॥ अथ बहुव्रीहिसमासप्रकरणम् ॥
829: शेषो बहुव्रीहिः (2-2-23) अधिकारोऽयम् । ‘द्वितीया श्रिता’–(सू. 683) इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्तमित्यर्थः ॥
830: अनेकमन्यपदार्थे (2-2-24) अनेकं प्रथमान्तमन्यपदार्थे वर्तमानं वा समस्यते स बहुव्रीहिः । अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितम् । प्राप्तमुदकं यं प्राप्तोदको ग्रामः । ऊढरथोऽनड्वान् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । पीताम्बरो हरिः । वीरपुरुषको ग्रामः । प्रथमार्थे तु न । वृष्टे देवे गतः । व्यधिकरणानामपि न । पञ्चभिर्भुक्तमस्य ॥ प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (वा1360) ॥ प्रपतितपर्णः प्रपर्णः ॥ नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (वा 1361) ॥ अविद्यमानपुत्रः अपुत्रः। अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः ॥
831: स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु (6-3-34) भाषितपुंस्कादनूङ् ऊङोऽभावो यस्यामिति बहुव्रीहिः । निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः । ‘गोस्त्रियोः’–(सू. 656) इति ह्रस्वः । चित्रा गावो यस्येति लौकिकविग्रहे । चित्रा अस् गो अस् इत्यलौकिकविग्रहे । चित्रगुः । रूपवद्भार्यः । चित्रा जरती गौर्यस्येति विग्रहे अनेकोक्तेर्बहूनामपि बहुव्रीहिः । अत्र केचित् । चित्राजरतीगुः । जरतीचित्रगुर्वा । एवं दीर्घातन्वीजङ्घः । तन्वीदीर्घाजङ्घः । त्रिपदे बहुव्रीहौ प्रथमं न पुंवत् । उत्तरपदस्य मध्यमेन व्यवधानात् । द्वितीयमपि न पुंवत् । पूर्वपदत्वाभावात् । उत्तरपदशब्दो हि समासस्य चरमावयवे रूढः । पूर्वपदशब्दस्तु प्रथमावयवे रूढ इति वदन्ति । वस्तुतस्तु नेह पूर्वपदमाक्षिप्यते । ‘आनङ् ऋतः’– (सू.921) इत्यत्र यथा । तेनोपान्त्यस्य पुंवदेव । चित्राजरद्गुरित्यादिः । अत एव चित्राजरत्यौ गावौ यस्येति द्वन्द्वगर्भेऽपि चित्राजरद्गुः इति भाष्यम् । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत् । जरच्चित्रगुः । कर्मधारयोत्तरपदे तु चित्रजरद्गवीकः । स्त्रियाः किम् । ग्रमाणि कुलं दृष्टिरस्य ग्रामणिदृष्टिः । भाषितपुंस्कात् किम् । गङ्गाभार्यः । अनूङ् किम् । वामोरूभार्यः । समानाधिकरणे किम् । कल्याण्याः माता कल्याणीमाता । स्त्रियां किम् । कल्याणी प्रधानं यस्य स कल्याणीप्रधानः । पूरण्यां तु ॥
832: अप्पूरणीप्रमाण्योः (5-4-116) पूरणार्थप्रत्ययान्तं यस्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप् स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः ॥पुंवद्भावप्रतिषेधोऽप्प्रत्ययश्च प्रधानपूरण्यामेव (वा 3359-3910) ॥ रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्या। अन्यत्र तु ॥
833: नद्यृतश्च (5-4-153) नद्युत्तरपदादृदन्तोत्तरपदाच्च बहुव्रीहेः कप्स्यात् । पुंवद्भावः ॥
834: केऽणः (7-4-13) के परेऽणो ह्रस्वः स्यात् । इति प्राप्ते ॥
835: न कपि (7-4-14) कपि परे अणो ह्रस्वो न स्यात् । कल्याणपञ्चमीकः पक्षः । अत्र तिरोहितावयवभेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकतृकः । अप्रियादिषु किम् । कल्याणीप्रियः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा । भक्तिः । सचिवा । स्वसा । कान्ता । क्षान्ता । समा । चपला । दुहिता । वामा । अबला । तनया ॥ । सामान्ये नपुंसकम् ॥ दृढं भक्तिर्यस्य स दृढभक्तिः । स्त्रीत्वविवक्षायां तु दृढाभक्तिः ॥
836: तसिलादिष्वाकृत्वसुचः (6-3-35) तसिलादिषु कृत्वसुजन्तेषु परेषु स्त्रियाः पुंवत्स्यात् । परिगणनं कर्तव्यम्। अव्यप्त्यतिव्याप्तिपरिहाराय ॥ त्रतसौ (वा 3918) ॥ तरप्तमपौ (वा 3919) ॥ चरट्जातीयरौ (वा 3920) ॥ कल्पब्देशीयरौ (वा 3921) ॥ रूपप्पाशपौ (वा 3922) ॥ थाल् (वा 3923) ॥ तिल्थ्यनौ (वा 3925) ॥ बह्वीषु बहुत्र । बहुतः । दर्शनीयतरा । दर्शनीयतमा । ‘घरूप’–(सू. 985) इति वक्ष्यमाणो ह्रस्वः परत्वात्पुंवद्भावं बाधते । पट्वितरा । पट्वितमा । पटुचरी । पटुजातीया । दर्शनीयकल्पा । दर्शनीयदेशीया । र्दानीयरूपा । दर्शनीयपाशा । बहुथा । प्रशस्ता वृकी वृकतिः । अजाभ्यो हिता अजथ्या ॥ शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः (वा 3926) ॥ बह्वीभ्यो देहि बहुशः । अल्पाभ्यो देहि अल्पशः ॥ त्वतलोर्गुणवचनस्य (वा 3927) ॥ शुक्लाया भावः शुक्लत्वम् । शुक्लता । गुणवचनस्य किम् । कर्त्र्या भावः कर्त्रीत्वम् । शरदः कृतार्थता इत्यादौ तु सामान्ये नपुंसकम् ॥ भस्याढे तद्धिते (वा 3928) ॥ हस्तिनीनां समूहो हास्तिकम् । अढे किम् । रौहिणेयः । ‘स्त्रीभ्यो ढक्’(सू. 1123) इति ढोऽत्र गृह्यते । ‘अग्नेर्ढक्’(सू. 1236) इति ढकि तु पुंवदेव । अग्नायी देवताऽस्य स्थालीपाकस्य आग्नेयः । सपत्नीशब्दस्त्रिधा । शत्रुपर्यायात्सपत्नशब्दाच्छार्ङ्गरवादित्वात् ङीन्येकः । समानः पतिर्यस्या इति विग्रहे विवाहनिबन्धनं पतिशब्दमाश्रित्य नित्यस्त्रीलिङ्गो द्वितीयः । स्वामिपर्यायपतिशब्देन भाषितपुंस्कस्तृतीयः । आद्ययोः शिवाद्यण् । सपत्न्या अपत्यं सापत्नः । तृतीयात्तु लिङ्गविशिष्टपरिभाषया पत्युत्तरपदलक्षणो ण्य एव न त्वण् । शिवादौ रूढयोरेव ग्रहणात् । सापत्यः ॥ ठक्छसोश्च (वा 3929) ॥ भवत्याश्छात्रा भावत्काः । भवदीयाः । एतद्वार्तिकं ‘एकतद्धिते च’(सू. 1000) इति सूत्रं च न कर्तव्यम् । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः इति भाष्यकारेषट्या गतार्थत्वात् । सर्वमयः । सर्वकाम्यति । सर्विका भार्या यस्य सर्वकभार्यः । सर्वप्रियः इत्यादि । पूर्वस्यैवेदम् । ‘भस्त्रैषाजाज्ञाद्वा’–(सू. 466) इति लिङ्गात्। तेनाकचि एकशेषवृत्तौ च न । सर्विका । सर्वाः ॥ कुक्कुट्यादीनामण्डादिषु (वा 3934) ॥ कुक्कुट्या अण्डम् । मृग्याः पदं मृगपदम् । मृगक्षीरम् । काकशावः ॥
837: क्यङ्मानिनोश्च (6-3-36) एतयोः परतः पुंवत् । एनीवाचरति एतायते । श्येनीवाचरति श्येतायते । स्वभिन्नां कांचिद्दर्शनीयां मन्यते दर्शनीयमानिनी । दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी चैत्रः ॥
838: न कोपधायाः (6-3-37) कोपधायाः स्त्रिया न पुंवत् । पाचिकाभार्यः । रसिकाभार्यः । मद्रिकायते । मद्रिकामानिनी ॥कोपधप्रतिषेधे तद्धितवुग्रणम् (वा 3931) ॥ नेह । पाका भार्या यस्य स पाकभार्यः ॥
839: संज्ञापूरण्योश्च (6-3-38) अनयोर्न पुंवत् । दत्ताभार्यः । दत्तामानिनी । दानक्रियानिमित्तः स्त्रियां पुंसि च संज्ञाभूतोऽयमिति भाषितपुंस्कत्वमस्ति । पञ्चमीभार्यः । पञ्चमीपाशा ॥
840: वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे (6-3-39) वृद्धिशब्देन विहिता या वृद्धिस्तद्धेतुर्यस्तद्धितोऽरक्तविकारार्थस्तदन्ता स्त्री न पुंवत् । स्त्रौघ्नीभार्यः । माथुरीयते । माथुरीमानिनी । वृद्धिनिमित्तस्य किम् । मध्यमभार्यः । तद्धितस्य किम् । काण्डलावभार्यः । वृद्धिशब्देन किम् । तावद्भार्यः । रक्ते तु काषायी कन्था यस्य स काषायकन्थः । विकारे तु हैमी मुद्रिका यस्येति हैममुद्रिकः । वृद्धिशब्देन वृद्धिं प्रति फलोपधानाभावादिह पुंवत् । वैयाकरणभार्यः । सौवश्वभार्यः ॥
841: स्वाङ्गाच्चेतः (6-3-40) स्वाङ्गाद्य ईकारस्तदन्ता स्त्री न पुंवत् । सुकेशीभार्यः । स्वाङ्गात्किम् । पटुभार्यः। ईतः किम् । अकेशभार्यः ॥ अमानिनीति वक्तव्यम् (वा 3932) ॥ सुकेशमानिनी ॥
842: जातेश्च (6-3-41) जातेः परो यः स्त्रीप्रत्यस्तदन्तं न पुंवत् । शूद्राभार्यः । ब्राह्मणीभार्यः । सौत्रस्यैवायं निषेधः । तेन हस्तिनीनां समूहो हास्तिकमित्यत्र ‘भस्याढे’(सू. 3928) इति तु भवत्येव ॥
843: संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये (2-2-25) संख्येयार्थया संख्ययाऽव्ययादयः समस्यन्ते स बहुव्रीहिः । दाशानां समीपे ये सन्ति ते उपदशाः । नव एकादश वेत्यर्थः । ‘बहुव्रीहौ संख्येये’- (सू. 851) इति वक्ष्यमाणो डच् ॥
844: ति विंशतेर्डिति (6-4-142) विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति । आसन्नविंशाः । विंशतेरासन्ना इत्यर्थः । अदूरत्रिंशाः । अधिकचत्वारिंशाः । द्वौ वा त्रयो वा द्वित्राः । दिरावृत्ताः दश द्विदशाः । विंशतिरित्यर्थः ॥
845: दिङ्नामान्यन्तराले (2-2-26) दिशो नामान्यन्तराले वाच्ये प्राग्वत् । दक्षिणस्याः पूर्वस्याश्च दिशोऽन्तरालं दक्षिणपूर्वा । नामग्रहणाद्यौगिकानां न । ऐन्द्र्याश्च कौबेर्याश्चान्तरालं दिक् ॥
846: तत्र तेनेदमिति सरूपे (2-2-27) सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणविषये इदं युद्धं प्रवृत्तमित्यर्थे समस्येते कर्मव्यतिहारे द्योत्ये स बहुव्रीहिः । इतिशब्दादयं विषयविशेषो लभ्यते । इच्समासान्तो वक्ष्यते । तिष्ठद्गुप्रभृतिष्विच्प्रत्यस्य पाठादव्ययीभावत्वमव्यत्वं च । ‘अन्येषामपि दृश्यते’(सू. 3539) दीर्घः । केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि । दण्डैर्दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि ॥
847: ओर्गुणः (6-4-146) उवर्णान्तस्य भस्य गुणः स्यात्तद्धिते । अवादेशः । बाहूबाहवि । ओरोदिति वक्तव्ये गुणोक्तिः संज्ञापूर्वको विधिरनित्यः (प 94) इति ज्ञापयितुम् । तेन स्वायम्भुवमित्यादि सिद्धम् । सरूपे इति किम्। हलेन मूसलेन ॥
848: तेन सहेति तुल्ययोगे (2-2-28) तुल्ययोगे वर्तमानं सहेत्येतत्तृतीयान्तेन प्राग्वत् ॥
849: वोपसर्जनस्य (6-3-82) बहुव्रीह्यवयवस्य सहस्य सः स्याद्वा । पुत्रेण सह सपुत्रः सहपुत्रो वा आगतः । तुल्ययोगवचनं प्रायिकम् । सकमर्कः । सलोमकः ॥
850: प्रकृत्याशिषि (6-3-83) सहशब्दः प्रकृत्या स्यादाशिषि । स्वस्ति राज्ञे सहपुत्राय सहामात्याय ॥ अगोवत्सहलेष्विति वाच्यम् (वा 3990) ॥ सगवे । सवत्साय । सहलाय ॥
851: बहुव्रीहौ संख्येये डजबहुगणात् (5-4-73) संख्येये यो बहुव्रीहिस्तस्माड्डच् स्यात् । उपदशाः । अबहुगणात् किम् । उपबहवः । उपगणाः । अत्र स्वरे विशेषः ॥ संख्यायास्तत्पुरुषस्य वाच्यः (वा 3348) ॥ निर्गतानि त्रिंशतो निस्त्रिंशानि वर्षाणि चैत्रस्य । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खङ्गः ॥
852: बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् (5-4-113) व्यत्ययेन षष्ठी । स्वाङ्गवाचि सक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घे सक्थिनी यस्य स दीर्घसक्थः । जलजाक्षी । स्वाङ्गात् किम् । दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । ‘अक्ष्णोऽदर्शनात्’(सू. 644) इत्यच् ॥
853: अङ्गुलेर्दारुणि (5-4-114) अङ्गुल्यन्ताद्बहुव्रीहेः षच् स्याद्दारुण्यर्थे । पञ्चाङ्गुलयो यस्य तत्पञ्चाङ्गुलं दारु । अङ्गुलिसदृशावयवं धान्यादिविक्षेपणकाष्टमुच्यते । बहुव्रीहेः किम् । द्वे अङ्गुली प्रमाणमस्या द्व्यङ्गुला यष्टिः । तद्धितार्थे तत्पुरुषे ‘तत्पुरुषस्याङ्गुलेः’– (सू.786) इत्यच् । दारुणि किम् । पञ्चाङ्गुलिर्हस्तः ॥
854: द्वित्रिभ्यां ष मूर्ध्नः (5-4-115) आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ । द्विमूर्धः । त्रिमूर्धः ॥ नेतुर्नक्षत्रे अब्वक्तव्यः (वा 3360) ॥ मृगो नेता यासां रात्रीणां ताः मृगनेत्रा रात्रयः । पुष्यनेत्राः ॥
855: अन्तर्बहिर्भ्यां च लोम्नः (5-4-117) आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः ॥
856: अञ् नासिकायाः संज्ञायां नसं चास्थूलात् (5-4-118) नासिकान्ताद्बहुव्रीहेरच् स्यात् नासिकाशब्दश्च नसं प्राप्नोति न तु स्थूलपूर्वात् ॥
857: पूर्वपदात्संज्ञायामगः (8-4-3) पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । द्रुरिव नासिकाऽस्य द्रुणसः । खरणसः । अगः किम् । ऋचामयनम् ऋगयनम् । ‘अणृगयनादिभ्यः’(सू. 1452) इति निपातनाण्णत्वाभावमाश्रित्य अग इति प्रत्याख्यातं भाष्ये । अस्थूलात् किम् । स्थूलनासिकः ॥ खुरखराभ्यां वा नस् (वा 3363) ॥ खुरणाः । खरणाः । पक्षे अजपीष्यते ॥ खुरणसः । खरणसः ॥
858: उपसर्गाच्च (5-4-119) प्रादेर्यो नासिकाशब्दस्तदन्ताद्बहुव्रीहेरच् नासिकाया नसादेशश्च । असंज्ञार्थं वचनम्। उन्नता नासिका यस्य स उन्नसः । उपसर्गादनोत्पर इति तद्भङ्क्त्वा भाष्यकार आह ॥
859: उपसर्गाद्बहुलम् (8-4-28) उपसर्गस्थान्निमित्तात्परस्य नसो नस्य णः स्याद्बहुलम् । प्रणसः ॥ वेर्ग्रो वक्तव्यः (वा 3365) ॥ विगता नासिकाऽस्य विग्रः ॥ ख्यश्च (वा 3366) ॥ विख्यः । कथं तर्हि विनसा हतबान्धवेति भट्टिः। विगतया नासिकयोपलक्षितेति व्याख्येयम् ॥
860: सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः (5-4-120) एते बहुव्रीहावच्प्रत्ययान्ता निपात्यन्ते। शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवाऽस्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्त्रोऽश्रयोऽस्य चतुरश्रः । एण्या इव पादावस्य एणीपदः । अजपदः । प्रोष्ठो गौः, तस्येव पादावस्य प्रोष्ठपदः ॥
861: नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् (5-4-121) अच् स्यात् । अहलः । अहलिः । असक्थः । असक्थिः । एवं दुःसुभ्याम् । शक्त्योरिति पाठान्तरम् । अशक्तः । अशक्तिः ॥
862: नित्यमसिच्प्रजामेधयोः (5-4-122) नञ्दुः सुभ्य इत्येव । अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः। सुमेधाः ॥
863: धर्मादनिच्केवलात् (5-4-124) केवलात्पूर्वपदात्परो यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरनिच् स्यात् । कल्याणधर्मा । केवलात् किम् । परमः स्वो धर्मो यस्येति त्रिपदे बहुव्रीहौ माभूत् । स्वशब्दो हीह न केवलं पूर्वपदम् किंतु मध्यमत्वादापेक्षिकम् । संदिग्धसाध्यधर्मेत्यादौ तु कर्मधारयपूर्वपदो बहव्रीहिः । एवं च परमस्वधर्मेत्यपि साध्वेव । निवृत्तिधर्मा अनुच्छित्तिधर्मेत्यादिवत् । पूर्वपदं तु बहुव्रीहिणाऽऽक्षिप्यते ॥
864: जम्भा सुहरिततृणसोमेभ्यः (5-4-125) जम्भेति कृतसमासान्तं निपात्यते । जम्भो भक्ष्ये दन्ते च । शोभनो जम्भोऽस्य सुजम्भा । हरितजम्भा । तृणं भक्ष्यं यस्य तृणमिव दन्ता यस्येति वा तृणजम्भा । सोमजम्भा । स्वादिभ्यः किम् । पतितजम्भः ॥
865: दक्षिणेर्मा लुब्धयोगे (5-4-126) दक्षिणे ईर्मं व्रणं यस्य दक्षिणेर्मा मृगः । व्याधेन कृतव्रण इत्यर्थः ॥
866: इच्कर्मव्यतिहारे (5-4-127) कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् स्यात्समासान्तः । केशाकेशि । मुसलामुसलि ॥
867: द्विदण्ड्यादिभ्यश्च (5-4-128) तादर्थ्ये चतुर्थ्येषा । एषां सिद्ध्यर्थमिच् प्रत्ययः स्यात् । द्वौ दण्डौ यस्मिन्प्रहरणे तद् द्विदण्डि प्रहरणम् । द्विमुसलि । उभाहस्ति । उभयाहस्ति ॥
868: प्रसंभ्यां जानुनोर्ज्ञुः (5-4-129) आभ्यां परयोर्जानुशब्दयोर्ज्ञुरादेशः स्याद्बहुव्रीहौ । प्रगते जानुनी यस्य प्रज्ञुः। संज्ञुः ॥
869: ऊर्ध्वाद्विभाषा (5-4-130) ऊर्ध्वज्ञुः । ऊर्ध्वजानुः ॥
870: धनुषश्च (5-4-132) धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात् । शार्ङ्गधन्वा ॥
871: वा संज्ञायाम् (5-4-133) शतधन्वा । शतधनुः ॥
872: जायाया निङ् (5-4-134) जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् ॥
873: लोपो व्योर्वलि (6-1-66) वकारयकारयोर्लोपः स्याद्धलि । पुंवद्भावः । युवतिर्जाया यस्य युवजानिः ॥
874: गन्धस्येदुत्पूतिसुसुरभिभ्यः (5-4-135) एभ्यो गन्धस्येकारोऽन्तादेशः स्यात् । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः ॥ गन्धस्येत्त्वे तदेकान्तग्रहणम् (वा 3368) ॥ एकान्तः एकदेश इव अविभागेन लक्ष्यमाणः इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह शोभना गन्धाः द्रव्याण्यस्य सुगन्ध आपणिकः ॥
875: अल्पाख्यायाम् (5-4-136) सूपस्य गन्धो लोशो यस्मिंस्तत् सूपगन्धि भोजनम् । घृतगन्धि । गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः इति विश्वः ॥
876: उपमानाच्च (5-4-137) पद्मस्येव गन्धोऽस्य पद्मगन्धि ॥
877: पादस्य लोपोऽहस्त्यादिभ्यः (5-4-138) हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ। स्थानिद्वारेणायं समासान्तः । व्याघ्रस्येव पादावस्य व्याघ्रपात् । अहस्त्यादिभ्यः किम् । हस्तिपादः । कुसूलपादः ॥
878: कुम्भपदीषु च (5-4-139) कुम्भपद्यादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् ॥ ‘पादः पत्’(सू. 414) ॥ कुम्भपदी । स्त्रियाम् किम् । कुम्भपादः ॥
879: संख्यासुपूर्वस्य (5-4-140) पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् ॥
880: वयसि दन्तस्य दतृ (5-4-141) संख्यासुपूर्वस्य दन्तस्य दतृ इत्यादेशः स्याद्वयसि । द्विदन् । चतुर्दन् । षड् दन्ता अस्य षोडन् । सुदन् । सुदती । वयसि किम् । द्विदन्तः करी । सुदन्तः ॥
881: स्त्रियां संज्ञायाम् (5-4-143) एभ्यो दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ । अयोदती । फालदती । संज्ञायां किम् । समदन्ती ॥
882: विभाषा श्यावारोकाभ्याम् (5-4-144) दन्तस्य दतृ वा बहुव्रीहौ । श्यावदन् । श्यावदन्तः । अरोकदन् । अरोकदन्तः ॥
883: अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च (5-4-145) एभ्यो दन्तस्य दतृ वा । कुड्मलाग्रदन् । कुड्मलाग्रदन्तः ॥
884: ककुदस्यावस्थायां लोपः (5-4-146) अजातककुत् । पूर्णककुत् ॥
885: त्रिककुत्पर्वते (5-4-147) त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञैषा पर्वतविशेषस्य । त्रिककुदोऽन्यः ॥
886: उद्विभ्यां काकुदस्य (5-4-148) लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु ॥
887: पूर्णाद्विभाषा (5-4-149) पूर्णकाकुत् । पूर्णकाकुदः ॥
888: सुहृद्दुर्हृदौ मित्रामित्रयोः (5-4-150) सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुहृदमित्रः । अन्यत्र सुहृदयः । दुर्हृदयः ॥
889: उरः प्रभृतिभ्यः कप् (5-4-151) व्यूढोरस्कः । प्रियसर्पिष्कः । इह पुमान्, अनड्वान्, पयः, नौ, लक्षमीरिति एकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु ‘शेषाद्विभाषा’(सू. 891) इति विकल्पेन कप् । द्विपुमान् । द्विपुंस्कः ॥ अर्थान्नञः (ग 149) ॥ अनर्थकम् । नञः किम् । अपार्थम् । अपार्थकम् ॥
890: इनः स्त्रियाम् (5-4-152) बहुदण्डिका नगरी ॥ अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेनापि तदन्तविधिं प्रयोजयन्ति (प 17) ॥ बहुवाग्ग्मिका । स्त्रियां किम् । बहुदण्डी । बहुदण्डिको ग्रामः ॥
891: शेषाद्विभाषा (5-4-154) अनुक्तसमासान्ताच्छेषाधिकारस्थाद्बहुव्रीहेः कप् वा स्यात् । महायशस्कः । महायशाः । अनुक्तेत्यादि किम् । व्याघ्रपात् । सुगन्धिः । प्रियपथः । शेषाधिकारस्थात् किम् । उपबहवः । उत्तरपूर्वा । सुपुत्रः । तन्त्रादिना शेषशब्दोऽर्थद्वयपरः ॥
892: आपोऽन्यतरस्याम् (7-4-15) कप्याबन्तस्य ह्रस्वो वा स्यात् । बहुमालाकः । बहुमालकः । कबभावे तु बहुमालः ॥
893: न संज्ञायाम् (5-4-155) ‘शेषात्’ (सू 891) इति प्राप्तः कप् न स्यात्संज्ञायाम् । विश्वे देवा अस्य विश्वदेवः॥
894: ईयसश्च (5-4-156) ईयसन्तोत्तरपदान्न कप् । बहवः श्रेयांसोऽस्य बहुश्रेयान् । ‘गोस्त्रियोः’–(सू. 656) इति ह्रस्वे प्राप्ते ॥ ईयसो बहुव्रीहेर्नेति वाच्यम् (वा 696) ॥ बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी । बहुव्रीहेः किम् । अतिश्रेयसिः ॥
895: वन्दिते भ्रातुः (5-4-157) पूजितेऽर्थे यो भ्रातुशब्दस्तदन्तान्न कप् स्यात् । प्रशस्तो भ्राता यस्य प्रास्तभ्राता । ‘न पूजनात्’(सू. 954) इति निषेधस्तु ‘बहुव्रीहौ सक्थ्यक्ष्णोः’- (सू. 852) इत्यतः प्रागेवेति वक्ष्यते । वन्दिते किम्। मूर्खभ्रातृकः ॥
896: नाडीतन्त्र्योः स्वाङ्गे (5-4-159) स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात्कप् न स्यात् । बहुनाडिः कायः । बहुतन्त्रीर्ग्रीवा । तन्त्रीर्धमनी । स्त्रीप्रत्ययान्तत्वाभावाद्ध्रस्वो न । स्वाङ्गे किम् । बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥
897: निष्प्रवाणिश्च (5-4-160) कबभावोऽत्र निपात्यते । प्रपूर्वाद्वयतेर्ल्युट् । प्रवाणी तन्तुवायशलाका । निर्गताप्रवाण्यस्य निष्प्रवाणिः पटः । समाप्तवानः, नवः इत्यर्थः ॥
898: सप्तमीविशेषणे बहुव्रीहौ (2-2-35) सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं प्रयोज्यम् । कण्ठेकालः । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः । चित्रगुः ॥ सर्वनामसंख्ययोरुपसख्यानम् (वा 1419) ॥ सर्वश्वेतः । द्विशुक्लः ॥ मिथोऽनयोः समासेसंख्या पूर्वं शब्दपरविप्रतिषेधात् (वा 5044) ॥ द्व्यन्यः ॥ संख्याया अल्पीयस्याः (वा 1417) ॥ द्वित्राः ॥ । द्वन्द्वेऽपि ॥ द्वादश ॥ वा प्रियस्य (वा 1420) ॥ गुडप्रियः । प्रियगुडः ॥ गड्वादेः परा सप्तमी (वा 1421) ॥ गडुकण्ठः । क्वचिन्न । वहेगडुः ॥
899: निष्ठा (2-2-36) निष्ठान्तं बहुव्रीहौ पूर्वं स्यात् । कृतकृत्यः ॥ जातिकालसुखादिभ्यः परा निष्ठा वाच्या (वा 1422) ॥ सारङ्गजग्धी । मासजाता । सुखजाता । प्रायिकं चेदम् । कृतकटः । पीतोदकः ॥
900: वाऽऽहिताग्न्यादिषु (2-2-37) आहिताग्निः । अग्न्याहितः । आकृतिगणोऽयम् ॥ प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ (वा 1425) ॥ अम्युद्यतः । दण्डपाणिः । क्वचिन्न । विवृतासिः ॥
॥ इति बहुव्रीहिसमासप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें