॥ अथैकशेषप्रकरणम् ॥
अथैकशेषः । ‘सरूपाणाम्’ (सू. 188) । रामौ रामाः । विरूपाणामपि समानार्थानाम् (वा 747) । वक्रदण्डश्च कुटिलदण्डश्च – वक्रदण्डौ । कुटिलदण्डौ ।
931: वृद्धो यूना तल्लक्षणश्चेदेव विशेषः (1-2-65) यूना सहोक्तौ गोत्रं शिष्यते गोत्रयुवप्रत्यमात्रकृतं चेत्तयोः कृत्स्नं वैरूप्यं स्यात् । गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ । वृद्धः किम् । गर्गगार्ग्यायणौ । यूना किम् । गर्गगार्ग्यौ । तल्लक्षणः किम् । भागवित्तिभागवित्तिकौ । कृत्स्नं किम् । गार्गवात्स्यायनौ ॥
932: स्त्री पुंवच्च (1-2-66) यूना सहोक्तौ वृद्धा स्त्री शिष्यते तदर्थश्च पुंवत् । गार्गी च गार्ग्यायणौ च गर्गाः । अस्त्रियामित्यनुवर्तमाने ‘यञञोश्च’ (सू. 1108) इति लुक् । दाक्षी च दाक्षायणश्च दाक्षी ॥
933: पुमान् स्त्रिया (1-2-67) स्त्रिया सहोक्तौ पुमान् शिष्यते तल्लक्षण एव विशेषश्चेत् । हंसी च हंसश्च हंसौ ॥
934: भ्रातृपुत्रौ स्वसृदुहितृभ्याम् (1-2-68) भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ॥
935: नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् (1-2-69) अक्लीबेन सहोक्तौ क्लीबं शिष्यते तच्च वा एकवत्स्यात्तल्लक्षण एव विशेषश्चेत् । शुक्लः पटः । शुक्ला शाटी । शुक्लं वस्त्रम् । तदिदं शुक्लम् । तानीमानि शुक्लानि ॥
936: पिता मात्रा (1-2-70) मात्रा सहोक्तौ पिता वा शिष्यते । माता च पिता च पितरौ । मातापितरौ ॥
937: श्वशुरः श्वश्वा (1-2-71) श्वश्वा सहोक्तौ श्वशुरो वा शिष्यते तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्च श्वाशुरश्च श्वाशुरौ । श्वश्रूश्वाशुरौ वा ॥
938: त्यदादीनि सर्वैर्नित्यम् (1-2-72) सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते ॥ स च देवदत्तश्च तौ ॥ त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते (वा 801) ॥ स च यश्च यौ । पूर्वशेषोऽपि दृश्यत इति भाष्यम् । स च यश्च तौ ॥ त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि (वा 799) ॥ सा च देवदत्तश्च तौ । तच्च देवदत्तश्च यज्ञदत्ता च तानि । पुंनपुंसकयोस्तु परत्वान्नपुंसकं शिष्यते । तच्च देवदत्तश्च ते ॥ अद्वन्द्वतत्पुरुषविशेषानामिति वक्तव्यम् (वा 800) ॥ कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । तच्च सा च अर्धपिप्पल्यौ ते ॥
939: ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री (1-2-73) एषु सहविवक्षायां स्त्री शिष्यते । ‘पुमान् स्त्रिया’(सू. 933) इत्यस्यापवादः । गाव इमाः । ग्राम्येति किम् । रुरव इमे । पशुग्रहणं किम् । ब्राह्मणाः । सङ्घेषु किम् । एतौ गावौ। अतरुणेषु किम् । वत्सा इमे ॥ अनेकशफेष्विति वाच्यम् (वा 805) ॥ अश्वा इमे । इह सर्वत्रैकशेषे कृतेऽनेकसुबन्ताभावाद् द्वन्द्वो न । तेन शिरसी शिरांसि इत्यादौ समासस्येत्यन्तोदात्तः प्राण्यङ्गत्वादेकवद्भावश्च न। पन्थानौ पन्थान इत्यादौ समासान्तो न ॥
॥ इति एकशेषसमासप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें