज्जिह्वामूलीयोपध्मानीयौ स्तः । चाद्विसर्गः । येन नाप्राप्त इति न्यायेन विसर्जनीयस्य स 138 इत्यस्यापवादोऽयम् । न तु शर्परे विसर्जनीय 150 इत्यस्य । तेन वासः क्षौममित्यादौ विसर्ग एव । नॄँ पाहि । नॄं पाहि । नॄँःपाहि । नॄन्पाहि ॥

 

143: कानाम्रेडिते (8-3-12)

कान्नकारस्य रुः स्यादाम्रेडिते परे । संपुंकानामिति सः । यद्वा ॥

 

144: कस्कादिषु च (8-3-48)

एष्विण उत्तरस्य विसर्गस्य षः स्यादन्यत्र तु सः । कपयोरपवादः । इति सः । काँस्कान् । कांस्कान् । कस्कः । कोतस्कुतः । सर्पिष्कुण्डिका । धनुष्कपालम् । आकृतिगणोऽयम् ॥

 

145: संहितायाम् (6-1-72)

इत्यधिकृत्य ॥

 

146: छे च (6-1-73)

ह्रस्वस्य छे परे तुगागमः स्यात्संहितायाम् । श्चुत्वस्यासिद्धत्वाज्जशत्वेन दः । ततश्चर्त्वस्यासिद्धत्वात्पूर्वं श्चुत्वेन जः । तस्य चर्त्वेन चः । चुत्वस्यासिद्धत्वात् चोः कु 378रिति कुत्वं न । स्वच्छाया । शिवच्छाया ॥

 

147: आङ्माङोश्च (6-1-74)

एतयोश्छे परे तुक्स्यात् । पदान्ताद्वे 149ति विकल्पापवादः । आच्छादयति । माच्छिदत् ॥

 

148: दीर्घात् (6-1-75)

दीर्घाच्छे परे तुक्स्यात् । दीर्घस्यायं तुक् न तु छस्य । सेनासुराच्छाया 828 इति ज्ञापकात् । चेच्छिद्यते ॥

 

149: पदान्ताद्वा (6-1-76)

दीर्घात्पदान्ताच्छे परे तुग्वा स्यात् । लक्ष्मीच्छाया । लक्ष्मीछाया ॥

 

। इति हल्सन्धिप्रकरणम्‌ ।

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)