453: स्त्रियाम् (4-1-3) अधिकारोऽयम् । समर्थानामिति यावत् ॥
454: अजाद्यतष्टाप् (4-1-4) अजादीनामकारान्तस्य च वाच्यं यत्स्त्रीत्वं तत्र द्योत्ये
टाप् स्यात् । अजाद्युक्तिर्ङीषो ङीपश्च बाधनार्था । अजा । अतः - खट्वा । अजादिभिः
स्त्रीत्वस्य विशेषणान्नेह । पञ्चाजी । ‘द्विगोः’(सू. 479) इति ङीप् । अत्र हि समासार्थसमाहारनिष्ठं स्त्रीत्वम् ।
अजा । एडका । अश्वा । चटका । मूषिका । एषु जातिलक्षणो ङीष् प्राप्तः । बाला ।
वत्सा । होडा । मन्दा । विलाता ।एषु ‘वयसि प्रथमे’(सू. 478) इति ङीप् प्राप्तः । ‘सम्भस्त्राजिनशणपिण्डेभ्यः फलात्’
(वा 2499) । संफला । भस्त्रफला । ‘ङ्यापोः’(सू. 1001) इति ह्रस्वः।‘सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात्’ (वा
1496) । सत्पुष्पा । प्राक्पुष्पा । प्रत्यक्पुष्पा । ‘शूद्रा चामहत्पूर्वा जातिः’
(वा 2400-2401) । पुंयोगे तु शूद्री । अमहत्पूर्वा किम् ?
महाशूद्री । क्रुञ्चा । उष्णिहा । देवविशा । ज्येष्ठा ।
कनिष्ठा । मध्यमेति पुंयोगेऽपि । कोकिला जातावपि । ‘मूलान्नञः’ (वा 2500) । अमूला
। ‘ऋन्नेभ्यो ङीप्’(सू. 306) । कर्त्री । दण्डिनी ॥
455: उगितश्च (4-1-6) उगिदन्तात्प्रातिपदिकात् स्त्रियां ङीप् स्यात् । भवती । पचन्ती । ‘शप्श्यनोः’(सू. 446) इति नुम् । ‘उगिदचाम्’ (सू.361) इति सूत्रेऽज्ग्रहणेन धातोश्चेदुगित्कार्यं
तर्ह्यञ्चतेरेव इति नियम्यते । तेनेह न । उखास्रत् । क्विप् । ‘अनिदिताम्’ (सू.415) इति नलोपः । पर्णध्वत् । अञ्चतेस्तु स्यादेव । प्राची ।
प्रतीची ॥
456: वनो र च (4-1-7) वन्नन्तात्तदन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् स्यात्
रश्चान्तादेशः । वन्निति ङ्वनिप्क्वनिप्वनिपां सामान्यग्रहणम् । प्रत्ययग्रहणे
यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् । तेन प्रातिपदिकविशेषणात्तदन्तान्तमपि
लभ्यते । सुत्वानमतिक्रान्ता अतिसुत्वरी । अतिधीवरी । शर्वरी ।‘वनो न हश इति
वक्तव्यम्’ (वा 2405) । हशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्तान्ताच्च
प्रातिपदिकात् ङीप् रश्च नेत्यर्थः । ओणृ अपनयने । वनिप् । ‘विड्वनोः’ (सू.2982) इत्यात्वम् । अवावा ब्राह्मणी । राजयुध्वा । ‘बहुव्रीहौ
वा’ (वा 2407) । बहुधीवरी । बहुधीवा । पक्षे डाप् वक्ष्यते ॥
457: पादोऽन्यतरस्याम् (4-1-8) पाच्छब्दः कृतसमासान्तस्तदन्तात्प्रतिपदिकात् ङीब्वा स्यात्
। द्विपदी । द्विपात् ॥
458: टाबृचि (4-1-9) ऋचि वाच्यायां पादन्ताट्टाप् स्यात् । द्विपदा ऋक् । एकपदा
। ‘न षट्स्वस्रादिभ्यः’(सू. 308) । पञ्च । चतस्रः । पञ्चेत्यत्र नलोपे कृतेऽपि ‘ष्णान्ता
षट्’ (सू.369) इति षट्संज्ञां प्रति ‘नलोपः सुप्स्वर’(सू. 353) इति नलोपस्यासिद्धत्वात् ‘न षट्स्वस्रादिभ्यः’ (सू.308) इति न टाप् ॥
459: मनः (4-1-11) मन्नन्तान्न ङीप् । सीमा । सीमानौ ॥
460: अनो बहुव्रीहेः (4-1-12) अन्नन्ताद्बहुव्रीहेर्न ङीप् । बहुयज्वा । बहुयज्वानौ ॥
461: डाबुभाभ्यामन्यतरस्याम् (4-1-13)
सूत्रद्वयोपात्ताभ्यां
डाब् वा स्यात् ॥ सीमा । सीमे । सीमानौ । दामा । दामे । दामानौ । न पुंसि
दामेत्यमरः । बहुयज्वा । बहुयज्वे । बहुयज्वानौ ॥
462: अन उपधालोपिनोऽन्यतरस्याम् (4-1-28)
अन्नन्ताद्बहुव्रीहेरुपधालोपिनो
वा ङीप् स्यात् । पक्षे डाब्निषेधौ। बहुराज्ञी । बहुराज्ञौ । बहुराजे । बहुराजानौ
॥
463: प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः (7-3-44)
प्रत्ययस्थात्ककारात्पूर्वस्याऽकारस्येकारः
स्यादापि परे, स आप् सुपः परो न चेत् । सर्विका । कारिका । अतः किम् ?
नौका । प्रत्ययस्थात्किम् ? शक्नोतीति शका । असुपः किम् ? बहुपरिव्राजका नगरी । कात्किम् ?
नन्दना । पूर्वस्य किम् ? परस्य माभूत् । कटुका । तपरः किम् ?
राका। आपि किम् ? कारकः ।‘मामकनरकयोरुपसंख्यानम्’ (वा 4524) । मामिका ।
नरान्कायतीति नरिका ।‘त्यक्त्यपोश्च’ (वा 4525) । दाक्षिणात्यिका । इहत्यिका ॥
464: न यासयोः (7-3-45) यत्तद्दोरस्येन्न स्यात् । यका । सका । यकाम् । तकाम् ।‘त्यकनश्च
निषेधः’ (वा 4526) । उपत्यका । अधित्यका। ‘आशिषि वुनश्च न’ (वा 4528) । जीवका ।
भवका । ‘उत्तरपदलोपे च’ (वा 4529) । देवदत्तिका । देवका । ‘क्षिपकादीनां च न’ (वा
4530) । क्षिपका । ध्रुवका । कन्यका । चटका । ‘तारका ज्योतिषि’ (वा 4531) ।
अन्यत्र तारिका । ‘वर्णका तान्तवे’ (वा 4532) । अन्यत्र वर्णिका। ‘वर्तका शकुनौ
प्राचाम्’ (वा 4533) । उदीचां तु वर्तिका । ‘अष्टका पितृदैवत्ये’ (वा 4534) ।
अष्टिकान्या ।‘सूतकापुत्रिकावृन्दारकाणां वेति वक्तव्यम्’ (वा 4535) । इह वा अ इति
च्छेदः । कात्पूर्वस्याकारादेशो वेत्यर्थः । तेन पुत्रिकाशब्दे ङीन इवर्णस्य
पक्षेऽकारः । अन्यत्रेत्त्वबाधनार्थमकारस्यैव पक्षेऽकारः । सूतका । सूतिकेत्यादि ॥
465: उदीचामातः स्थाने यकपूर्वायाः (7-3-46)
यकपूर्वस्य
स्त्रीप्रत्ययाकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्येद्वा स्यादापि परे । ‘केऽणः’(सू.
834) इति ह्रस्वः । आर्यका । आर्यिका । चटकका । चटकिका । आतः
किम् ?
सांकाश्ये भवा सांकाश्यिका । यकेति किम् ?
अश्विका । स्त्रीप्रत्ययेति किम् ?
शुभं यातीति शुभंयाः । अज्ञाता शुभंयाः शुभंयिका । ‘धात्वन्तयकोस्तु
नित्यम्’ (वा 4536) । सुनयिका । सुपाकिका ॥
466: भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि (7-3-47)
स्वेत्यन्तं लुप्तषष्ठीकं
पदम् । एषामत इद्वा स्यात् । तदन्तविधिनैव सिद्धे नञ्पूर्वाणामपीति स्पष्टार्थम् ।
भस्त्राग्रहणमुपसर्जनार्थम् । अन्यस्य तूत्तरसूत्रेण सिद्धम् । एषा द्वा एतयोस्तु
सपूर्वयोर्नेत्त्वम् । अन्तर्वर्तिनीं विभक्तिमाश्रित्याऽसुप इति प्रतिषेधात् ।
अनेषका । परमैषका । अद्वके। परमद्वके । स्वशब्दग्रहणं संज्ञोपसर्जनार्थम् । इह हि ‘आतः
स्थाने’ इत्यनुवृत्तं स्वशब्दस्यातो विशेषणम् । नतु द्वैषयोरसंभवात् ।
नाप्यन्येषामव्यभिचारात् । स्वशब्दस्त्वनुपसर्जनमात्मीयवाची अकजर्हः । अर्थान्तरे
तु न स्त्री । संज्ञोपसर्जनीभूतस्तु कप्रत्ययान्तत्वाद्भवत्येवोदाहरणम् । एवं
चात्मीयायां स्विका परमस्विकेति नित्यमेवेत्वम् । निर्भस्त्रका । निर्भस्त्रिका ।
एषका । एषिका । कृतषत्वनिर्देशान्नेह विकल्पः । एतिके । एतिकाः । अजका । अजिका।
ज्ञका । ज्ञिका । द्वके । द्विके । निःस्वका । निःस्विका ॥
467: अभाषितपुंस्काच्च (7-3-48) एतस्माद्विहितस्यातः स्थानेऽत इद्वा स्यात् । गङ्गका ।
गङ्गिका । बहुव्रीहेर्भाषितपुंस्कत्वात्ततो विहितस्य नित्यम् । अज्ञाता अखट्वा
अखट्विका । शैषिके कपि तु विकल्प एव ॥
468: आदाचार्याणाम् (7-3-49) पूर्वसूत्रविषये आद्वा स्यात् । गङ्गाका । गङ्गिका ।
उक्तपुंस्कात्तु शुभ्रिका ॥
469: अनुपसर्जनात् (4-1-14) अधिकारोऽयं ‘यूनस्तिः’(सू. 531) इत्यभिव्याप्य । अयमेव स्त्रीप्रत्ययेषु तदन्तविधिं
ज्ञापयति ॥
470: टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4-1-15)
अनुपसर्जनं यट्टिदादि
तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्यात् । कुरुचरी ।
उपसर्जनात्वान्नेह बहुकुरूचरा । नदट्, नदी । वक्ष्यमाणेत्यत्र टित्त्वादुगित्त्वाच्च ङीप्
प्राप्तः । यासुटो ङित्त्वेन ‘लाश्रयमनुबन्धकार्यं नादेशानाम्’ (प 70) इति
ज्ञापनान्न भवति । श्नः शानचः शित्त्वेन क्वचिदनुबन्धकार्येऽप्यनल्विधाविति
निषेधज्ञापनाद्वा । सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुयसी-ऊरुद घ्नी-ऊरुमात्री ।
पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी ।‘ताच्छीलिके णेऽपि’ (प 68) । चौरी
॥ ‘नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंङ्ख्यानम्’ (वा 2425) । स्त्रैणी । पौंस्नी ।
शाक्तीकी । आढ्यङ्करणी । तरुणी। तलुनी ॥
471: यञश्च (4-1-16) यञन्तात्स्त्रियां ङीप्स्यात् । आकारलोपे कृते ॥
472: हलस्तद्धितस्य (6-4-150) हल उत्तरस्य तद्धितयकारस्योपधाभूतस्य लोपः स्यादीति परे ।
गार्गी ॥ ‘अनपत्याधिकारस्थान्न ङीप्’ (वा 2426) । द्वीपे भवा द्वैप्या ।
अधिकारग्रहणान्नेह । देवस्यापत्यं दैव्या । देवाद्यञञाविति हि यञ् प्राग्दीव्यतीयो
न त्वपत्याधिकारपठितः ॥
473: प्राचां ष्फ तद्धितः (4-1-17)
यञन्तात्ष्फो वा स्यात्
स्त्रियां स च तद्धितः ॥
474: षः प्रत्ययस्य (1-3-6) प्रत्ययस्यादिः ष इत्स्यात् ॥
475: आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् (7-1-2)
प्रत्ययादिभूतानां फादीनां
क्रमादायन्नादय आदेशाः स्युः । तद्धितान्तत्वात्प्रातिपदिकत्वम् ।
षित्त्वसामर्थ्यात् ष्फेणोक्तेऽपि स्त्रीत्वे ‘षिद्गौरा-’(सू. 498) इति वक्ष्यमाणो ङीष् । गार्ग्यायणी ॥
476: सर्वत्र लोहितादिकतन्तेभ्यः (4-1-18)
लौहितादिभ्यः
कतशब्दान्तेभ्यो यञन्तेभ्यो नित्यं ष्फः स्यात् । लौहित्यायनी । कात्यायनी ॥
477: कौरव्यमाण्डूकाभ्यां च (4-1-19)
आभ्यां ष्फः स्यात् ।
टाप्ङीषोरपवादः । ‘कुर्वादिभ्यो ण्यः’(सू. 1175) । कौरव्यायणी । ‘ढक् च मण्डूकात्’(सू. 1122) इत्यण् । माण्डूकायनी ।‘आसुरेरुपसङ्ख्यानम्’ (वाल2433) ॥
आसुरायणी ॥
478: वयसि प्रथमे (4-1-20) प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप् स्यात् । कुमारी ।‘वयस्यचरम
इति वाच्यम्’ (वाल3435) । वधूटी । चिरण्टी । वधूटचिरण्टशब्दौ यौवनवाचिनौ । अतः
किम् ?
शिशुः । कन्याया न ।‘कन्यायाः कनीन च’ (सू.1119) इति निर्देशात् ॥
479: द्विगोः (4-1-21) अदन्तात् द्विगोर्ङीप् स्यात् । त्रिलोकी ।
अजादित्वात्त्रिफला । त्र्यनीका सेना ॥
480: अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (4-1-22)
अपरिमाणान्ताद्बिस्ताद्यन्ताच्च
द्विगोर्ङीप् न स्यात्तद्धितलुकि सति । पञ्चभिरश्वैः क्रीता पञ्चाश्वा ।
आर्हीयष्ठक् । ‘अध्यर्ध’(सू. 1693) इति लुक् । द्वौ बिस्तौ पचति द्विबिस्ता । द्व्याचिता ।
द्विकम्बल्या । परिमाणान्तात्तु द्व्याढकी । तद्धितलुकि किम् ?
समाहारे पञ्चाश्वी ॥
481: काण्डान्तात्क्षेत्रे (4-1-23)
क्षेत्रे यः काण्डान्तो
द्विगुस्ततो न ङीप् तद्धितलुकि सति । द्वे काण्डे प्रमाणमस्याः द्विकाण्डा
क्षेत्रभक्तिः । ‘प्रमाणे द्वयसच्’(सू. 1838इति विहितस्य मात्रचः प्रमाणे लः, द्विगोर्नित्यम् (वा
3129-30) । इति लुक् । क्षेत्रे किम् ? द्विकाण्डी रज्जुः ॥
482: पुरुषात्प्रमाणेऽन्यतरस्याम् (4-1-24)
प्रमाणे यः
पुरुषस्तदन्ताद्द्विगोर्ङीप् वा स्यात्तद्धितलुकि । द्वौ पुरुषौ प्रमाणमस्याः सा
द्विपुरुषी द्विपुरुषा वा परिखा ॥
483: ऊधसोऽनङ् (5-4-131) ऊधोन्तस्य बहुव्रीहेरनङादेशः स्यात् स्त्रियाम् । इत्यनङि
कृते डाब् ङीब् निषेधेषु प्राप्तेषु ॥
484: बहुव्रीहेरूधसो ङीष् (4-1-25)
ऊधोन्ताद्बहुव्रीहेर्ङीष्
स्यात् स्त्रियाम् । कुण्डोध्नी । स्त्रियां किम् ? कुण्डोधो धैनुकम् । इहानङपि न । तद्विधौ ‘स्त्रियाम्’ (वा
3367) । इत्युपसङ्ख्यानात् ॥
485: संख्याऽव्ययादेर्ङीप् (4-1-26)
ङीषोऽपवादः । द्व्यूध्नी ।
अत्यूध्नी । बहुव्रीहेरित्येव । ऊधोऽतिक्रान्ता अत्यूधाः ॥
486: दामहायनान्ताच्च (4-1-27) सङ्ख्यादेर्बहुव्रीहेर्दामान्ताद्धायनान्ताच्च ङीप् स्यात्
। दामान्ते डाप्प्रतिषेधयोः प्राप्तयोर्हायनान्ते टापि प्राप्ते वचनम् ।
द्विदाम्नी । अव्ययग्रहणाऽननुवृत्तेरुद्दामा वडवेत्यत्र डाब्निषेधावपि पक्षे स्तः
। द्विहायनी बाला । ‘त्रिचतुर्भ्यां हायनस्य णत्वं वाच्यम्’ (वा 5038) ।‘वयोवाचकस्यैव
हायनस्य ङीप् णत्वं चेष्यते’ (वा 2441) । त्रिहायणी । चतुर्हायणी । वयसोऽन्यत्र । द्विहायना,
त्रिहायना चतुर्हायना शाला ॥
487: नित्यं संज्ञाछन्दसोः (4-1-29)
अन्नन्ताद्बहुव्रीहेरुपधालोपिनो
ङीप् । सुराज्ञी नाम नगरी । अन्यत्र पूर्वेण विकल्प एव । वेदे तु शतमूर्ध्नी ॥
488: केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च (4-1-30)
एभ्यो नवभ्यो नित्यं ङीप्
स्यात्सञ्ज्ञाछन्दसोः । अथोत इन्द्रः केवलीर्विशः । मामकी । भागधेयी । पापी । अपरी
। समानी । आर्यकृती । सुमङ्गली । भेषजी । अन्यत्र केवला इत्यादि । मामकग्रहणं
नियमार्थम् । अण्णन्तत्वादेव सिद्धेः । तेन लोकेऽसंज्ञायां मामिका ।
489: अन्तर्वत्पतिवतोर्नुक् (4-1-32)
एतयोः स्त्रियां नुक्
स्यात् ।‘ऋन्नेभ्यो ङीप्’(सू. 306) । गर्भिण्यां जीवद्भर्तृकायां च प्रकृतिभागौ निपात्येते ।
तत्रान्तरस्त्यस्यां गर्भ इति विग्रहे अन्तश्शब्दस्याधिकरणशक्तिप्रधानतयाऽस्तिसामानाधिकरण्याभावादप्राप्तो
मतुप् निपात्यते । पतिवत्नीत्यत्र तु वत्वं निपात्यते । अन्तर्वत्नी । पतिवत्नी ।
प्रत्युदाहरणं तु । अन्तरस्त्यस्यां शालायां घटः । पतिमती पृथिवी ॥
490: पत्युर्नो यज्ञसंयोगे (4-1-33)
पतिशब्दस्य नकारादेशः
स्याद्यज्ञेन सम्बन्धे । वसिष्ठस्य पत्नी । तत्कर्तृकयज्ञस्य फलभोक्त्रीत्यर्थः ।
दम्पत्योः सहाधिकारात् ॥
491: विभाषा सपूर्वस्य (4-1-34) पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात् ।
गृहस्य पतिः गृहपतिः । गृहपत्नी । अनुपसर्जनस्य इतीहोत्तरार्थमनुवृत्तमपि न
पत्युर्विशेषणं, किन्तु तदन्तस्य । तेन बहुव्रीहावपि। दृढपत्नी । दृढपतिः ।
वृषलपत्नी । वृषलपतिः । अथ वृषलस्य पत्नीति व्यस्ते कथमिति चेत् । पत्नीव
पत्नीत्युपचारात् । यद्वा । आचारक्विबन्तात्कर्तरि क्विप् । अस्मिंश्च पक्षे ।
पत्नियौ । पत्नियः । इतीयङ्विषये विशेषः। सपूर्वस्य किम् ?
गवां पतिः स्त्री ॥
492: नित्यं सपत्न्यादिषु (4-1-35)
पूर्वविकल्पापवादः ।
समानस्य सभावोऽपि निपात्यते । समानः पतिर्यस्याः सा सपत्नी । एकपत्नी । वीरपत्नी ॥
493: पूतक्रतोरै च (4-1-36) अस्य स्त्रियामै आदेशो ङीप्च । ‘इयं त्रिसूत्री पुंयोगे
एवेष्यते’ (वा 2449) । पूतक्रतोः स्त्री पूतक्रतायी । ‘यया तु क्रतवः पूताः
स्यात्पूतक्रतुरेव सा ’।
494: वृषाकप्यग्निकुसितकुसिदानामुदात्तः (4-1-37)
एषामुदात्त ऐ आदेशः स्यात्
ङीप् च । वृषाकपेः स्त्री वृषाकपायी । हरविष्णू वृषाकपी इत्यमरः । वृषाकपायी
श्रीगौर्योरिति च । अग्नायी । कुसितायी । कुसिदायी । कुसिदशब्दो ह्रस्वमध्यो नतु
दीर्घमध्यः ॥
495: मनोरौ वा (4-1-38) मनुशब्दस्यौकारादेशः स्यादुदात्त ऐकारश्च वा ताभ्यां
सन्नियोगशिष्टो ङीप् च । मनोः स्त्री मनावी । मनायी । मनुः ॥
496: वर्णादनुदात्तात्तोपधात्तो नः (4-1-39)
वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा
ङीप् स्यात्तकारस्य नकारादेशश्च । एनी । एता । रोहिणी । रोहिता । ‘वर्णानां
तणतिनितान्तानाम्’ (फि33) इति फिट्सूत्रेणाद्युदात्तः । ‘त्र्येण्या च शलल्या’ इति
गृह्यसूत्रम् । त्रीण्येतानि यस्या इति बहुव्राहिः । अनुदात्तात् किम् ?
श्वेता । ‘घृतादीनां च’ (फि 21) इत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री । ‘पिशङ्गादुपसङ्ख्यानम्’
(वा 2455) । पिशङ्गी । पिशङ्गा । ‘असितपलितयोर्न’ (वा 2453) । असिता । पलिता । ‘छन्दसि
क्नमेके’ (वा 2454) । असिक्नी । पलिक्नी । अवदातशब्दस्तु न वर्णवाची किंतु
विशुद्धवाची । तेन अवदाता इत्येव ॥
497: अन्यतो ङीष् (4-1-40) तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात्प्रातिपदिकात् स्त्रियां
ङीष् स्यात् । कल्माषी। सारङ्गी । ‘लघावन्ते द्वयोश्च बह्वचो गुरुः’ (फि 42)
इति मध्योदात्तावेतौ । अनुदात्तान्तात्किम् ?
कृष्णा । कपिला ॥
498: षिद्गौरादिभ्यश्च (4-1-41) षिद्भ्यो गौरादिभ्यश्च ङीष् स्यात् । नर्तकी । गौरी । ‘आमनडुहः
स्त्रियां वा’ (वा 4378) । अनडुही ॥ अनड्वाही । पिप्पल्यादयश्च (ग 47) ।
आकृतिगणोऽयम् ॥
499: सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः (6-4-149)
यस्य लोपः स्यात्स चेद्यः
सूर्याद्यवयवः ।‘मत्स्यस्य ङ्याम्’ (वा 4198) ।‘सूर्यागस्त्ययोश्छे च ङ्यां च’ (वा
4199) ।‘तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्’ (वा 4200) । मत्सी ।‘मातरि
षिच्च’ (वा 2710) । इति षित्त्वादेव सिद्धे गौरादिषु मातामहीशब्दपाठादनित्यः षितां
ङीष् । दंष्ट्रा ॥
500:जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु
(4-1-42)
एभ्य एकादशभ्यः
प्रातिपदिकेभ्यः क्रमात्वृत्त्यादिष्वर्थेषु ङीष् स्यात् । जानपदौ वृत्तिश्चेत्,
अन्या तु जानपदी । उत्सादित्वादञन्तत्वे ‘टिड्ढा’(सू. 470) इति ङीप्याद्युदात्तः । कुण्डी अमत्रं चेत् । कुण्डान्या
। कुडि दाहे । ‘गुरोश्च हलः’(सू. 3280) इति अप्रत्ययः । यस्तु अमृते जारजः कुण्ड इति
मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव । अमत्रे हि स्त्रीविषयत्वादप्राप्तो
ङीष् विधीयते नतु नियम्यते। गोणी आवपनं चेत् । गोणान्या । स्थली अकृत्रिमा चेत् ।
स्थलाऽन्या । भाजी श्राणा चेत् । भाजाऽन्या । नागी स्थूला चेत् । नागाऽन्या ।
गजवाची नागशब्दः स्थौल्यगुणयोगादन्यत्र प्रयुक्त उदाहरणम् । सर्पवाची तु
दैर्घ्यगुणयोगादन्यत्र प्रयुक्तः प्रत्युदाहरणम् । काली वर्णश्चेत् । कालाऽन्या ।
नीली अनाच्छादनं चेत् । नीलाऽन्या । नील्या रक्ता शाटीत्यर्थः । ‘नील्या
अन्वक्तव्यः’ (वा 2680) इत्यन् । अनाच्छादनेऽपि न सर्वत्र, किंतु ‘नीलादौषधौ’ (वा
2456) । नीली ।‘प्राणिनि च’ (वा2458) । नीली गौः ।‘संज्ञायां वा’ (वा 2457) । नीली
। नीला । कुशी अयोविकारश्चेत् । कुशाऽन्या । कामुकी मैथुनेच्छा चेत् । कामुकाऽन्या
। कबरी केशानां संनिवेशश्चेत्। कबराऽन्या । चित्रेत्यर्थः ॥
501: शोणात्प्राचाम् (4-1-43) शोणी । शोणा ॥
502: वोतो गुणवचनात् (4-1-44) उदन्ताद्गुणवाचिनो वा ङीष् स्यात् । मृद्वी । मृदुः । उतः
किम् ?
शुचिः । गुणेति किम् ? आखुः ।‘खरुसंयोगोपधान्न’ (वा 2460) । खरुः पतिंवरा कन्या ।
पाण्डुः ॥
503: बह्वादिभ्यश्च (4-1-45) एभ्यो वा ङीष् स्यात् । बह्वी । बहुः । कृदिकारादक्तिनः (ग
50) । रात्रिः । रात्री । सर्वतोऽक्तिन्नर्थादित्येके (ग 51) । शकटिः । शकटी ।
अक्तिन्नर्थात्किम् ? अजननिः । क्तिन्नन्तत्वादप्राप्ते विध्यर्थं पद्धतिशब्दो
गणे पठ्यते । ‘हिमकाषिहतिषु च’(सू. 192) इति पद्भावः । पद्धतिः । पद्धती ॥
504: पुंयोगादाख्यायाम् (4-1-48) या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष् स्यात् ।
गोपस्य स्त्री गोपी ॥ ‘पालकान्तान्न’ (वा 2461) । गोपालिका । अश्वपालिका ।‘सूर्याद्देवतायां
चाप् वाच्यः’ (वा 2471) । सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् ?
सूरी कुन्ती । मानुषीयम् ॥
505: इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्
(4-1-49)
एषामानुगागमः स्यात् ङीष्
च । इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोग एवेष्यते । तत्र ङीषि सिद्धे
आनुगागममात्रं विधीयते । इतरेषां चतुर्णामुभयम् । इन्द्राणी । हिमारण्ययोर्महत्त्वे
(वा 2472) । महद्धिमं हिमानी । महदरण्यम् अरण्यानी । ‘यवाद्दोषे’ (वा 2473) ।
दुष्टो यवो यवानी । ‘यवनाल्लिप्याम्’ (वा 2474) । यवनानां लिपिर्यवनानी ।
मातुलोपाध्याययोरानुग्वा । मातुलानी । मातुली । उपाध्यायानी । उपाध्यायी । या तु
स्वयमेवाध्यापिका तत्र वा ङीष् वाच्यः । उपाध्यायी । उपाध्याया ।‘आचार्यादणत्वं च’
(वा 2477) । आचार्यस्य स्त्री आचार्यानी । पुंयोग इत्येव । आचार्या स्वयं
व्याख्यात्री । ‘अर्यक्षत्रियाभ्यां वा स्वार्थे’ (वा 2478) । अर्याणी । अर्या ।
स्वामिनी वैश्या वेत्यर्थः । क्षत्रियाणी । क्षत्रिया । पुंयोगे तु । अर्यी ।
क्षत्रियी । कथं ब्रह्माणीति । ब्रह्माणमानयति जीवयतीति ‘कर्मण्यण्’(सू. 2913) ॥
506: क्रीतात्करणपूर्वात् (4-1-50)
क्रीतान्ताददन्तात्करणादेः
स्त्रियां ङीष् स्यात् । वस्त्रक्रीती । क्वचिन्न । धनक्रीता ॥
507: क्तादल्पाख्यायाम् (4-1-51) करणादेः क्तान्तात् स्त्रियां ङीष् स्यादल्पत्वे द्योत्ये ।
अभ्रलिप्ती द्यौः अल्पाख्यायां किम् ?चन्दनलिप्ताङ्गना ॥
508: बहुव्रीहेश्चान्तोदात्तात् (4-1-52)
बहुव्रीहेः
क्तान्तादन्तोदात्ताददन्तात् स्त्रियां ङीष् स्यात् । ‘जातिपूर्वादिति वक्तव्यम्’
(वा 2484) । तेन बहुनञ्सुकालसुखादिपूर्वान्न । ऊरुभिन्नी । नेह । बहुकृता ।‘जातान्तान्न’
(वा 2479) । दन्तजाता । पाणिगृहीती भार्यायाम् (वा 2480) । पाणिगृहीतान्या ॥
509: अस्वाङ्गपूर्वपदाद्वा (4-1-53)
पूर्वेण नित्ये प्राप्ते
विकल्पोऽयम् । सुरापीती । सुरापीता । अन्तोदात्तात्किम् ?
वस्त्रच्छन्ना । अनाच्छादनादित्युदात्तनिषेधः । अत एव
पूर्वेणापि न ङीष् ॥
510: स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् (4-1-54)
असंयोगोपधमुपसर्जनं
यत्स्वाङ्गं तदन्ताददन्तात्प्रातिपदिकाद्वा ङीष् । केशानतिक्रान्ता अतिकेशी ।
अतिकेशा । चन्द्रमुखी । चन्द्रमुखा । संयोगोपधात्तु सुगुल्फा । उपसर्जनात् किम् ?
शिखा । स्वाङ्गं त्रिधा ।
अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् ।
सुस्वेदा, द्रवत्वात् । सुज्ञाना अमूर्तत्वात् । सुमुखा
शाला अप्राणिस्थत्वात् । सुशोफा विकारजत्वात् । अतत्स्थं तत्र दृष्टं च । सुकेशी
सुकेशा वा रथ्या । अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् । तेन चेत्तत्तथा युतम्
। सुस्तनी सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् ॥
511: नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च (4-1-55)
एभ्यो वा ङीष् स्यात् ।
आद्ययोर्बह्वज्लक्षणो निषेधो बाध्यते । पुरस्तादपवादन्यायात् । ओष्ठादीनां
पञ्चानां तु असंयोगोपधादिति पर्युदासे प्राप्ते वचनम् । मध्येऽपवादन्यायात् ।
सहनञ्लक्षणस्तु प्रतिषेधः परत्वादस्य बाधकः । तुङ्गनासिकी । तुङ्गनासिका इत्यादि ।
नेह । सहनासिका । अनासिका । अत्र वृत्तिः ।अङ्गगात्रकण्ठेभ्यो वक्तव्यम् । स्वङ्गी
। स्वङ्गेत्यादि । एतच्चानुक्तसमुच्चयार्थेन चकारेण सङ्ग्राह्यमिति केचित् ।
भाष्याद्यनुक्तत्वादप्रमाणमिति प्रामाणिकाः । अत्र वार्तिकानि ।‘पुच्छाच्च’ (वा
2489) । सुपुच्छी । सुपुच्छा । ‘कबरमणिविषशरेभ्यो नित्यम्’ (वा 2490) । कबरं
चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरी इत्यादि । उपमानात्पक्षाच्च पुच्छाच्च
(वा 2491) । नित्यमित्येव । उलूकपक्षी शाला । उलूकपुच्छी सेना ॥
512: न क्रोडादिबह्वचः (4-1-56) क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष् । कल्याणक्रोडा ।
अश्वानामुरः क्रोडा । आकृतिगणोऽयम् । सुजघना ॥
513: सहनञ्विद्यमानपूर्वाच्च (4-1-57)
सहेत्यादित्रिकपूर्वान्न
ङीष् । सकेशा । अकेशा । विद्यमाननासिका ॥
514: नखमुखात्संज्ञायाम् (4-1-58) ङीष् न स्यात् । शूर्पणखा । गौरमुखा । संज्ञायां किम् ?
ताम्रमुखी कन्या ॥
515: दिक्पूर्वपदान्ङीप् (4-1-60) दिक्पूर्वपदात्स्वाङ्गान्तात्प्रातिपदिकात्परस्य ङीषो
ङीबादेशः स्यात् । प्राङ्मुखी । आद्युदात्तं पदम् ॥
516: वाहः (4-1-61) वाहन्तात्प्रातिपदिकात् ङीष् स्यात् । ङीषेवानुवर्तते न
ङीप् । दित्यवाट् च मे दित्यौही च मे ॥
517: सख्यशिश्वीति भाषायाम् (4-1-62)
इति शब्दः प्रकारे
भाषायामित्यस्यानन्तरं द्रष्टव्यः । तेन छन्दस्यपि क्वचित् । सखी । अशिश्वी ।
आधेनवो धुनयन्तामशिश्वीः ॥
518: जातेरस्त्रीविषयादयोपधात् (4-1-63)
जातिवाचि यन्न च स्त्रियां
नियतमयोपधं ततः स्त्रियां ङीष् स्यात् । आकृतिग्रहणा जातिः ।
अनुगतसंस्थानव्यङ्ग्येत्यर्थः । तटी ।
-
लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या–
असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्व्यक्त्यन्तरे
कथनं विनापि सुग्रहा जातिरिति लक्षणान्तरम् । वृषली । सत्यन्तं किम् ?
शुक्ला । सकृदित्यादि किम् ? देवदत्ता ॥ गोत्रं च चरणैः सह (वा) ॥ अपत्यप्रत्ययान्तः
शाखाध्येतृवाची च शब्दो जातिकार्यं लभत इत्यर्थः । औपगवी । कठी । बह्वृची ।
ब्राह्मणीत्यत्र तु शार्ङ्गरवादिपाठात् ङीना ङीष् बाध्यते । जातेः किम् ?
मुण्डा । अस्त्रीविषयात्किम् ?
बलाका । अयोपधात्किम् ? क्षत्रिया । योपधप्रतिषेधे
हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः (वा 2495) । हयी । गवयी । मुकयी । ‘हलस्तद्धितस्य’(सू.
472) इति यलोपः ।[‘मनोर्जातावञ्यतौ षुक्च’ (सू. 1185]।
मनुषी ।‘मत्स्यस्य ङ्याम्’ (वा 4198) । मत्सी ॥
519: पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च (4-1-64)
पाकाद्युत्तरपदाज्जातिवाचिनः
स्त्रीविषयादपि ङीष् स्यात् । ओदनपाकी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी ।
दासीफली । दर्भमूली । गोवाली । ओषधिविशेषे रूढा एते ॥
520: इतो मनुष्यजातेः (4-1-65) ङीष् स्यात् । दाक्षी । योपधादपि । उदमेयस्यापत्यं औदमेयी ।
मनुष्येति किम् ? तित्तिरिः ॥
521: ऊङुतः (4-1-66) उकारान्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् ।
कुरूः ।‘कुरुनादिभ्यो ण्यः’(सू. 1190) ।‘तस्य स्त्रियामवन्ति-’(सू. 1195) इत्यादिना लुक् । अयोपधात् किम् ?
अध्वर्युः। ‘अप्राणिजातेश्चारज्ज्वादीनामुपसङ्ख्यानम्’ (वा
2502) । रज्ज्वादिपर्युदासादुवर्णान्तेभ्य एव । अलाब्वा । कर्कन्ध्वा ।
अनयोर्दीर्घान्तत्वेऽपि ‘नोङ्धात्वोः’(सू. 3721) इति विभक्त्युदात्तत्वप्रतिषेध ऊङः फलम् । प्राणिजातेस्तु
कृकवाकुः । रज्ज्वादेस्तु रज्जुः । हनुः ॥
522: बाह्वन्तात्संज्ञायाम् (4-1-67)
स्त्रियामूङ् स्यात् ।
भद्रबाहूः । संज्ञायां किम् ? वृत्तबाहुः ॥
523: पङ्गोश्च (4-1-68) पङ्गूः ।‘श्वशुरस्योकाराकारलोपश्च’ (वा 5039) । चादूङ् ।
पुंयोगलक्षणस्य ङीषोऽपवादः । लिङ्गविशिष्टपरिभाषया स्वादयः । श्वश्रूः ॥
524: ऊरूत्तरपदादौपम्ये (4-1-69) उपमानवाचिपूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ्
स्यात् । करभोरूः ।
525: संहितशफलक्षणवामादेश्च (4-1-70)
अनौपम्यार्थं सूत्रम् ।
संहितोरूः । सैव शफोरूः । शफौ खुरौ ताविव संश्लिष्टत्वादुपचारात् ।
लक्षणशब्दादर्शआद्यच् । लक्षणोरूः । वामोरूः । सहितसहाभ्यां चेति वक्तव्यम् (वा
2503) । हितेन सह सहितौ ऊरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सा
सहोरूः । यद्वा विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥
526: संज्ञायाम् (4-1-72) कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यात् । कद्रूः ।
कमण्डलूः । संज्ञायां किम् ? कद्रुः । कमण्डलुः । अच्छन्दोऽर्थं वचनम् ॥
527: शार्ङ्गरवाद्यञो ङीन् (4-1-73)
शार्ङ्गरवादेरञो
योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात् । शार्ङ्गरवी । बैदी ।
जातेरित्यनुवृत्तेः पुंयोगे ङीषेव । नृनरयोर्वृद्धिश्च (ग 54) इति गणसूत्रम् ।
नारी ॥
528: यङश्चाप् (4-1-74) यङन्तात् स्त्रियां चाप् स्यात् । यङ इति ञ्यङ्ष्यङोः
सामान्यग्रहणम् । आम्बष्ठ्या । कारीषगन्ध्या । षाद्यञश्चाप् वाच्यः (वा 2505) ।
पौतिमाष्या ॥
529: आवट्याच्च (4-1-75) अस्माच्चाप् स्यात् । ‘यञश्च’(सू. 471) इति ङीषोऽपवादः । अवटशब्दो गर्गादिः । आवट्या।
530: तद्धिताः (4-1-76) आपञ्चमसमाप्तेरधिकारोऽयम् ॥
531:
यूनस्तिः (4-1-77)
युवन् शब्दात्तिप्रत्ययः
स्यात् स च तद्धितः । लिङ्गविशिष्टपरिभाषया सिद्धे तद्धिताधिकार उत्तरार्थः ।
युवतिः । अनुपसर्जनादित्येव । बहवो युवानो यस्यां सा बहुयुवा । युवतीति तु यौतेः
शत्रन्तात् ङीपि बोध्यम् ॥
॥ इति स्त्रीप्रत्ययप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें