532: प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (2-3-46) नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमात्रे लिङ्गमात्राधिक्ये परिमाणमात्रे सङ्ख्यामात्रे च प्रथमा स्यात् । उच्चैः । नीचैः । कृष्णः । श्रीः । ज्ञानम् । अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम् । अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य । तटः - तटी - तटम् । परिमाणमात्रे, द्रोणो व्रीहिः । द्रोणरूपं यत्परिमाणं तत्परिच्छिन्नो व्रीहिरित्यर्थः । प्रत्ययार्थे परिमाणे प्रकृत्यर्थोऽभेदेन संसर्गेण विशेषणम् । प्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहौ विशेषणमिति विवेकः । वचनं सङ्ख्या । एकः । द्वौ । बहवः । इहोक्तार्थत्वाद्विभक्तेरप्राप्तौ वचनम् ॥
533: संबोधने च (2-3-47) इह प्रथमा स्यात् । हे राम ॥ इति प्रथमा ॥
534: कारके (1-4-23) इत्यधिकृत्य ॥
535: कर्तुरीप्सिततमं कर्म (1-4-49)
कर्तुः क्रियया
आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् । कर्तुः किम् ?
माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः न तु कर्तुः ।
तमब्ग्रहणं किम् ? पयसा ओदनं भुङ्क्ते । कर्मेत्यनुवृत्तौ पुनः
कर्मग्रहणमाधारनिवृत्त्यर्थम् । अन्यथा गेहं प्रविशतीत्यत्रैव स्यात् ॥
536: अनभिहिते (2-3-1) इत्यधिकृत्य ॥
537: कर्मणि द्वितीया (2-3-2) अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु
कर्मणि प्रातिपदिकार्थमात्र इति प्रथमैव । अभिधानं च प्रायेण तिङ्कृत्तद्धितसमासैः
। तिङ् - हरिः सेव्यते । कृत् - लक्ष्म्या सेवितः । तद्धितः - शतेन क्रीतः शत्यः ।
समासः - प्राप्तः आनन्दो यं स प्राप्तानन्दः । क्वचिन्निपातेनाभिधानं यथा -
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् । सांप्रतमित्यस्य हि युज्यत
इत्यर्थः ॥
538: तथायुक्तं चानीप्सितम् (1-4-50)
ईप्सिततमवत्क्रियया
युक्तमनीप्सितमपि कारकं कर्मसंज्ञं स्यात् । ग्रामं गच्छन् तृणं स्पृशति । ओदनं
भुञ्जानो विषं भुङ्क्ते ॥
539: अकथितं च (1-4-51) अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ।
दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् ।
कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ॥
दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा
यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । बलिं
याचते वसुधाम् । अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गान् शतं दण्डयति ।
व्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं
धर्मं ब्रूते शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मथ्नाति ।
देवदत्तं शतं मुष्णाति । ग्राममजां नयति हरति कर्षति वहति वा । अर्थनिबन्धनेयं
संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मं भाषते अभिधत्ते वक्तीत्यादि । कारकं
किम् ?
माणवकस्य पितरं पन्थानं पृच्छति ॥अकर्मकधातुभिर्योगे देशः
कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम् (वा 1103-1104) । कुरून्
स्वपिति । मासमास्ते । गोदोहमास्ते । क्रोशमास्ते ॥
540: गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (1-4-52)
गत्याद्यर्थानां
शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ।
शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् ।
आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥ 1 ॥
आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ।
गतीत्यादि किम् ? पाचयत्योदनं देवदत्तेन । अण्यन्तानां किम् ?
गमयति देवदत्तो यज्ञदत्तं तमपरः प्रयुङ्क्ते गमयति
देवदत्तेन यज्ञदत्तं विष्णुमित्रः ।‘नीवह्योर्न’ (वा 1109) । नाययति वाहयति वा
भारं भृत्येन। ‘नियन्तृकर्तृकस्य वहेरनिषेधः’ (वा 1110) । वाहयति रथं वाहान् सूतः ।‘आदिखाद्योर्न’
(वा 1109) । आदयति खादयति वा अन्नं बटुना । ‘भक्षेरहिंसार्थस्य न’ (वा 1111) ॥
भक्षयत्यन्नं बटुना । अहिंसार्थस्य किम् ? भक्षयति बलीवर्दान् सस्यम् । ‘जल्पतिप्रभृतीनामुपसङ्ख्यानम्’
(वा 1107) । जल्पयति भाषयति वा धर्मं पुत्रं देवदत्तः ।‘दृशेश्च’ (वा 1108) ।
दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं न तु तद्विशे0षार्थनामित्यनेन ज्ञाप्यते । तेन स्मरति जिघ्रतीत्यादीनां न
। स्मारयति घ्रापयति वा देवदत्तेन । ‘शब्दायतेर्न’ (वा 1105) । शब्दाययति
देवदत्तेन । धात्वर्थसङ्गृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां
देशकालादिभिन्नं कर्म न संभवति तेऽत्राकर्मकाः । न त्वविवक्षितकर्माणोऽपि । तेन
मासमासयति देवदत्तमित्यादौ कर्मत्वं भवत्येव । देवदत्तेन पाचयतीत्यादौ तु न ॥
541: हृक्रोरन्यतरस्याम् (1-4-53) हृक्रोरणौ यः कर्ता स णौ वा कर्मसंज्ञः स्यात् । हारयति
कारयति वा भृत्यं भृत्येन वा कटम् । ‘अभिवादिदृशोरात्मनेपदे वेति वाच्यम्’ (वा
1114) । अभिवादयते दर्शयते देवं भक्तं भक्तेन वा॥
542: अधिशीङ्स्थाऽऽसां कर्म (1-4-46)
अधिपूर्वाणामेषामाधारः
कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥
543: अभिनिविशश्च (1-4-47) अभिनीत्येतत्संघातपूर्वस्य विशतेराधारः कर्म स्यात् ।
अभिनिविशते सन्मार्गम् । ‘परिक्रयणे संप्रदानम्’(सू. 580) इति सूत्रादिह मण्डूकप्लुत्या अन्यतरस्यां ग्रहणमनुवर्त्य
व्यवस्थितविभाषाश्रयणात्क्वचिन्न । पापेऽभिनिवेशः ॥
544: उपान्वध्याङ्वसः (1-4-48) उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति
अधिवसति आवसति वा वैकुण्ठं हरि । ‘अभुक्त्यर्थस्य न’ (वा 1087) । वने उपवसति ।
उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ।
द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥ (वा.
1444)
उभयतः कृष्णं गोपाः । सर्वतः कृष्णम् । धिक् कृष्णाभक्तम् ।
उपर्युपरि लोकं हरिः । अध्यधि लोकम् । अधोऽधो लोकम् । ‘अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि’
(वा 1442-1443) । अभितः कृष्णम् । परितः कृष्णम् । ग्रामं समया । निकषा लङ्काम् ।
हा कृष्णाभक्तम् । तस्य शोच्यते इत्यर्थः । बुभुक्षितं न प्रतिभाति किञ्चित् ॥
545: अन्तरान्तरेण युक्ते (2-3-4)
आभ्यां योगे द्वितीया ।
अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ॥
546: कर्मप्रवचनीयाः (1-4-83) इत्यधिकृत्य ॥
547: अनुर्लक्षणे (1-4-84) लक्षणे द्योत्येऽनुरुक्तसंज्ञः स्यात् ।
गत्युपसर्गसंज्ञापवादः ॥
548: कर्मप्रवचनीययुक्ते द्वितीया (2-3-8)
एतेन योगे द्वितीया स्यात्
। जपमनु प्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः । परापि हेताविति
तृतीयाऽनेन बाध्यते । ‘लक्षणेत्थंभूत’(सू. 552) इत्यादिना सिद्धे पुनः संज्ञाविधानसामर्थ्यात् ॥
549: तृतीयार्थे (1-4-85) अस्मिन्द्योत्येऽनुरुक्तसंज्ञः स्यात् । नदीमन्ववसिता सेना
। नद्या सह संबद्धेत्यर्थः ॥ षिञ् बन्धने क्तः ॥
550: हीने (1-4-86) हीने द्योत्येऽनुः प्राग्वत् । अनु हरिं सुराः । हरेर्हीना
इत्यर्थः ॥
551: उपोऽधिके च (1-4-87) अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्संज्ञं स्यात् ।
अधिके सप्तमी वक्ष्यते । हीने उप हरिं सुराः ॥
552: लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः (1-4-90)
एष्वर्थेषु विषयभूतेषु
प्रत्यादय उक्तसंज्ञाः स्युः । लक्षणे, वृक्षं प्रति, पर्यनु वा विद्योतते विद्युत् । इत्थंभूताख्याने,
भक्तो विष्णुं प्रति, पर्यनु वा । भागे, लक्ष्मीर्हरिं प्रति, पर्यनु वा । हरेर्भाग इत्यर्थः । वीप्सायां,
वृक्षंवृक्षं प्रति पर्यनु वा सिञ्चति ।
अत्रोपसर्गत्वाभावान्न षत्वम् । एषु किम् ? परिषिञ्चति ॥
553: अभिरभागे (1-4-91) भागवर्जे लक्षणादावभिरुक्तसञ्ज्ञः स्यात् । हरिमभि वर्तते ।
भक्तो हरिमभि । देवं देवमभि सिञ्चति । अभागे किम् ? यदत्र ममाभिष्यात्तद्दीयताम् ॥
554: अधिपरी अनर्थकौ (1-4-93) उक्तसंज्ञौ स्तः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति ।
गतिसञ्ज्ञाबाधात् ‘गतिर्गतौ’(सू. 3977) इति निघातो न ॥
555: सुः पूजायाम् (1-4-94) सुसिक्तम् । सुस्तुतम् । अनुपसर्गत्वान्न षः । पूजायां किम्
?
सुषिक्तं किं तवाऽत्र । क्षेपोऽयम् ॥
556: अतिरतिक्रमणे च (1-4-95) अतिक्रमणे पूजायां चातिः कर्मप्रवचनीयसंज्ञः स्यात् । अति
देवान् कृष्णः ॥
557: अपिः पदार्थसंभावनाऽन्ववसर्गगर्हासमुच्चयेषु (1-4-96)
एषु
द्योत्येष्वपिरुक्तसञ्ज्ञः स्यात् । सर्पिषोऽपि स्यात् । अनुपसर्गत्वान्न षः ।
संभावनायां लिङ् । तस्या एव विषयभूते भवने कर्तृदौर्लभ्यप्रयुक्तं दौर्लभ्यं
द्योतयन्नपिशब्दः स्यादित्यनेन संबध्यते । सर्पिष इति षष्ठी त्वपिशब्दबलेन
गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे । इयमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम ।
द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् । अपि
स्तुयाद्विष्णुम् । संभावनं शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः । अपि स्तुहि ।
अन्ववसर्गः कामचारानुज्ञा । धिद्गेवदत्तम् अपि स्तुयाद्वृषलम् । गर्हा । अपि सिञ्च
अपि स्तुहि । समुच्चये ॥
558: कालाध्वनोरत्यन्तसंयोगे (2-3-5)
इह द्वितीया स्यात् । मासं
कल्याणी । मासमधीते । मासं गुडधानाः । क्रोशं कुटिला नदी । क्रोशमधीते । क्रोशं
गिरिः । अत्यन्तसंयोगे किम् ? मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ॥ इति द्वितीया ॥
559: स्वतन्त्रः कर्ता (1-4-54) क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥
560: साधकतमं करणम् (1-4-42) क्रियासिद्धौ प्रकृष्टोपकारकं करणसञ्ज्ञं स्यात् । तमप्
ग्रहणं किम् ? गङ्गायां घोषः ॥
561: कर्तृकरणयोस्तृतीया (2-3-18) अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो
वाली । ‘प्रकृत्यादिभ्य उपसंख्यानम्’ (वा 1466) । प्रकृत्या चारुः । प्रायेण
याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमेणैति । द्विद्रोणेन धान्यं क्रीणाति
। सुखेन दुःखेन वा यातीत्यादि ॥
562: दिवः कर्म च (1-4-43) दिवः साधकतमं कारकं कर्मसंज्ञं स्याच्चात्करणसंज्ञम् ।
अक्षैरक्षान्वा दीव्यति ॥
563: अपवर्गे तृतीया (2-3-6) अपवर्गः फलप्राप्तिस्तस्यां द्योत्यायां
कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वाऽनुवाकोऽधीतः । अपवर्गे
किम् ?
मासमधीतो नायातः ॥
564: सहयुक्तेऽप्रधाने (2-3-19) सहार्थेन युक्ते अप्रधाने तृतीया स्यात् । पुत्रेण सहागतः
पिता । एवं साकंसार्धंसमंयोगेऽपि । विनापि तद्योगं तृतीया । ‘वृद्धो यूना’(सू. 931) इत्यादिनिर्देशात् ॥
565: येनाङ्गविकारः (2-3-20) येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततः तृतीया
स्यात् । अक्ष्णा काणः। अक्षिसम्बन्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम् ?
अक्षि काणमस्य ॥
566: इत्थंभूतलक्षणे (2-3-21) कंचित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् ।
जटाभिस्तापसः । जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः ॥
567: संज्ञोऽन्यतरस्यां कर्मणि (2-3-22)
संपूर्वस्य जानातेः कर्मणि
तृतीया वा स्यात् । पित्रा पितरं वा संजानीते॥
568: हेतौ (2-3-23) हेत्वर्थे तृतीया स्यात् । द्रव्यादिसाधारणं
निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च ।
दण्डेन घटः । पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्ययनेन वसति । गम्यमानापि
क्रिया कारकविभक्तौ प्रयोजिका । अलं श्रमेण । साध्यं नास्तीत्यर्थः । साधनक्रियां
प्रति श्रमः करणम्। शतेन शतेन वत्सान्पाययति पयः । शतेन परिच्छिद्येत्यर्थः । ‘अशिष्टव्यवहारे
दाणः प्रयोगे चतुर्थ्यर्थे तृतीया’ (वा 5040) । दास्या संयच्छते कामुकः । धर्म्ये
तु भार्यायै संयच्छति ॥ इति तृतीया ॥
569: कर्मणा यमभिप्रैति स संप्रदानम् (1-4-32)
दानस्य कर्मणा यमभिप्रैति
स सम्प्रदानसंज्ञः स्यात् ॥
570: चतुर्थी संप्रदाने (2-3-13) विप्राय गां ददाति । अनभिहित इत्येव । दानीयो विप्रः ।‘क्रियया
यमभिप्रैति सोऽपि संप्रदानम्’ (वा 1085) । पत्ये शेते । यजेः ‘कर्मणः करणसंज्ञा
संप्रदानस्य च कर्मसंज्ञा’ (वा 1086) । पशुना रुद्रं यजते । पशुं रुद्राय
ददातीत्यर्थः ॥
सूत्रार्थ- अनुक्त सम्प्रदान में
चतुर्थी विभक्ति होती है।
विप्राय गां ददाति । (हरिः) विप्राय गां ददाति । (हरि) विप्र को गौ देता है। इस वाक्य में हरि कर्ता है। ददाति क्रिया है। दानक्रिया के द्वारा इष्टतम कारक गो है। अतः कर्तुरीप्सिततमं कर्म से गो को इष्टतम कारक मानकर उसकी कर्मसंज्ञा हुई, कर्मणि द्वितीया से द्वितीया विभक्ति होकर गां हुआ। यहाँ पर दानकर्म के द्वारा अभिप्रेत कर्म के शेषित्व के रूप में है विप्र, उसकी कर्मणा यमभिप्रैति स सम्प्रदानम् से सम्प्रदानसंज्ञा हुई। चतुर्थी सम्प्रदाने से विप्र में चतुर्थी विभक्ति हुई। विप्राय गां ददाति बना। ददाति में लट्-लकार कर्ता अर्थ में है, कर्ता अर्थ में प्रत्यय होने के कारण कर्ता उक्त है, अत: कर्म आदि सभी अनुक्त हुए अतएव सम्प्रदान भी अनुक्त हुआ।
अनभिहिते इत्येव। दानीयो विप्रः। प्रकृतसूत्र में अनभिहिते का अधिकार है। अनभिहित का अर्थ होता है अनुक्त तथा अभिहित का अर्थ होता है उक्त। जहाँ सम्प्रदान अनुक्त होगा वहीं चतुर्थी होती है। दानीयो विप्रः में यद्यपि विप्र सम्प्रदान है । परन्तु यहाँ कृत्यल्युटो बहुलम् सूत्र से दा धातु से बहुलग्रहणात् सम्प्रदान कारक में ही अनीयर् प्रत्यय किया गया है। जिसमें जो प्रत्यय किया जाता है वह उक्त होता है। यस्मिन् प्रत्ययः स उक्तः इस नियमानुसार सम्प्रदान में प्रत्यय होने के कारण सम्प्रदान उक्त हो गया है। अतः विप्र के सम्प्रदान होने पर भी अनुक्त न होने के कारण चतुर्थी नहीं होती अपितु प्रातिपदिकार्थमात्र में प्रथमा हो जाती है।
क्रियया यमभिप्रैति सोऽपि सम्प्रदानम्।
वार्तिकार्थ:- क्रिया के द्वारा कर्ता
जिसे लक्षित करता है, उसकी भी सम्प्रदान सञ्ज्ञा होती है।
पत्ये शेते। पति के लिए शयन करती है। पत्नी पत्ये
शेते। यहाँ कर्ता पत्नी है। शेते क्रिया
है। शयन क्रिया के द्वारा पत्नी पति को लक्षित करती है । पति के निमित्त है शयन।
अर्थात् शयनक्रिया पति के अनुकूलता के लिये है। फलतः पति शब्द की क्रियया
यमभिप्रैति सोऽपि सम्प्रदानम् वार्तिक से सम्प्रदानसञ्ज्ञा तथा
चतुर्थी सम्प्रदाने सूत्र से चतुर्थी होकर पत्ये बनता है।
यजेः कर्मणः करणसञ्ज्ञा सम्प्रदानस्य च
कर्मसञ्ज्ञा।
वार्तिकार्थ:- यज् धातु के कर्म की
करणसञ्ज्ञा तथा सम्प्रदान की कर्मसञ्ज्ञा होती है।
तात्पर्य यह है कि यदि यज् धातु के योग
में एक वाक्य में कर्म और सम्प्रदान-दोनों का प्रयोग हो तो कर्म की करणसञ्ज्ञा तथा सम्प्रदान की कर्मसञ्ज्ञा इस
वार्तिक के द्वारा की जाती है।
पशुना रुद्रं यजते। पशुं रुद्राय ददाति इत्यर्थः। पशु से
रुद्र का यजन करता है । यहाँ पर यज् धातु का योग है। यजन क्रिया का कर्म पशु है और
रुद्र सम्प्रदान है। यजेः कर्मणः करणसञ्ज्ञा सम्प्रदानस्य च कर्मसञ्जा वार्तिक से
कर्मभूत पशु की करणसंज्ञा होने पर तृतीया और सम्प्रदानभूत रुद्र की कर्मसंज्ञा
होने पर द्वितीया होकर पशुना रुद्रं यजते वाक्य बनता है।
571: रुच्यर्थानां प्रीयमाणः (1-4-33)
रुच्यर्थानां धातूनां
प्रयोगे प्रीयमाणोऽर्थः सम्प्रदानं स्यात् । हरये रोचते भक्तिः ।
अन्यकर्तृकोऽभिलाषो रुचिः । हरिनिष्ठप्रीतेर्भक्तिः कर्त्री । प्रीयमाणः किम् ?
देवदत्ताय रोचते मोदकः पथि ॥
572: श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः (1-4-34)
एषां प्रयोगे
बोधयितुमिष्टः संप्रदानं स्यात् । गोपी स्मरात्कृष्णाय श्लाघते ह्नुते तिष्ठते
शपते वा । ज्ञीप्स्यमानः किम् ? देवदत्ताय श्लाघते पथि ॥
573: धारेरुत्तमर्णः (1-4-35) धारयतेः प्रयोगे उत्तमर्ण उक्तसंज्ञः स्यात् । भक्ताय
धारयति मोक्षं हरिः । उत्तमर्णः किम् ? देवदत्ताय शतं धारयति ग्रामे ॥
574: स्पृहेरीप्सितः (1-4-36) स्पृहयतेः प्रयोगे इष्टः संप्रदानं स्यात् । पुष्पेभ्यः
स्पृहयति । ईप्सितः किम् ? पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्रे इयं संज्ञा ।
प्रकर्षविवक्षायां तु परत्वात्कर्मसंज्ञा । पुष्पाणि स्पृहयति ॥
575: क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः (1-4-37)
क्रुधाद्यर्थानां प्रयोगे
यं प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति । द्रुह्यति । ईर्ष्यति ।
असूयति । यं प्रति कोपः किम् ? भार्यामीर्ष्यति मैनामन्योऽद्राक्षीदिति । क्रोधोऽमर्षः ।
द्रोहोऽपकारः । ईर्ष्याऽक्षमा । असूया गुणेषु दोषाविष्करणम् । द्रुहादयोऽपि
कोपप्रभवा एव गृह्यन्ते । अतो विशेषणं सामान्येन यं प्रति कोप इति ॥
576: क्रुधद्रुहोरुपसृष्टयोः कर्म (1-4-38)
सोपसर्गयोरनयोर्यं प्रति
कोपस्तत्कारकं कर्मसंज्ञं स्यात् । क्रूरमभिक्रुध्यति । अभिद्रुह्यति ॥
577: राधीक्ष्योर्यस्य विप्रश्नः (1-4-39)
एतयोः कारकं संप्रदानं
स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति ईक्षते वा । पृष्टो
गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः ॥
578: प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता (1-4-40)
आभ्यां परस्य शृणोतेर्योगे
पूर्वस्य प्रवर्तनरूपव्यापारस्य कर्ता संप्रदानं स्यात् । विप्राय गां प्रतिशृणोति
आशृणोति वा । विप्रेण मह्यं देहीति प्रवर्तितः प्रतिजानीत इत्यर्थः ॥
579: अनुप्रतिगृणश्च (1-4-41) आभ्यां गृणातेः कारकं पूर्वव्यापारस्य कर्तृभूतमुक्तसंज्ञं
स्यात् । होत्रेऽनुगृणाति प्रतिगृणाति । होता प्रथमं शंसति तमध्वर्युः
प्रोत्साहयतीत्यर्थः ॥
580: परिक्रयणे संप्रदानमन्यतरस्याम् (1-4-44)
नियतकालं भृत्या स्वीकरणं
परिक्रयणं तस्मिन् साधकतमं कारकं संप्रदानसंज्ञं वा स्यात् । शतेन शताय वा
परिक्रीतः । ‘तादर्थ्ये चतुर्थी वाच्या’ (वा 1458) । मुक्तये हरिं भजति । ‘क्लृपि
सम्पद्यमाने च’ (वा 1459) । भक्तिर्ज्ञानाय कल्पते सम्पद्यते जायत इत्यादि । ‘उत्पातेन
ज्ञापिते च’ (वा 1460) । वाताय कपिला विद्युत् ।‘हितयोगे च’ (वा 1461) ।
ब्राह्मणाय हितम् ॥
581: क्रियार्थोपपदस्य च कर्मणि स्थानिनः (2-3-14)
क्रियार्था क्रिया उपपदं
यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति ।
फलान्याहर्तुं यातीत्यर्थः । नमस्कुर्मो नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः ।
एवं स्वयंभुवे नमस्कृत्येत्यादावपि ॥
582: तुमर्थाच्च भाववचनात् (2-3-15)
‘भाववचनाश्च’(सू. 3180) इति सूत्रेण यो विहितस्तदन्ताच्चतुर्थी स्यात्। यागाय
याति । यष्टुं यातीत्यर्थः ॥
583: नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च (2-3-16)
एभिर्योगे चतुर्थी स्यात्
। हरये नमः । ‘उपपदविभक्तेः कारकविभक्तिर्बलीयसी’ (प 103) । नमस्करोति देवान् ।
प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । ‘अलमिति
पर्याप्त्यर्थग्रहणम्’ (वा 1462) । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त
इत्यादि । प्रभ्वादियोगे षष्ठ्यपि साधुः । ‘तस्मै प्रभवति’(सू. 1765) ‘स एषां ग्रामणीः’(सू. 1878) इति निर्देशात् । तेन प्रभुर्बुभूषुर्भुवनत्रयस्येति
सिद्धम् । वषडिन्द्राय । चकारः पुनर्विधानार्थः । तेनाशीर्विवक्षायां परामपि ‘चतुर्थी
चाशिषि’ (सू 631) इति षष्ठीं बाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् ॥
584: मन्यकर्मण्यनादरे विभाषाऽप्राणिषु (2-3-17)
प्राणिवर्जे मन्यतेः
कर्मणि चतुर्थी वा स्यात्तिरस्कारे । न त्वां तृणं मन्ये तृणाय वा । श्यना
निर्देशात्तानादिकयोगे न । न त्वां तृणं मन्वेऽहम् । ‘अप्राणिष्वित्यपनीय
नौकाकान्नशुकशृगालवर्ज्येष्विति वाच्यम्’ (वा 1464) । तेन न त्वां नावमन्नं वा
मन्ये इत्यत्राप्राणित्वेऽपि चतुर्थी न । न त्वां शुने मन्ये इत्यत्र
प्राणित्वेऽपि भवत्येव ॥
585: गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि (2-3-12)
अध्वभिन्ने गत्यर्थानां
कर्मणि एते स्तश्चेष्टायाम् । ग्रामं ग्रामाय वा गच्छति । चेष्टायां किम् ?
मनसा हरिं व्रजति । अनध्वनीति किम् ?
पन्थानं गच्छति । गन्त्राधिष्ठितेऽध्वन्येवायं निषेधः । यदा
तूत्पथात्पन्था एवाक्रमितुमिष्यते तदा चतुर्थी भवत्येव । उत्पथेन पथे गच्छति ॥ इति
चतुर्थी ॥
586: ध्रुवमपायेऽपादानम् (1-4-24) अपायो विश्लेषस्तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं
स्यात् ॥
587: अपादाने पञ्चमी (2-3-28) ग्रामादायाति । धावतोऽश्वात्पतति । कारकं किम् ?
वृक्षस्य पर्णं पतति ॥ ‘जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम्’
(वा 1079) । पापाज्जुगुप्सते । विरमति । धर्मात्प्रमाद्यति ॥
588: भीत्रार्थानां भयहेतुः (1-4-25)
भयार्थानां त्राणार्थानां
च प्रयोगे हेतुरपादानं स्यात् । चोराद् बिभेति । चोरात्त्रायते । भयहेतुः किम् ?
अरण्ये बिभेति त्रायते वा ॥
589: पराजेरसोढः (1-4-26) पराजेः प्रयोगेऽसह्योऽर्थोऽपादानं स्यात् । अध्ययनात्पराजयते
। ग्लायतीत्यर्थः । सोढः किम् ? शत्रून्पराजयते । अभिभवतीत्यर्थः ॥
590: वारणार्थानामीप्सितः (1-4-27)
प्रवृत्तिविघातो वारणम् ।
वारणार्थानां धातूनां प्रयोगे ईप्सितोऽपादानं स्यात् । यवेभ्यो गां वारयति ।
ईप्सितः किम् ? यवेभ्यो गां वारयति क्षेत्रे ॥
591: अन्तर्धौ येनादर्शनमिच्छति (1-4-28)
व्यवधाने सति
यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुर्निलीयते कृष्णः ।
अन्तर्धौ किम् ? चौरान्न दिदृक्षते । इच्छतिग्रहणं किम् ? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् ।
(देवदत्ताद्यज्ञदत्तो निलीयते) ॥
592: आख्यातोपयोगे (1-4-29) नियमपूर्वकविद्यास्वीकारे वक्ता प्राक्संज्ञः स्यात् ।
उपाध्यायादधीते । उपयोगे किम् ? नटस्य गाथां शृणोति ॥
593: जनिकर्तुः प्रकृतिः (1-4-30) जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते
॥
594:
भुवः प्रभवः (1-4-31)
भवनं भूः । भूकर्तुः
प्रभवस्तथा । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशते इत्यर्थः।
‘ल्यब्लोपे कर्मण्यधिकरणे च’ (वा 1474-1475) ।
प्रासादात्प्रेक्षते । आसनात्प्रेक्षते । प्रासादमारुह्य आसने उपविश्य प्रेक्षत
इत्यर्थः । श्वशुराज्जिह्रेति । श्वशुरं वीक्ष्येत्यर्थः । ‘गम्यमानापि क्रिया
कारकविभक्तीनां निमित्तम्’ (वा 5041) । कस्मात्त्वं नद्याः । ‘यतश्चाध्वकालनिर्माणं
तत्र पञ्चमी’ (वा 1477) ।‘तद्युक्तादध्वनः प्रथमासप्तम्यौ’ (वा 1479) ।‘कालात्सप्तमी
च वक्तव्या’ (वा 1478) ॥ वनाद् ग्रामो योजनं योजने वा । कार्तिक्या आग्रहायणी मासे
॥
595: अन्यारादितरर्ते दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते (2-3-29)
एतैर्योगे पञ्चमी स्यात् ।
अन्य इत्यर्थग्रहणम् । इतरग्रहणं प्रपञ्चार्थम् । अन्यो भिन्न इतरो वा कृष्णात् ।
आराद्वनात् । ऋते कृष्णात् । पूर्वो ग्रामात् । दिशि दृष्टः शब्दो दिक्शब्दः । तेन
सम्प्रति देशकालवृत्तिना योगेऽपि भवति । चैत्रात्पूर्वः फाल्गुनः । अवयववाचियोगे
तु न । ‘तस्य परमाम्रेडितम्’(सू. 83) इति निर्देशात् । पूर्वं कायस्य । अञ्चूत्तरपदस्य तु
दिक्शब्दत्वेऽपि ‘षष्ठ्यतसर्थ’(सू. 609) इति षष्ठीं बाधितुं पृथग्ग्रहणम् । प्राक् प्रत्यग्वा
ग्रामात् । आच्, दक्षिणा ग्रामात् । आहि, दक्षिणाहि ग्रामात्। ‘अपादाने पञ्चमी’(सू. 587) इति सूत्रे कार्तिक्याः प्रभृति इति भाष्यप्रयोगात्
प्रभृत्यर्थयोगे पञ्चमी । भवात्प्रभृति आरभ्य वा सेव्यो हरिः । ‘अपपरिबहिः’(सू. 666) इति समासविधानाज्ज्ञापकाद्बहिर्योगे पञ्चमी ।
ग्रामाद्बहिः ॥
596: अपपरी वर्जने (1-4-88) एतौ वर्जने कर्मप्रवचनीयौ स्तः ॥
597: आङ् मर्यादावचने (1-4-89) आङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि ॥
598: पञ्चम्यपाङ्परिभिः (2-3-10) एतैः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । अप हरेः,
परि हरेः संसारः । परिरत्र वर्जने । लक्षणादौ तु हरिं परि ।
आमुक्तेः संसारः । आसकलात् ब्रह्म ॥
599: प्रतिः प्रतिनिधिप्रतिदानयोः (1-4-92)
एतयोरर्थयोः
प्रतिरुक्तसंज्ञः स्यात् ॥
600: प्रतिनिधिप्रतिदाने च यस्मात् (2-3-11)
अत्र कर्मप्रवचनीयैर्योगे
पञ्चमी स्यात् । प्रद्युम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् ॥
601: अकर्तर्यृणे पञ्चमी (2-3-24) कर्तृवर्जितं यदृणं हेतुभूतं ततः पञ्चमी स्यात् ॥
शताद्बद्धः । अकर्तरि किम् ? शतेन बन्धितः ॥
602: विभाषा गुणेऽस्त्रियाम् (2-3-25)
गुणे हेतावस्त्रीलिङ्गे
पञ्चमी वा स्यात् । जाड्याज्जाड्येन वा बद्धः । गुणे किम् ?
धनेन कुलम् । अस्त्रियां किम् ?
बुद्ध्या मुक्तः । विभाषेति योगविभागादगुणे स्त्रियां च
क्वचित् । धूमादग्निमान् । नास्ति घटोऽनुपलब्धेः ॥
603: पृथग्विनानानाभिस्तृतीऽयान्यतरस्याम् (2-3-32)
एभिर्योगे तृतीया स्यात्पञ्चमीद्वितीये
च । अन्यतरस्यां ग्रहणं समुच्चयार्थम् । पञ्चमीद्वितीयेऽनुवर्तेते । पृथग् रामेण
रामात् रामं वा । एवं विना नाना ॥
604: करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य (2-3-33)
एभ्योऽद्रव्यवचनेभ्यः करणे
तृतीयापञ्चम्यौ स्तः । स्तोकेन स्तोकाद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हतः
॥
605: दूरान्तिकार्थेभ्यो द्वितीया च (2-3-35)
एभ्यो द्वितीया
स्याच्चात्पञ्चमीतृतीये । प्रातिपदिकार्थमात्रे विधिरयम् । ग्रामस्य दूरं दूरात्
दूरेण वा । अन्तिकम् अन्तिकात् अन्तिकेन वा । असत्त्ववचनस्येत्यनुवृत्तेर्नेह ।
दूरः पन्थाः ॥ इति पञ्चमी ॥
606: षष्ठी शेषे (2-3-50) कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः
शेषस्तत्र षष्ठी स्यात् । राज्ञः पुरुषः । कर्मादीनामपि सम्बन्धमात्रविवक्षायां
षष्ठ्येव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधो दकस्योपस्कुरुते । भजे
शंभोश्चरणयोः । फलानां तृप्तः ॥
607: षष्ठी हेतुप्रयोगे (2-3-26) हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य
हेतोर्वसति ॥
608: सर्वनाम्नस्तृतीया च (2-3-27)
सर्वनाम्नो हेतुशब्दस्य च
प्रयोगे हेतौ द्योत्ये तृतीया स्यात् षष्ठी च । केन हेतुना वसति । कस्य हेतोः ॥ ‘निमित्तपर्यायप्रयोगे
सर्वासां प्रायदर्शनम्’ (वा 1473) ॥ किं निमित्तं वसति । केन निमित्तेन । कस्मै
निमित्तायेत्यादि । एवं किं कारणं को हेतुः किं प्रयोजनम् इत्यादि ।
प्रायग्रहणादसर्वनाम्नः प्रथमाद्वितीये न स्तः । ज्ञानेन निमित्तेन हरिः सेव्यः ।
ज्ञानाय निमित्तायेत्यादि ॥
609: षष्ठ्यतसर्थप्रत्ययेन (2-3-30)
एतद्योगे षष्ठी स्यात् । ‘दिक्शब्द’(सू.
595) इति पञ्चम्या अपवादः । ग्रामस्य दक्षिणतः । पुरः
पुरस्तात् । उपरि उपरिष्टात् ॥
610: एनपा द्वितीया (2-3-31) एनबन्तेन योगे द्वितीया स्यात् । एनपेति योगविभागात्षष्ठ्यपि
। दक्षिणेन ग्रामं ग्रामस्य वा । एवमुत्तरेण ॥
611: दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् (2-3-34)
एतैर्योगे षष्ठी स्यात्
पञ्चमी च । दूरं निकटं ग्रामस्य ग्रामाद्वा ॥
612: ज्ञोऽविदर्थस्य करणे (2-3-51)
जानातेरज्ञानार्थस्य करणे
शेषत्वेन विवक्षिते षष्ठी स्यात् । सर्पिषो ज्ञानम् ॥
613: अधीगर्थदयेशां कर्मणि (2-3-52)
एषां कर्मणि शेषे षष्ठी
स्यात् । मातुः स्मरणम् । सर्पिषो दयनम्, ईशनं वा ॥
614: कृञः प्रतियत्ने (2-3-53) कृञः कर्मणि शेषे षष्ठी स्यात् गुणाधाने । एधो
दकस्योपस्करणम् ॥
615: रुजार्थानां भाववचनानामज्वरेः (2-3-54)
भावाकतृकाणां
ज्वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात् । चौरस्य रोगस्य रुजा ॥ ‘अज्वरिसंताप्योरिति
वाच्यम्’ (वा 1507) ॥ रोगस्य चौरज्वरः चौरसन्तापो वा। रोगकर्तृकं चौरसंबन्धि
ज्वरादिकमित्यर्थः ॥
616: आशिषि नाथः (2-3-55) आशीरर्थस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् । सर्पिषो
नाथनम् । आशिषीति किम् ? माणवकनाथनम् । तत्संबन्धिनी याच्ञेत्यर्थः ॥
617: जासिनिप्रहणनाटक्राथपिषां हिंसायाम् (2-3-56)
हिंसार्थनामेषां शेषे
कर्मणि षष्ठी स्यात् । चौरस्योज्जासनम् । निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा । चौरस्य
निप्रहणनम् । प्रणिहननम् । निहननम् । प्रहणनं वा । नट अवस्कन्दने चुरादिः ।
चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषलस्य पेषणम् । हिंसायां किम् ?
धानापेषणम् ॥
618: व्यवहृपणोः समर्थयोः (2-3-57)
शेषे कर्मणि षष्ठी स्यात्
। द्यूते क्रयविक्रयव्यवहारे चानयोस्तुल्यार्थता । शतस्य व्यवहरणं पणनं वा ।
समर्थयोः किम् ? शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनं स्तुतिरित्यर्थः ॥
619: दिवस्तदर्थस्य (2-3-58) द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि
षष्ठी स्यात् । शतस्य दीव्यति । तदर्थस्य किम् ? ब्राह्मणं दीव्यति । स्तौतीत्यर्थः ॥
620: विभाषोपसर्गे (2-3-59) पूर्वयोगापवादः शतस्य शतं वा प्रतिदीव्यति ॥
621: प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने (2-3-61)
देवतासंप्रदानेऽर्थे
वर्तमानयोः प्रेष्यब्रुवोः कर्मणो हविर्विशेषस्य वाचकाच्छब्दात्षष्ठी स्यात् ।
अग्नये छागस्य हविषो वपाया मेदसः प्रेष्य अनुब्रूहि वा ॥
622: कृत्वोर्थप्रयोगे कालेऽधिकरणे (2-3-64)
कृत्वोर्थानां प्रयोगे
कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽह्नो भोजनम् । द्विरह्नो भोजनम्
। शेषे किम् ? द्विरहन्यध्ययनम् ॥
623: कर्तृकर्मणोः कृति (2-3-65) कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य कृतिः ।
जगतः कर्ता कृष्णः ॥ ‘गुणकर्मणि वेष्यते’ (वा 5042) ॥ नेताऽश्वस्य स्रुघ्नस्य
स्रुघ्नं वा । कृति किम् ? तद्धिते माभूत् । कृतपूर्वी कटम् ॥
624: उभयप्राप्तौ कर्मणि (2-3-66) उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् ।
आश्चर्यो गवां दोहोऽगोपेन ॥‘स्त्रीप्रत्यययोरकाकारयोर्नायं नियमः’ (वा 1513) ॥
भेदिका बिभित्सा वा रुद्रस्य जगतः ॥ ‘शेषे विभाषा’ (वा 1513) ॥ स्त्रीप्रत्यय
इत्येके । विचित्रा जगतः कृतिर्हरेर्हरिणा वा । केचिदविशेषेण विभाषामिच्छन्ति ।
शब्दानामनुशासनमाचार्येणाचार्यस्य वा ॥
625: क्तस्य च वर्तमाने (2-3-67) वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । ‘न लोक-’(सू. 627) इति निषेधस्यापवादः । राज्ञां मतो बुद्धः पूजितो वा ॥
626: अधिकरणवाचिनश्च (2-3-68) क्तस्य योगे षष्ठी स्यात् । इदमेषामासितं शयितं गतं भुक्तं
वा ॥
627: न लोकाव्ययनिष्ठाखलर्थतृनाम् (2-3-69)
एषां प्रयोगे षष्ठी न
स्यात् । लादेशाः । कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उः । हरिं दिदृक्षुः ।
अलंकरिष्णुर्वा । उक । दैत्यान् घातुको हरिः ॥‘कमेरनिषेधः’ (वा 1519) ॥ लक्ष्म्याः
कामुको हरिः । अव्ययम् । जगत् सृष्ट्वा । सुखं कर्तुम् । निष्ठा । विष्णुना हता
दैत्याः । दैत्यान् हतवान् विष्णुः । खलर्थः । ईषत्करः प्रपञ्चो हरिणा । तृन्निति
प्रत्याहारः शतृशानचाविति तृशब्दादारभ्यातृनो नकारात् । शानन् । सोमं पवमानः ।
चानश् । आत्मानं मण्डयमानः । शतृ । वेदमधीयन् । तृन् । कर्ता लोकान् ॥द्विषः
शतुर्वा (वा 1522) ॥ मुरस्य मुरं वा द्विषन् ॥ सर्वोऽयं कारकषष्ठ्याः प्रतिषेधः ॥
शेषे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन् । नरकस्य जिष्णुः ॥
628: अकेनोर्भविष्यदाधमर्ण्ययोः (2-3-70)
भविष्यत्यकस्य
भविष्यदाधमर्ण्यार्थेनश्च योगे षष्ठी न स्यात् । सतः पावकोऽवतरति । व्रजं गामी ।
शतं दायी ॥
629: कृत्यानां कर्तरि वा (2-3-71)
षष्ठी वा स्यात् । मया मम
वा सेव्यो हरिः । कर्तरीति किम् ? गेयो माणवकः साम्नाम् । ‘भव्यगेय’(सू. 2894) इति कर्तरि यद्विधानादनभिहितं कर्म । अत्र योगो विभज्यते
॥ कृत्यानाम् ॥ उभयप्राप्ताविति नेति चानुवर्तते । तेन नेतव्या व्रजं गावः कृष्णेन
। ततः ॥ कर्तरि वा ॥ उक्तोऽर्थः ॥
630: तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् (2-3-72)
तुल्यार्थैर्योगे तृतीया
वा स्यात्पक्षे षष्ठी । तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा । अतुलोपमाभ्यां
किम् ?
तुला उपमा वा कृष्णस्य नास्ति ॥
631: चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः (2-3-73)
एतदर्थैर्योगे चतुर्थी वा
स्यात्पक्षे षष्ठी आशिषि । आयुष्यं चिरञ्जीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं
मद्रं भद्रं कुशलं निरामयं सुखं शम् अर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि
किम् ?
देवदत्तस्यायुष्यमस्ति । व्याख्यानात्सर्वत्रार्थग्रहणम् ।
मद्रभद्रयोः पर्यायत्वादन्यतरो न पठनीयः ॥ इति षष्ठी ॥
632: आधारोऽधिकरणम् (1-4-45) कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणसंज्ञः
स्यात् ॥
633: सप्तम्यधिकरणे च (2-3-36) अधिकरणे सप्तमी स्यात् । चकाराद्दूरान्तिकार्थेभ्यः ।
औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा । कटे आस्ते । स्थाल्यां पचति ।
मोक्षे इच्छास्ति । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा । ‘दूरान्तिकार्थेभ्यः’(सू.
605) इति विभक्तित्रयेण सह चतस्रोऽत्र विभक्तयः फलिताः ॥‘क्तस्येन्विषयस्य
कर्मण्युपसङ्ख्यानम्’ (वा 1485) ॥ अधीती व्याकरणे । अधीतमनेनेति विग्रहे ‘इष्टादिभ्यश्च’(सू.
1888) इति कर्तरीनिः ॥‘साध्वसाधुप्रयोगे च’ (वा 1486) ॥ साधुः
कृष्णो मातरि । असाधुर्मातुले ॥‘निमित्तात्कर्मयोगे’ (वा 1490) ॥ निमित्तमिह फलम्
। योगः संयोगसमवायात्मकः ।
चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ।
केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥ 1 ॥ (इति भाष्यम्) ।
हेतौ तृतीयाऽत्र प्राप्ता तन्निवारणार्थमिदम् ।
सीमाऽण्डकोशः । पुष्कलको गन्धमृगः । योगविशेषे किम् ?
वेतनेन धान्यं लुनाति ॥
634: यस्य च भावेन भावलक्षणम् (2-3-37)
यस्य क्रियया क्रियान्तरं
लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥ ‘अर्हाणां
कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च’ (वा 1487-1488) ॥ सत्सु तरत्सु असन्त
आसते । असत्सु तिष्ठत्सु सन्तस्तरन्ति । सत्सु तिष्ठत्सु असन्तस्तरन्ति । असत्सु
तरत्सु सन्तस्तिष्ठन्ति ॥
635: षष्ठी चानादरे (2-3-38) अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः । रुदति रुदतो
वा प्राव्राजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ॥
636: स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च (2-3-39)
एतैः सप्तभिर्योगे
षष्ठीसप्तम्यौ स्तः । षष्ठ्यामेव प्राप्तायां पाक्षिकसप्तम्यर्थं वचनम् । गवां
गोषु वा स्वामी । गवां गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः ॥
637: आयुक्तकुशलाभ्यां चासेवायाम् (2-3-40)
आभ्यां योगे षष्ठीसप्तम्यौ
स्तस्तात्पर्येऽर्थे । आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने हरिपूजनस्य
वा । आसेवायां किम् ? आयुक्तो गौः शकटे । ईषद्युक्त इत्यर्थः ॥
638: यतश्च निर्धारणम् (2-3-41) जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं
निर्धारणं यतस्ततः षष्ठीसप्तम्यौ स्तः । नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां
गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावन् शीघ्रः । छात्राणां
छात्रेषु वा मैत्रः पटुः ॥
639: पञ्चमी विभक्ते (2-3-42) विभागो विभक्तम् । निर्धार्यमाणस्य यत्र भेद एव तत्र पञ्चमी
स्यात् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः ॥
640: साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः (2-3-43)
आभ्यां योगे सप्तमी
स्यादर्चायाम् न तु प्रतेः प्रयोगे । मातरि साधुर्निपुणो वा । अर्चायां किम् ?
निपुणो राज्ञो भृत्यः । इह तत्त्वकथने तात्पर्यम् ॥ ‘अप्रत्यादिभिरिति
वक्तव्यम्’ (वा 1493) ॥ साधुर्निपुणो वा मातरं प्रति पर्यनु वा ॥
641: प्रसितोत्सुकाभ्यां तृतीया च (2-3-44)
आभ्यां योगे तृतीया
स्याच्चात्सप्तमी । प्रसित उत्सुको वा हरिणा हरौ वा ॥
642: नक्षत्रे च लुपि (2-3-45) नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य
प्रत्ययस्यार्थस्तत्र वर्तमानात्तृतीयासप्तम्यौ स्तोऽधिकरणे । मूलेनावाहयेद्देवीं
श्रवणेन विसर्जयेत् । मूले श्रवणे इति वा । लुपि किम् ?
पुष्ये शनिः ॥
643: सप्तमीपञ्चम्यौ कारकमध्ये (2-3-7)
शक्तिद्वयमध्ये यौ
कालाध्वनौ ताभ्यामेते स्तः । अद्य भुक्त्वाऽयं द्व्यहे द्व्यहाद्वा भोक्ता । कर्तृशक्त्योर्मध्येऽयं
कालः । इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं विध्येत् । कर्तृकर्मशक्त्योर्मध्येऽयं
देशः। अधिकशब्देन योगे सप्तमीपञ्चम्याविष्येते । ‘तदस्मिन्नधिकम्’(सू. 1846) इति ‘यस्मादधिकम्’(सू. 645) इति च सूत्रनिर्देशात् । लोके लोकाद्वा अधिको हरिः ॥
644: अधिरीश्वरे (1-4-97) स्वस्वामिभावसम्बन्धेऽधिः कर्मप्रवचनीयसंज्ञः स्यात् ॥
645: यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी (2-3-9)
अत्र कर्मप्रवचनीययुक्ते
सप्तमी स्यात् । उप परार्धे हरेर्गुणाः । परार्धादधिका इत्यर्थः । ऐश्वर्ये तु
स्वस्वामिभ्यां पर्यायेण सप्तमी । अधि भुवि रामः । अधि रामे भूः । ‘सप्तमी शौण्डैः’(सू.
717) इति समासपक्षे तु रामाधीना । ‘अषडक्ष’(सू. 2079) इत्यादिना खः ॥
646: विभाषा कृञि (1-4-98) अधिः करोतौ प्राक्संज्ञो वा स्यादीश्वरेऽर्थे । यदत्र
मामधिकरिष्यति । विनियोक्ष्यत इत्यर्थः । इह विनियोक्तुरीश्वरत्वं गम्यते ।
अगतित्वात् ‘तिङि चोदात्तवति’(सू. 3978) इति निघातो न ॥ इति सप्तमी ॥
॥ इति कारकप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें