॥ अथ अजन्तनपुंसकलिङ्गप्रकरणम् ॥
309: अतोऽम् (7-1-24) अतोऽङ्गात्क्लीबात्स्वमोरम्स्यात् । ‘अमि पूर्वः’(सू. 194) । ज्ञानम् । ‘एङ्ह्रस्वात्’(सू. 193) इति हल्मात्रलोपः । हे ज्ञान ॥
310: नपुंसकाच्च (7-1-19) क्लीबात्परस्यौङः शी स्यात् । भसंज्ञायाम् ॥
311: यस्येति च (6-4-184) भस्येवर्णावर्णयोर्लोपः स्यादीकारे तद्धिते च परे । इत्यकारलोपे प्राप्ते । ‘औङः श्यां प्रतिषेधो वाच्यः’ (वा 4189) । ज्ञाने ॥
312: जश्शसोः शिः (7-1-20) क्लीबादनयोः शिः स्यात् ॥
313: शि सर्वनामस्थानम् (1-1-42) ‘शि’ इत्येतदुक्तसंज्ञं स्यात् ॥
314: नपुंसकस्य झलचः (7-1-72) झलन्तस्याऽजन्तस्य च क्लीबस्य नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । ज्ञानानि । पुनस्तद्वत् । शेषं रामवत् । एवं धनवनफलादयः ॥
315: अद्ड्डतरादिभ्यः पञ्चम्यः (7-1-25) एभ्यः क्लीबेभ्यः स्वमोरद्डादेशः स्यात् ॥
316: टेः (6-4-143) डिति परे भस्य टेर्लोपः स्यात् । ‘वाऽवसाने’ (सू. 206) । कतरत् । कतरद् । कतरे । कतराणि । भस्येति किम् । पञ्चमः । टेर्लुप्तत्वात् ‘प्रथमयोः-’(सू. 164) इति पूर्वसवर्णदीर्घः ‘एङ्ह्रस्वात्-’(सू. 193) इति संबुद्धिलोपश्च न च भवति । हे कतरत् । पुनस्तद्वत् । शेषं पुंवत् ॥ कतमत् । अन्यत् । अन्यतरत् । इतरत् । अन्यतमशब्दस्य तु अन्यतममित्येव । एकतरात्प्रतिषेधो वक्तव्यः (वा 4287) । एकतरम् । सोरमादेशे कृते संनिपातपरिभाषया न जरस् । अजरम् । अजरसी । अजरे । परत्वाज्जरसि कृते झलन्तत्वान्नुम् ॥
317: सान्तमहतः संयोगस्य (6-4-10) सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । अजरांसि । अजराणि । अमि लुकोऽपवादमम्भावं बाधित्वा परत्वाज्जरस् । ततः संनिपातपरिभाषया न लुक् । अजरसम् । अजरम् । अजरसी । अजरे । अजरांसि । अजराणि । शेषं पुंवत् । ‘पद्दन्न’ (सू.228) इति हृदयोदकास्यानां हृद् उदन् आसन् । हृन्दि । हृदा । हृद्भ्यामित्यादि । उदानि । उद्गा । उदभ्यामित्यादि । आसानि । आस्ना । आसभ्यामित्यादि । मांसि । मांसा । मान्भ्यामित्यादि । वस्तुतस्तु प्रभृतिग्रहणं प्रकारार्थमित्युक्तम् । अत एव भाष्ये मांस्पचन्या उखाया इत्युदाहृतम् । अयस्मयादित्वेन भत्वात्संयोगान्तलोपो न । ‘पद्दन्न’(सू. 228) इत्यत्र हि छन्दसि इत्यनुवर्तितं वृत्तौ तथापि ‘अपोभि’(सू. 442) इत्यत्र ‘मासश्छन्दसि’ (वा 4634) इति वार्तिके छन्दोग्रहणसामर्थ्याल्लोकेऽपि क्वचिदिति कैयटोक्तरीत्या प्रयोगमनुसृत्य पदादयः प्रयोक्तव्या इति बोध्यम् । इत्यदन्ताः ॥
318: ह्रस्वो नपुंसके प्रातिपदिकस्य (1-2-47) क्लीबे प्रातिपदिकस्याऽजन्तस्य ह्रस्वः स्यात् । श्रीपम् । ज्ञानवत् । श्रीपाय । अत्र संनिपातपरिभाषया ‘आतो धातोः’(सू. 240) इत्याकारलोपो न । इत्यादन्तः ॥
319: स्वमोर्नपुंसकात् (7-1-23) क्लीबादङ्गात्स्वमोर्लुक् स्यात् । वारि ॥
320: इकोऽचि विभक्तौ (7-1-73) इगन्तस्य क्लीबस्य नुमागमः स्यादचि विभक्तौ । वारिणी । वारीणि । ‘न लुमता’(सू. 263) इति निषेधस्याऽनित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः । हे वारे! । हे वारि । ‘आङो ना’(सू. 244) । वारिणा । ‘घेर्ङिति’(सू. 245) इति गुणे प्राप्ते ।‘वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम्पूर्वविप्रतिषेधेन’ (वा 4373) । वारिणे । वारिणः । वारिणोः । ‘नुमचिर्’ (वा 4374) इति नुट् । ‘नामि’(सू. 209) इति दीर्घः । वारीणाम् । वारिणि । वारिणोः । हलादौ हरिवत् ॥
321: तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य (7-1-74) प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा स्याट्टादावचि । अनादये । अनादिने । इत्यादि । शेषं वारिवत् । पीलुर्वृक्षस्तत्फलं पीलु तस्मै पीलुने । अत्र न पुंवत्। प्रवृत्तिनिमित्तभेदात् ॥
322: अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः (7-1-75) एषामनङ् स्याट्टादावचि स चोदात्तः । ‘अल्लोपोऽनः’(सू. 234) । दध्ना । दध्ने । दध्नः । दध्नः । दध्नोः । दध्नाम् । दध्नि । दधनि । दध्नोः । शेषं वारिवत् । एवमस्थिसक्थ्यक्षि । तदन्तस्याऽप्यनङ् । अतिदध्ना । इति इदन्ताः । सुधि । सुधिनी । सुधिनि । हे सुधे । हे सुधि । सुधिया । सुधिना । सुधियाम् – सुधीनाम् । प्रध्या । प्रधिना ।इति ईदन्ताः । मधु । मधुनी । मधूनि । हे मधो । हे मधु । एवमम्ब्वादयः । सानुशब्दस्य स्नुर्वा । स्नूनि । सानूनि । प्रियक्रोष्टु । प्रियोक्रोष्टुनी । तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम्। प्रियक्रोष्टूनि । टादौ पुंवत्पक्षे प्रियक्रोष्ट्रा । प्रियक्रोष्टुना । प्रियक्रोष्ट्रे । प्रियक्रोष्टवे । अन्यत्र तृज्वद्भावात्पूर्वविप्रतिषेधेन नुमेव । प्रियक्रोष्टुना । प्रियक्रोष्टुने । ‘नुम चिर’ (वा 4374) इति नुट् । प्रियक्रोष्टूनाम् । इत्युदन्ताः । सुलु । सुलुनी । सुलूनि । पुनस्तद्वत् । सुल्वा । सुलुना । इत्युदन्ताः । धातृ । धातृणी । धातॄणि । हे धातः । हे धातृ । धात्रा । धातृणा । एवं ज्ञातृकर्त्रादयः । इत्यृदन्ताः ॥
323: एच इग्घ्रस्वादेशे (1-1-48) आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात् । प्रद्यु । प्रद्युनी । प्रद्यूनि । प्रद्युनेत्यादि। इह न पुंवत् । यदिगन्तं प्रद्यु इति तस्य भाषितपुंस्कत्वाऽभावात् । एवमग्रेऽपि । प्ररि । प्ररिणी । प्ररीणि । प्ररिणा । एकदेशविकृतस्याऽनन्यत्वात् ‘रायो हलि’(सू. 286) इत्यात्वम् । प्रराभ्यात् । प्रराभिः । ‘नुमचिर’ (वा 4374) इति नुट्यात्वे प्रराणामिति माधवः । वस्तुतस्तु संनिपातपरिभाषया नुट्यात्वं न । ‘नामि’(सू. 209) इति दीर्घस्त्वारम्भसामर्थ्यात्परिभाषां बाधत इत्युक्तम् । प्ररीणाम् । सुनु । सुनुनी । सुनूनि । सुनुना । सुनुने । इत्यादि । इत्यूदन्ताः ॥
॥ इति अजन्तनपुंसकलिङ्गप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें