॥ अथ तद्धितेषु चातुरर्थिकप्रकरणम्
॥
1202: तेन रक्तं रागात् (4-2-1) रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् ।
माञ्जिकम् । रागात्किम् । देवदत्तेन रक्तं वस्त्रम् ।
1203: लाक्षारोचनाट्ठक् (4-2-2) लाक्षिकः । रौचनिकः ॥ शकलकर्दमाभ्यामुपसंख्यानम् (वा 2679) ॥
शाकलिकः । कार्दमिकः । आभ्यामणपीति वृत्तिकारः । शाकलः । कार्दमः ॥ नील्या अन् (वा
2680) ॥ नील्या रक्तं नीलम् ॥ पीतात्कन् (वा 2681) ॥ पातकम् ॥
हरिद्रामहारजनाभ्यामञ् (वा 2682) ॥ हारिद्रम् । माहारजनम् ॥
1204: नक्षत्रेण युक्तः कालः (4-2-3)
पुष्येण युक्तं पौषमहः ।
पौषी रात्रिः ॥
1205: लुबविशेषे (4-2-4) पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मकस्य
कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः । कथं तर्हि पुष्ययुक्ता
पौर्णमासी पौषीति । ‘विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः’-(सू. 1225) इति निर्देशेन पौर्णमास्यामयं लुब् नेति ज्ञापितत्वात् ।
श्रवणशब्दात्तु अतएव लुप् युक्तवद्भावाभावश्च । अबाधकान्यपि निपातनानि । श्रावणी ॥
1206: संज्ञायां श्रवणाश्वत्थाभ्याम् (4-2-5)
विशेषार्थोऽयमारम्भः ।
श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । संज्ञायां किम् । श्रावणी । आश्वत्थी ॥
1207: द्वन्द्वाच्छः (4-2-6) नक्षत्रद्वन्द्वाद्युक्ते काले छः स्यात् विशेषे सत्यसति च
। तिष्यपुनर्वसवीयमहः । राधानुराधीया रात्रिः ॥
1208: दृष्टं साम (4-2-7) तेनेत्येव । वसिष्ठेन दृष्टं साम ॥ अस्मिन्नर्थेऽण् डिद्वा
वक्तव्यः (वा 2690) ॥ उशनसा दृष्टमौशनम् ॥ औशनसम् ॥
1209: कलेर्ढक् (4-2-8) कलिना दृष्टं कालेयं साम ॥
1210: वामदेवाड्ड्यड्ड्यौ (4-2-9) वामदेवेन दृष्टं साम वामदेव्यम् ॥
सिद्धे यस्येतिलोपोन किमर्थं ययतौ डितौ।
ग्रहणं माऽतदर्थे भूद्वामदेव्यस्य नञ्स्वरे ॥ 1 ॥ इति भाष्यम् ॥
1211: परिवृतो रथः (4-2-10) वस्त्रैः परिवृतो वास्त्रो रथः । रथः किम् । वस्त्रेण
परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते तेनेह न । छात्रैः परिवृतो रथः ॥
1212: पाण्डुकम्बलादिनिः (4-2-11) पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दो
राजास्तरणवर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम् ॥
1213: द्वैपवैयाघ्रादञ् (4-2-12) द्वीपिनो विकारो द्वैपम् । तेन परिवृतो द्वैपो रथः । एवं
वैयाघ्रः ॥
1214: कौमारापूर्ववचने (4-2-13) कौमारेत्यविभक्तिको निर्देशः । अपूर्वत्वे निपातनमिदम् ।
अपूर्वपतिं कुमारीं पतिरुपपन्नः कौमारः पतिः । यद्वा । अपूर्वपतिः कुमारी
पतिमुपपन्ना कौमारी भार्या ॥
1215: तत्रोद्धृतममत्रेभ्यः (4-2-14)
शराव उद्धृतः शाराव ओदनः ।
उद्धरतिरिहोद्धरणपूर्वके निधाने वर्तते । तेन सप्तमी । उद्धृत्य निहित इत्यर्थः ॥
1216: स्थण्डिलाच्छयितरि व्रते (4-2-15)
तत्रेत्येव । समुदायेन
चेद्व्रतं गम्यते । स्थण्डिले शेते स्थाण्डिलो भिक्षुः ॥
1217: संस्कृतं भक्षाः (4-2-16) सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे यत्संस्कृतं
भक्षाश्चेत्ते स्युः । भ्राष्ट्रे संस्कृताभ्राष्ट्रा यवाः । अष्टसु कपालेषु
संस्कृतोऽष्टकपालः पुरोडाशः ॥
1218: शूलोखाद्यत् (4-2-17) अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः
तस्यां संस्कृतं उख्यम् ॥
1219: दध्नष्ठक् (4-2-18) दध्नि संस्कृतं दाधिकम् ।
1220: उदश्वितोऽन्यतरस्याम् (4-2-19)
ठक् स्यात्पक्षेऽण् ॥
1221: इसुसुक्तान्तात्कः (7-3-51) इस् उस् उक् त एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन
श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृतः औदश्वित्कः । औदश्वितः । इसुसोः
प्रतिपदोक्तयोर्ग्रहणान्नेह । आसिषाचरति आशिषिकः। उषा चरति औषिकः ॥ दोष
उपसंख्यानम् (वा 5051) ॥ दोर्भ्यां चरित दौष्कः ॥
1222: क्षीराड्ढञ् (4-2-20) अत्र संस्कृतमित्येव संबध्यते नतु भक्षा इति । तेव
यवाग्वामपि भवति । क्षैरेयी ॥
1223: सास्मिन्पौर्णमासीति (4-2-21)
इतिशब्दात्संज्ञायामिति
लभ्यते । पौषी । पौर्णमासी अस्मिन् पौषो मासः ॥
1224: आग्रहायण्यश्वत्थाट्ठक् (4-2-22)
अग्रे हायनमस्या
इत्याग्रहायणी । प्रज्ञादेराकृतिगणत्वादण् । ‘पूर्वपदात्संज्ञायाम्’–(सू. 857) इति णत्वम् । आग्रहायणी पौर्णमासी अस्मिन् आग्रहायणिको
मासः । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् ।
आस्वत्थिकः ॥
1225: विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः (4-2-23)
एभ्यष्ठग्वा । पक्षेऽण् ।
फाल्गुनिकः । फाल्गुनो मासः। श्रावणिकः । श्रावणः । कार्तिकिकः । कार्तिकः ।
चैत्रिकः । चैत्रः ॥
1226: सास्य देवता (4-2-24) इन्द्रो देवताऽस्येति ऐन्द्रं हविः । पाशुपतम् ।
बार्हस्पत्यम् । त्यज्यमानद्रव्ये उद्देस्यविसेषो देवता मन्त्रस्तुत्या च ।
ऐन्द्रो मन्त्रः । आग्नेयो वै ब्राह्मणो देवतयेति तु शैषिकेऽर्थे सर्वत्राग्नि (वा
2689) इति ढक् ॥
1227: कस्येत् (4-2-25) कसब्दस्य इदादेशः स्याकत्प्रत्ययसन्नियोगेन । ‘यस्य’-(सू. 311) इति लोपतेपरत्वादादिवृद्धिः । को ब्राह्मादेवतास्य कायं
हविः । श्रीर्देवतास्य श्रायम् ॥
1228: शुक्राद्घन् (4-2-26) शुक्रियम् ॥
1229: अपोनप्त्रपांनप्तृभ्यां घः (4-2-27)
अपोनप्त्रियम् ।
अपान्नप्त्रियम् । अपोनपात् अपान्नपाच्च देवते । प्रत्ययसंनियोगेन तूक्तं रूपं
निपात्यते । अत एवापोनपाते अपान्नपातेऽनुब्रूहीति प्रैषः ॥
1230: छ च (4-2-28) योगविभागो यथासंख्यनिवृत्त्यर्थः अपोनप्त्रीयम् ।
अपान्नप्त्रीयम् ॥ (छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम् (वा 2701) ।
पैङ्गाक्षीपुत्रीयम् । तार्णबिन्दवायम्) । शतरुद्राद्धश्च (वा 2702) ॥ चाच्छः ।
शतं रुद्रा देवता अस्य शतरुद्रियम् । शतरुद्रीयम् । घच्छयोर्विधानसामर्थ्याद् ‘द्विगोर्लुगनपत्ये’(सू.
1080) इति न लुक् ॥
1231: महेन्द्राद्घाणौ च (4-2-29) चाच्छः । महेन्द्रियं हविः । माहेन्द्रिम् । महेन्द्रीयम् ॥
1232: सोमाट्ट्यण् (4-2-30) सौम्यम् । टित्वान्ङीप् । सौमी ऋक् ॥
1233: वाय्वृतुपित्रुषसो यत् (4-2-31)
वायव्यम् । ऋतव्यम् ॥
1234: रीङृतः (7-4-27) अकृद्यकारेऽसार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य
रीङादेशः स्यात् ॥‘यस्येति च’ (सू. 311) । पित्र्यम् । उषस्यम् ।
1235: द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च
(4-2-32)
चाद्यत् । द्यावापृथिवीयम्
। द्यावापृथिव्यम् । शुनासीरीयम् । सुनीसीर्यम् ॥
1236: अग्नेर्ढक् (4-2-33) आग्नेयम् ॥
1237: कालेभ्यो भववत् (4-2-34) मासिकम् । प्रावृषेण्यम् ॥
1238: महाराजप्रोष्ठपदाट्ठञ् (4-2-35)
माहाराजिकम् ।
प्रौष्ठपदिकम् ॥
1239: देवताद्वन्द्वे च (7-3-21) अत्र पूर्वेत्तरपदयोराद्यचो वृद्धिः स्यात् ञिति णिति किति
च परे । आग्निमारुतम्॥
1240: नेन्द्रस्य परस्य (7-3-22) परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । परस्य किम्
। ऐन्द्राग्नः ॥
1241: दीर्घाच्च वरुणस्य (7-3-23) दीर्घात्परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् ।
दीर्घात्किम् । आग्निवारुणीमनड्वाहीमालभेत तदस्मिन्वर्तत इति नवयज्ञादिभ्य
उपसंख्यानम् (वा 2706) ॥ नावयज्ञिकः कालः। पाकयज्ञिकः ॥ पूर्णमासादण् वक्तव्यः (वा
2707) ॥ पूर्णो मासोऽस्यां वर्तते इति पौर्णमासी तिथिः ॥
1242: पितृव्यमातुलमातामहपितामहाः (4-2-36)
एते निपात्यन्ते ॥
पितुर्भ्रातरि व्यत् (वा 2708) ॥ पितुर्भ्राता पितृव्यः ॥ मातुर्डुलच् (वा 1708) ॥
मातुर्भ्राता मातुलः ॥ मातृपितृभ्यां पितरि डामहच् (वा 2709) ॥ मातुः पिता मातामहः
। पितुः पिता पितामहः ॥ मातरि षिच्च (वा 2710) ॥ मातामही । पितामही ॥अवेर्दुग्धे
सोढदूसमरीसचो वक्तव्यः (वा 2712) ॥ सकारपाठसामर्थ्यान्न षः । अविसोढम् । अविदूसम्
। अविमरीसम् ॥ तिलानिष्फलात्पिञ्जौ (वा 2713) ॥ तिलपिञ्जः । तिलपेजः । वन्ध्यस्तिल
इत्यर्थः ॥ पिञ्जश्छन्दसि डिच्च (वा 2714) ॥ तिल्पिञ्जः ॥
1243: तस्य समूहः (4-2-37) काकानां समूहः काकम् । बाकम् ।
1244: भिक्षादिभ्योऽण् (4-2-38) भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह
भस्याढ इति पुंवद्भावे कृते ॥
1245: इनण्यनपत्ये (6-4-164) अनपत्यार्थेऽणि परे इन् प्रकत्या स्यात् । तेन ‘नस्तद्धिते’(सू.
679) इति टिलोपो न । युवतीनां समूहो यौवनम् ।
शत्रन्तादनुदात्तादेरञि यौवतम् ॥
1246: गोत्रोक्षोष्ट्रोरभ्रराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् (4-2-39)
एभ्यः समूहे वुञ् स्यात् ।
लौकिकमिह गोत्रं तच्चापत्यमात्रम् ॥
1247: युवोरनाकौ (7-1-1) यु वु एतयोरनुनासिकयोः क्रमादन अक एतावादेशौ स्तः ।
ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । औक्षकमित्यादि । ‘आपत्यस्य च’–(सू. 1082) इति यलोपे प्राप्ते ॥ प्रकृत्याऽकेराजन्यमनुष्ययुवानः (वा
4214) ॥ राजन्यकम् । मानुष्यकम् ॥वृद्धाच्चेति वक्तव्यम् (वा 2716) ॥ वार्धकम् ॥
1248: केदाराद्यञ्च (4-2-40) चाद्वुञ् । कैदार्यम् । कैदारकम् ॥गणिकाया यञिति वक्तव्यम्
(वा 2719) ॥ गाणिक्यम्॥
1249: ठञ्कवचिनश्च (4-2-41) चाक्तेदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् ॥
1250: ब्राह्मणमाणववाडवाद्यन् (4-2-42)
ब्राह्मण्यम् । माणव्यम् ।
वाडव्यम् ॥ पृष्ठादुपसंख्यानम् (वा 2720) ॥ पृष्ठ्यम् ॥
1251: ग्रामजनबन्धुभ्यस्तल् (4-2-43)
ग्रामता । जनता । बन्धुता
॥ गजसहायाभ्यां चेति वक्तव्यम् (वा 2721) ॥ गजता । सहायता ॥ अह्नः खः क्रतौ (वा
2722-2723) ॥ अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । क्रतौ किम् । आह्नः ।
इह खण्डिकादित्वादञ् । ‘अह्नष्टखोरेव’(सू. 789) इति नियमाट्टिलोपो न ॥ पर्श्वा णस् वक्तव्यः (वा 2724) ॥
1252: सिति च (1-4-16) सिति परे पूर्वं पदसंज्ञं स्यात् । अभत्वादोर्गुणो न ।
पर्शूनां समूहः पार्श्वम् ॥
1253: अनुदात्तादेरञ् (4-2-44) कापोतम् । मायूरम् ॥
1254: खण्डिकादिभ्यश्च (4-2-45) अञ् स्यात् । खण्डिकानां समूहः खाण्डिकम् ॥
1255: चरणेभ्यो धर्मवत् (4-2-46) काठकम् । छान्दोग्यम् ॥
1256: अचित्तहस्तिधेनोष्ठक् (4-2-47)
साक्तुकम् । हास्तिकम् । धैनुकम्
॥
1257: केशाश्वाभ्यां यञ्छावन्यतरस्याम् (4-2-48)
पक्षे ठगणौ ।
कैश्यम्-कैशिकम् । अश्वीयम्-आश्वम् ॥
1258: पाशादिभ्यो यः (4-2-49) पाश्या । तृण्या । धूम्या । वन्या । वात्या ॥
1259: खलगोरथात् (4-2-50) खल्या । गव्या । रथ्या ॥
1260: इनित्रकट्यचश्च (4-2-51) खलादिभ्यः क्रमात्स्युः । खलिनी । गोत्रा । रथकट्या ॥
खलादिभ्य इनिर्वक्तव्यः (वा 2735) ॥ डाकिनी । कुटुम्बिनी । आकृतिगणोऽयम् ॥
1261: विषयो देशे (4-2-52) षष्ठ्यन्तादमादयः स्युरत्यन्तपरिशीलितेऽर्थे स चेद्देशः ।
शिबीनां विषयो देशः शैबः । देशे किम् । देवदत्तस्य विषयोऽनुवाकः ॥
1262: राजन्यादिभ्यो वुञ् (4-2-53) राजन्यकः ॥
1263: भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ (4-2-54)
भौरिकीणां विषयो देशः
भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् ॥
1264: सोऽस्यादिरिति च्छन्दसः प्रगाथेषु (4-2-55)
अण् । पङ्क्तिरादिरस्येति
पाङ्क्तः प्रगाथः ॥ स्वार्थ उपसंख्यानम् (वा 2744) ॥ त्रिष्टुबेव त्रैष्टुभम् ॥
1265: संग्रामे प्रयोजनयोद्धृभ्यः (4-2-56)
सोऽस्येत्यनुवर्तते ।
सुभद्रा प्रयोजनमस्य संग्रामस्येति सौभद्रः । भरता योद्धारोऽ स्य संग्रामस्य भारतः
॥
1266: तदस्यां प्रहरणमिति क्रीडायां णः (4-2-57)
दण्डः प्रहसणमस्यां
क्रीडायां दाण्डा । मौष्टा ॥
1267: घञः सास्यां क्रियेति ञः (4-2-58)
घञन्तात्क्रियावाचिनः
प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे ञप्रत्ययः स्यात् । घञ इति
कृद्ग्रहणाद्गतिकारकपूर्वस्यापि ग्रहणम् ॥
1268: श्येनतिलस्य पाते ञे (6-3-71)
श्येन तिल एतयोर्मुमागमः
स्यात् ञप्रत्ययपरे पातशब्दे उत्तरपदे । श्येनपातोऽस्यां वर्तते श्यैनंपाता मृगया
। तिलपातोऽस्यां वर्तते तैलंपाता स्वधा । श्येनतिलस्य किम् । दण्डपातोऽस्यां तिथौ
वर्तते दाण्डपाता तिथिः ॥
1269: तदधीते तद्वेद (4-2-59) व्याकरणमधीते वेद वा वैयाकरणः ॥
1270: क्रतूक्थादिसूत्रान्ताट्ठक् (4-2-60)
क्रतुविशेषवाचिनामेवेह
ग्रहणम् । तेभ्यो मुख्यार्थेभ्यो वेदितरि तत्प्रतिपादकग्रन्थपरेभ्यस्त्वद्येतरि ।
आग्निष्टोमिकः । वाजपेयिकः । उक्थं सामविशेषस्तल्लक्षणपरो ग्रन्थविशेषो
लक्षणयोक्थम् । तदधीते वेद वा । औक्थिकः ॥ मुख्यार्थात्तूक्थशब्दाट्ठगणौ नेष्येते
॥ न्यायम्, नैयायिकः । वृत्तिम्, वार्तिकः । लोकायतम्, लौकायतिकः इत्यादि ॥ सूत्रान्तात्त्वकल्पादेरेवेष्यते (वा
2744) ॥ सांग्रहसूत्रिकः । अकल्पादेः किम् । काल्पसूत्रः ॥ विद्यालक्षणकल्पान्ताच्चेति
वक्तव्यम् (वा 2744) ॥ वायसविद्यिकः । गौलक्षणकः। आश्वलक्षणिकः । पाराशरकल्पिकः ॥
अङ्गक्षत्रधर्मत्रिपूर्वाद्विद्यान्तान्नेति वक्तव्यम् (वा 2745) ॥ आङ्गविद्यः ।
क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या तामधीते वेद वा त्रैविद्यः
॥ आख्यानाख्यायिकेतिहासपुराणेभ्यश्च (वा 2746) ॥ यवक्रीतमधिकृत्य
कृतामाख्यानमुपचाराद्यवक्रीतं तदधीते वेत्ति वा यावक्रीतिकः । वासवदत्तामधिकृत्य
कृता आख्यायिका वासवदत्ता । ‘अधिकृत्य कृते ग्रन्थे’(सू. 1467) इत्यर्थे ‘वृद्धाच्छः’(सू. 1337) । तस्य लुबाख्यायिकाभ्यो बहुलमिति लुप् । ततोऽनेन ठक् ।
वासवदत्तिकः । ऐतिहासिकः । पौराणिकः ॥ सर्वादेः सादेश्च लुग्वक्तव्यः (वा 2748) ॥
सर्ववेदानधीते सर्ववेदः । सर्वतन्त्रः । सवार्तिकः । ‘द्विगोर्लुक्’(सू. 1080) इति लुक् । द्वितन्त्रः ॥ इकन्पदोत्तरपदाच्छतषष्टेः
षिकन्पथः (वा 2749-2750) ॥ पूर्वपदिकः । उत्तरपदिकः । शतपथिकः । शतपथिकी ।
षष्टिपथिकः । षष्टिपथिकी ॥
1271: क्रमादिभ्यो वुन् (4-2-61) क्रमकः । क्रम, पद, शिक्षा, मीमांसा, क्रमादिः ॥
1272: अनुब्राह्मणादिनिः (4-2-62) तदधते तद्वेद 1269इत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं तदधीते
अनुब्राह्मणी । अत्वर्थीयेनैव सिद्धे अणबाधनार्थमिदम् ॥
1273: वसन्तादिभ्यष्ठक् (4-2-63) वासन्तिकः । अथर्वाणमधीते आथर्वणिकः । ‘दाण्डिनायन’– (सू. 1145) इति सूत्रे निपातनाट्टिलोपो न ॥
1274: प्रोक्ताल्लुक् (4-2-64) प्रोक्तार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक्
स्यात् । पणनं पणः । घञर्थे कविधानमिति कः । सोऽस्यास्तीति पणी । तस्य गोत्रापत्यं
पाणिनः ॥
1275: गाथिविदथिकेशिगणिपणिनश्च (6-4-165)
एतेऽणि प्रकृत्या स्युः ।
इति टिलोपो न । ततो यूनि इञ् पाणिनिः ॥
1276: ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (2-4-58)
ण्यप्रत्ययान्तात्क्षत्रियगोत्रप्र्ययान्तादृष्यभिधायिनो
गोत्रप्रत्ययान्ताद् ञितस्च परयोर्युवाभिधायिनोरणिञोर्लुक् स्यात् । कौरव्यः पिता
। कौरव्यः पुत्रः । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । वासिष्ठः पिता । वासिष्ठः
पुत्रः । तैकायनिः पिता । तैकायनिः पुत्रः । एभ्यः किम् । शिवाद्यण् । कौहङः पिता
। तत इञ् । कौहङिः पुत्रः । यूनि किम् । वामरथ्यस्य छात्राः । वामरथाः । इति अणो
लुक् तु न भवति । आर्षग्रहणेन प्रतिपदोक्तस्य ऋष्यण एव ग्रहणात् । पाणनिना
प्रोक्तं पानिनीयम् । ‘वृद्धाच्छः’(सू. 1337) । ‘इञश्च’(सू. 1333) इत्यण् तु न । गोत्रे य इञ् तदन्तादिति वक्ष्यमाणत्वात् ।
ततोऽध्येतृवेदित्रणो लुक् । स्वरे स्त्रियां च विशेषः । पाणिनीयः । पाणिनीया ॥
1277: सूत्राच्च कोपधात् (4-2-65) सूत्रवाचिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् ।
अप्रोक्तार्थं आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । तदधीते
विदन्ति वा अष्टकाः ॥
1278: छन्दोब्राह्मणानि च तद्विषयाणि (4-2-66)
छन्दांसि ब्राह्मणानि च
प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः । अद्येतृवेदितृप्रत्ययं विना न
प्रयोज्यानीत्यर्थः । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाण्णिनिः ।
तस्य ‘कठचरकात्’- (सू. 1487) इति लुक् । ततोऽण्, तस्य ‘प्रोक्ताल्लुक्’ (सू. 1274) ॥
॥ अथ चातुरर्थिकाः ॥
1279: तदस्मिन्नस्तीति देशे तन्नाम्नि (4-2-67)
उदुम्बराः
सन्त्यस्मिन्देशे औदुम्बरः ॥
1280: तेन निर्वृत्तम् (4-2-68) कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी ॥
1281: तस्य निवासः (4-2-69) शिबीनां निवासो देशः शैबः ॥
1282: अदूरभवश्च (4-2-70) विदिशाया अदूरभवं नगरं वैदिशम् । चकारेण
प्रागुक्तास्त्रयोऽर्थाः संनिधाप्यन्ते । तेन वक्ष्यमाणप्रत्ययानां चातुरर्थिकत्वं
सिध्यति ॥
1283: ओरञ् (4-2-71) अणोऽपवादः । कक्षतु-काक्षतवम् । नद्यां तु परत्वान्मतुप् ।
इक्षुमती ॥
1284: मतोश्च बह्वजङ्गात् (4-2-72) बह्वच् अङ्गं यस्य मतुपस्तदन्तादञ नाऽण् । सैध्रकावतम् ।
बह्वजिति किम् । आहिमतम् । अङ्गग्रहणं बह्वजिति तद्विशेषणं यथा
स्यान्मत्वन्तविशेषणं माभूत् ॥
1285: बह्वचः कूपेषु (4-2-73) अणोऽपवादः । दीर्घवरत्रेण निर्वृत्तो दैर्घवरत्रः कूपः ॥
1286: उदक्च विपाशः (4-2-74) विषाश उत्तरे कूले ये कूपात्येष्वञ् । अबह्वजर्थ आरम्भः ।
दत्तेन निर्वृत्तो दात्तः कूपः । उदक् किम् । दक्षिणतः कूपेष्वणेव ॥
1287: सङ्कलादिभ्यश्च (4-2-75) कूपेष्विति निवृत्तम् । सङ्कलेन निर्वृत्तं साङ्कलम् ।
पौष्कलम् ॥
1288: स्त्रीषु सौवीरसाल्वप्राक्षु (4-2-76)
स्त्रीलिङ्गेषु एषु देशेषु
वाच्येष्वञ् । सौवीरे, दत्तामित्रेण निर्वृत्ता दात्तामित्री नगरी । साल्वे,
वैधूमाग्नी । प्राचि, माकन्दी ॥
1289: सुवास्त्वादिभ्योऽण् (4-2-77)
अञोऽपवादः ।
सुवास्तोरदूरभवं सौवास्तवम् । वर्मु, वार्णवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी
॥
1290: रोणी (4-2-78) रोणीशब्दात्तदन्ताच्च अण, कूपाञोऽपवादः । रौणः । आजकरोणः ॥
1291: कोपधाच्च (4-2-79) अण् । अञोऽपवादः । कार्णच्छिद्रकः कूपः । कार्कवाकवम् ।
त्रैशङ्कवम् ॥
1292:वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञिञ्यकक्ठकोऽरीहणकृशाश्वर्श्र्यकुमुतदकाशतृणप्रेक्षाश्मसखि-संकाशबलपक्षकर्णसुतगमप्रगदिन्वराहकुमुदादिभ्यः
(4-2-80)
सप्तदशम्यो गणेभ्यः सप्तदश
क्रमात्स्युश्चतुरर्थ्याम् । अरीहणादिभ्यो वुञ्, अरीहणेन निर्वृत्तमारीहणकम् । कृशाश्वादिभ्यश्छण्
। कार्शाश्वीयम् । ऋस्यादिभ्यः कः । ऋश्यकम् । कुमुदादिभ्यष्ठच् । कुमुदिकम् ।
काशादिभ्य इलः । काशिलः । तृणादिभ्यः सः । तृणसम् । प्रेक्षादिभ्य इनिः । प्रेक्षी
। अश्मादिभ्यो रः । अश्मरः । सख्यादिभ्यो ढञ् । साखेयम् । सङ्काशादिभ्यो ण्यः ।
साङ्काश्यम् । बलादिभ्यो यः । बल्यम् । पक्षादिभ्यः फक् । पाक्षायणः । पथः पन्थ च (ग
सू 79) ॥ पान्थायनः । कर्णादिभ्यः फिञ् । कार्णायनिः । सुतङ्गमादिभ्य इञ्
सौतङ्गमिः । प्रगद्यादिभ्यो ञ्यः । प्रगदिन्, प्रागद्यः । वराहादिभ्यः कक्। वारीहकः । कुमुदादिभ्यष्ठक् ।
कौमुदीकः ॥
1293: जनपदे लुप् (4-2-81) जनपदे वाच्ये चातुरर्थिकस्य लुप्स्यात् ॥
1294: लुपि युक्तवद्व्यक्तिवचने (1-2-51)
लुपि सति
प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । अङ्गाः ।
वङ्गाः । कलिङ्गाः ॥
1295: तदशिष्यं संज्ञाप्रमाणत्वात् (1-2-53)
युक्तवद्वचनं न कर्तव्यं
संज्ञानां प्रमाणत्वात् ॥
1296: लुब्योगाप्रख्यानात् (1-2-54)
लुबपि न
कर्तव्योऽवयवार्थस्येहाप्रतीतेः ।
1297: योगप्रमाणे च तदभावेऽदर्शनं स्यात् (1-2-55)
यदि हि
योगस्यावयवार्थस्येदं बोधकं स्यात्तदा तदभावे न दृश्येत ॥
1298: प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् (1-2-56)
प्रत्ययार्थः
प्रधानमित्येवंरूपं वचनमप्यशिष्यम् । कुतः, अर्थस्य लोकत एव सिद्धेः ॥
1299: कालोपसर्जने च तुल्यम् (1-2-57)
अतीताया रात्रेः
पश्चार्धेनागामिन्याः । पूर्वार्धेन य सहितोदिवसोऽद्यतनः ।
विशेषणमुपसर्जनमित्यादिपूर्वाचार्यैः परिभाषितं तत्राप्यशिष्यत्वं समानम् ।
लोकप्रसिद्धेः॥
1300: विशेषणानां चाजातेः (1-2-52) लुबर्थस्य विशेषणानामपि तद्वल्लिङ्गवचने स्तो जातिं वर्जयित्वा
। पञ्चाला रमणीयाः गोदौ रमणीयौ । अजातेः किम् । पञ्चाला जनपदः । गोदौ ग्रामः ॥
हरीतक्यादिषु व्यक्तिः (वा 715) ॥ हरीतक्याः फलानि हरीतक्यः ॥खलतिकादिषु वचनम् (वा
716) ॥ खलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि ॥ मनुष्यलुपि प्रतिषेधः (वा717) ॥
मनुष्यलक्षणे लुबर्थे विशेषणानां न, लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः ॥
1301: वरणादिभ्यश्च (4-2-82) अजनपदार्थ आरम्भः । वरणानामदूरभवे नगरं वरणाः ॥
1302: शर्कराया वा (4-2-83) अस्माच्चातुरर्थिकस्य वा लुप्स्यात् ॥
1303: ठक्छौ च (4-2-84) शर्कराया एतौ स्तः । कुमुदादौ वराहादौ च
पाठसामर्थ्यात्पक्षे ठच्ककौ । वाग्रहणसामर्थ्यात्पक्षे औत्सर्गिकोऽण् तस्य
लुब्विकल्पः । षड् रूपाणि । शर्करा । शार्करम् । शार्करिकम् । शर्करीयम् ।
शर्करिकम् । शार्करकम् ॥
1304: नद्यां मतुप् (4-2-85) चातुरर्थिकः । इक्षुमती ॥
1305: मध्वादिभ्यश्च (4-2-86) मतुप् स्याच्चातुरर्थिकः । अनद्यर्थ आरम्भः । मधुमान् ॥
1306: कुमुदनडवेतसेभ्यो ड्मतुप् (4-2-87)
कुमुद्वान् । नड्वान् ।
वेतस्वान् । आद्ययोः ‘झयः’(सू. 1898) इति अन्त्ये मादुपधायाः—(सू. 1897) इति वक्ष्यमाणेन वः ॥ महिषाच्चेति वक्तव्यम् (वा 2761) ॥ महिष्मान्नाम
देशः॥
1307: नडशादाड्ड्वलच् (4-2-88) नड्वलः । शादो जम्बालघासयोः । शाद्वलः ॥
1308: शिखाया वलच् (4-2-89) शिखावलम् ॥
1309: उत्करादिभ्यश्छः (4-2-90) उत्करीयः ॥
1310: नडादीनां कुक्च (4-2-91) नडकीयम् । क्रुञ्चा ह्रस्वत्वं च (ग सू 80) ॥ क्रुञ्चकीयः ॥
तक्षन्नलोपश्च (ग सू. 81 ॥ तक्षकीयः ॥
1311:
बिल्वकादिभ्यश्छस्य
लुक् (6-4-153) नडाद्यन्तर्गता बिल्वकादयस्तेभ्यश्छस्य लुक् तद्धिते परे ।
बिल्वा यस्यां सन्ति सा बिल्वकीया । तस्यां भवा बैल्वकाः । वेत्रकीयाः । वैत्रकाः
। छस्य किम् । छमात्रस्य लुग्यथा स्यात्कुको निवृत्तिर्माभूत् । अन्यथा
संनियोगशिष्टानाम् इति कुगपि निवर्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि
यमात्रस्य स्यात् ॥
॥इति तद्धिताधिकारे चातुरर्थिकप्रकरणम् ॥
॥ अथ तद्धितेषु धिकारे
शैषिकप्रकरणम् ॥
1312: शेषे (4-2-92) अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राऽणादयः स्युः ।
चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदिपिष्टा
दार्षदाः सक्तवः । उलूखले क्षुण्ण औलूखले क्षुण्ण औलूखलो यावकः । अश्वैरुह्यत
आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः ।
शेषे इति लक्षणं चाधिकारश्च । तस्य विकारः इत्यतः प्राक् शेषाधिकारः ॥
1313: राष्ट्रावारपाराद्घखौ (4-2-93)
आभ्यां क्रमाद्घखौ स्तः
शेषे । राष्ट्रियः । अवारपारीणः ॥ अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्
(वा 2771-2772) ॥ अवारीणः । पारीणः । इह प्रकृतिविशेषाद्धादयष्ट्युट्युलन्ताः
प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥
1314: ग्रामाद्यखञौ (4-2-94) ग्राम्यः । ग्रामीणः ॥
1315: कत्त्र्यादिभ्यो ढकञ् (4-2-95)
कुत्सितास्त्रयः कत्त्रयः
। तत्र जातादिः कात्त्रेयकः । नाकरेयकः । ग्रामादित्यनुवृत्तेः ग्रामेयकः ॥
1316: कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु (4-2-96)
कौलेयकः श्वा । कौलोऽन्यः
। कौक्षेयकोऽसिः । कौक्षोऽन्यः । ग्रैवेयकोऽलङ्कारः । ग्रैवोऽन्यः ॥
1317: नद्यादिभ्यो ढक् (4-2-97) नादेयम् । माहेयम् । वाराणसेयम् ॥
1318: दक्षिणापश्चात्पुरसस्त्यक् (4-2-98)
दक्षिणेत्याजन्तमव्ययम् ।
दाक्षिणात्यः । पाश्चात्त्यः । पौरस्त्यः ॥
1319: कापिश्याः ष्फक् (4-2-99) कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा ॥
1320: रङ्कोरमनुष्येऽण्च (4-2-100) चात् ष्फक् । राङ्कवो गौः । राङ्कवायणः । अमनुष्य इति किम्
। राङ्कवको मनुष्यः ॥
1321: द्युप्रागपागुदक्प्रतीचो यत् (4-2-101)
दिव्यम् । प्राच्यम् ।
अपाच्यम् । उदीच्यम् । प्रतीच्यम् ॥
1322: कन्थायाष्ठक् (4-2-102) कान्थिकः ॥
1323: वर्णौ वुक् (4-2-103) वर्णुर्नदस्तस्य समीपदेशो वर्णुः,
तद्विपयार्थवाचिकन्थाशब्दाद्वुक् स्यात् । यथा हि जातं
हिमवत्सु कान्थकम् ॥
1324: अव्ययात्त्यप् (4-2-104) अमेहक्वतसित्रेभ्य एव (वा 2779) ॥ अमाऽन्तिकसहार्थयोः ।
अमात्यः । इहत्यः । क्वत्यः । ततस्त्यः । तत्रत्यः । परिगणनं किम् । उपरिष्टाद्भव
औपरिष्टः ॥ अव्ययानां भमात्रे टिलोपः (वा 4187) ॥ अनित्योऽयं बहिषष्टिलोपविधानात्
। तेनेह न । आरातीयः ॥ त्यब्नेर्ध्रुव इति वक्तव्यम् (वा 2780) ॥ नित्यः ॥ निसो
गते (वा 2781) ॥
1325: ह्रस्वात्तादौ तद्धिते (8-3-101)
ह्रस्वादिणः परस्य सस्य षः
स्यात्तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्टयश्चाण्डालादिः ॥ अरण्याण्णः
(वा 2782) ॥ आरण्याः सुमनसः ॥ दूरादेत्यः (वा 2783) ॥ दूरेत्यः ॥ । उत्तरादाहञ् (वा
2744) । औत्तराहः ॥
1326: ऐषमोह्यः श्वसोऽन्यतरस्याम् (4-2-105)
एभ्यस्त्यब्वा । पक्षे
वक्ष्यमाणौ ट्युट्युलौ । ऐषमस्त्यम् । ऐषमस्तनम् । ह्यस्त्यम् । ह्यस्तनम् ।
श्वस्त्यम् । श्वस्तनम् । पक्षे शौवस्तिकं वक्ष्यते ॥
1327: तीररूप्योत्तरपदादञौ (4-2-106)
यथासंख्येन । काकतीरम् ।
पाल्वलतीरम् । शैवरूप्यम् । तीररूप्यान्तादिति नोक्तम् । बहुच्पूर्वान्माभूत् ।
बाहुरूप्यम् ॥
1328: दिक्पूर्वपदादसंज्ञायां ञः (4-2-107)
अणोपवादः । पौर्वशालः ।
असंज्ञायां किम् । संज्ञाभूतायाः प्रकृतेर्माभूत् । पूर्वेषुकामशम्यां भवः
पूर्वैषुकामशमः ।‘प्राचां ग्रामनगरणाम्’ (सू. 1400) इत्युत्तरपदवृद्धिः ॥
1329: मद्रेभ्योऽञ् (4-2-108) दिक्पूर्वपदादित्येव । ‘दिशोऽमद्राणाम्’(सू. 1399) इति मद्रपर्युदासादादिवृद्धिः। पौर्वमद्रः । आपरमद्रः ॥
1330: उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् (4-2-109)
अञ् स्यात् । शैवपुरम् ॥
1331: प्रस्थोत्तरपदपलद्यादिकोपधादण् (4-2-110)
माहिकिप्रस्थः । पालदः ।
नैलीनकः ॥
1332: कण्वादिभ्यो गोत्रे (4-2-111) एभ्यो गौत्रप्रत्ययान्तेभ्योऽण् स्यात् । कण्वो गर्गादिः ।
काण्वस्य छात्राः काण्वाः ॥
1333: इञश्च (4-2-112) गोत्रे य इञ् तदन्तादण् स्यात् । दाक्षाः । गोत्रे किम् ।
सौतङ्गमेरिदं सौतङ्गमीयम् । गोत्रमिह शास्त्रीयं नतु लौकिकम् । तेनेह न ।
पाणिनीयम् ॥
1334: न द्व्यचः प्राच्यभरतेषु (4-2-113)
‘इञश्च’(सू. 1333) इत्यणोऽपवादः । प्राष्ठीयाः । काशीयाः । भरतानां
प्राच्यात्वेऽपि पृथगुपादानमन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य लिङ्गम् ॥
1335: वृद्धिर्यस्याचामादिस्तद्वृद्धम् (1-1-73)
यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं
स्यात् ॥
1336: त्यदादीनि च (1-1-74) वृद्धसंज्ञानि स्युः ॥
1337: वृद्धाच्छः (4-2-114) शालीयः । मालीयः । तदीयः ॥
1338: एङ् प्राचां देशे (1-1-75) एङ् यस्याचामादिर्तद्वृद्धसंज्ञं वा स्याद्देशाभिधाने ।
एणीपचनीयः । गोनर्दीयः। भोजकटीयः । पक्षे अणि । ऐणीपचनः । गौनर्दः । भौजकटः । एङ्
किम् । आहिच्छत्रः । कान्यकुब्जः ॥ वा नामधेयस्य वृद्धसंज्ञा वक्तव्या (वा 576) ॥
दैवदत्तः । देवदत्तीयः ॥
1339: भवतष्ठक्छसौ (4-2-115) वृद्धाद्भवत एतौ स्तः । भावत्कः । जश्त्वम् । भवदीयः ।
वृद्धादित्यनुवृत्तेः शत्रन्तादणेव । भावतः ॥
1340: काश्यादिभ्यष्ठञ्ञिठौ (4-2-116)
इकार उच्चारणार्थः ।
काशिकी । काशिका । बैदिकी । बैदिका ॥ आपदादिपूर्वपदात्कालान्तात् (ग सू 74) ॥
आपदादिराकृतिगणः । आपत्कालिकी । आपत्कालिका ॥
1341: वाहीकग्रामेभ्यश्च (4-2-117) वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ् ञिठौ स्तः । छस्यापवादः
। कास्तीरं नाम वाहीकग्रामः । कास्तीरिकी । कास्तीरिका ॥
1342: विभाषोशीनरेषु (4-2-118) एषु ये ग्रामास्तद्वाचिभ्यो वृद्धेभ्यष्ठञ् ञिठौ वा स्तः ।
सौदर्शनिकी । सौदर्शनिका । सौदर्शनीया ॥
1343: ओर्देशे ठञ् (4-2-119) उवर्णान्ताद्देशवाचिनष्ठञ् । निषादकर्षूः । नैषादकर्षकः । ‘केऽणः’(सू.
834) इति ह्रस्वः । देशे किम् । पटोश्छात्राः पाटवाः । ञिठं
व्यावर्तयितुं ठञ् ग्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकार्षुकः ॥
1344: वृद्धात्प्राचाम् (4-2-120) प्राद्गेशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् ।
आढकजम्बुकः । शाकजम्बुकः । नेह मल्लवास्तु, माल्लवास्तवः ॥
1345: धन्वयोपधाद्वुञ् (4-2-121) धन्वाविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद्वुञ्
स्यात् । ऐरावतं धन्व ऐरावतकः । साङ्काश्यकाम्पिल्यशब्दौ वुञ्छण्- (सू. 1292) आदिसूत्रेण ण्यान्तौ । साङ्काश्यका । काम्पिल्यकः ॥
1346: प्रस्थपुरवहान्ताच्च (4-2-122)
एतदन्ताद्वृद्धादेशवाचिनो
वुञ् स्यात् । छस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः । पैलुवहकः ।
पुरान्तग्रहणमप्रागर्थम् । प्राद्गेशे तूत्तरेण सिद्धम् ॥
1347: रोपधेतोः प्राचाम् (4-2-123) रोपधादीकारान्ताच्च प्राद्गेशवाचिनो वृद्धाद्वुञ् स्यात् ॥
पाटलिपुत्रः । ईतः, काकन्दकः ॥
1348: जनपदतदवध्योश्च (4-2-124) जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्वुञ् स्यात् । आदर्शकः ।
त्रैगर्तकः॥
1349: अवृद्धादपि बहुवचनविषयात् (4-2-125)
अवृद्धाद् वृद्धाच्च
जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिकाद्वुञ् स्यात् । अवृद्धादणो
वृद्धाच्छस्यापवादः । अवृद्धाज्जनपदात्, आङ्गकः । अवृद्धाज्जनपदावधेः, आजमीढकः । वृद्धाज्जनपदात्, दार्वकः । वृद्धाज्जनपदावधेः, कालञ्जरकः । विषयग्रहणं किम्। एकशेषेण बहुत्वे माभूत् ।
वर्तनी च वर्तनी च वर्तनी च वर्तन्यः, तासु भवो वार्तनः ॥
1350: कच्छाग्निवक्त्रवर्तोत्तरपदात् (4-2-126)
देशवाचिनो
वृद्धादवृद्धाच्च वुञ् स्यात् । दारुकच्छकः । काण्डाग्नकः । सैन्धुवक्त्रकः ।
बाहुवर्तकः ॥
1351: धूमादिभ्यश्च (4-2-127) देशवाचिभ्यो वुञ् । धौमकः । तैर्थकः ॥
1352: नगरात्कुत्सनप्रावीण्ययोः (4-2-128)
नगरशब्दाद्वुञ्
स्यात्कुत्सने प्रावीण्ये च गम्ये । नागरकश्चौरः शिल्पी वा । कुत्सनेति किम् ।
नागरा ब्राह्मणाः ॥
1353: अरण्यान्मनुष्ये (4-2-129) वुञ् ॥ अरण्याण्णः (वा 2782) इत्यास्यापवदः
॥पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वाच्यम् (वा 2819 ) ॥ आरण्यकः पन्थाः,
अध्यायो, न्यायो, विहारो, मनुष्यो, हस्ती वा ॥ वा गोमयेषु (वा 2820) ॥ आरण्यकाः आरण्या वा
गोमयाः ॥
1354: विभाषा कुरुयुगन्धराभ्याम् (4-2-130)
वुञ् । कौरवकः । कौरवः ।
यौगन्धरकः । यौगन्धरः ॥
1355: मद्रवृज्योः कन् (4-2-131) जनपदवुञोऽपवादः । मद्रेषु जातो मद्रकः । वृजिकः ॥
1356: कोपधादण् (4-2-132) माहिषिकः ॥
1357: कच्छादिभ्यश्च (4-2-133) देशवाचिभ्योऽण् । वुञादेरपवादः । काच्छः । सैन्धवः ॥
1358: मनुष्यतत्स्थयोर्वुञ् (4-2-134)
कच्छाद्यणोऽपवादः । कच्छे
जातादिः काच्छको मनुष्यः । कच्छकं हसितम् । मनुष्येति किम् । काच्छो गौः ॥
1359: अपदातौ साल्वात् (4-2-135) साल्वशब्दस्य कच्छादित्वाद्वुञि सिद्धे नियमार्थमिदम् ।
अपदातावेवेति। साल्वको ब्राह्मणः । अपदातौ किम् । साल्वः पदातिर्व्रजति ॥
1360: गोयवाग्वोश्च (4-2-136) साल्वाद्वुञ् । कच्छाद्यणोऽपवादः । साल्वाको गौः । साल्विका
यवागूः । साल्वमन्यत् ॥
1361: गर्तोत्तरपदाच्छः (4-2-137) देशे । अणोऽपवादः । वृकगर्तीयम् । उत्तरपदग्रहणं
बहुच्पूर्वनिरासार्थम् ॥
1362: गहादिभ्यश्च (4-2-138) छः स्यात् । गहीयः ॥ मुखपार्श्वतसोर्लोपश्च (ग सू 78) ॥
मुखतीयम् । पार्श्वतीयम् । अव्ययानां भमात्रे टिलोपस्यानित्यतां ज्ञापयितुमिदम् ॥
कुग्जनस्य परस्य च (ग सू 89) ॥ जनकीयम्। परकीयम् ॥ देवस्य च (ग सू 90) ॥ देवकीयम्
॥ स्वस्य च ॥ स्वकीयम् ॥ वेणुकादिभ्यश्छण्वाच्यः (ग सू 91) ॥ वैणुकीयम् । वैत्रकीयम् ॥
औत्तरपदकीयम् ॥
1363: प्राचां कटादेः (4-2-139) प्राद्गेशवाचिनः कटादेश्छः स्यात् । अणोऽपवादः । कटनगरीयम्
। कटघोषीयम्। कटपल्वलीयम् ॥
1364: राज्ञः क च (4-2-140) वृद्धत्वाच्छे सिद्धे तत्सन्नियोगेन कादेशमात्रं विधीयते ।
राजकीयम् ॥
1365: वृद्धादकेकान्तखोपधात् (4-2-141)
अक इक एतदन्तात्खोपधाच्च
वृद्धाद्देशवाचिनश्छः स्यात् । ब्राह्मणको नाम जनपदो यत्र ब्राह्मणा
आयुधजीविनस्तत्र जातो ब्राह्मणकीयः । शाल्मलिकीयः । आयोमुखीयः ॥
1366: कन्थापलदनगरग्रामह्रदोत्तरपदात् (4-2-142)
कन्थादिपञ्चकोत्तरपदाद्देशवाचिनो
वृद्धाच्छः स्यात् । ठञ् ञिठादेरपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् ।
दाक्षिनगरीयम् । दाक्षिग्रामीयम् । दाक्षिह्रदीयम् ॥
1367: पर्वताच्च (4-2-143) पर्वतीयः ॥
1368: विभाषाऽमनुष्ये (4-2-144) मनुष्यभिन्नेऽर्थे पर्वताच्छो वा स्यात्पक्षेऽण् ।
पर्वतीयानि पार्वतीनि वा फलानि । अमनुष्ये किम् । पर्वतीयो मनुष्यः ॥
1369: कृकणपर्णाद्भारद्वाजे (4-2-145)
भारद्वाजदेशवाचिभ्यामाभ्यां
छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् । कार्कणम् । पार्णम् ॥
1370: युष्मदस्मदोरन्यतरस्यां खञ्च (4-3-1)
चाच्छः । पक्षेऽण् ।
युवयोर्युष्माकं वा अयं युष्मदीयः । अस्मदीयः॥
1371: तस्मिन्नणि च युष्माकास्माकौ (4-3-2)
युष्मदस्मादोरेतावादेशौ
स्तः खञ्यणि च । यौष्माकीणः । आस्मकीनः । यौष्माकः । आस्माकः ॥
1372: तवकममकावेकवचने (4-3-3) एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञ्यणि च ।
तावकीनः । तावकः । मामकीनः । मामकः । छे तु ॥
1373: प्रत्ययोत्तरपदयोश्च (7-2-98)
मपर्यन्तयोरेकार्थयोस्त्वमौ
स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः ॥
1374: अर्धाद्यत् (4-3-4) अर्ध्यः ।
1375: परावराधमोत्तमपूर्वाच्च (4-3-5)
परार्ध्यम् । अवरार्थम् ।
अधमार्ध्यम् । उत्तमार्ध्यम् ॥
1376: दिक्पूर्वपदाट्ठञ्च (4-3-6) चाद्यत् । पौर्वार्धिकम् । पूर्वार्ध्यम् ॥
1377: ग्रामजनपदैकदेशादञ्ठञौ (4-3-7)
ग्रामैकदेशवाचिनो
जनपदैकदेशवाचिनश्च दिक्पूर्वपदादर्धान्तादञ्ठञौ स्तः । इमेऽस्माकं ग्रामस्य
जनपदस्य वा पौर्वार्धाः । पौर्वार्धिकाः । ग्रामस्य पूर्वास्मिन्नर्धे भवा इति
तद्धितार्थे समासः । ठञ् ग्रहणं स्पष्टार्थम् । अञ्चेत्युक्ते यतोऽप्यनुकर्षः
संभाव्येत ॥
1378: मध्यान्मः (4-3-8) मध्यमः ॥
1379: अ सांप्रतिके (4-3-9) मध्यशब्दादकारप्रत्ययः स्यात्सांप्रतिकेऽर्थे ।
उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वं नातिदीर्घमित्यर्थः
॥
1380: द्वीपादनुसमुद्रं यञ् (4-3-10)
समुद्रस्य समीपे यो
द्वीपस्तद्विषयाद्द्वीपशब्दाद्यञ् स्यात् । द्वैप्यम् । द्वैप्या ॥
1381: कालाट्ठञ् (4-3-11) कालवाचिभ्यष्ठञ् स्यात् । मासिकम् । सांवत्सरिकम् ।
सायंप्रातिकः । पौनःपुनिकः। कथं तर्हि-शार्वरस्य तमसो निषिद्धये-इति कालिदासः,
अनुदितौषसराग--इति भारविः, समानकालीनं प्राक्कालीनमित्यादि च । अपभ्रंशा एवैत इति
प्रामाणिकाः । ‘तत्र जातः’(सू. 1393) इति यावत्कालाधिकारः ॥
1382: श्राद्धे शरदः (4-3-12) ठञ् स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् ॥
1383: विभाषा रोगातपयोः (4-3-13) शारदिकः शारदो वा रोग आतपो वा । एतयोः किम् । शारदं दधि ॥
1384: निशाप्रदोषाभ्यां च (4-3-14) वा ठञ् स्यात् । नैशिकम् । नैशम् । प्रादोषिकम् । प्रादोषम्
॥
1385: श्वसस्तुट् च (4-3-15) श्वस् शब्दाट्ठञ् वा स्यात्तस्य तुडागमश्च ॥
1386: द्वारादीनां च (7-3-4) द्वार, स्वर्, व्यल्कश, स्वस्ति, स्वर, स्फ्यकृत्, स्वादु, मृदु, श्वस्, श्वन्, स्व एषां न वृद्धिरैजागमश्च । शौवस्तिकम् ॥
1387: संधिवेलाद्यृतुनक्षत्रेभ्योऽण् (4-3-16)
संधिवेलादिभ्यः ऋतुभ्यो
नक्षत्रेभ्यश्च कालवृत्तिभ्योऽम् स्यात् । सन्धिवेलायां भवं सान्धिवेलम् ।
ग्रैष्मम् । तैषम् । सन्धिवेला, संध्या, अमावास्या, त्रयोदशी, चतुर्दशी, पौर्ममासी, प्रतिपत् ॥ संवत्सरात्फलपर्वणोः (ग सू 92) ॥ सांवत्सरं फलं
पर्व वा । सांवत्सरिकमन्यत् ॥
1388: प्रावृष एण्यः (4-3-17) प्रावृषेण्यः ॥
1389: वर्षाभ्यष्ठक् (4-3-18) वर्षासु साधु वार्षिकं वासः । ‘कालात्साधुपुष्प्यत्पच्यमानेषु’(सू.
1418) इति साध्वर्थे ॥
1390: सर्वत्राण्च तलोपश्च (4-3-22)
हेमन्तादण् स्यात्तलोपश्च
वेदलोकयोः । चकारात्पक्षे ऋत्वण् । हैमनम् । हैमन्तम् ॥
1391: सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च (4-3-23)
सायमित्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च
कालवाचिभ्यः ट्युट्युलौ स्तस्तयोस्तुट् च । तुटः प्रागनादेशः । ‘अनद्यतने’(सू. 2185) इत्यादिनिर्देशात् । सायन्तनम् । चिरन्तम् ।
प्राह्णप्रगयोरेदन्तत्वं निपात्यते । प्राह्णेतनम् । प्रगेतनम् । दोषातनम् ।
दिवातनम् ॥ चिरपरुत्परारिभ्यस्त्नो वक्तव्यः (वा 2842) ॥ चिरत्नम् । परुत्नम् ।
परारित्नम् ॥ अग्रादिपश्चाड्डिमच् (वा 2844) ॥ अग्रिमम् । आदिमम् । पश्चिमम् ॥
अन्ताच्च (वा 2845) ॥ अन्तिमम् ॥
1392: विभाषा पूर्वाह्णापराह्णाभ्याम् (4-3-24)
आभ्यां ट्युट्युलौ वा
स्तस्तयोस्तुट् च । पक्षे ठञ् । पूर्वाह्णेतनम्। अपराह्णेतनम् । ‘घकालतनेषु’–(सू. 975) इत्यलुक् । पूर्वाह्णः सोढोऽस्येति विग्रहे तु
पूर्वाह्णतनम् । अपराह्णतनम्। पौर्वाह्णिकम् । आपराह्णिकम् ॥
1393: तत्र जातः (4-3-25) सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः । स्रुघ्ने
जातः स्रौघ्नः । औत्सः । राष्ट्रियः । अवारपारीण इत्यादि ॥
1394: प्रावृषष्ठप् (4-3-26) एण्यस्यापवादः । प्रावृषि जातः प्रावृषिकः ॥
1395: संज्ञायां शरदो वुञ् (4-3-27)
ऋत्वणोऽपवादः । शारदका
दर्भविशेषा मुद्गविशेषाश्च ॥
1396: उत्तरपदस्य (7-3-10) अधिकारोऽयं ‘हनस्तः’-(सू. 2574) इत्यस्मात्प्राक् ॥
1397: अवयवादृतोः (7-3-11) अवयववाचिनः पूर्वपदादृतुवाचिनोऽचामादेरचो वृद्धिः स्यात्
ञिति णिति किति च तद्धिते परे । पूर्ववार्षिकः । अपरहैमनः । अवयवात्किम् ।
पूर्वासु वर्षासु भवः पौर्ववर्षिकः ॥ऋतोर्वृद्धिमद्विधाववयवानाम् (वा 560) इति
तदन्तविधिः पूर्वत्र ॥ इह तु न । अवयवत्वाभावात् ॥
1398: सुसर्वार्धाज्जनपदस्य (7-3-12)
उत्तरपदस्य वृद्धिः ।
सुपाञ्चालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः । ‘जनपदतदवध्योः’–(सू. 1348) इति वुञ् ॥ सुसर्वार्धदिक्शब्देभ्यो जनपदस्य (वा 556) इति
तदन्तविधिः ॥
1399: दिशोऽमद्राणाम् (7-3-13) दिग्वाचकाज्जनपदवाचिनो वृद्धिः । पूर्वपाञ्चालकः । दिशः
किम् । पूर्वपञ्चालानामयं पौर्वपञ्चालः । अमद्राणां किम् । पौर्वमद्रः । योगविभाग
उत्तरार्थः ॥
1400: प्राचां ग्रामनगराणाम् (7-3-14)
दिशः परेषां नगरवाचिनां
ग्रामवाचिनामङ्गनामवयवस्य च वृद्धिः । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः ।
नगरे,
पूर्वपाटलिपुत्रकः ॥
1401: पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् (4-3-28)
पूर्वाह्णकः । अपराह्णकः ।
आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः ॥
1402: पथः पन्थ च (4-3-29) पथि जातः पन्थकः ॥
1403: अमावास्याया वा (4-3-30) अमावास्यकः । आमावास्यः ॥
1404: अ च (4-3-31) अमावास्यः ॥
1405: सिन्ध्वपकराभ्यां कन् (4-3-32)
सिन्धुकः ॥ कच्छाद्यणि
मनुष्यवुञि च प्राप्ते । अपकरकः । औत्सर्गिकेऽणि प्राप्ते ॥
1406: अणञौ च (4-3-33) क्रमात् स्तः । सैन्धवः । आपकारः ॥
1407: श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्
(4-3-34)
एभ्यो नक्षत्रवाचिभ्यः
परस्य जातार्थप्रत्ययस्य लुक् स्यात् ॥
1408: लुक्तद्धितलुकि (1-2-49) तद्धितलुकिसत्युपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् ।
श्रविष्ठासु जातः श्रविष्ठः । फल्गुन इत्यादि ॥चित्रारेवतीरोहिणीभ्यः
स्त्रियामुसंख्यानम् (वा 2857) ॥ चित्रायां जाता चित्रा । रेवती । रोहिणी । आभ्यां
‘लुक्तद्धितलुकि’(सू. 1408) इति लुकि कृते पिप्पल्यादेराकृतिगणत्वात्पुनर्ङीष् ॥
फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ (वा 2858) ॥ स्त्रियामित्येव । फल्गुनी । अषाढा ॥
श्रविष्ठाषाढाभ्यां छण्वक्तव्यः (वा 2859) ॥ अस्त्रियामपि । श्राविष्ठीयः ।
आषाढीयः ॥
1409: जे प्रोष्ठपदानाम् (7-3-18) प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे
ञिति णिति किति च। प्रोष्ठपदासु भवः प्रौष्ठपदः । बहुवचननिर्देशात्पर्यायोऽपि
गृह्यते । भाद्रपादः ॥
1410: स्थानान्तगोशालखरशालाच्च (4-3-35)
एभ्यो जातार्थप्रत्ययस्य
लुक् स्यात् । गोस्थानः । गोशालः । खरशालः । ‘विभाषा सेना’ (सू. 828) इति नपुंसकत्वे ह्रस्वत्वम् ॥
1411: वत्सशालाभिजिदश्वयुक्छतभिषजो वा (4-3-36)
एभ्यो जातार्थस्य लुग्वा
स्यात् । वत्सशाले जातो वत्सशालः । वात्सशालः इत्यादि ॥ जातार्थे
प्रतिप्रसूतोऽण्वा डिद्वक्तव्यः (वा 2690) ॥ शातभिषः । शातभिषजः । शतभिषक् ॥
1412: नक्षत्रेभ्यो बहुलम् (4-3-37)
जातार्थप्रत्ययस्य बहुलं
लुक् स्यात् । रोहिणः । रौहिणः ॥
1413: कृतलब्धक्रीतकुशलाः (4-3-38) तत्रेत्येव । स्रुघ्ने कृतो लब्धः क्रीतः कुशलो वा स्रौघ्नः
॥
1414: प्रायभवः (4-3-39) तत्रेत्येव । स्रुघ्ने प्रायेण बाहुल्येन भवति स्रौघ्नः ॥
1415: उपजानूपकर्णोपनीवेष्ठक् (4-3-40)
औपजानुकः । औपकर्णिकः ।
औपनीविकः ॥
1416: संभूते (4-3-41) स्रुघ्ने संभवति स्रौघ्नः ॥
1417: कोशाड्ढञ् (4-3-42) कौशेयं वस्त्रम् ॥
1418: कालात्साधुपुष्प्यत्पच्यमानेषु (4-3-43)
हेमन्ते साधुर्हैमन्तः
प्राकारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः
॥
1419: उप्ते च (4-3-44) हेमन्ते उप्यन्ते हैमन्ता यवाः ॥
1420: आश्वयुज्या वुञ् (4-3-45) ठञोऽपवादः । आश्वयुज्यामुप्ता आश्वयुजका माषाः ॥
1421: ग्रीष्मवसन्तादन्यतरस्याम् (4-3-46)
पक्षे ऋत्वण् । ग्रैष्मकम्
। ग्रैष्मम् । वासन्तकम् । वासन्तम् ॥
1422: देयमृणे (4-3-47) कालादित्येव । मासे देयमृणं मासिकम् ॥
1423: कलाप्यश्वत्थयवबुसाद्वुन् (4-3-48)
यस्मिन् काले मयूराः
कलापिनो भवन्ति स उपचारात्कलापी तत्र देयमृणं कालापकम् । अस्वत्थस्य
फलमस्वत्थस्तद्युक्तः कालोप्यश्वत्थः । यस्मिन् काले अश्वत्थाः फलन्ति तत्र
देयमश्वत्थकम् । यस्मिन् यवबुसमुत्पद्यते तत्र देयं यवबुसकम् ॥
1424: ग्रीष्मावरसमाद्वुञ् (4-3-49)
ग्रीष्मे देयमृणं
ग्रैष्मकम् । आवसरसमकम् ॥
1425: संवत्सराग्रहायणीभ्यां ठञ्च (4-3-50)
चाद्वुञ् । सांवत्सरिकम् ।
सांवत्सरकम् । आग्रहायणिकम् । आग्रहायणकम् ॥
1426: व्याहरति मृगः (4-3-51) कालवाचिनः सप्तम्यन्ताच्छब्दायत इत्यर्थे अणादयः स्युः यो
व्याहरति स मृगश्चेत् । निशायां व्याहरति नैशो मृगः । नैशिकः ॥
1427: तदस्य सोढम् (4-3-52) कालादित्येव । निशासहचरितमध्ययनं निशा तत्सोढमस्य नैशः ।
नैशिकः ॥
1428: तत्र भवः (4-3-53) स्रुघ्ने भवः स्रौघ्नः ॥ राष्ट्रियः ॥
1429: दिगादिभ्यो यत् (4-3-54) दिश्यम् । वर्ग्यम् ॥
1430: शरीरावयवाच्च (4-3-55) दन्त्यम् । कर्ण्यम् ॥
1431: प्राचां नगरान्ते (7-3-24) प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो
वृद्धिर्ञिति णिति किति च । सुह्मनगरे भवः सौह्मनागरः । पौर्वनागरः । प्राचां किम्
। मनगरमुदक्षु तत्र भवो मानगरः ॥
1432: जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् (7-3-25)
जङ्गलाद्यन्तस्याङ्गस्य
पूर्वपदस्याचामादेरचो वृद्धिरुत्तरपदस्य वा ञिति णिति किति च । कुरुजङ्गले भवं
कौरुजङ्गलजम् । वैस्वधेनवम् । वैश्वधैनवम् । सौवर्णवलजम् । सौवर्णवालजम् ॥
1433: दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् (4-3-56)
दार्तेयम् । कौक्षेयम् ।
कलशिर्घटः तत्र भवं कालशेयम् । बास्तेयम् । आस्तेयम् । आहेयम् ॥
1434: ग्रीवाभ्योऽण्च (4-3-57) चात् ढञ् । ग्रैवेयम् । ग्रैवम् ॥
1435: गम्भीराञ्ञ्यः (4-3-58) गम्भीरे भवं गाम्भीर्यम् ॥पञ्चजनादुपसंख्यानम् (वा 2868) ॥
पाञ्चजन्यः ॥
1436: अव्ययीभावाच्च (4-3-59) परिमुखं भवं पारिमुख्यम् ॥ परिमुखादिभ्य एवेष्यते (वा 2866)
॥ नेह । औपकूलः ॥
1437: अन्तः पूर्वपदाट्ठञ् (4-3-60)
अव्ययीभावादित्येव ।
वेश्मनि इति अन्तर्वेश्मम् । तत्र भवमान्तर्वेश्मिकम् । आन्तर्गणिकम्
॥अध्यात्मादेष्ठञिष्यते (वा 2869) ॥ अध्यात्मं भवमाध्यात्मिकम् ॥
1438: अनुशतिकादीनां च (7-3-20) एषामुभयपदवृद्धिः स्यात् ञिति णिति किति च । आधिदैविकम् ।
आधिभौतिकम् । ऐहलौकिकम् । पारलौकिकम् । अध्यात्मादिराकृतिगणः ॥
1439: देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् (7-3-1)
एषां पञ्चानां
वृद्धिप्राप्तावदेरच आत् स्यात् ञिति णिति किति च । दाविकम् । देविकाकूले भवा
दाविकाकूलाः शालयः । शिंशपाया विकारः शांशपश्चमसः । ‘पलाशादिभ्यो वा’(सू. 1521) त्यञ् । दित्यौह इदं दात्यौहम् । दीर्घसत्रे भवं
दार्घसत्रम् । श्रेयसि भवं श्रायसम् ॥
1440: ग्रामात्पर्यनुपूर्वात् (4-3-61)
ठञ् स्यात् ।
अव्ययीभावादित्येव । पारिग्रामिकः । आनुग्रामिकः ॥
1441: जिह्वामूलाङ्गुलेश्छः (4-3-62)
जिह्वामूलीयम् । अङ्गुलीयम्
॥
1442: वर्गान्ताच्च (4-3-63) कवर्गीयम् ॥
1443: अशब्दे यत्खावन्यतरस्याम् (4-3-64)
पक्षे पूर्वेण छः ।
मद्वर्ग्यः । मद्वर्गीणः । मद्वर्गीयः । अशब्दे किम् । कवर्गीयो वर्णः ॥
1444: कर्णललाटात्कनलंकारे (4-3-65)
कर्णिका । ललाटिका ॥
1445: तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः (4-3-66)
सुपां व्याख्यानः सौपो
ग्रन्थः । तैङः । कार्तः । सुप्सु भवं सौपम् ॥
1446: बह्वचोऽन्तोदात्ताट्ठञ् (4-3-67)
षत्वणत्वयोर्विधायकं
शास्त्रं षत्वणत्वम् । तस्य व्याख्यानस्तत्र भवो वा षात्वणत्विकः ॥
1447: क्रतुयज्ञेभ्यश्च (4-3-68) सोमसाध्येषु यागेष्वेतौ प्रसिद्धौ । तत्रान्यतरोपादानेन
सिद्धे उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यन्ते । अग्निष्टोमस्य
व्याख्यानस्तत्र भवो वा आग्निष्टोमिकः । वाजपेयिकः । पाकयज्ञिकः । नावयज्ञिकः ।
बहुवचनं स्वरूपविधिनिरासार्थम् । अन्तोदात्तार्थ आरम्भः ॥
1448: अध्यायेष्वेवर्षेः (4-3-69) ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे
व्याख्याने चाध्याये ठञ् स्यात् । वसिष्ठेन दृष्टो मन्त्रो वसिष्ठस्तस्य
व्याख्यानस्तत्र भवो वा । वासिष्ठिकोऽध्यायः । अध्यायेषु किम् । वासिष्ठी ऋक् ॥
1449: पौरोडाशपुरोडाशात्ष्ठन् (4-3-70)
पुरोडाशसहचरितो मन्त्रः
पुरोडाशः स एव पौरोडाशः । ततष्ठन् । पौरोडाशिकः ॥
1450: छन्दसो यदणौ (4-3-71) छन्दस्यः । छान्दसः ॥
1451: द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् (4-3-72)
द्व्यच् । ऐष्टिकः ।
पाशुकः । ऋत् । चातुर्होतृकः । ब्राह्मणिकः । आर्चिकः । इत्यादि ॥
1452: अणृगयनादिभ्यः (4-3-73) ठञादेरपवादः । आर्गयनः । औपनिषदः । वैयाकरणः ॥
1453: तत आगतः (4-3-74) स्रुघ्नादागतः स्रौघ्नः ॥
1454: ठगायस्थानेभ्यः (4-3-75) शुल्काशालाया आगतः शौल्कशालिकः ॥
1455: शुण्डिकादिभ्योऽण् (4-3-76) आयस्थानठक्छादीनां चापवादः । शुण्डिकादागतः शौण्डिकः ।
कार्कणः । तैर्थः ॥
1456: विद्यायोनिसंबन्धेभ्यो वुञ् (4-3-77)
औपाध्यायकः । पैतामहकः ॥
1457: ऋतष्ठञ् (4-3-78) वुञोऽपवादः । पौतृकम् । भ्रातृकम् ॥
1458: पितुर्यच्च (4-3-79) चाट्ठञ् । रीङृतः (सू.1234) । ‘यस्येति च’ (सू. 311) इति लोपः । पित्र्यम् । पैतृकम्॥
1459: गोत्रादङ्कवत् (4-3-80) बिदेभ्य आगतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् ॥
1460: नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् (7-3-30)
नञः परेषां
शुच्यादिपञ्चानामादेरचोवृद्धिः पूर्वपदस्य सु वा ञितादौ परे । आशौचम् । अशौचम् ।
आनैश्वर्यम् । अनैश्वर्यम् । आक्षैत्रज्ञम् । अक्षैत्रज्ञम् । आकौशलम् । अकौशलम् ॥
आनैपुणम् । अनैपुणम् ॥
1461: हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः (4-3-81)
समादागतं समरूप्यम् ।
विषमरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम् ।
देवदत्तीयम् । दैवदत्तम् ॥
1462: मयट् च (4-3-82) सममयम् । विषममयम् । देवदत्तमयम् ॥
1463: प्रभवति (4-3-83) तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा ॥
1464: विदूराञ्ञ्यः (4-3-84) विदूरात्प्रभवति वैदूर्यो मणिः ॥
1465: तद्गच्छति पथिदूतयोः (4-3-85)
स्रुघ्नं गच्छति स्रौघ्नः
पन्था दूतो वा ॥
1466: अभिनिष्क्रामति द्वारम् (4-3-86)
तदित्येव ।
स्रुघ्नमभिनिष्क्रामति स्रौघ्नं कान्यकुब्जद्वारम् ॥
1467: अधिकृत्य कृते ग्रन्थे (4-3-87)
तदित्येव । शारीरकमधिकृत्य
कृते ग्रन्थः शारीरकीयः । शारीरकं भाष्यमिति त्वभेदोपचारात् ॥
1468: शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः (4-3-88)
शिशूनां क्रन्दनं
शिशुक्रन्दः, तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् । क्लीबत्वं
निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् ।
विरुद्धभोजनीयम् ॥
1469: सोऽस्य निवासः (4-3-89) स्रुघ्नो निवासोऽस्य स्रौघ्नः ॥
1470: अभिजनश्च (4-3-90) स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः । यत्र स्वयं वसति स निवासः ।
यत्र पूर्वैरुषितं सोऽभिजन इति विवेकः ॥
1471: आयुधजीविभ्यश्छः पर्वते (4-3-91)
पर्वतवाचिनः
प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात् । हृद्गोलः। पर्वतोऽभिजनो
येषामायुधजीविनां ते ह्रद्गोलीयाः । आयुधेति किम् । ऋक्षोदः पर्वतोऽभिजनो येषां ते
आर्क्षोदा द्विजाः ॥
1472: शण्डिकादिभ्यो ञ्यः (4-3-92) शण्डिकोऽभिजनोऽस्य शाण्डिक्यः ॥
1473: सिन्धुतक्षशिलादिभ्योऽणञौ (4-3-93)
सिन्ध्वादिभ्योऽञ्
स्यादुक्तेऽर्थे । सैन्धवः । तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः ॥
1474: तूदीसलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः (4-3-94)
तूदी अभिजनोऽस्य तौदेयः ।
शालातुरीयः । वार्मतेयः । कौचवार्यः ॥
1475: भक्तिः (4-3-95) सोऽस्येत्यनुवर्तते । भज्यते सेव्यते इति भक्तिः । स्रुघ्नो
भक्तिरस्य स्रौघ्नः ॥
1476: अचित्ताददेशकालाट्ठक् (4-3-96)
आपूपा भक्तिरस्य आपूपिकः ।
पायसिकः । अचित्तात्किम् । दैवदत्तः । अदेशात्किम् । स्रौघ्नः । अकालात्किम् ।
ग्रैष्मः ॥
1477: महाराजाट्ठञ् (4-3-97) माहाराजिकः ॥
1478: वासुदेवार्जुनाभ्यां वुन् (4-3-98)
वासुदेवकः । अर्जुनकः ॥
1479: गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् (4-3-99)
अणोऽपवादः ।
परत्वाद्वृद्धाच्छं बाधते । ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः । नाकुलकः ।
बहुलग्रहणान्नेह । पाणिनो भक्तिरस्य पाणिनीयः ॥
1480: जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने (4-3-100)
जनपदस्वामिवाचिनां बहुवचने
जनपदवाचिनां समानश्रुतीनां जनपदवत्सर्वं स्यात्प्रत्ययः प्रकृतिश्च । ‘जनपदतदवध्योश्च’
(सू.1348) इति प्रकरणे ये प्रत्यया उक्तास्तेऽत्रातिदिश्यन्ते ।
अङ्गाजनपदो भक्तिरस्याङ्गकः । अङ्गाः क्षत्रिया भक्तिरस्याङ्गकः । जनपदिनां किम् ।
पौरवो राजा भक्तिरस्य पौरवीयः ॥
1481: तेन प्रोक्तम् (4-3-101) पाणिनिना प्रोक्तं पाणिनीयम् ॥
1482: तित्तिरिवरतन्तुखण्डिकोखाच्छण् (4-3-102)
‘छन्दोब्राह्मणानि’–(सू. 1278) इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः ॥
1483: काश्यपकौशिकाभ्यामृषिभ्यां णिनिः (4-3-103)
काश्यपेन प्रोक्तमधीयते
काश्यपिनः ॥
1484: कलापिवैशम्पायनान्तेवासिभ्यश्च (4-3-104)
कलाप्यन्तेवासिभ्यः,
हरिद्गुणा प्रोक्तमधीयते हारिद्रविणः ।
वैशम्पायनान्तेवानिभ्यः, आलम्बिनः ॥
1485: पुराणप्रोक्तेषु ब्राह्मणकल्पेषु (4-3-105)
तृतीयान्तात्प्रोक्तार्थे
णिनिः स्यात् यत्प्रोक्तं पुराणप्रोक्ताश्चेद्ब्राह्मणकल्पास्ते भवन्ति । पुराणेन
चिरन्तनेन मुनिना प्रोक्ताः । भल्लु, भाल्लविनः । शाट्यायन, शाट्यायनिनः । कल्पे, पिङ्गेन प्रोक्तः पैङ्गी कल्पः । पुराणेति किम् । याज्ञवल्क्यानि
ब्राह्मणानि, आश्मरथः कल्पः । अणि ‘आपत्यस्य’–(सू. 1082) इति यलोपः ॥
1486: शौनकादिभ्यश्छन्दसि (4-3-106) छन्दस्यभिधेये एभ्यो णिनिः । शौनकेन प्रोक्तमधीयते शौनकिनः
॥
1487: कठचरकाल्लुक् (4-3-107) कलापिना प्रोक्तप्रत्ययस्य लुक् स्यात् । कठेन प्रोक्तमधीयते
कठाः । चरकाः ॥
1488: कलापिनोऽण् (4-3-108) कलापिना प्रोक्तमधीयते कालापाः ॥ नान्तस्य टिलोपे
सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम्
(वा 4183) इत्युपसंख्यानाट्टिलोपः ॥
1489: छगलिनो ढिनुक् (4-3-109) छगलिना प्रोक्तमधीयते छागलेयिनः ॥
1490: पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः (4-3-110)
पाराशर्येंण प्रोक्त
भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः ॥
1491: कर्मन्दकृशाश्वादिनिः (4-3-111)
भिक्षुनटसूत्रयोरित्येव ।
कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः ॥
1492: तेनैकदिक् (4-3-112) सुदाम्ना अद्रिणा एकदिक् सौदामनी ॥
1493: तसिश्च (4-3-113) स्वरादिपाठादव्ययत्वम् पीलुमूलेन एकदिक् पीलुमूलतः ॥
1494: उरसो यच्च (4-3-114) चात्तसिः । अणोऽपवादः । उरसा एतदिक् उरस्यः । उरस्तः ॥
1495: उपज्ञाते (4-3-115) तेनेत्येव । पाणिनिना उपज्ञातं पाणिनीयम् ॥
1496: कृते ग्रन्थे (4-3-116) वररुचिना कृतो वाररुचो ग्रन्थः ॥
1497: संज्ञायाम् (4-3-117) तेनेत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माक्षिकं
मधु ॥
1498: कुलालादिभ्यो वुञ् (4-3-118) तेन कृते संज्ञायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् ॥
1499: क्षुद्राभ्रमरवटरपादपादञ् (4-3-119)
तेन कृते संज्ञायाम् ।
क्षुद्राभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपम् ॥
1500: तस्येदम् (4-3-120) उपगोरिदमौपगवम् ॥ वहेस्तुरणिट् च (वा 2910) ॥ संवोढुः स्वं सांवहित्रम्
॥ अग्नीधः शरणे रण् भं च (वा 2911) ॥ अग्निमिन्धे अग्नीत्,
तस्य स्थानमाग्नीध्रम् । तात्स्थ्यात्सोऽप्याग्नीध्रः ॥
समिधामाधाने षेण्यणू (वा 2912) ॥ सामिधेन्यो मन्त्रः । सामिधेनी ऋक् ॥
1501: रथाद्यत् (4-3-121) रथ्यं चक्रम् ॥
1502: पत्रपूर्वादञ् (4-3-122) पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् ॥
1503: पत्राध्वर्युपरिषदश्च (4-3-123)
अञ् ॥ पत्राद्वाह्ये (वा
2908) ॥ अश्वस्येदं वहनीयमाश्वम् । आध्वर्यवम् पारिषदम् ॥
1504: हलसीराट्ठक् (4-3-124) हालिकम् । सैरिकम् ॥
1505: द्वन्द्वाद्वुन्वैरमैथुनिकयोः (4-3-125)
काकोलूकिका ।
कुत्सिकुशिकिका ॥ वैरे देवासुरादिभ्यः प्रतिषेधः (वा 2914) ॥ दैवासुरम् ॥
1506: गोत्रचरणाद्वुञ् (4-3-126) औपगवकम् ॥ चरणाद्धर्माम्नाययोरिति वक्तव्यम् (वा 2913) ॥
काठकम् ॥
1507: सङ्घाङ्कलक्षणेष्वञ्यञिञामण् (4-3-127)
घोषग्रहणमपि कर्तव्यम् (वा
2915) ॥ अञ्, बैदः सङ्घोऽङ्को घोषो वा । बैदं लक्षणम् । यञ्, गार्गः । गार्गम् । इञ्, दाक्षः । दाक्षम् । परम्परासंबन्धोऽङ्कः साक्षात्तु लक्षणम्
॥
1508: शाकलाद्वा (4-3-128) अण् वोक्तेऽर्थे पक्षे चरणत्वाद्वुञ् । शाकलेन
प्रोक्तमधीयते शाकलास्तेषां सङ्घोऽङ्को घोषो वा शाकलः । शाकलकः । लक्षणे क्लीबता ॥
1509: छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्यः (4-3-129)
छन्दोगानां धर्म आम्नायो
वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाह्वृच्यम् । नाट्यम् ॥
चरणाद्धर्माम्नाययोः (वा 2913) ॥ इत्युक्तं तत्साहचर्यान्नटशब्दादपि तयोरेव ॥
1510: न दण्डमाणवान्तेवासिषु (4-3-130)
दण्डप्रधाना माणवा
दण्डमाणवास्तेषु शिष्येषु च वुञ् न स्यात् । दाक्षा दण्डमाणवाः शिष्या वा ॥
1511: रैवतिकादिभ्यश्छः (4-3-131) तस्येदमित्यर्थे । वुञोऽपवादः । रैवतिकीयः । बैजवापीयः ॥
1512: कौपिञ्जलहास्तिपदादण् (4-3-132)
कुपिञ्जलस्यापत्यम् । इहैव
निपातनादण् तदन्तात्पुनरण् । कौपिञ्जलः । गौत्रवुञोऽपवादः । हस्तिपादस्यापत्यं
हास्तिपादस्यायं हास्तिपदः ॥
1513:
आथर्वणिकस्येकलोपश्च
(4-3-133)
अण् स्यात् ।
आथर्वणिकस्यायमाथर्वणः धर्म आम्नायो वा । चरणाद्वुञोऽपवादः ॥
॥ इति तद्धिताधिकारे शैषिकप्रकरणम् ॥
॥ अथ तद्धिताधिकारे
प्राग्दीव्यतीयप्रकरणम् ॥
1514: तस्य विकारः (4-3-134) अश्मनो विकारे टिलोपो वक्तव्यः (वा 4185) ॥ अश्मने विकारः
आश्मः । भास्मनः । मार्तिकः ॥
1515: अवयवे च प्राण्योषधिवृक्षेभ्यः (4-3-135)
चाद्विकारे । मयूरस्यावयवो
विकारो वा मायूरः । मौर्वं काण्डं भस्म वा । पैप्पलम् ॥
1516: बिल्वादिभ्योऽण् (4-3-136) बैल्वम् ॥
1517: कोपधाच्च (4-3-137) अण् । अञोऽपवादः । तर्कु, तार्कवम् । तैत्तिडीकम् ॥
1518: त्रपुजतुनोः षुक् (4-3-138) आभ्यामण् स्याद्विकारे एतयोः षुगागमश्च । त्रापुषम् ।
जातुषम् ॥
1519: ओरञ् (4-3-139) दैवदारवम् । भाद्रदारवम् ॥
1520: अनुदात्तादेश्च (4-3-140) दाघित्थम् । कापित्थम् ॥
1521: पलाशादिभ्यो वा (4-3-141) पालाशम् । कारीरम् ॥
1522: शम्याः ष्लञ् (4-3-142) शामीलं भस्म । षित्वान्ङीष् । शामीली स्रुक् ॥
1523: मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः (4-3-143)
प्रकृतिमात्रान्मयड्वा
स्याद्विकारावयवयोः । अश्ममयम् । आश्मनम् । अभक्ष्येत्यादि किम् । मौद्गः सूपः ।
कार्पासमाच्छादनम् ॥
1524: नित्यं वृद्धशरादिभ्यः (4-3-144)
आम्रमयम् । शरमयम् ॥ ‘एकाचो
नित्यम्’ (वा 5052) ॥ त्वङ्मयम् । वाङ्मयम् । कथं तर्हि आप्यमम्मयमिति । ‘तस्येदम्’(सू.
1500) इत्यण्णन्तात्स्वार्थे ष्यञ् ॥
1525: गोश्च पुरीषे (4-3-145) गोः पुरीषं गोमयम् ॥
1526: पिष्टाच्च (4-3-146) मयट् स्याद्विकारे । पिष्टमयं भस्म । कथं पैष्टी सुरेति ।
सामान्यविवक्षायां ‘तस्येदम्’(सू. 1500) इत्यण् ॥
1527: संज्ञायां कन् (4-3-147) पिष्टादित्येव । पिष्टस्य विकारविशेषः पिष्टकः । पूपोऽपूपः
पिष्टकः स्यात् ॥
1528: व्रीहेः पुरोडाशे (4-3-148) मयट् स्यात् । बिल्वाद्यणोऽपवादः । ब्रीहिमयः पुरोडाशः ।
व्रैहमन्यत् ॥
1529: असंज्ञायां तिलयवाभ्याम् (4-3-149)
तिलमयम् । यवमयम् ।
संज्ञायां तु तैलम् । यावकः ॥
1530: तालादिभ्योऽण् (4-3-152) अञ्मयटोरपवादः । तालाद्धनुषि (ग सू 194) ॥ तालं धनुः ।
अन्यत्तालमयम्। ऐन्द्रायुधम् ॥
1531: जातरूपेभ्यः परिमाणे (4-3-153)
अण् ।
बहुवचनात्पर्यायग्रहणम् । हाटकः तापनीयः सौवर्णो वा निष्कः । परिमाणे किम् ।
हाटकमयी यष्टिः ॥
1532: प्राणिरजतादिभ्योऽञ् (4-3-154)
शौकम् । बाकम् । राजतम् ॥
1533: ञितश्च तत्प्रत्ययात् (4-3-155)
ञिद्योविकारावयवप्रत्ययस्तदन्तादञ्
स्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दाधित्थस्य दाधित्थम् ।
कापित्थम् । ञितः किम् । बैल्वमयम् ॥
1534: क्रीतवत्परिमाणात् (4-3-156) ‘प्राग्वहतेष्ठक्’(सू. 1548) इत्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना
परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्ते । अणादीनामपवादः । निष्केण क्रीतं
नैष्किकम् । एवं निष्कस्य विकारोऽपि नैष्किकः । शतस्य विकारः शत्यः । शतिकः ॥
1535: उष्ट्राद्वुञ् (4-3-157) प्राण्यञोऽपवादः । औष्ट्रकः ॥
1536: उमोर्णयोर्वा (4-3-158) औमम् । औमकम् । ओर्णम् । और्णकम् वुञभावे यथाक्रममणञौ ॥
1537: एण्या ढञ् (4-3-159) ऐणेयम् । एणस्य तु ऐणम् ॥
1538: गोपयसोर्यत् (4-3-160) गव्यम् । पयस्यम् ॥
1539: द्रोश्च (4-3-161) द्रुर्वृक्षस्तस्य विकारोऽवयवो वा द्रव्यम् ॥
1540: माने वयः (4-3-162) द्रोरित्येव । द्रुवयम् । यौतवं द्रुवयं पाय्यमिति
मानार्थकं त्रयम् ॥
1541: फले लुक् (4-3-163) विकारावयवप्रत्ययस्य लुक् स्यात् । फले । आमलक्याः
फलमामलकम् ॥
1542: प्लक्षादिभ्योऽण् (4-3-164) विधानसामर्थ्यान्न लुक् । प्लाक्षम् ॥
1543: न्यग्रोधस्य च केवलस्य (7-3-5)
अस्य न वृद्धिरैजागमश्च ।
नैयग्रोधम् ॥
1544: जम्ब्वा वा (4-3-165) जम्बूशब्दात्फलेण् वा स्यात् । जाम्बवम् । पक्षे ओरञ् तस्य लुक्
जम्बु ॥
1545: लुप्च (4-3-166) जम्ब्वाः फलप्रत्ययस्य लुप् वा स्यात् । ‘लुपि युक्तवत्’(सू.
1294) जम्ब्वाः फलं जम्बूः॥ फलपाकशुषामुपसंख्यानम् (वा 2949) ॥
व्रीहयः । मुद्गाः ॥ पुष्पमूलेषु बहुलम् (वा 2950) ॥ मल्लिकायाः पुष्पं मल्लिका ।
जात्याः पुष्पं जाती । विदार्या मूलं विदारी । बहुलग्रहणान्नेह । पाटालानि
पुष्पाणि। साल्वानि मूलानि । बाहुलकात्क्वचिल्लुक् । अशोकम् । करवीरम् ॥
1546: हरीतक्यादिभ्यश्च (4-3-167) एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरीतक्यादीनां लिङ्गमेव
प्रकृतिवत् । हरीतक्याः फलानि हरीतक्यः ॥
1547:
कंसीयपरशव्ययोर्यञञौ
लुक्च (4-3-168) कंसीयपरशव्यशब्दाभ्यां यञञौ स्तश्छयतोश्च लुक् । कंसाय हितं
कंसीयम्,
तस्य विकारः कांस्यम् । परशवे हितं परशव्यम्,
तस्य विकारः पारशवः ॥
॥ इति तद्धितेषु चतुर्थस्य तृतीयपादे प्राग्दीव्यतीयप्रकरणम्
॥
॥ अथ तद्धिताधिकारे ठगधिकारप्रकरणम्
॥
1548: प्राग्वहतेष्ठक् (4-4-1) तद्वहतीत्यतः प्राक्ठगधिक्रियते ॥ तदहेति माशब्दादिभ्य
उपसंख्यानम् (वा 2951) ॥ माशब्दः कारि इति य आह स माशब्दिकः ॥
1549: स्वागतादीनां च (7-3-7) ऐच् न स्यात् । स्वागतमित्याह स्वागतिकः । स्वाध्वरिकः । स्वङ्गस्यापत्यं
स्वाङ्गिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यडस्यापत्यं व्याडिः ॥ व्याहरेण चरति
व्यावहारिकः । स्वपतौ साधु स्वापतेयम् ॥ आहौ प्रभूतादिभ्यः (वा 2952) ॥ प्रभूतमाह
प्राभूतिकः । पार्याप्तिकः ॥ पृच्छतौ सुस्नातादिभ्यः (वा 2953) ॥ सुस्नातं पृच्छति
सौस्नातिकः । सौखशायनिकः । अनुशतिकादिः ॥ । गच्छतौ परदारादिभ्यः ॥ पारदारिकः ।
गौरुतल्पिकः ॥
1550: तेन दीव्यति खनति जयति जितम् (4-4-2)
अक्षैर्दीव्यति आक्षिकः ।
अभ्र्या खनति आभ्रिकः । अक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् ॥
1551: संस्कृतम् (4-4-3) दध्ना संस्कृतं दाधिकम् । मारीचिकम् ॥
1552: कुलत्थकोपधादण् (4-4-4) ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । तैत्तिडीकम् ॥
1553: तरति (4-4-5) उडुपेन तरति औडुपिकः ॥
1554: गोपुच्छाट्ठञ् (4-4-6) गौपुच्छिकः ॥
1555: नौद्व्यचष्ठन् (4-4-7) नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री ॥
1556: चरति (4-4-8) तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना
चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ॥
1557: आकर्षात् ष्ठल् (4-4-9) आकर्षो निकाषोपलः । आकषादिति पाठान्तरम् । तेन चरति
आकर्षिकः । षित्वान्ङीष् । आकर्षिकी ॥
1558: पर्पादिभ्यः ष्ठन् (4-4-10) पर्पेण चरति । पर्पिकः पर्पिकी । येन पीठेन पङ्गवश्चरन्ति न
पर्पः । अश्विकः । रथिकः ॥
1559: श्वगणाट्ठञ्च (4-4-11) चात् ष्ठन् ॥
1560: श्वादेरिञि (7-3-8) ऐच् न । श्वभस्त्रस्यापत्यं श्वाभस्त्रिः । श्वादंष्ट्रिः ।
तदादिविधौ चेदमेव ज्ञापकम् ॥ ॥इकारादाविति वाच्यम् (वा 4512) ॥ श्वगणेन चरति
श्वागणिकः । श्वागणिकी । श्वगणिकः । श्वगणिकी ॥
1561: पदान्तस्यान्यतरस्याम् (7-3-9)
श्वादेरङ्गस्य
पदशब्दान्तस्यैज्वा । श्वापदस्येदं श्वापदम् । शौवापदम् ॥
1562: वेतनादिभ्यो जीवति (4-4-12) वेतनेन जीवति वैतनिकः । धानुष्कः ॥
1563: वस्नक्रयविक्रयाट्ठन् (4-4-13)
वस्नेन मुल्येन जीवति
वस्निकः । क्रयविक्रयग्रहणं संघातविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः ।
विक्रयिकः ॥
1564: आयुधाच्छ च (4-4-14) चाट्ठन् । आयुधेन जीवति आयुधीयः । आयुधिकः ॥
1565: हरत्युत्सङ्गादिभ्यः (4-4-15)
उत्सङ्गेन हरत्यौत्सङ्गिकः
॥
1566: भस्त्रादिभ्यः ष्ठन् (4-4-16)
भस्त्रया हरति भस्त्रिकः ।
षित्वान्ङीष् । भस्त्रिकी ॥
1567: विभाषा विवधात् (4-4-17) विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः ।
एकदेशविकृतस्यानन्यत्वाद्वीवधादपि ष्ठन् । वीवधिकः । वीवधिकी । वीवधवीवधशब्दौ
उभयतो बद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते ॥
1568: अण् कुटिलिकायाः (4-4-18) कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लोहं च ।
कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कर्मारश्च ॥
1569: निर्वृत्तेऽक्षद्यूतादिभ्यः (4-4-19)
अक्षद्युतेन
निर्वृत्तमाक्षद्यूतिकं वैरम् ॥
1570: त्रेर्मन्नित्यम् (4-4-20) त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्निर्वृत्तेऽर्थे
मप्स्यान्नित्यम् । कृत्या निर्वृत्तं कृत्रिकम् । पक्त्रिमम् ॥
भावप्रत्ययान्तादिमब्वक्तव्यः (वा 2959) ॥ पाकेन निर्वृत्तं पाकिमम् । त्यागिमम् ॥
1571: अपमित्ययाचिताभ्यां कक्कनौ (4-4-21)
अपमित्येति ल्यबन्तम् ।
अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निर्वृत्तं याचितकम् ॥
1572: संसृष्टे (4-4-22) दध्ना संसृष्टं दाधिकम् ॥
1573: चूर्णादिनिः (4-4-23) चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः ॥
1574: लवणाल्लुक् (4-4-24) लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् ॥
1575: मुद्गादण् (4-4-25) मौद्ग ओदनः ॥
1576: व्यञ्जनैरुपसिक्ते (4-4-26) ठक् । दध्ना उपसिक्तं दाधिकम् ॥
1577: ओजःसहोऽम्भसा वर्तते (4-4-27)
ओजसा वर्तते औजसिकः शूरः ।
साहसिकश्चौरः । आम्भसिको मत्स्यः॥
1578: तत्प्रत्यनुपूर्वमीपलोमकूलम् (4-4-28)
द्वितायान्तादस्माद्वर्तत
इत्यस्मिन्नर्थे ठक् स्यात् । क्रियाविशेषणत्वाद्द्वितीया । प्रतीपं वर्तते
प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । प्रातिकूलिकः । आनुकूलिकः॥
1579: परिमुखं च (4-4-29) परिमुखं वर्तते पारिमुखिकः । चात्पारिपार्श्विकः ॥
1580: प्रयच्छति गर्ह्यम् (4-4-30) द्विगुणार्थं द्विगुणं तत्प्रयच्छति द्वैगुणिकः ।
त्रैगुणिकः ॥ वृद्धेर्वृधुषिभावो वक्तव्यः (वा 2965) ॥ वार्धुषिकः ॥
1581: कुसीददशैकादशात् ष्ठन्ष्ठचौ (4-4-31)
गर्ह्यार्थाभ्यामाभ्यामेतौ
स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिस्तदर्थं द्रव्यं कुसीदं तत्प्रयच्छति
कुसीदिकः । कुसीदिकी । एकादशार्थत्वादेकादश ते च ते वस्तुतो दशचेति विग्रहेऽकारः
समासान्त इहैव सूत्रे निपात्यते । दशैकादशिकः । दशैकादशिकी ।
दशैकादशान्प्रयच्छतीत्युत्तमर्ण एवेहापि तद्धितार्थः ॥
1582: उञ्छति (4-4-32) बदराण्युञ्छति बादरिकः ॥
1583: रक्षति (4-4-33) समाजं रक्षति सामाजिकः ॥
1584: शब्ददर्दुरं करोति (4-4-34) शब्दं करोति शाब्दिकः । दार्दुरिकः ॥
1585: पक्षिमत्स्यमृगान्हन्ति (4-4-35)
स्वरूपस्य पर्यायाणां
विशेषाणां च ग्रहणम् (वा 523) ॥ मत्स्यपर्यायेषु मीनस्यैव (भाष्येष्टिः) ॥ पक्षिणो
हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः । शाकुनिकः ।
मार्गिकः । हारिणितः । सारङ्गिकः ॥
1586: परिपन्थं च तिष्ठति (4-4-36) अस्माद्द्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक् स्यात् ।
पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । परिपन्थं हन्ति
पारिपन्थिकः ॥
1587: माथोत्तरपदपदव्यनुपदं धावति (4-4-37)
दण्डाकारो माथः पन्थाः
दण्डमाथः । दण्डमाथं धावति दाण्डमाथिकः । पादविकः । आनुपदिकः ॥
1588: आक्रन्दाट्ठञ्च (4-4-38) अस्माट्ठञ् स्याच्चाट्ठक् धावतीत्यर्थे । आक्रन्दं दुःखिनां
रोदनस्थानं धावति आक्रन्दिकः ॥
1589: पदोत्तरपदं गृह्णाति (4-4-39)
पूर्वपदं गृह्णाति
पौर्वपदिकः । औत्तरपदिकः ॥
1590: प्रतिकण्ठार्थललामं च (4-4-40)
एभ्यो गृह्णात्यर्थे ठक्
स्यात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः लालामिकः ॥
1591: धर्मं चरति (4-4-41) धार्मिकः ॥ अधर्माच्चेति वक्तव्यम् (वा 2966) ॥ आधर्मिकः ॥
1592: प्रतिपथमेति ठंश्च (4-4-42) प्रतिपथमेति प्रातिपथिकः ॥
1593: समवायान्समवैति (4-4-43) सामवायिकः । सामूहिकः ॥
1594: परिषदो ण्यः (4-4-44) परिषदं समवैति पारिषद्यः ॥
1595: सेनाया वा (4-4-45) ण्यः स्यात्पक्षे ठक् । सैन्याः । सैनिकाः ॥
1596: संज्ञायां ललाटकुक्कुट्यौ पश्यति (4-4-46)
ललाटं पश्यति लालाटिकः
सेवकः । कुक्कुटीशब्देन तत्पातार्हः स्वल्पदेशो लक्ष्यते ॥ कौक्कुटिकोभिक्षुः ॥
1597: तस्य धर्म्यम् (4-4-47) आपणस्य धर्म्यमापणिकम् ॥
1598: अण् महिष्यादिभ्यः (4-4-48) महिष्या धर्म्यं माहिषम् । याजमानम् ॥
1599: ऋतोऽञ् (4-4-49) यातुर्धर्म्यं यात्रम् ॥ नराच्चेति वक्तव्यम् (वा 2967) ॥
नरस्य धर्म्या नारी ॥ विशसितुरिड्लोपश्चाञ्च वक्तव्यः (वा 2968) ॥
विशसितुर्धर्म्यं वैशस्त्रम् ॥ विभाजयितुर्णिलोपश्चाञ्च वाच्यः (वा 2969) ॥
विभाजयितुर्धर्म्यं वैभाजित्रम् ॥
1600: अवक्रयः (4-4-50) षष्ठ्यन्ताट्ठक् स्यादवक्रयेऽर्थे । आपणस्यावक्रय आपणिकः ।
राजग्राह्यं द्रव्यमवक्रयः ॥
1601: तदस्य पण्यम् (4-4-51) अपूपाः पण्यमस्य आपूपिकः ॥
1602: लवणाट्ठञ् (4-4-52) लावणिकः ॥
1603: किसरादिभ्यः ष्ठन् (4-4-53) किसरं पण्यमस्य किसरिकः । षित्वान्ङीष् । किसरिकी । किसर,
उशीर, नलद, इत्यादि । किसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः ॥
1604: शलालुनोऽन्यतरस्याम् (4-4-54)
ष्ठन्स्यात् पक्षे ठक् ।
शलालुकः । शलालुकी । शालालुकः । शालालुकी । शलालुः सुगन्थिद्रव्यविशेषः ॥
1605: शिल्पम् (4-4-55) मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥
1606: मड्डुकझर्झरादणन्यतरस्याम् (4-4-56)
मड्डुकवादनं शिल्पमस्य
माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥
1607: प्रहरणम् (4-4-57) तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥
1608: परश्वधाट्ठञ्च (4-4-58) पारश्वधिकः ॥
1609: शक्तियष्ट्योरीकक् (4-4-59) शाक्तीकः । याष्टीकः ॥
1610: अस्ति नास्ति दिष्टं मतिः (4-4-60)
तदस्येत्येव । अस्तिपरलोक
इत्येवं मतिर्यस्य स आस्तिकः । नास्तीति मतिर्यस्य न नास्तिकः । दिष्टमिति
मतिर्यस्य स दैष्टिकः ॥
1611: शीलम् (4-4-61) अपूपभक्षणं शीलमस्य आपूपिकः ॥
1612: छत्रादिभ्यो णः (4-4-62) गुरोर्दोषाणामावरणं छत्रं तच्छीलमस्य छात्रः ॥
1613: कार्मस्ताच्छील्ये (6-4-172) कार्म इति ताच्छील्ये णे टिलोपो निपात्यते । कर्मशीलः
कार्मः । ‘नस्तद्धिते’(सू. 679) इत्येव सिद्धे अण्कार्यं ताच्छीलिके णेऽपि । तेन चौरी
तापसीत्यादि सिद्धम् । ताच्छील्ये किम् । कार्मणः॥
1614: कर्माध्ययने वृत्तम् (4-4-63)
प्रथमान्तात्षष्ठ्यर्थे
ठक् स्यादध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्तस्यार्थः। ऐकान्यिकः । यस्याध्ययने
प्रवृत्तस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातं सः ॥
1615: बह्वच्पूर्वपदाट्ठच् (4-4-64)
प्राग्विषये ।
द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः । द्वादशापपाठा अस्य
जाता इत्यर्थः ॥
1616: हितं भक्षाः (4-4-65) अपूपभक्षणं हितमस्मै आपूपिकः ॥
1617: तदस्मै दीयते नियुक्तम् (4-4-66)
अग्रभोजनं नियतं दीयते
अस्मै आग्रभोजनिकः ॥
1618: श्राणामांसौदनाट्टिठन् (4-4-67)
श्राणा नियुक्तं
दीयतेऽस्मै श्राणिकः । श्राणिकी । मांसौदनग्रहणं संघातविगृहीतार्थम् । मांसौदनिकः
। मांसिकः । ओदनिकः ॥
1619: भक्तादणन्यतरस्याम् (4-4-68) पक्षे ठक् । भक्तमस्मै नियुक्तं दीयते भाक्तः । भाक्तिकः ॥
1620: तत्र नियुक्तः (4-4-69) आकरे नियुक्त आकरिकः ॥
1621: अगारान्ताट्ठन् (4-4-70) देवागारे नियुक्तो देवागारिकः ॥
1622: अध्यायिन्यदेशकालात् (4-4-71)
निषिद्धदेशकालवाचकाट्ठक्
स्यादध्येतरि । श्मशानेऽधीते श्माशानिकः। चतुर्दश्यामधीते चातुर्दशिकः ॥
1623: कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति (4-4-72)
तत्रेत्येव । वंशकठिने
व्यवहरति वांशकठिनिकः । वंशा वेणवः कठिना यस्मिन्देशे स वंशकठिनस्तस्मिन्देशे या
क्रिया यथानुष्ठेया तां तथैवानुतिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः ॥
1624: निकटे वसति (4-4-73) नैकटिको भिक्षुः ॥
1625: आवसथात् ष्ठल् (4-4-74) आवसथे वसति आवसथिकः । षित्वान्ङीष् । आवसथिकी ॥
आकर्षात्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च ॥
आवसथात्किसरादेः षितः षडेते ठगधिकारे ॥ 1 ॥
(वा 2955)
षडिति सूत्रषट्केन विहिता इत्यर्थः । प्रत्ययास्तु सप्त ॥
॥ इति तद्धितेषु ठगधिकारप्रकरणम् ॥
॥ अथ तद्धिताधिकारे
प्राग्घितीयप्रकरणम् ॥
1626: प्राग्घिताद्यत् (4-4-75) ‘तस्मै हितम्’(सू. 1665) इत्यतः प्राक् यदधिक्रियते ॥
1627: तद्वहति रथयुगप्रासङ्गम् (4-4-76)
रथं वहति रथ्यः । युग्यः ।
वत्सानां दमनकाले स्कन्धे काष्ठमासज्यते स प्रासङ्गः । तं वहति प्रासङ्ग्यः ॥
1628: धुरो यड्ढकौ (4-4-77) ‘हलि च’(सू. 354) इति दीर्घे प्राप्ते ॥
1629: न भकुर्छुराम् (8-2-79) भस्य कुर्च्छुरोश्चोपधाया दीर्घो न स्यात् । धुर्यः ।
धौरेयः ॥
1630: खः सर्वधुरात् (4-4-78) सर्वधरां वहतीति सर्वधुरीणः ॥
1631: एकधुराल्लुक्च (4-4-79) एकधुरां वहति एकधुरीणः । एकधुरः ॥
1632: शकटादण् (4-4-80) शकटं वहति शाकटो गौः ॥
1633: हलसीराट्ठक् (4-4-81) हलं वहति हालिकः । सैरिकः ॥
1634: संज्ञायां जन्या (4-4-82) जनी वधूः तां वहति प्रापयति जन्या ॥
1635: विध्यत्यधनुषा (4-4-83) द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यान्न चेत्तत्र धनुः
करणम् । पादौ विध्यन्ति पद्याः शर्कराः ॥
1636: धनगणं लब्धा (4-4-84) तृन्नन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गण्यः ॥
1637: अन्नाण्णः (4-4-85) अन्नं लब्धा आन्नः ॥
1638: वशं गतः (4-4-86) वश्यः परेच्छानुचारी ॥
1639: पदमस्मिन् दृश्यम् (4-4-87) पद्यः कर्दमः । नातिशुष्क इत्यर्थः ॥
1640: मूलमस्याबर्हि (4-4-88) आबर्हणमाबर्ह उत्पाटनं तदस्यास्तीत्याबर्हि । मूलमाबर्हि
येषां ते मूल्या मुद्गाः॥
1641: संज्ञायां धेनुष्या (4-4-89) धेनुशब्दस्य षुगागमो यप्रत्ययश्च स्वार्थे निपात्यते
संज्ञायाम् । धेनुष्या बन्धके स्थिता ॥
1642: गृहपतिना संयुक्ते ञ्यः (4-4-90)
गृहपतिर्यजमानस्तेन
संयुक्तो गार्हपत्योऽग्निः ॥
1643: नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु
(4-4-91)
नावा तार्यं नाव्यम् ।
वयसा तुल्यो वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मूलेन
आनाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया संमितं सीत्यं क्षेत्रम् । तुलया संमितं
तुल्यम् ॥
1644: धर्मपथ्यर्थन्यायादनपेते (4-4-92)
धर्मादनपेतं धर्म्यम् ।
पथ्यम् । अर्थ्यम् । न्याय्यम् ॥
1645: छन्दसो निर्मिते (4-4-93) छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः ॥
1646: उरसोण् च (4-4-94) चाद्यत् । उरसा निर्मितः पुत्रः औरसः । उरस्यः ॥
1647: हृदयस्य प्रियः (4-4-95) हृद्यो देशः । ‘हृदस्य हृल्लेख’-(सू. 988) इति हृदादेशः ॥
1648: बन्धने चर्षौ (4-4-96) हृदयशब्दात् षठ्यन्ताद्बन्धने यत्स्याद्वेदेऽभिधेये ।
हृदयस्य बन्धनं ह्रद्यो वशीकरणमन्त्रः ॥
1649: मतजनहलात्करणजल्पकर्षेषु (4-4-97)
मतं ज्ञानं तस्य करणं भावः
साधनं वा मत्यम् । जनस्य जल्पो जन्यः । हलस्य कर्पो हल्यः ॥
1650: तत्र साधुः (4-4-98) अग्रे साधुः अग्र्यः । सामसु साधुः सामन्यः ।
येचाभावकर्मणोः (सू. 1154) इति प्रकृतिभावः । कर्मण्यः । शरण्यः ॥
1651: प्रतिजनादिभ्यः खञ् (4-4-99) प्रतिजनं साधुः प्रातिजनीनः । सांयुगीनः । सार्वजनीनः ।
वैश्वजनीनः ॥
1652: भक्ताण्णः (4-4-100) भक्ते साधवो भाक्ताः शालयः ॥
1653: परिषदो ण्यः (4-4-101) पारिषद्यः । परिषद इति योगविभागाण्णोऽपि । परिषदः । पर्षद
इति पाठः । पार्षदः ॥
1654: कथादिभ्यष्ठक् (4-4-102) कथायां साधुः काथिकः ॥
1655: गुडादिभ्यष्ठञ् (4-4-103) गुडे साधुर्गौडिक इक्षुः । साक्तुका यवाः ॥
1656: पथ्यतिथिवसतिस्वपतेर्ढञ् (4-4-104)
पथि साधुः पाथेयम् ।
आतिथेयम् । वसनं वसतिस्तत्र साधुर्वासतेयी रात्रिः । स्वापतेयं धनम् ॥
1657: सभाया यः (4-4-105) सभ्यः ॥
1658: समानतीर्थे वासी (4-4-107) साधुरीति निवृत्तम् । वसतीति वासी । समाने तीर्थे गुरौ
वसतीति सतीर्थ्यः ॥
1659: समानोदरे शयितओ चोदात्तः (4-4-108)
समाने उदरे शयितः स्थितः
समानोदर्यो भ्राता ॥
1660: सोदराद्यः (4-4-109) सोदर्यः । अर्थः प्राग्वत् ॥
॥ इति तद्धिताधिकारे प्राग्घितीयप्रकरणम् ॥
॥ अथ तद्धितेषु छयद्विधिप्रकरणम्
॥
1661: प्राक् क्रीताच्छः (5-1-1) ‘तेन क्रीतम्’(सू. 1702) इत्यतः प्राक् छोऽधिक्रियते ॥
1662: उगवादिभ्यो यत् (5-1-2) प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च
यत्स्याच्छस्यापवादः । नाभि नभं च (ग सू 95) ॥ नभ्योऽक्षः । नभ्यमञ्जनम् ।
रथनाभावेवेदम् । शुनः संप्रसारणं वा च दीर्घत्वम् (ग सू 96) । शून्यम्। शुन्यम् ।
ऊधसो नङ् च (ग सू 97) । ऊधन्यः ॥
1663: कम्बलाच्च संज्ञायाम् (5-1-3)
यत्स्यात् ।
कम्बल्यमूर्णापलशतम् । संज्ञायां किम् । कम्बलीया ऊर्णा ॥
1664: विभाषा हविरपूपादिभ्यः (5-1-4)
आमिक्ष्यं दधि ।
आमिक्षीयम् । पुरोडाश्याम्तण्डुलाः । पुरोडाशीयाः । अपूप्यम् । अपूपीयम् ॥
1665: तस्मै हितम् (5-1-5) वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शङ्कव्यं दारु
। गव्यम् । हविष्यम्॥
1666: शरीरावयवाद्यत् (5-1-6) दन्त्यम् । कण्ठ्यम् ॥ नस् नासिकायाः (वा 3497) ॥ नस्यम् ।
नाभ्यम् ॥
1667: ये च तद्धिते (6-1-61) यादौ तद्धिते परे शिरश्शब्दस्य शीर्षन्नादेशः स्यात् ।
शीर्षण्यः । तद्धिते किम् । शिर इच्छति शिरस्यति ॥ वा केशेषु (वा 3493) ॥
शीर्षण्याः शिरस्या वा केशाः ॥ अचि शीर्ष इति वाच्यम् (वा 3494) ॥ अजादौ तद्धिते
शिरसः शीर्षादेशः । स्थूलशिरस इदं स्थौलशीर्षम् ॥
1668: खलयवमाषतिलवृषब्रह्मणश्च (5-1-7)
खलाय हितं खल्यम् । यव्यम्
। माप्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चाद्रथ्या ॥
1669: अजादिभ्यां थ्यन् (5-1-8) अजथ्यायूथिः । अविथ्या ॥
1670: आत्मन्विश्वजनभोगोत्तरपदात्खः (5-1-9)
1671: आत्माध्वानौ खे (6-4-169) एतौ खेप्रकत्या स्तः । आत्मने हितमात्मनीनम् । विश्वजनीनम्
॥ कर्मधारयादेवेष्यते ॥ षष्ठीतत्पुरुषाद्बहुव्रीहेश्च छ एव । विश्वजनीयम् ॥
पञ्चजनादुपसंख्यानम् (वा 2996) ॥ पञ्चजनीनम् ॥ सर्वजनाट्ठञ् खश्च (वा 2967) ॥
सार्वजनिकः । सर्वजनीनः ॥ महाजनाट्ठञ् (वा 2998) ॥ माहाजनिकः । मातृभोगीणः ।
पितृभोगीणः । राजभोगीणः । आचार्यादणत्वं च (ग सू 184 ॥ आचार्यभोगीनः ॥
1672: सर्वपुरुषाभ्यां णढञौ (5-1-10)
सर्वाण्णो वेति वक्तव्यम्
(वा 2999) ॥ सर्वस्मै हितं सार्वम् । सर्वीयम् ॥पुरूषाद्वधविकारसमूहतेकृतेषु (वा
3000) ॥ भाष्यकारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः । पुरुषस्य वधः
पौरुषेयः । ‘तस्येदम्’–(सू. 1500) इत्यणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः । ‘प्राणिरजतादिभ्योऽञ्’(सू.
1532) इत्यञि प्राप्ते समुहैऽप्यणि प्राप्ते । एकाकिनोऽपि परितः
पौरुषेयवृता इवेति माघः । तेन कृते ग्रन्थेऽणि प्राप्ते अग्रन्थे तु
प्रासादादावप्राप्त एवेति विवेकः ॥
1673: माणवचरकाभ्यां खञ् (5-1-11) माणवाय हितं माणवीनम् । चारकीणम् ॥
1674: तदर्थं विकृतेः प्रकृतौ (5-1-12)
विकृतिवाचाकाच्चतुर्थ्यन्तात्तदर्थायां
प्रकृतौ वाच्यायां छप्रत्ययः स्यात् । अङ्गरेभ्य एतानि अङ्गारीयाणि काष्ठानि ।
प्राकारीया इष्टकाः । शङ्कव्यं दारु ॥
1675: छदिरुपधिबलेर्ढञ् (5-1-13) छादिषेयाणि तृणानि । बालेयास्तण्डुलाः ॥ उपधिशब्दात्स्वार्थे
इष्यते (वा 3003) ॥ उपधीयत इत्युपधी रथाङ्गं तदेव औषधेयम् ॥
1676: ऋषभोपानहोर्ञ्यः (5-1-14) छस्यापवादः । आर्षभ्यो वत्सः । औपानह्यो मुञ्जः ।
चर्मण्यप्ययमेव पूर्वविप्रतिषेधेन ॥ औपानह्यं चर्म ॥
1677: चर्मणोऽञ् (5-1-15) चर्मणो या विकृतिस्तद्वाचकादञ् स्यात् । वर्ध्र्यै इदं वार्ध्रं
चर्म । वारत्रं चर्म ॥
1678: तदस्य तदस्मिन् स्यादिति (5-1-16)
प्राकार आसामिष्टकानां
स्यात्प्रकारीया इष्टकाः । प्रासादीयं दारु । प्रकारोऽस्मिन् स्यात् प्राकारीयो
देशः । इति शब्दो लौकिकीं विवक्षामनुसारयति । तेनेह न । प्रासादो देवदत्तस्य
स्यादिति ॥
1679: परिखाया ढञ् (5-1-17) परिखेयी भूमिः ॥ छयतोः पूर्णोऽवधिः ॥
॥ इति तद्धितेषु छयतोः पूर्णोऽवधिः॥
॥ अथ तद्धिताधिकारे
आर्हीयप्रकरणम् ॥
1680: प्राग्वतेष्ठञ् (5-1-18) ‘तेन तुल्यम्’(सू. 1778) इति वर्तिं वक्ष्यति ततः प्राक्ठञधिक्रियते ॥
1681: आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् (5-1-19)
‘तदर्हति’(सू. 1728) इत्येतदभिव्याप्य ठञधिकारमध्ये ठञोऽपवादष्ठगधिक्रियते
गोपुच्छादीन्वर्जयित्वा ॥
1682: असमासे निष्कादिभ्यः (5-1-20)
‘आर्हादित्येतत् तेन क्रीतम्’(सू. 1702) इति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे
ठक्स्यादार्हीयेष्वर्थेषु । नैष्किकम् । समासे तु ठञेव ॥
1683: परिमाणान्तस्यासंज्ञाशाणयोः (7-3-17)
उत्तरपदवृद्धिः स्यात्
ञिदादौ । परमनैष्किकः । असंज्ञा इति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम्
। ‘तदस्य परिमाणम्’(सू. 1723) इति ठञ् । असमासग्रहणं ज्ञापकं भवति इत्यतः प्राक्
तदन्तविधिरिति । तेन सुगव्यम्-यवापूप्यमित्यादि ॥ इत ऊर्ध्वं तु ॥
संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चालुकि (वा 3018) ॥ पारायणिकः
। द्वैपारायणिकः । अलुकि इति किम् । द्वाभ्यां शूर्पभ्यां क्रीतं द्विशूर्पम् ।
द्विशूर्पेण क्रीते ‘शूर्पादञ्’(सू. 1691) माभूत् किंतु ठञ् । द्विशौर्पिकम् ॥
1684: अर्धात्परिमाणस्य पूर्वस्य तु वा (7-3-26)
अर्धात्परिमाणवाचकस्योत्तरपदस्यादेरचो
वृद्धिः पूर्वपदस्य तु वा ञिति णिति किति च । अर्धद्रोणेन क्रीतम् आर्धद्रौणिकम् ।
अर्धद्रौणिकम् ॥
1685: नातः परस्य (7-3-27) अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदस्य तु वा
ञिदादौ । आर्धप्रस्थिकम् । अर्धप्रस्थिकम् । अतः किम् । आर्धकौडबिकम् । तपरः किम्
। अर्धखार्यां भवा अर्धखारी । आर्धखारीभार्य इत्यत्र ‘वृद्धिनिमित्तस्य’- (सू. 840) इति पुंवद्भावनिषेधो न स्यात् ॥
1686: शताच्च ठन्यतावशते (5-1-21) शतेन क्रीतं शतिकम् । शत्यम् । अशते किम् । शतं परिमाणमस्य
शतकः सङ्घः । इह प्रत्ययार्थो वस्तुतः प्रकृत्यर्थान्नभिद्यते,
तेन ठन्यतौ न । किं तु कनेव । असमासे इत्येव । द्विशतेन
क्रीतं द्विशतकम् ॥
1687: संख्याया अतिशदन्तायाः कन् (5-1-22)
संख्यायाः
कन्स्यादार्हीयेऽर्थे न तु त्यन्तशदन्तायाः । पञ्चभिः क्रीतः पञ्चकः । बहुकः ।
त्यन्तायास्तु साप्ततिकः । शदन्तायाः । चात्वारिंत्कः ॥
1688: वतोरिड्वा (5-1-23) वत्वान्तात्कन इड्वा स्यात् । तावतिकः । तावत्कः ॥
1689: विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् (5-1-24)
योगविभागः कर्तव्यः ।
आभ्यां कन्स्यात् । असंज्ञायां तु ड्वुन् स्यात् । कनोऽपवादः । विंशकः । त्रिंशकः
। संज्ञायां तु विंशतिकः । त्रिंशतिकः ॥
1690: कंसाट्टिठन् (5-1-25) टो ङीबर्थः । इकार उच्चरणार्थः । कंसिकः । कंसिकी ॥
अर्धाच्चेति वक्तव्यम् (वा 3018) ॥ अर्धिकः । अर्धिकी ॥ कार्षापणाट्ठिठन्वक्तव्यः
प्रतिरादेशश्च वा (वा 3019) ॥ कार्षापणिकः । कार्षापणिकी । प्रतिकः । प्रतिकी ॥
1691: शूर्पादञन्यतरस्याम् (5-1-26)
शौर्पम् । शौर्पिकम् ॥
1692: शतमानविंशतिकसहस्रवसनादण् (5-1-27)
एभ्योऽण् स्यात् ।
ठञ्ठक्कनामपवादः । शतमानेन क्रीतं शातमानम् । वैंशतिकम् । साहस्रम् । वासनम् ॥
1693: अध्यर्धपूर्वाद्द्विगोर्लुगसंज्ञायाम् (5-1-28)
अध्यर्धपूर्वाद्द्विगोश्च
परस्यार्हीयस्य लुक् स्यात् । अध्यर्धकंसम् । द्विकंसम् । संज्ञायां तु
पाञ्चाकलापिकम् ॥
1694: विभाषा कार्षापणसहस्राभ्याम् (5-1-29)
लुग्वा स्यात् ।
अध्यर्धकार्षाणम् । अध्यर्धकार्षापणिकम् । द्विकार्षापणम् । औपसंख्यानिकस्यटिठनो
लुक् । पक्षेऽध्यर्धप्रतिकम् । द्विप्रतिकम् । अध्यर्धसहस्रम् । अध्यर्धसाहस्रम्।
द्विसहस्रम् । द्विसाहस्रम् ॥
1695: द्वित्रिपूर्वान्निष्कात् (5-1-30)
लुग्वा स्यात् ।
द्विनिष्कम्-द्विनैष्किकम् । त्रिनिष्कम्-त्रिनैष्किकम् ॥ बहुपूर्वाच्चेति
वक्तव्यम् (वा 3024) ॥ बहुनिष्कम् । बहुनैष्किकम् ॥
1696: बिस्ताच्च (5-1-31) द्वित्रिबहुपूर्वाद्विस्तादार्हीयस्य लुग्वा स्यात् ।
द्विबिस्तम् । द्विबैस्तिकमित्यादि ॥
1697: विंशतिकात्खः (5-1-32) अध्यर्धपूर्वाद्द्विगोरित्येव । अध्यर्धविंशतिकीनम् ।
द्विविंशतिकीनम् ॥
1698: खार्या ईकन् (5-1-33) अध्यर्धखारीकम् । द्विखारीकम् ॥ केवलायाश्चेति वक्तव्यम्
(वा 3025) ॥ खारीकम् ॥
1699: पणपादमाषशताद्यत् (5-1-34) अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम्
। इह ‘पादः पत्’(सू. 414) इति न । ‘यस्य’-(सू. 311) इति लोपस्य स्थानिवद्भावात् । ‘पद्यत्यतदर्थे’(सू. 991) इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् ॥
1700: शाणाद्वा (5-1-35) यत्स्यात् । पक्षे ठञ् । तस्य लुक् । अध्यर्धशाण्यम् ।
अध्यर्धशाणम् ॥
1701: द्वित्रिपूर्वादण् च (5-1-36)
शाणात्इत्येव । चाद्यत् ।
तेन त्रैरूप्यम् । ‘परिमाणान्तस्यासंज्ञाशाणयोः’(सू. 1683) इति पर्युदासादादिवृद्धिरेव । द्वैशाणम् । द्विशाण्यम् ।
द्वीशाणम् । इह ठञादयस्त्रयोदश प्रत्ययाः प्रकृतास्तेषां
समर्थविभक्तयोऽर्थास्चाकाङ्क्षितास्त इदानीमुच्यन्ते ॥
1702: तेन क्रीतम् (5-1-37) ठञ् । गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् ।
प्रास्थिकम् । ठक् । नैष्किकम् ॥
1703: इद्गोण्याः (1-2-50) गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः । पञ्चभिर्गोणीभिः
क्रीतः पटः पञ्चगोणिः॥
1704: तस्य निमित्तं संयोगोत्पातौ (5-1-38)
संयोगः संबन्धः । उत्पातः
- शुभाशुभसूचकः । शतिकः-शत्यो वा धनपतिसंयोगः । शतिकं शत्यं वा
दक्षिणाक्षिस्पन्दनम् । शतस्य निमित्तमित्यर्थः ॥ वातपित्तश्लेष्मभ्यः
शमनकोपनयोरुपसंख्यानम् (वा 3033) ॥ वातस्य शमनं कोपनं वा वातिकम् । पैत्तिकम् ।
श्लैष्मिकम् ॥ संनिपाताच्चेति वक्तव्यम् (वा 3037) ॥ सान्निपातिकम् ॥
1705: गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् (5-1-39)
गोर्निमित्तं संयोग
उत्पातो वा गव्यः । द्व्यचः । धन्यः । यशस्यः । स्वर्ग्यः । गोद्व्यचः किम् ।
विजयस्य वैजयिकः । असंख्या इत्यादि किम् । पञ्चानां पञकम् । सप्तकम् । प्रास्थिकम्
। खारीकम् । अश्वादि- आश्विकम् । आस्मिकम् ॥ ब्रह्मवर्चसादुपसंख्यानम् (वा 3035) ॥
ब्रह्मवर्चस्यम्॥
1706: पुत्राच्छ च (5-1-40) चाद्यत् । पुत्रीयः । पुत्र्यः ॥
1707: सर्वभूमिपृथिवीभ्यामणञौ (5-1-41)
सर्वभूमेर्निमित्तं संयोग
उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पद्यते ॥
1708: तस्येश्वरः (5-1-42)
1709: तत्र विदित इति च (5-1-43) सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः । पार्थिवः ॥
1710: लोकसर्वलोकाट्ठञ् (5-1-44) तत्र विदितः इत्यर्थे । लौकिकः ।
अनुशतिकादित्वादुभयपदवृद्धिः । सार्वलौकिकः ॥
1711: तस्य वापः (5-1-45) उप्यते अस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः
प्रास्थिकम् । द्रौणिकम् । खारीकम् ॥
1712: पात्रात् ष्ठन् (5-1-46) पात्रस्य वापः क्षेत्रं पात्रिकम्-पात्रिकी क्षेत्रभक्तिः ॥
1713: तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते (5-1-47)
वृद्धिर्दीयत इत्यादि
क्रमेण प्रत्येकं संबन्धादेकवचनम् । पञ्चास्मिन् वृद्धिः आयः लाभः शुल्कम् उपदा वा
दीयते पञ्चकः । शतिकः-शत्यः । साहस्रः । उत्तमर्णेन मूलातिरिक्तं ग्राह्यं वृद्धिः
। ग्रामादिषु स्वामिग्राह्यो भाग आयः । विक्रेत्रा मूल्यादधिकग्राह्यं लाभः ।
रक्षानिर्वेशो राजभागः शुल्कः । उत्कोच उपदा ॥ चतुर्थ्यर्थ उपसंख्यानम् (वा 3036) ॥
पञ्चास्मै वृद्ध्यादिर्दीयते पञ्चको देवदत्तः । सममब्राह्मणे दानमितिवदधिकरणत्वविवक्षा
वा ॥
1714: पूरणार्धाट्ठन् (5-1-48) यथाक्रम ठक्टिठनोरपवादः । द्वितीयो वृद्ध्यादिरस्मिन्दीयते
द्वितीयिकः । तृतीयकः । अर्धिकः । अर्धशब्दो रूपकस्यार्धे रूढः ॥
1715: भागाद्यच्च (5-1-49) चाट्ठन् । भागशब्दोऽपि रूपकस्यार्धे रूढः । भागो वृद्ध्यादिरस्मिन्दीयते
भाग्यं-भागिकं शतम् । भाग्या भगिका विंशतिः ॥
1716: तद्धरति वहत्यावहति भाराद्वांशादिभ्यः (5-1-50)
वंशादिभ्यः परो यो
भारशब्दस्तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकाद्द्वितीयान्तादित्यर्थः । वंशभारं
हरति वहत्यावहति वा वांशभारिकः । ऐक्षुभारिकः । भाराद्वंशादिभ्यः इत्यस्य
व्याख्यान्तरं भारभूतेभ्यो वंशादिभ्यः इति । भारभूतान्वंशान् हरति वांशिकः ।
ऐक्षुकः ॥
1717: वस्नद्रव्याभ्यां ठन्कनौ (5-1-51)
यथासंख्यं स्तः । वस्त्रं
हरति वहत्यावहति वा वस्त्रिकः । द्रव्यकः ॥
1718: संभवत्यवहरति पचति (5-1-52) प्रस्थं संभवति प्रास्थिकः कटाहः । प्रस्थं
स्वस्मिन्समावेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थमवहरति पचति वेत्यर्थः
॥ तत्पचतीति द्रोणादण् च (वा 3038) ॥ चाट्ठञ् । द्रोणं पचतीति द्रौणी-द्रौणिकी ॥
1719: आढकाचितपात्रात्खोऽन्यतरस्याम् (5-1-53)
पक्षे ठञ् । आढकं संभवति
अवहरति पचति वा आढकीना-आढकिकी । अचितीना । आचितिकी । पात्रीणा पात्रीकी ॥
1720: द्विगोः ष्ठंश्च (5-1-54) आढकाचितपात्रात् इत्येव । आढकाद्यन्ताद्द्विगोः संभवत्यादिष्वर्थेषु
ष्ठन्खौ वा स्तः। पक्षे ठञ् । तस्य ‘अध्यर्ध’-(सू. 1693) इति लुक् । षित्वान्ङीष् । द्व्याढकिकी । द्व्याढकीना । ‘द्विगोः’-(सू.
479) इति ङीप् । द्व्याढकी । द्व्याचितिकी । द्व्याचितीना । ‘अपरिमाण’-(सू.
480) इति ङीब्निषेधात् । द्व्याचिता । द्विपात्रिकी ।
द्विपात्रीणा । द्विपात्री ॥
1721: कुलिजाल्लुक्खौ च (5-1-55) कुलिजान्ताद्द्विगोः संभवत्यादिष्वर्थेषु लुक्खौ वा स्तः ।
चात्ष्ठंश्च । लुगभावे ठञः श्रवणम् ।
द्विकुलिजी-द्वैकुलिजिकी-द्विकुलिजीना-द्विकुलिजिकी ॥
1722: सोऽस्यांऽशवस्नभृतयः (5-1-56)
अंशो भागः । वस्त्रं
मूल्यम् । भृतिर्वेतनम् । पञ्च अंशो वस्त्रो भृतिर्वास्य पञ्चकः ॥
1723: तदस्य परिमाणम् (5-1-57) प्रस्थं परिमाणमस्य प्रास्थिको राशिः ॥
1724: संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु (5-1-58)
पूर्वसूत्रमनुवर्तते ।
तत्र संज्ञायां स्वार्थे प्रत्ययो वाच्यः (वा 3039) ॥ यद्वा
द्व्येकयोरितिवत्संख्यामात्रवृत्तेः परिमाणिनि प्रत्ययः ॥ पञ्चैव पञ्चकाः शकुनयः ।
पञ्च परिमाणमेषामिति वा । सङ्घे पञ्चकः । सूत्रेऽष्टकं पाणिनीयम् । सङ्घशब्दस्य
प्राणिसमूहे रूढत्वात्सूत्रं पृधगुपात्तम् । पञ्चकमध्ययनम् ॥ स्तोमे डविधिः (वा
3045) ॥ पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः । सप्तदशः। एकविंशः । सोमयागेषु
छन्दोगैः क्रियमाणा पृष्ठ्यादिसंज्ञिका स्तुतिः स्तोमः ॥
1725: पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्
(5-1-59)
एते रूढिशब्दा निपात्यन्ते॥
1726: पञ्चद्दशतौ वर्गे वा (5-1-60)
पञ्च परिमाणमस्य
पञ्चद्वर्गः । दशत् । पक्षे पञ्चकः । दशकः ॥
1727: त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् (5-1-62)
त्रिंशदध्यायाः
परिमाणमेषां ब्राह्मणानां त्रैंशानि । चात्वारिंशानि ॥
1728: तदर्हति (5-1-63) लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः ।
श्वेतच्छत्रर्हति श्वैतच्छत्रिकः ॥
1729: छेदादिभ्यो नित्यम् (5-1-64) नित्यमाभीक्ष्ण्यम् । छेदं नित्यमर्हति छैदिको वेतसः ।
छिन्नप्ररूढत्वात् । विराग विरङ्गं च (ग सू 99) । विरागं नित्यमर्हति । वैरागिकः ।
वैरङ्गिकः ॥
1730: शीर्षच्छेदाद्यच्च (5-1-65) शीरश्च्छेदं नित्यमर्हति शीर्षच्छेद्यः । शैर्षच्छेदिकः ।
यट्ठकोः संनियोगेन शिरसः शीर्षभावो निपात्यते ॥
1731: दण्डादिभ्यो यत् (5-1-66) एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः । अर्ध्यः । वध्यः ॥
1732: पात्राद्घंश्च (5-1-68) चाद्यत्तदर्हतीत्यर्थे । पात्रियः । पात्र्यः ॥
1733: कडङ्करदक्षिणाच्छ च (5-1-69) चाद्यत् । कडं करोतीति विग्रहे अत एव निपातनात्खच् । कडंकरं
माषमुद्रादिकाष्ठमर्हतीति कडंकरीयो गौः । कडंकर्यः । दक्षिणामर्हतीति
दक्षिणीयः-दक्षिण्यः ॥
1734: स्थालीबिलात् (5-1-70) स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः-स्थालीबिल्याः ।
पाकयोग्याः इत्यर्थः ॥
1735: यज्ञर्त्विग्भ्यां घखञौ (5-1-71)
यथासंख्यं स्तः ।
यज्ञमृत्विजं वार्हति यज्ञियः । आर्त्विजीनो यजमानः ॥यज्ञर्त्विग्भ्यां
तत्कर्मार्हतीत्युपसंख्यानम् (वा 3052) ॥ यज्ञियो देशः । आर्त्विजीन ऋत्विक् ॥ इति
आर्हीयाणां ठगादीनां द्वादशानां गतोऽवधिः ॥
॥ इति तद्धिताधिकारे आर्हीयप्रकरणम् ॥
॥ अथ तद्धिताधिकारे
ठञधिकारे कालाधिकारप्रकरणम् ॥
अतः परं ठञेव ।
1736: पारायणतुरायणचान्द्रायणं वर्तयति (5-1-72)
पारायणं वर्तयति
पारायणिकश्छात्रः । तुरायणं यज्ञविशेषः, तं वर्तयत् तौरायणिको यजमानः । चान्द्रायणिकः ॥
1737: संशयमापन्नः (5-1-73) संशयविषयीभूतोऽर्थः सांशयिकः ॥
1738: योजनं गच्छति (5-1-74) यौजनिकः ॥ क्रोशशतयोजनशतयोरुपसंख्यानम् (वा 3055) ॥
क्रोशशतं गच्छति क्रौशशतिकः ॥ ततोऽभिगमनमर्हतीति च वक्तव्यम् (वा 3056) ॥
क्रोशशतादभिगमनमर्हतीति क्रौशशतिको भिक्षुः । यौजनशतिक आचार्यः ॥
1739: पथः ष्कन् (5-1-75) षो ङीषर्थः । पन्थानं गच्छति पथिकः पथिकी ॥
1740: पन्थो ण नित्यम् (5-1-76) पन्थानं नित्यं गच्छति पान्थः । पान्थी ॥
1741: उत्तरपथेनाहृतं च (5-1-77) उत्तरपथेनाहृतं औत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः
॥ आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वादुपसंख्यानम् (वा 3057) ॥ वारिपथिकम् ॥
1742: कालात् (5-1-78) ‘व्युष्टादिभ्योऽण्’(सू. 1761) इत्यतः प्रागधिकारोऽयम् ॥
1743: तेन निर्वृत्तम् (5-1-79) अह्ना निर्वृत्तमाह्निकम् ॥
1744: तमधीष्टो भृतो भूतो भावी (5-1-80)
अधीष्टः सत्कृत्य
व्यापारितः । भृतो वेतनेन क्रीतः । भूतः स्वसत्तया व्याप्तकालः । भावी तादृश
एवानागतः कालः । मासमधीष्टो मासिकोऽध्यापकः । मासं भृतो मासिकः कर्मकरः । मासं
भूतो मासिको व्याधिः । मासं भावी मासिक उत्सवः ॥
1745: मासाद्वयसि यत्खञौ (5-1-81) मासं भूतो मास्यः । मासीनः ॥
1746: द्विगोर्यप् (5-1-82) मासाद्वयसीत्यनुवर्तते । द्वौ मासौ भूतो द्विमास्यः ॥
1747: षण्मासाण्ण्यच्च (5-1-83) वयसीत्येव । यबप्यनुवर्तते । चाट्ठञ् । षण्मास्यः ।
षाण्मासिकः ॥
1748: अवयसि ठंश्च (5-1-84) चाण्ण्यत् । षण्मासिको व्याधिः षाण्मास्यः ॥
1749: समायाः खः (5-1-85) समामधीष्टो भृतो भूतो भावी वा समीनः ॥
1750: द्विगोर्वा (5-1-86) समायाः ख इत्येव । ‘तेन परिजय्य’-(सू. 1757) इत्यतः प्राङ्निर्वृत्तादिषु पञ्चस्वर्थेषु प्रत्ययाः । द्विसमीनः
। द्वैसमिकः ॥
1751: रात्र्यहःसंवरात्सराच्च (5-1-87)
द्विगोरित्येव ।
द्विरात्रीणः । द्वैरात्रिकः । द्व्यहीनः । द्वैयह्निकः ।
समासान्तविधेरनित्यत्वान्न टच् । द्विसंवलत्सरीणः ॥
1752: संख्यायाः संवत्सरसंख्यस्य च (7-3-15)
संख्याया उत्तरपदस्य
वृद्धिः स्यात् ञिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भृतो द्विषाष्टिकः ।
संख्यायाः परिमाणान्तस्येत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे
कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिक इत्युत्तरपदवृद्धिर्न ॥
1753: वर्षाल्लुक्च (5-1-88) वर्षशब्दान्ताद्द्विगोर्वा खः । पक्षे ठञ् वा च लुक् ।
त्रीणि रूपाणि । द्विवर्षीणो व्याधिः । द्विवर्षः ॥
1754: वर्षस्याभविष्यति (7-3-16) उत्तरपदस्य वृद्धिः स्यात् । द्विवार्षिको मनुष्यः ।
भविष्यति तु द्वैवर्षिकः । अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न । गम्यते हि तत्र
भविष्यत्ता न तु तद्धितार्थः । द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति
द्विवार्षिको मनुष्यः । ‘परिमाणान्तस्यासंज्ञाशाणयोः’(सू. 1683) द्वौ कुडवौ परिमाणमस्य द्विकौडविकः । द्वाभ्यां
सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम् । द्विनैष्किकम् । असंज्ञेति किम् । पञ्च
कलापाः परिमाणमस्य पाञ्चकलापिकम् । तद्धितान्तः संज्ञैषा । द्वैशाणम् ।
कुलिजशब्दमपि केचित्पठन्ति । द्वैकुलिजिकः ॥
1755: चित्तवति नित्यम् (5-1-89) वर्षशब्दान्ताद्द्विगोः प्रत्ययस्य नित्यं लुक् स्यात्
चेतने प्रत्ययार्थे । द्विवर्षो दारकः ॥
1756: षष्टिकाः षष्टिरात्रेण पच्यन्ते (5-1-90)
बहुवचनमतन्त्रम् । षष्टिको
धान्यविशेषः । तृतीयान्तात्कन् रात्रशब्दलोपश्च निपात्यते ॥
1757: तेन परिजय्यलभ्यकार्यसुकरम् (5-1-93)
मासेन परिजय्यो जेतुं
शक्यो मासिको व्याधिः । मासेन लभ्यं कार्यं सुकरं वा मासिकम् ॥
1758: तदस्य ब्रह्मचर्यम् (5-1-94) द्वितीयान्तात्कालवाचिनोऽस्येत्यर्थे प्रत्ययः स्यात् ।
अत्यन्तसंयोगे द्वितीया । मासं ब्रह्मचर्यमस्य स मासिको ब्रह्मचारी । आर्धमासिकः ।
यद्वा प्रथमान्तादस्येत्यर्थे प्रत्ययः । मासोऽस्येति मासिकं ब्रह्मचर्यम् ॥
महानाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम् (वा 3064) ॥ महानाम्न्यो नाम
विदामघवन्नित्याद्या ऋचः । तासां ब्रह्मचर्यमस्य माहानाम्निकः । हरदत्तस्तु भस्याढ
इति पुंवद्भावान्माहानामिक इत्याह ॥ चतुर्मासाण्ण्यो यज्ञे ॥ तत्र भव इत्यर्थे (वा
3069 ॥ चतुर्षु मासेषु भवन्ति चातुर्मास्यानि यज्ञकर्माणि ॥ संज्ञायामण् (वा 3070)
॥ चतुर्षु मासेषु भवति चातुर्मासी आषाढी । अण्णन्तत्वान्ङीप् ॥
1759: तस्य च दक्षिणा यज्ञाख्येभ्यः (5-1-95)
द्वादशाहस्य दक्षिणा
द्वादशाहिकी । आख्याग्रहणादकालादपि । आग्निष्टोमिकी । वाजपेयिकी ॥
1760: तत्र च दीयते कार्यं भववत् (5-1-96)
प्रावृषि दीयते कार्यं वा
प्रावृषेण्यम् । शारदम् ॥ ठञधिकारे कालाधिकारस्य पूर्णोऽवधिः ॥
॥ इति तद्धिताधिकारे ठञधिकारे कालाधिकारप्रकरणम् ॥
॥ अथ तद्धिताधिकारे
ठञ्विधिप्रकरणम् ॥
1761: व्युष्टादिभ्योऽण् (5-1-97) व्युष्टे दीयते कार्यं वा वैयुष्टम् । व्युष्ट,
तीर्थ, संग्राम, प्रवास इत्यादि ॥ अग्निपदादिभ्य उपसंख्यानम् (वा 3072) ॥
अग्निपदे दीयते कार्यं वाग्निपदम् । पैलुमूलम् ॥
1762: तेन यथाकथाच हस्ताभ्यां णयतौ (5-1-98)
यथाकथाचेत्यव्ययसंघातात्तृतीयान्ताद्धस्तशब्दाच्च
यथासंख्यं णयतौ स्तः । अर्थाभ्यां तु यथासंख्यं नेष्यते ॥ यथाकथाच दीयते कार्यं वा
याथाकथाचम् । अनादरेण देयं कार्यं वेत्यर्थः । हस्तेन दीयते कार्यं वा हस्त्यम् ॥
1763: संपादिनि (5-1-99) ठञ् । तेनेत्येव । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकं
मुखम् । कर्णालंकाराभ्यामवश्यं शोभत इत्यर्थः ॥
1764: कर्मवेषाद्यत् (5-1-100) कर्मणा संपादि कर्मण्यं शौर्यम् । वेषेण संपादी वेष्यो नटः
। वेषः कृत्रिम आकारः ॥
1765: तस्मै प्रभवति संतापादिभ्यः (5-1-101)
संतापाय प्रभवति सांतापिकः
। सांग्रामिकः ॥
1766: योगाद्यच्च (5-1-102) चाट्ठञ् । योगाय प्रभवति योग्यः यौगिकः ॥
1767: कर्मण उकञ् (5-1-103) कर्मणे प्रभवति कार्मुकम् ॥
1768: समयस्तदस्य प्राप्तम् (5-1-104)
समयः प्राप्तोऽस्य
सामयिकम् ॥
1769: ऋतोरण् (5-1-105) ऋतुः प्राप्तोऽस्य आर्तवम् ॥ उपवस्त्रादिभ्य उपसंख्यानम्
(वा) ॥ उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् ॥
1770: कालाद्यत् (5-1-107) कालः प्राप्तोऽस्य काल्यं शीतम् ॥
1771: प्रकृष्टे ठञ् (5-1-108) कालादित्येव । तदस्येति च । प्रकृष्टो दीर्घः कालोऽस्येति
कालिकं वैरम् ॥
1772: प्रयोजनम् (5-1-109) तदस्येत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् ।
प्रयोजनं फलं कारणं च ॥
1773: विशाखाषाढादण्मन्थदण्डयोः (5-1-110)
आभ्यामण्स्यात्प्रयोजनमित्यर्थे
क्रमान्मन्थदण्डयोर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्डः ॥
चूडादिभ्य उपसंख्यानम् (वा) ॥ चूडी, चौडम् । श्रद्धा, श्राद्धम् ॥
1774: अनुप्रवचनादिभ्यश्छः (5-1-111)
अनुप्रवचनं प्रयोजनमस्य
अनुप्रवचनीयम् ॥
1775: समापनात्सपूर्वपदात् (5-1-112)
व्याकरणसमापनं प्रयोजनमस्य
व्याकरणसमापनीयम् ॥
1776: ऐकागारिकट् चौरे (5-1-113) एकमसहायमगारं प्रयोजनमस्य मुमुषिषोः स ऐकागारिकश्चारैः ॥
1777: आकालिकडाद्यन्तवचने (5-1-114) समानकालावाद्यन्तौ यस्येत्याकालिकः । समानकालस्याऽऽकाल
आदेशः । आशुविनाशीत्यर्थः । पूर्वदिने मध्याह्नादावुत्पद्य दिनान्तरे तत्रैव नश्वर
इति वा ॥ आकालाट्ठंश्च (वा 3078) ॥ आकालिका विद्युत् ॥ ठञः पूर्णोऽवधिः ॥
॥ इति तद्धिताधिकारे ठञ्विधिप्रकरणम् ॥
॥ अथ तद्धितेषु
भावकर्मार्थाः ॥
1778: तेन तुल्यं क्रिया चेद्वतिः (5-1-115)
ब्राह्मणेन तुल्यं
ब्राह्मणवदधीते । क्रिया चेदिति किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः
॥
1779: तत्र तस्येव (5-1-116) मथुरायामिव मथुरावत् स्रुघ्ने प्रकारः । चैत्रस्येव
चैत्रवन्मैत्रस्य गावः ॥
1780: तदर्हम् (5-1-117) विधिमर्हति विधिवत्पूज्यते । क्रियाग्रहणं
मण्डूकप्लुत्यानुर्तते । तनेह न । राजानमर्हति छत्रम् ॥
1781: तस्य भावस्त्वतलौ (5-1-119) प्रकृतिजन्यबोधे प्रकारो भावः । गोर्भावो गोत्वम् । गोता ।
त्वान्तं क्लीबं (लि 120) तलन्तं स्त्रियाम्(लि17) ॥
1782: आ च त्वात् (5-1-120) ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह
समावेशार्थं गुणवचनादिभ्यः कर्मणि विधानार्थं चेदम् । चकारो नञ्स्नञ्भ्यामपि
समावेशार्थः । स्त्रियो भावः स्त्रैणम् । स्त्रीत्वम्। स्त्रीता । पौंस्नम् ।
पुंस्त्वम् । पुंस्ता ॥
1783: न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः (5-1-121)
इतः परं ये
भावप्रत्ययास्ते नञ्तत्पुरुषान्न स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् ।
अपटुत्वम् । नञ्पूर्वात्किम् । बार्हस्पत्यम् । तत्पुरुषात्किम् । नास्य पटवः
सन्तीत्यपटुस्तस्य भाव आपटवम् । अचतुरेति किम् । आचतुर्यम् । आसङ्गत्यम् ।
आलवण्यम् । आवट्यम् । आयुध्यम् । आकत्यम् । आरस्यम् । आलस्यम् ॥
1784: पृथ्वादिभ्य इमनिज्वा (5-1-122)
वावचनमणादिसमावेशार्थम् ॥
1785: र ऋतो हलादेर्लघोः (6-4-161) हलादेर्लघोर्ऋकारस्य रः स्यात् इष्ठेमेयस्सु ॥
1786: टेः (6-4-155) भस्य टेर्लोपः स्यादिष्ठेमेयस्सु । पृथोर्भावः प्रथिमा ।
पार्थवम् । म्रदिमा । मार्दवम् ॥
1787: वर्णदृढादिभ्यः ष्यञ्च (5-1-123)
चादिमनिच् । शौक्ल्यम् ।
शुक्लिमा । दार्ढ्यम् ॥ पृथुमृदुभृशदृढपरिढानामेव रत्वम् (वा 4211) ॥ द्रढिमा । षो
ङीषर्थः । औचिती । याथाकामी ॥
1788: गुणवचनब्राह्मणादिभ्यः कर्मणि च (5-1-124)
चाद्भावे । जडस्य कर्म
भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् ॥ अर्हतो नुम्च (वा
3092) ॥ अर्हतो भावः कर्म वा आर्हन्त्यम् । आर्हन्ती । ब्राह्मणादिराकृतिगणः ॥
1789: यथातथायथापुरयोः पर्यायेण (7-3-31)
नञः परयोरेतयोः
पूर्वेत्तरपदयोः पर्यायेणादेरचो वृद्धिर्ञिदादौ । अयथातथाभाव आयथातथ्यम् ।
अयाथातथ्यम् । आयथापुर्यम् । अयाथापुर्यम् । आ पादसमाप्तेर्भावकर्माधिकारः ॥
चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् (वा 3091) ॥ चत्वारो वर्णाश्चातुर्वर्ण्यम् ।
चातुराश्रम्यम् । त्रैस्वर्यम् । षाङ्गुण्यम् । सैन्यम् । सांनिध्यम् । सामीप्यम्
। औपम्यम् । त्रैलोक्यमित्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः ॥
सर्वादेः– (वा 2748 इति लुक् । स एव सार्ववैद्यः ॥ चतुर्वेदस्योभयपदवृद्धिश्च (ग
सू 93) ॥ चतुरो वेदानधीते चतुर्वेदः । स एव चातुर्वैद्यः । चतुर्विद्यस्येति
पाठान्तरम् । चतुर्विद्य एव चातुर्वैद्यः ॥
1790: स्तेनाद्यन्नलोपश्च (5-1-125) नेति संघातग्रहणम् । स्तेन चौर्ये पचाद्यच् । स्तेनस्य भावः
कर्म वा स्तेयम्। स्तेनादिति योगं विभज्य स्तैन्यमिति ष्यञन्तमप केचिदिच्छन्ति ॥
1791: सख्युर्यः (5-1-126) सख्युर्भावः क्रम वा सख्यम् ॥ । दूतवणिग्भ्यां च ॥ दूतस्य
भावः कर्म वा दूत्यम् । वणिज्यमिति काशिका । माधवस्तु वणिज्याशब्दः
स्वभावातस्त्रीलिङ्गः । भाव एव चायं प्रत्ययो न तु कर्मणीत्याह । भाष्ये तु
दूतवणिग्भ्यां चेति नास्त्येव । ब्राह्मणादित्वाद्वाणिज्यमपि ॥
1792: कपिज्ञात्योर्ढक् (5-1-127) कापेयम् । ज्ञातेयम् ॥
1793: पत्यन्तपुरोहितादिभ्यो यक् (5-1-128)
सैनापत्यम् । पौरोहित्यम्
॥ राजाऽसे (ग सू 106) ॥ राजशब्दोऽसमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम्
। समासे तु ब्राह्मणादित्यवात्ष्यञ् । आधिराज्यम् ॥
1794: प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् (5-1-129)
प्राणभृज्जाति,
आश्वम् । औष्ट्रम् । वयोवचने, कौमारम् । कैशोरम् । औद्गात्रम् । औन्नेत्रम् । सौष्ठवम् ।
दौष्ठवम् ॥
1795: हायनान्तयुवादिभ्योऽण् (5-1-130)
द्वैहायनम् । त्रैहायनम् ।
यौवनम् । स्थाविरम् ॥ श्रोत्रियस्य यलोपश्च (वा 3093) ॥ श्रौत्रम् ।
कुशलचपलनिपुणपिशुनकुतूहलक्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम्
। कौशलमित्यादि ॥
1796: इगन्ताच्च लघुपूर्वात् (5-1-131)
शुचेर्भावः कर्म वा शौचम्
। मौनम् । कथं काव्यम् । कविशब्दस्य ब्राह्मणादित्वात्ष्यञ् ॥
1797: योपधाद्गुरूपोत्तमाद्वुञ् (5-1-132)
रामणीयकम् । आभिधानीयकम् ॥
सहायाद्वा (वा 3094) ॥ साहाय्यम् । साहायकम् ॥
1798: द्वन्द्वमनोज्ञादिभ्यश्च (5-1-133)
शैष्योपाध्यायिका ।
मानोज्ञकम् ॥
1799: गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु (5-1-134)
अत्याकारोऽधिक्षेपः
तदवेतस्ते गोत्रचरणयोर्भावकर्मणी प्राप्तः । अवगतवान्वा । गार्गिकया श्लाघते ।
गार्ग्यत्वेन विकत्थत इत्यर्थः । गार्गिकयाऽत्याकुरुते । गार्गिकामवेतः ॥
1800: होत्राभ्यश्छः (5-1-135) होत्राशब्द ऋत्विग्वाची स्त्रीलिङ्गः ।
वहुवचनाद्विशेषग्रहणम् । अच्छावाकस्य भावः कर्म वा आच्छावाकीयम् । मैत्रावरुणीयम्
॥
1801: ब्रह्मणस्त्वः (5-1-136) होत्रावाचिनो ब्रह्मशब्दस्य स्यात् । छस्यापवादः ।
ब्रह्मत्वम् । नेतिवाच्ये त्ववचनं तलो बाधनार्थम् । ब्राह्मणपर्यायाद्ब्रह्मन्शब्दात्तु
त्वतलौ । ब्रह्मत्वम् । ब्रह्मता ॥
॥ इति तद्धिताधिकारे भावकर्माधिकारप्रकरणम् ॥
॥ अथ तद्धिताधिकारे
पाञ्चमिकप्रकरणम् ॥
1802: धान्यानां भवने क्षेत्रे खञ् (5-2-1)
भवन्त्यस्मिन्निति भवनम् ।
मुद्गानां भवनं क्षेत्रं मौद्गीनम् ॥
1803: व्रीहिशाल्योर्ढक् (5-2-2) व्रैहेयम् । शालेयम् ॥
1804: यवयवकषष्टिकाद्यत् (5-2-3) यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् ॥
1805: विभाषा तिलमाषोमाभङ्गाणुभ्यः (5-2-4)
यत् वा स्यात् पक्षे खञ् ।
तिल्यम् । तैलीनम् । माष्यम् । माषीणम् । उम्यम् । औमीनम् । भङ्ग्यम् । भाङ्गीनम्
। अणव्यम् । आणवीनम् ॥
1806: सर्वचर्मणः कृतः खखञौ (5-2-5)
असमार्थ्येऽपि
निपातनात्समासः । सर्वश्चर्मणा कृतः सर्वचर्मीणः । सार्वचर्मीणः ॥
1807: यथामुखसंमुखस्य दर्शनः खः (5-2-6)
मुखस्य सदृशं यथामुखं
प्रतिबिम्बम् । निपातनात्सादृश्येऽव्ययीभावः । समं सर्वं मुखं संमुखम् ।
समशब्दस्यान्तलोपो निपात्यते । यथामुखं दर्शनः यथामुखीनः । सर्वस्य मुखस्य दर्शनः
संमुखीनः ॥
1808: तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति (5-2-7)
सर्वादेः पथ्याद्यन्ताद्
द्वितीयान्तात्खः स्यात् । सर्वपथान्व्याप्नोति सर्वपथीनः । सर्वाङ्गीणः ।
सर्वकर्मीणः । सर्वपत्रीणः । सर्वपात्रीणः ॥
1809: आप्रपदं प्राप्नोति (5-2-8) पादस्याग्रं प्रपदं तन्मर्यादीकृत्य आप्रपदम् । आप्रपदीनः
पटः ॥
1810: अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु (5-2-9)
अनुरायामे सादृश्ये च ।
अनुपदं बद्धा अनुपदीना उपानत् । सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः । अयानयः
स्थलविशेषः तं नेय आयानयीनः शारः ॥
1811: परोवरपरम्परपुत्रपौत्रमनुभवति (5-2-10)
परांश्चावरांश्चानुभवतीति
परोवरीणः । अवरस्योत्वं निपात्यते । परांश्च परतरांश्चानुभवति परम्परीणः ।
प्रकृतेः परम्परभावो निपात्यते । पुत्रपौत्राननुभवति पुत्रपौत्रीणः ।
परम्पराशब्दस्तु अव्युत्पन्नं शब्दान्तरं स्त्रीलिङ्गं तस्मादेव स्वार्थे ष्यञि
पारम्पर्यम् । कथं पारोवर्यवदिति । असाधुरेवायम् । खप्रत्ययसन्नियोगेनैव परोवरेति
निपातनात् ॥
1812: अवारपारात्यन्तानुकामं गामी (5-2-11)
अवारपारं गामी अवारपरीणः ।
अवारीणः । पारीणः । पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । भृसं गन्तेत्यर्थः ।
अनुकामं गामी अनुकामीनः । यथेष्टं गन्तेत्यर्थः ॥
1813: समांसमां विजायते (5-2-12) यलोपोऽवशिष्टविभक्तेरलुक् च पूर्वपदे निपात्यते । समांसमीना
गौः । समांसमीना ना यैव प्रतिवर्षं प्रनूयते ॥ खप्रत्ययानुत्पत्तौ यलोपो वा
वक्तव्यः (वा 3100) ॥ समांसमां विजायते । समायां समायां वा ॥
1814: अद्यश्वीनावष्टब्धे (5-2-13) अद्य श्वो वा विजायते अद्यश्वीना वडवा । आसन्नप्रसवेत्यर्थः
। केचित्तु विजायत इति नानुवर्तयन्ति । अद्यश्वीनं मरणम् । आसन्नमित्यर्थः ॥
1815: आगवीनः (5-2-14) आङ् पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते । गोः
प्रत्यर्पणपर्यन्तं यः कर्म करोति स आगवीनः ॥
1816: अनुग्वलंगामी (5-2-15) अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः ॥
1817: अध्वनो यत्खौ (5-2-16) अध्वानमलं गच्छति अध्वन्यः । अध्वनीनः । ‘ये चाभावकर्मणोः’(सू.
1154) । ‘आत्माध्वानौ खे’(सू. 1671) इति सूत्राभ्यां प्रकृतिभावः ॥
1818: अभ्यमित्राच्छ च (5-2-17) चाद्यत्खौ । अभ्यमित्रीयः । अभ्यमित्र्यः । अभ्यमित्रीणः ।
अमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः ॥
1819: गोष्ठात्खञ् भूतपूर्वे (5-2-18)
गोष्ठो भूतपूर्वः गौष्ठीनो
देशः ॥
1820: अश्वस्यैकाहगमः (5-2-19) एकाहेन गम्यते इत्येकाहगमः । आश्वीनोऽध्वा ॥
1821: शालीनकौपीने अधृष्टाकार्ययोः (5-2-20)
शालाप्रवेशमर्हति शालीनः
अधृष्टः । कूपपतनमर्हति कौपीनं पापम् । तत्साधनत्वात्तद्वद्गोप्यत्वाद्वा
पुरुषलिङ्गमपि । तत्संबन्धात्तदाच्छादनमपि ॥
1822: व्रातेन जीवति (5-2-21) व्रातेन शरीरायासेन जीवति नतु बुद्धिवैभवेन न व्रातीनः ॥
1823: साप्तपदीनं सख्यम् (5-2-22) सप्तभिः पदैरवाप्यते साप्तपदीनम् ॥
1824: हैयङ्गवीनं संज्ञायाम् (5-2-23)
ह्योगोदोहस्य हियङ्गुरादेशः
विकारार्थे खञ् च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारो
हैयङ्गवीनं नवनीतम् ॥
1825: तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ (5-2-24)
पीलूनां पाकः पालुकुणः ।
कर्णस्य मूलं कर्णजाहम् ॥
1826: पक्षात्तिः (5-2-25) मूलग्रहणमात्रमनुवर्तते । पक्षस्य मूलं पक्षतिः ॥
1827: तेन वित्तश्चुञ्चुप्चणपौ (5-2-26)
यकारः प्रत्यययोरादौ
लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञा । विद्यया वित्तो विद्याचुञ्चुः । विद्याचणः
॥
1828: विनञ्भ्यां नानाञौ न सह (5-2-27)
असहार्थे पृथग्भावे
वर्तमानाभ्यां स्वार्थे प्रत्ययौ । विना । नाना ॥
1829: वेः शालच्छङ्कटचौ (5-2-28) कियाविशिष्टसाधनवाचकात्स्वार्थे । विस्तृतम् । विशालम् ।
विशङ्कटम्॥
1830: संप्रोदश्च कटच् (5-2-29) सङ्कटम् । प्रकटम् । उत्कटम् । चाद्विकटम् ॥
अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम् (वा 3107) ॥ अलाबूनां रजः अलाबूकटम् ।
तिलकटम् ॥ गोष्ठजादयः स्थानादिषु पशुनामभ्यः (वा 3109) ॥ गवां गोगोष्ठम् ॥ संघाते
कटच् (वा 3110) ॥ अवीनां सङ्घातोऽविकटः ॥ विस्तारे पटच् (वा 3115) ॥ अविपटः ॥
द्वित्वे गोयुगच् (वा 3116) ॥ द्वावुष्ट्रौ उष्ट्रगोयुगम् ॥ षट्त्वे षङ्गवच् (वा
3117) ॥ अश्वषङ्गवम् ॥ स्नेहे तैलच् (वा 3118) ॥ तिलतैलम् । सर्षपतैलम् ॥ भवने
क्षेत्रे शाकटाशाकिनौ (वा 3119) ॥ इक्षुशाकटम् । इक्षुशाकिनम् ॥
1831: अवात्कुटारच्च (5-2-30) चात्कटच् । अवाचीनोऽवकुटारः । अवकटः ॥
1832: नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः (5-2-31)
अवादित्येव । नतं नमनम् ।
नासिकाया नतं अवटीटम् । अवनीटम् । अवभ्रटम् । तद्योगान्नसिका अवटीटा ।
पुरुषोऽप्यवटीटः ॥
1833: नेर्बिडज्बिरीसचौ (5-2-32) निबिडम् । निबिरीसम् ॥
1834: इनच् पिटच्चिकचि च (5-2-33) नेरित्येव । नासिकाया नतेऽभिधेये इनच् पिटचौ प्रत्ययौ
प्रकृतेश्चिकचि इत्यादेशौ च ॥ कप्रत्ययचिकादेशौ च वक्तव्यौ (वा 3121) ॥ चिकिनम् ॥
चिपिटम् । चिक्कम् ॥ क्लिन्नस्य चिल्-पिल्-लश्चास्य चक्षुषी (वा 3122) ॥ क्लिन्ने
चक्षुषी अस्य चिल्लः । पिल्लः ॥ चुल् च (वा 3123) ॥ चुल्लः ॥
1835: उपाधिभ्यां त्यकन्नासन्नारूढयोः (5-2-34)
संज्ञायामित्यनुवर्तते ।
पर्वतस्यासन्नं स्थलमुपत्यका । आरूढं स्थलमधित्यका ॥
1836: कर्मणि घटोऽठच् (5-2-35) घटत इति घटः । पचाद्यच् । कर्मणि घटते कर्मठः पुरुषः ॥
1837: तदस्य संजातं तारकादिभ्य इतच् (5-2-36)
तारकाः संजाता अस्य
तारकितं नभः । आकृतिगणोऽयम् ॥
1838: प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5-2-37)
तदस्येत्यनुवर्तते । उरू
प्रमाणमस्य ऊरूद्वयसम् । ऊरूदघ्नम् । ऊरुमात्रम् ॥ । प्रामाणे लः (वा 3128) ॥ शमः
। दिष्टिः । वितस्तिः ॥ द्विगोर्नित्यम् (वा 3129) ॥ द्वौ शमौ प्रमाणमस्य द्विशमम्
॥ प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः (वा 3133) ॥ शममात्रम्
। प्रस्थमात्रम् । पञ्चमात्रम् ॥ वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम् (वा
3134) ॥ तावदेव तावद्द्वयसम् ॥ तावन्मात्रम् ॥
1839: पुरुषहस्तिभ्यामण् च (5-2-38)
पुरूषः प्रमाणमस्य पौरुषम्
। पुरुषद्वयसम् । हास्तिनम् । हस्तिद्वयसम्॥
1840: यत्तदेतेभ्यः परिमाणे वतुप् (5-2-39)
यत्परिमाणमस्य यावान् ।
तावान् । एतावान् ॥
1841: किमिदंभ्यां वो घः (5-2-40) आभ्यां वतुप्स्याद्वस्य च घः । कियान् । ईयान् ॥
1842: किमः संख्यापरिमाणे डति च (5-2-41)
चाद्वतुप् । तस्य च वस्य
घः स्यात् । का संख्या येषां ते कति । कियन्तः ॥
1843: संख्याया अवयवे तयप् (5-2-42)
पञ्चावयवा अस्य पञ्चतयं
दारु ॥
1844: द्वित्रिभ्यां तयस्यायज्वा (5-2-43)
द्वयम् । द्वितयम् ।
त्रयम् । त्रितयम् ॥
1845: उभादुदात्तो नित्यम् (5-2-44)
उभशब्दात्तयपोऽयच् स्यात्
स चाद्युदात्तः । उभयम् ॥
॥ इति तद्धिताधिकारे पाञ्चमिकप्रकरणम् ॥
॥ अथ तद्धिताधिकारे
मत्वर्थीयप्रकरणम् ॥
1846: तदस्मिन्नधिकमिति दशान्ताड्डः (5-2-45)
एकादश अधिका
अस्मिन्नेकादशम् ॥ शतसहस्त्रयोरेवेष्यते (वा 3141) ॥ नेह । एकादश अधिका अस्यां
विंशतौ ॥ प्रकृतिप्रत्ययार्थयोः समानजातीयत्व एवेष्यते (वा 3140) ॥ नेह । एकादश
माषा अधिका अस्मिन् सुवर्णशते ॥
1847: शदन्तविंशतेश्च (5-2-46) डः स्यादुक्तेऽर्थे । त्रिंशदधिका अस्मिन् त्रिंशं शतम् ।
विंशम् ॥
1848: संख्याया गुणस्य निमाने मयट् (5-2-47)
भागस्य मूल्ये वर्तमानात्प्रथमान्तात्संख्यावाचिनः
षष्ठ्यर्थे मयट् स्यात् । यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य
द्विमयमुदश्विद्यवानाम् । गुणस्येति किम् । द्वौ व्रीहियवौ निमानमस्योदश्वितः ।
निमाने किम् । द्वौ गुणौ क्षीरस्य एकस्तैलस्य द्विगुणं क्षीरं पच्यते तैलेन ॥
1849: तस्य पूरणे डट् (5-2-48) एकादशानां पूरण एकादशः ॥
1850: नान्तादसंख्यादेर्मट् (5-2-49)
डटो मडागमः स्यात् ।
पञ्चानां पूरणः पञ्चमः । नान्तात्किम् । विंशः । असंख्यादेः किम् । एकादशः ॥
1851: षट्कतिकतिपयचतुरां थुक् (5-2-51)
एषां थुगागमः स्याड्डटि ।
षण्णां पूरणः षष्ठः । कतिथः । कतिपयशब्दस्यासंख्यात्वेऽप्यतएव ज्ञापकाड्डट् ।
कतिपयथः । चतुर्थः ॥ चतुरश्छयतावाद्यक्षरलोपश्च (वा 3158) ॥ तुरीयः । तुर्यः ॥
1852: बहुपूगगणसंघस्य तिथुक् (5-2-52)
डटीत्येव ।
पूगसङ्घयोरसंख्यात्वेऽप्यतएव डट् । बहुतिथ इत्यादि ॥
1853: वतोरिथुक् (5-2-53) डटीत्येव । यावतिथः ॥
1854: द्वेस्तीयः (5-2-54) डटोऽपवादः । द्वयोः पूरणो द्वितीयः ॥
1855: त्रेः संप्रसारणं च (5-2-55) तृतीयः ॥
1856: विंशत्यादिभ्यस्तमडन्यतरस्याम् (5-2-56)
एभ्यो डटस्तमडागमो वा
स्यात् । विंशतितमः । विंशः । एकविशतितमः । एकविशः ॥
1857: नित्यं शतादिमासार्धमाससंवत्सराच्च (5-2-57)
शतस्य पूरणः शततमः ।
एकशततमः । मासादेरतएव डट् । मासतमः ॥
1858: षष्ट्यादेश्चाऽसंख्यादेः (5-2-58)
षष्टितमः । संख्यादेस्तु ‘विंशत्यादिभ्य’-(सू.
1856) इति विकल्प एव । एकषष्टः । एकषष्टितमः ॥
1859: मतौ छः सूक्तसाम्नोः (5-2-59)
मत्वर्थे छः स्यात् ।
अच्छावाकशब्दोऽस्मिन्नस्ति अच्छावाकीयं सुक्तम् । वारवन्तीयं साम ॥
1860: अध्यायानुवाकयोर्लुक् (5-2-60)
मत्वर्थस्य छस्य । अतएव
ज्ञापकात्तत्र छः । विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्डः । गर्दभाण्डीयः
॥
1861: विमुक्तादिभ्योऽण् (5-2-61) मत्वर्थेऽण् स्यादध्यायानुवाकयोः । विमुक्तः
शब्दोऽस्मिन्नस्ति वैमुक्तः । दैवासुरः ॥
1862: गोषदादिभ्यो वुन् (5-2-62) मत्वर्थेऽध्यायानुवाकयोः । गोषदकः । इषेत्वकः ॥
1863: तत्र कुशलः पथः (5-2-63) वुन् स्यात् । पथि कुशलः पथिकः ॥
1864: आकर्षादिभ्यः कन् (5-2-64) आकर्षे कुशल आकर्षकः । आकषादिभ्य इति रेफरहितो मुख्यः पाठः
। आकषो निकषोपलः ॥
1865: धनहिरण्यात्कामे (5-2-65) काम इच्छा । धने कामो धनको देवदत्तस्य । हिरण्यकः ॥
1866: स्वाङ्गेभ्यः प्रसिते (5-2-66)
केशेषु प्रसितः केशकः ।
तद्रचनायां तत्पर इत्यर्थः ॥
1867: उदराट्ठगाद्यूने (5-2-67) अविजिकीषौ ठक् स्यात् । कनोऽपवादः । बुभुक्षयात्यन्तपीडित
उदरे प्रसित औदरिकः । आद्यूने किम् । उदरकः । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः ॥
1868: सस्येन परिजातः (5-2-68) कन् स्वर्यते नतु ठक् । सस्यशब्दो गुणवाची नतु धान्यवाची ।
शस्येनेति पाठान्तरम् । सस्येन गुणेन परिजातः संबद्धः सस्यकः साधुः ॥
1869: अंशं हारी (5-2-69) हारीत्यावश्यके णिनिः । अत एव तद्योगे षष्ठी न । अंशको
दायादः ॥
1870: तन्त्रादचिरापहृते (5-2-70) तन्त्रकः । पटः । प्रत्यग्र इत्यर्थः ॥
1871: ब्राह्मणकोष्णिके संज्ञायाम् (5-2-71)
आयुधजीविनो ब्राह्मणा
यस्मिन्देशे स ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अन्नशब्दस्य
उष्णादेशो निपात्यते ॥
1872: शीतोष्णाभ्यां कारिणि (5-2-72)
करोतीति शीतकोऽलसः । उष्णं
करोतीति उष्णकः शीघ्रकारी ॥
1873: अधिकम् (5-2-73) अध्यारूढशब्दात्कन् उत्तरपदलोपश्च ॥
1874: अनुकाभिकाभीकः कमिता (5-2-74)
अन्वभिभ्यां कन् । अभेः
पाक्षिको दीर्घश्च । अनुकामयते अनुकः । आभिकामयते अभिकः । आभीकः ॥
1875: पार्श्वेनान्विच्छति (5-2-75)
अनृजुरुपायः पार्श्वं
तेनान्विच्छति पार्श्वकः ॥
1876: अयः शूलदण्डाजिनाभ्यां ठक्ठञौ (5-2-76)
तीक्ष्ण उपायोऽयः शूलं
तेनान्विच्छति आयःशूलिकः - साहसिकः । दण्डाजिनं दम्भः,
तेनान्विच्छति दाण्डाजिनिकः ॥
1877: तावतिथं ग्रहणमिति लुग्वा (5-2-77)
कन् स्यात्पूरणप्रत्ययस्य
च लुग्वा । द्वितीयकं द्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः
॥ तावतिथेन गृह्णातीति कन्वक्तव्यो नित्यं च लुक् (वा 3172) ॥ षष्ठेन रूपेण
गृह्णाति षट्को देवदत्तः । पञ्चकः ॥
1878: स एषां ग्रामणीः (5-2-78) देवदत्तोमुख्यो येषां ते देवदत्तकाः । त्वत्काः । मत्काः ॥
1879: शृङ्खलमस्य बन्धनं करभे (5-2-79)
शृङ्खलकः करभः ॥
1880: उत्क उन्मनाः (5-2-80) उद्गतमनस्कवृत्तेरुच्छब्दात्स्वर्थे कन् । उत्कः उत्कण्ठितः
॥
1881: कालप्रयोजनाद्रोगे (5-2-81) कालवचनात्प्रयोजनवचनाच्च कन् स्याद्रोगे । द्वितीयेऽहनि
भवोद्वितीयको ज्वरः । प्रयोजनं कारणं रोगस्य फलं वा । विषपुष्पैर्जनितो विषपुष्पकः
। उष्णं कार्यमस्य उष्णकः । रोगे किम् । द्वितीयो दिवसोऽस्य ॥
1882: तदस्मिन्नन्नं प्रायेण संज्ञायाम् (5-2-82)
प्रथमान्तात्सप्तम्यर्थे
कन् स्यात् यत्प्रथमान्तमन्नं चेत्प्रायविषयं तत् । गुडापूपाः प्रायेणान्नमस्यां
गुडापूपिका पौर्णमासी ॥ वटकेभ्य इनिर्वाच्यः (वा 3185) ॥ वटकिनी ॥
1883: कुल्माषादञ् (5-2-83) कुल्माषाः प्रायेणान्नमस्यां कौल्माषी ॥
1884: श्रोत्रियंश्छन्दोऽधीते (5-2-84)
श्रोत्रियः ।
वेत्यनुवृत्तेश्छान्दसः ॥
1885: श्राद्धमनेन भुक्तमिनिठनौ (5-2-85)
श्राद्धी । श्राद्धिकः ॥
1886: पूर्वादिनिः (5-2-86) पूर्वं कृतमनेन पूर्वी ॥
1887: सपूर्वाच्च (5-2-87) कृतपूर्वी ॥
1888: इष्टादिभ्यश्च (5-2-88) इष्टमनेन इष्टी । अधीती ॥
1889: छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि (5-2-89)
लोके तु परिपन्थिशब्दो न
न्याय्यः ॥
1890: अनुपद्यन्वेष्टा (5-2-90) अनुपदमन्वेष्टा अनुपदी गवाम् ॥
1891: साक्षाद्द्रष्टरि संज्ञायाम् (5-2-91)
साक्षाद्रष्टा साक्षी ॥
1892: क्षेत्रियच् परक्षेत्रे चिकित्स्यः (5-2-92)
क्षेत्रियो व्याधिः
शरीरान्तरे चिकित्स्यः । अप्रतीकार्यं इत्यर्थः ॥
1893: इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति
वा (5-2-93) इन्द्र आत्मा तस्य लिङ्गं करणेन कर्तुरनुमानात् । इतिशब्दः
प्रकारार्थः । इन्द्रेण दुर्जमिन्द्रियम् ॥
1894: तदस्यास्त्यस्मिन्निति मतुप् (5-2-94)
गावोऽस्यास्मिन्वा सन्ति
गोमान् ।
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ॥
संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥ (वा 3183)
1895: रसादिभ्यश्च (5-2-95) मतुप् । रूपवान् । अन्यमत्वर्थीयनिवृत्त्यर्थं वचनम् । रस,
रुप, वर्ण, गन्ध, स्पर्श, शब्द, स्नेह । गुणात् (ग सू 112 ॥ एकाचः (ग सू 113) ॥ स्ववान् ।
गुणग्रहणं रसादीनां विशेषणम् ॥
1896: तसौ मत्वर्थे (1-4-19) तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । ‘वसोः
संप्रसारणम्’(सू. 435) । विदुष्मान् ॥ गुणवचनेभ्यो मतुपो लुगिष्टः (वा 3185) ॥
शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः ॥
1897: मादुपधायाश्च मतोर्वोऽयवादिभ्यः (8-2-9)
मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च
यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् । विद्यावान् ।
लक्ष्मीवान् । यशस्वान् । भास्वान् । यवादेस्तु यवमान् । भूमिमान् ॥
1898: झयः (8-2-10) झयन्तान्मतोर्मस्य वः स्यात् । अपदान्तत्वान्न जश्त्वम् ।
विद्युत्वान् ॥
1899: संज्ञायाम् (8-2-11) मतोर्मस्य वः स्यात् । अहीवती । मुनीवती ।‘शरादीनां च’(सू. 1042) इति दीर्घः॥
1900: आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्द्रुमण्वच्चर्मणवती (8-2-12)
एते षट् संज्ञायां
निपात्यन्ते । आसनशब्दस्यासन्दीभावः । आसन्दीवान् ग्रामः । अन्यत्रासनवान् ।
अस्थिशब्दस्याष्ठीभावः । अष्ठीवान् नाम ऋषिः । अस्थिमानन्यत्र । चक्रशब्दस्य
चक्रीभावः । चक्रीवान्नाम राजा । चक्रवानन्यत्र । कक्ष्यायाः संप्रसारणम् ।
कक्षीवान्नाम ऋषिः । कक्ष्यावानन्यत्र । लवणशब्दस्य रुमण्भावः । रुमण्वान्नाम
पर्वतः । लवणवानन्यत्र । चर्मणो नलोपाभावो णत्वं च । चर्मण्वती नाम नदी ।
चर्मवत्यन्यत्र ॥
1901: उदन्वानुदधौ च (8-2-13) उदकस्य उदन्भावो मतौ उदधौ संज्ञायं च । उदन्वान् समुद्रः
ऋषिश्च ॥
1902: राजन्वान् सौराज्ये (8-2-14) राजन्वती भूः । राजवानन्यत्र ॥
1903: प्राणिस्थादातो लजन्यतरस्याम् (5-2-96)
चूडालः । चूडवान् ।
प्राणिस्थात्किम् । शिखावान्दीपः । आतः किम् । हस्तवान् ॥प्राण्यङ्गादेव (वा 3189)
॥ नेह । मेधावान् । प्रत्ययस्वरेणैव सिद्धे अन्तोदात्तत्वे चूडालोऽसीत्यादौ ‘स्वरितो
वानुदात्ते पदादौ’(सू. 3659) इति स्वरितबाधनार्थश्चकारः ॥
1904: सिध्मादिभ्यश्च (5-2-97) लज्वा स्यात् । सिध्मलः । सिध्मवान् । अन्यतरस्यां ग्रहणं
मतुप्समुच्चयार्थं नतु प्रत्ययविकल्पार्थं । तेनाकारान्तेभ्य इनिठनौ न ॥
वातदन्तबलललाटानामूङ् च (ग सू 115) ॥ वातूलः ॥
1905: वत्सांसाभ्यां कामबले (5-2-98)
आभ्यां लज्वा स्याद्यथासंख्यं
कामवति बलवति चार्थे । वत्सलः । अंसलः ॥
1906: फेनादिलच्च (5-2-99) चाल्लच् । अन्यततरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते ।
फेनिलः । फेनलः । फेनवान् ॥
1907: लोमादिपामादिपिच्छादिभ्यः शनेलचः (5-2-100)
लोमादिभ्यः शः । लोमशः ।
लोमवान् । रोमशः । रोमवान् । पामादिभ्यो नः । पामनः ॥ अङ्गात्कल्याणे (ग सू 118) ।
अङ्गना ॥ लक्ष्म्या अच्च (ग सू 121) । लक्ष्मणः ॥
विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः (वा 3194) ॥ विषुणः । पिच्छादिभ्य इलच् ।
पिच्छिलः । पिच्छवान् । उरसिलः । उरस्वान् ॥
1908: प्रज्ञाश्रद्धार्चाभ्यो णः (5-2-101)
प्राज्ञो व्याकरणे ।
प्राज्ञा । श्राद्धः । आर्चः ॥ वृतेश्च (वा 3195) ॥ वार्तः॥
1909: तपःसहस्राभ्यां विनीनी (5-2-102)
विनीन्योरिकारो
नकारपरित्राणार्थः । तपस्वी । सहस्री । असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा
बाधा माभूदिति । सहस्रात्तु ठनोऽपि बाधनार्थम् ॥
1910: अण् च (5-2-103) योगविभाग उत्तरार्थः । तापसः । साहस्रः ॥ ज्योत्स्नादिभ्य
उपसंख्यानम् (वा 3197) ॥ ज्यौत्स्नः । तामिस्रः ॥
1911: सिकताशर्कराभ्यां च (5-2-104) सैकतो घटः ॥ शार्करः ॥
1912: देशे लुबिलचौ च (5-2-105) चादण् मतुप् च । सिकताः सन्त्यस्मिन्देशे सिकताः । सिकतिलः
। सैकतः । सिकतावान् । एवं शर्करा इत्यादि ॥
1913: दन्त उन्नत उरच् (5-2-106) उन्नता दन्ताः सन्त्यस्य दन्तुरः ॥
1914: ऊषसुषिमुष्कमधो रः (5-2-107) ऊषरः । सुषिरः । मुष्कोऽण्डः, मुष्करः । मधु माधुर्यम्, मधुरः ॥ रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् (वा 3198) ॥
खरः । मुखरः । कुञ्जो हस्तिहनुः, कुञ्जरः ॥ नगपांसुपाण्डुभ्यश्च (वा 3199) ॥ नगरम् । पांसुरः
। पाण्डुरः । पाण्डुरशब्दस्तु अव्युत्पन्न एव ॥ कच्छ्वा ह्रस्वत्वं च (वा 3200) ॥
कच्छुरः ॥
1915: द्युद्रुभ्यां मः (5-2-108) द्युमः । द्रुमः ॥
1916: केशाद्वोऽन्यतरस्याम् (5-2-109)
प्रकृतेनमान्यतरस्यां
ग्रहणेन मतुपि सिद्धे पुनर्ग्रहणमिनिठनोः समावेशार्थम् । केशवः । केशी । केशिकः ।
केशवान् ॥ अन्येभ्योऽपि दृश्यते (वा 3210) ॥ मणिवो नागविशेषः । हिरण्यवो निधिविशेषः
॥ अर्णसो लोपश्च (वा 5053) ॥ अर्णवः ॥
1917: गाण्ड्यजगात्संज्ञायाम् (5-2-110)
ह्रस्वदीर्घयोर्यणा
तन्त्रेण निर्देशः । गाण्डिवम् । गाण्डीवम् । अर्जुनस्य धनुः । अजगवं पिनाकः ॥
1918: काण्डाण्डादीरन्नीरचौ (5-2-111)
काण्डीरः । आण्डीरः ॥
1919: रजःकृष्यासुतिपरिषदो वलच् (5-2-112)
रजस्वला स्त्री । कृषीवलः
। ‘वले’(सू. 1040) इति दीर्घः । आसुतीवलः । शौण्डिकः । परिषद्वलः । पर्षदितिपाठान्तरम् ।
पर्षद्वलम् ॥ अन्येभ्योऽपि दृश्यते (वा 3210) ॥ भ्रातृवलः । पुत्रवलः । शत्रुवलः ।
‘वले’(सू 1040) इत्यत्र संज्ञायामित्यनुवृत्तेर्नेह दीर्घः ॥
1920: दन्तशिखात्संज्ञायाम् (5-2-113)
दन्तवलो हस्ती । शिखावलः
केकी ॥
1921: ज्योत्स्नातमिस्राश्रृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः
(5-2-114)
मत्वर्थे निपात्यन्ते ।
ज्योतिष उपधालोपो नश्च प्रत्ययः । ज्योत्स्ना । तमस उपधाया इत्वं रश्च । तमिस्रा ।
स्त्रीत्वमदन्त्रम् । तमिस्रम् । शृङ्गादिनच् । शृङ्गिणः । ऊर्जसो वलच् । तेन बाधा
माभूदिति विनिरपि । ऊर्जस्वी । उर्जस्वलः । ऊर्जोऽसुगागम इति वृत्तिस्तु चिन्त्या
। ऊर्जस्वतीतिवदसुन्नन्तेनैवोपपत्तेः । गोशब्दान्मिनिः । गोमी । मलशब्दादिनच् ।
मलिनः । ईमसश्च । मलीमसः ॥
1922: अत इनिठनौ (5-2-115) दण्डी । दण्डिकः ॥
1923: व्रीह्यादिभ्यश्च (5-2-116) व्रीही । व्रीहीकः । न च सर्वेभ्यो व्रीह्यादिभ्य
इनिठनाविष्येते । किं तर्हि ॥ शिखामालासंज्ञादिभ्य इनिः ॥ यवखदादिभ्य इकः (वा 3209)
॥ अन्येभ्य उभयम् ॥
1924: तुन्दादिभ्य इलच्च (5-2-117) चादिनि ठनौ मतुप् च । तुन्दिलः । तुन्दी । तुन्दिकः ।
तुन्दवान् । उदर, पिचण्ड, यव, व्रीहि ॥ स्वाङ्गाद्विवृद्धौ (ग सू 124) ।
विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णौ यस्य कर्णिलः ।
कर्णी । कर्णिकः । कर्णवान् ॥
1925: एकगोपूर्वाट्ठञ् नित्यम् (5-2-118)
एकशतमस्यास्तीति ऐकशतिकः ।
ऐकसहस्रिकः । गौशतिकः । गौसहस्रिकः ॥
1926: शतसहस्रान्ताच्च निष्कात् (5-2-119)
निष्कात्परौ यौ
शतसहस्रशब्दौ तदन्तात्प्रातिपदिकाट्ठञ् स्यान्मत्वर्थे । नैष्कशतिकः ।
नैष्कसहस्रिकः ॥
1927: रूपादाहतप्रशंसयोर्यप् (5-2-120)
आहतं रूपमस्यास्तीति
रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । आहतेति किम् । रूपवान् ॥
अन्येभ्योऽपि दृश्यते (वा 3210) ॥ हिम्याः पर्वताः । गुण्या ब्राह्मणाः ॥
1928: अस्मायामेधास्रजो विनिः (5-2-121)
यशस्वी । यशस्वान् ।
मायावी । मायावान् । व्रीह्यादिपाठादिनिठनौ । मायी । मायिकः । क्विन्नन्तत्वात्कुः
। स्रग्वी ॥ आमयस्योपसंख्यानं दीर्घश्च (वा 3213) ॥ आमयावी ॥
शृङ्गवृन्दाभ्यामारकन् (वा 3214) ॥ शृङ्गारकः । वृन्दारकः ॥ फलबर्हाभ्यामिनच् (वा
3215) ॥ फलिनः । बर्हिणः ॥ हृदयाच्चालुरन्यतरस्याम् (वा 3216) ॥ इनिठनौ मतुप् च ।
हृदयालुः । हृदयी । हृदयिकः । हृदयवान् ॥ शीतोष्णतृप्रेभ्यस्तदसहने (वा 3217) ॥
शीतं न सहते शीतालुः । उष्णालुः । स्फायितञ्चि (उ सू 170) इति रक् । तृप्रः
पुरोडाशः । तं न सहते तृप्रालुः । तृप्रं दुःखमिति माधवः ॥ हिमाच्चेलुः (वा 3218) ॥
हिमं न सहते हिमेलुः ॥ बलादूलः (वा 3219) ॥ वलं न सहते बलूलः ॥ वातात्समूहे च (वा
3220) ॥ वातं न सहते वातस्य समूहो वा वातूलः ॥ तप्पर्वमरुद्भ्याम् (वा 3221) ॥
पर्वतः । मरुत्तः ॥
1929: ऊर्णाया युस् (5-2-123) सित्वात्पदत्वम् । ऊर्णायुः । अत्र छन्दसीति
केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथाहि‘अहंशुभमोः’-(सू. 1946) इत्यत्रैवोर्णाग्रहणं कुर्यात् ॥
1930: वाचो ग्मिनिः (5-2-124) वाग्ग्मी ॥
1931: आलजाटचौ बहुभाषिणि (5-2-125) कुत्सित इति वक्तव्यम् (वा 3223) ॥ कुत्सितं बहु भाषते
वाचालः। वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्ग्मीत्येव ॥
1932: स्वामिन्नैश्वर्ये (5-2-126) ऐश्वर्यवाचकात्स्वशब्दान्मत्वर्थे आमिनच् । स्वामी ॥
1933: अर्शआदिभ्योऽच् (5-2-127) अर्शास्यस्य विद्यन्ते अर्शसः । आकृतिगणोऽयम् ॥
1934: द्वन्द्वोपतापगर्ह्यात्प्राणिस्थादिनिः (5-2-128)
द्वन्द्वः । कटकवलयिनी ।
शङ्खनूपुरिणी । उपतापोरोगः । कुष्ठी । किलासी । गर्ह्यं निन्द्यम् । ककुदावर्ती ।
काकतालुकी । प्राणिस्थात्किम् । पुष्पफलवान्घटः ॥ । प्राण्यङ्गान्न॥ पाणिपादवती ।
अत इत्येव । चित्रकललाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठनादिबधनार्थम् ॥
1935: वातातीसाराभ्यां कुक्च (5-2-129)
चादिनिः । वतकी । अतीसारकी
॥ । रोगे चायमिष्यते ॥ नेह, वातवती गुहा ॥ पिशाचाच्च (वा 3224) ॥ पिशाचकी ॥
1936: वयसि पूरणात् (5-2-130) पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्ये ।
मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चमी उष्ट्रः । ठन्बाधनार्थमिदम् । वयसि
किम् । पञ्चमवान्ग्रामः ॥
1937: सुखादिभ्यश्च (5-2-131) इनिर्मत्वर्थे । सुखी । दुःखी ॥ मालाक्षेपे (ग सू 116) ॥
माली ॥
1938: धर्मशीलवर्णान्ताच्च (5-2-132)
धर्माद्यन्तादिनिर्मत्वर्थे
। ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ॥
1939: हस्ताज्जातौ (5-2-133) हस्ती । जातौ किम् । हस्तवान्पुरुषः ॥
1940: वर्णाद्ब्रह्मचारिणि (5-2-134)
वर्णी ॥
1941: पुष्करादिभ्यो देशे (5-2-135) पूष्करिणी । पद्मिनी । देशे किम् । पुष्करवान्करी ॥
बाहूरुपूर्वपदाद्बलात् (वा 3225) ॥ बाहुबली । ऊरुबली ॥ सर्वादेश्च (वा 3226) ॥
सर्वधनी । सर्वबीजी ॥अर्थाच्चासंनिहिते (वा 3227) ॥ अर्थी । संनिहिते तु अर्थवान्
॥ तदन्ताच्च (वा 3228) ॥ धान्यार्थी ॥ हिरण्यार्थी ॥
1942: बलादिभ्यो मतुबन्यतरस्याम् (5-2-136)
बलवान् बली । उत्साहवान् ।
उत्साही ॥
1943: संज्ञायां मन्माभ्याम् (5-2-137)
मन्नन्तान्मान्ताच्चेनिर्मत्वर्थे
। प्रथिमिनी । दामिनी । होमिनी । सोमिनी। संज्ञायां किम् । सोमवान् ॥
1944: कंशंभ्यां बभयुस्तितुतयसः (5-2-138)
कंशमिति मान्तौ ।
कमित्युदकसुखयोः । शमिति सुखे । आभ्यां सप्त प्रत्ययाः स्युः । युस्थसोः सकारः पदत्वार्थः
। कंवः । कंभः । कंयुः । कंतिः । कंतुः । कंतः । कंयः । शंबः । शंभः । शंयुः ।
शंतिः । शंतुः । शंतः । शंयः । अनुस्वारस्य वैकल्पिकः परसवर्णः ।
वकारयकारपरस्यानुनीसिकौ वयौ ॥
1945: तुन्दिवलिवटेर्भः (5-2-139) वृद्धानाभिस्तुन्दिः । मूर्धन्योपधोऽयमिति माधवः । तुन्दिभः
। वलिभः । वटिभः । पामादित्वाद्वलिनोऽपि ॥
1946: अहंशुभमोर्युस् (5-2-140) अहमितिमान्तमव्ययमहङ्कारे । शुभमिति शुभे । अहंयुः
अहङ्कारवान् । शुभंयुः शुभान्वितः ॥
॥ इति तद्धिताधिकारे मत्वर्थीयप्रकरणम् ॥
॥ अथ तद्धिताधिकारे
प्राग्दिशीयप्रकरणम् ॥
1947: प्राग्दिशो विभक्तिः (5-3-1)
दिक्शब्देभ्य इत्यतः
प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः ॥ अथ स्वार्थिका प्रत्ययाः ।
समर्थानामिति प्रथमादिति च निवृत्तम् । वेति त्वनुवर्तत एव ॥
1948: किंसर्वनामबहुभ्योऽद्व्यादिभ्यः (5-3-2)
किमः सर्वनाम्नो बहुशब्दाच्चेति
प्राद्गिशोऽधिक्रियते ॥
1949: इदम इश् (5-3-3) प्राद्गिशीये परे ॥
1950: एतेतौ रथोः (5-3-4) इदं शब्दस्य एत इत इत्यादेशौ स्तो रेफादौ थकारादौ च
प्राद्गिशीये परे । इशोऽपवादः ॥
1951: एतदोऽन् (5-3-5) योगविभागः कर्तव्यः । एतदः एतेतौ स्तो रथोः । अन् एतद
इत्येव । अनेकाल्त्वात्सर्वादेशः । ‘नलोपः प्रातिपदिकान्तस्य’(सू. 236) ॥
1952: सर्वस्य सोऽन्यतरस्यां दि (5-3-6)
प्राद्गिशीये दकारादौ
प्रत्यये परे सर्वस्य सो वा स्यात् ॥
1953: पञ्चम्यास्तसिल् (5-3-7) पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् स्याद्वा ॥
1954: कु तिहोः (7-2-104) किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः । कुतः । कस्मात्
। यतः । ततः । अतः। इतः । अमुतः । बहुतः । द्व्यादेस्तु । द्वाभ्याम् ॥
1955: तसेश्च (5-3-8) किंसर्वनामबहुभ्यः परस्य तसेस्तसिलादेशः स्यात् । स्वरार्थं
विभक्त्यर्थं च वचनम् ॥
1956: पर्यभिभ्यां च (5-3-9) आभ्यां तसिल् स्यात् ॥ सर्वोभयार्थाभ्यामेव (वा 3240) ॥
परितः । सर्वत इत्यर्थः । अभतः । उभयत इत्यर्थः ॥
1957: सप्तम्यास्त्रल् (5-3-10) कुत्र । यत्र । तत्र । बहुत्र ॥
1958: इदमो हः (5-3-11) त्रलोऽपवादः इशादेशः । इह ॥
1959: किमोऽत् (5-3-12) वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमोऽद्वा स्यात्पक्षे
त्रल् ॥
1960: क्वाति (7-2-105) किमः क्वादेशः स्यादति । क्व । कुत्र ॥
1961: वा ह च च्छन्दसि (5-3-13) कुह स्थः कुह जग्मथुः ॥
1962: एतदस्त्रतसोस्त्रतसौ चानुदात्तौ (2-4-33)
अन्वादेशविषये एतदोऽश्
स्यात्स चानुदात्तस्त्रतसोः परतः तौ चानुदात्तौ स्तः । एतस्मिन् ग्रामे सुखं वसामः
। अथोऽत्राधीमहे । अतो न गन्तास्मः ॥
1963: इतराभ्योऽपि दृश्यन्ते (5-3-14)
पञ्चमीसप्तमीतरविभक्त्यन्तादपि
तसिलादयो दृश्यन्ते ॥ दृशिग्रहणाद्भवदादियोग एव (वा 3244) ॥ सभवान् । ततोभवान् । तत्रभवान्
। तंभवन्तम् । ततोभवन्तम् । तत्रभवन्तम् । एवं दीर्घायुः । देवानांप्रियः ।
आयुष्मान् ॥
1964: सर्वैकान्यकिंयत्तद काले दा (5-3-15)
सप्तम्यन्तेभ्य एभ्यः
कालार्थेभ्यः स्वार्थे दा स्यात् । सर्वस्मिन्काले सदा । सर्वदा । एकदा । अन्यदा ।
कदा । यदा । तदा काले किम् । सर्वत्र देशे ॥
1965: इदमोर्हिल् (5-3-16) सप्तम्यन्तात्काले इत्येव । हस्यापवादः । अस्मिन्काले
एतर्हि । काले किम् । इह देशे॥
1966: अधुना (5-3-17) इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थेऽधुनाप्रत्ययः स्यात्
। इश् । ‘यस्य-’(सू. 311) इति लोपः । अधुना ॥
1967: दानीं च (5-3-18) इदानीम् ॥
1968: तदो दा च (5-3-19) तदा । तदानीम् ॥तदो दावचनमनर्थकं विहितत्वात् (वा 3243) ॥
1969: अनद्यतनेर्हिलन्यतरस्याम् (5-3-21)
कर्हि । कदा । यर्हि । यदा
। तर्हि । तदा । एतस्मिन्काले एतर्हि ॥
1970: सद्यः परुत्परार्यैषमः परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः
(5-3-22)
एते निपात्यन्ते ॥ समानस्य
सभावो द्यस् चाहनि (वा 3245) ॥ समानेऽहनि सद्यः ॥ पूर्वपूर्वतरयोः परादेशः, उदारीच
प्रत्ययौ संवत्सरे (वा 3246) ॥ पूर्वस्मिन्वत्सरे परुत् । पूर्वतरे वत्सरे परारि ॥
इदमः(इश्) समसण् (वा 3247) । अस्मिन्संवत्सरे ऐषमः ॥ परस्मादेद्यव्यहनि (वा 3248) ॥
परस्मिन्नहनि परेद्यवि ॥ इदमोऽश्भावो द्यश्च (वा 3249) ॥ अस्निन्नहनि अद्य ॥
पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युस् च (वा 3250) ॥ पूर्वस्मिन्नहनि पूर्वेद्युः
। अन्यस्मिन्नहनि अन्येद्युः । उभयोरह्वोरुभयेद्युः ॥ द्युश्चोभयाद्वक्तव्यः (वा
3251) ॥ उभयद्युः ॥
1971: प्रकारवचने थाल् (5-3-23) प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात्स्वार्थे । तेन
प्रकारेण तथा । यथा ॥
1972: इदमस्थमुः (5-3-24) थालोऽपवादः ॥ एतदोऽपि वाच्यः (वा 3235) ॥ अनेन एतेन वा
प्रकरेण इत्थम् ॥
1973: किमश्च (5-3-25) केन प्रकारेण कथम् ॥
॥ इति तद्धिताधिकारे प्राग्दिशीयप्रकरणम् ॥
॥ अथ तद्धिताधिकारे
प्रागिवीयप्रकरणम् ॥
1974: दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो
दिग्देशकालेष्वस्तातिः (5-3-27) सप्तम्याद्यन्तेभ्यो दिशिरूढेभ्यो दिद्गेशकालवृत्तिभ्यः
स्वार्थेऽस्तीतिः प्रत्ययः स्यात् ॥
1975: पूर्वाधरावराणामसिपुरधवश्चैषाम् (5-3-39)
एभ्योऽस्तात्यर्थेऽसिप्रत्ययः
स्यात्तद्योगे चैषां क्रमात्पुर्, अध्, अव्, इत्यादेशाः स्युः ॥
1976: अस्ताति च (5-3-40) अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्यां
पूर्वस्याः पूर्वा वा दिक् पुरः । पुरस्तात् । अधः । अधस्तात् । अवः । अवस्तात् ॥
1977: विभाषावरस्य (5-3-41) अवरस्यास्तातौ परेव् स्याद्वा । अवस्तात् । अवरस्तात् । एवं
देशे काले च । दिशिरूढेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् ।
ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । पूर्वं ग्रामं गतः ।
दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति । ‘अस्ताति च’(सू. 1976) इति ज्ञापकादसिरस्तातिं न बाधते ॥
1978: दक्षिणोत्तराभ्यामतसुच् (5-3-28)
अस्तातेरपवादः । दक्षिणतः
। उत्तरतः ॥
1979: विभाषा परावराभ्याम् (5-3-29)
परतः । अवरतः । परस्तात् ।
अवरस्तात् ॥
1980: अञ्चेर्लुक् (5-3-30) अञ्चत्यन्ताद्दिक्शब्दादस्तातेर्लुक् स्यात् ॥‘लुक्तद्धितलुकि’(सू.
1408) ॥ प्राच्यां प्राच्याः प्राची वा दिक् प्राक् । उदक् ।
एवं देशे काले च ॥
1981: उपर्युपरिष्टात् (5-3-31) अस्तातेर्विषये ऊर्ध्वशब्दस्योपादेशः स्याद्रिल्रिष्टातिलौ
च प्रत्ययौ ॥ उपरि उपरिष्टाद्वा वसति आगतो रमणीयं वा ॥
1982: पश्चात् (5-3-32) अपरस्य पश्चभाव आतिश्च प्रत्ययोऽस्तातेर्विषये ॥
1983: उत्तराधरदक्षिणादातिः (5-3-34)
उत्तरात् । अधरात् ।
दक्षिणात् ॥
1984: एनबन्यतरस्यामदूरेऽपञ्चम्याः (5-3-35)
उत्तरादिभ्य एनब्वा
स्यादवध्यवधिमतोः सामीप्ये पञ्चम्यन्तं विना । उत्तरेण । अधरेण । दक्षिणेन । पक्षे
यथास्वं प्रत्ययाः । इह केचिदुत्तरादीनननुवर्त्य दिक्शब्दमात्रादेनपमाहुः। पूर्वेण
ग्रामम् ॥ अपरेण ग्रामम् ॥
1985: दक्षिणादाच् (5-3-36) अस्तातेर्विषये । दक्षिणा वसति । अपञ्चम्या इत्येव ।
दक्षिणादागतः ॥
1986: आहि च दूरे (5-3-37) दक्षिणाद् दूरे आहि स्यात् चादाच् । दक्षिणाहि । दक्षिणा ॥
1987: उत्तराच्च (5-3-38) उत्तराहि । उत्तरा ॥
1988: संख्याया विधार्थे धा (5-3-42)
क्रियाप्रकारार्थे
वर्तमानात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा । पञ्चधा॥
1989: अधिकरणविचाले च (5-3-43) द्रव्यस्य संख्यान्तरापादाने संख्याया धास्यात् । एकं राशिं
पञ्चधा कुरु ॥
1990: एकाद्धो ध्यमुञन्यतरस्याम् (5-3-44)
ऐकध्यम् । एकधा ॥
1991: द्वित्र्योश्च धमुञ् (5-3-45)
आभ्यां धा इत्यस्य धमुञ्
स्याद्वा । द्वैधम् । द्विधा । त्रैधम् । त्रिधा ॥ धमुञन्तात्स्वार्थे डदर्शनम्
(वा 3230) ॥ पथि द्वैधानि तृणानि ॥
1992: एधाच्च (5-3-46) द्वेधा । त्रेधा ॥
1993: याप्ये पाशप् (5-3-47) कुत्सितो भिषक् भिषक्पाशः ॥
1994: पूरणाद्भागे तीयादन् (5-3-48)
द्वितीयो भागो द्वितीयः ।
तृतीयः । स्वरे विशेषः ॥ तीयादीकक् स्वार्थे वाच्यः (वा 2691) ॥ द्वैतीयीकः ।
द्वितीयः । तार्तीयीकः । तृतीयः ॥ न विद्यायाः (वा 2692) ॥ द्वितीया । तृतीया ।
विद्येत्येव ॥
1995: प्रागेकादशभ्योऽच्छन्दसि (5-3-49)
पूरणप्रत्ययान्ताद्भागेऽन्
। चतुर्थः । अष्टमः ॥
1996: षष्ठाष्टमाभ्यां ञ च (5-3-50)
चादन् । षष्ठो भागः ।
षाष्ठः । षष्ठः । आष्टमः । अष्टमः ॥
1997: मानपश्वङ्गयोः कन्लुकौ च (5-3-51)
षष्ठाष्टमशब्दाभ्यां
क्रमेण कन्लुकौ स्तो माने पश्वङ्गे च वाच्ये । षष्ठको भागः मानं चेत् । अष्टमो
भागः पश्वङ्गं चेत् । ञस्य अनो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः । षाष्ठः ।
अष्टमः । आष्टमः । महाविभाषया सिद्धे लुग्वचनं पूर्वत्र ञानौ नित्याविति ज्ञापयति
॥
1998: एकादाकिनिच्चासहाये (5-3-52) चात्कन्लुकौ । एकः । एकाकी । एककः ॥
1999: भूतपूर्वे चरट् (5-3-53) आढ्यो भूतपूर्वः । आढ्यचरः ॥
2000: षष्ठ्या रूप्य च (5-3-54) षष्ठ्यन्ताद्भूतपूर्वेऽर्थे रूप्यः स्याच्चरट् च । कृष्णस्य
भूतपूर्वो गौः । कृष्णरूप्यः कृष्णचरः । तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत्
। शुभ्राया भूतपूर्वः शुभ्रारूप्यः ॥
2001: अतिशायने तमबिष्ठनौ (5-3-55) अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ स्तः ।
अयमेषामतिशयेनाढ्यः । आढ्यतमः । लघुतमो लघिष्ठः ॥
2002: तिङश्च (5-3-56) तिङन्तादतिशयेर्थे द्योत्ये तमप् स्यात् ॥
2003: तरप्तमपौ घः (1-1-22) एतौ घसंज्ञौ स्तः ॥
2004: किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे (5-4-11)
किम एदन्तात्तिङोऽव्ययाच्च
यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किंतमाम् । प्राह्णेतमाम् ।
पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ॥
2005: द्विवचनविभज्योपपदे तरबीयसुनौ (5-3-57)
द्वयोरेकस्यातिशये
विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः। पूर्वयोरपवादः ।
अयमनयोरतिशयेनलघुर्लघुतरः । लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः । पटीयांसः ॥
2006: अजादी गुणवचनादेव (5-3-58) इष्ठन्नीयसुनौ गुणवचनादेव स्तः । नेह । पाचकतरः । पाचकतमः ॥
2007: तुश्छन्दसि (5-3-59) तृन्तृजन्तादिष्ठन्नीयसुनौ स्तः ॥
2008: तुरिष्ठेमेयःसु (6-4-154) तृशब्दस्य लोपः स्यादिष्ठेमेयः सु परेषु । अतिशयेन कर्ता
करिष्ठः । दोहीयसी धेनुः ॥
2009: प्रशस्यस्य श्रः (5-3-60) अस्य श्रादेशः स्यादजाद्योः ॥
2010: प्रकृत्यैकाच् (6-4-163) इष्ठातिष्वेकाच् प्रकृत्या स्यात् । श्रेष्ठः । श्रेयान् ॥
2011: ज्य च (5-3-61) प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ॥
2012: ज्यादादीयसः (6-4-160) ‘आदेः परस्य’(सू. 44) । ज्यायान् ॥
2013: वृद्धस्य च (5-3-62) ज्यादेशः स्यादजाद्योः । ज्येष्ठः । ज्यायान् ॥
2014: अन्तिकबाढयोर्नेदसाधौ (5-3-63)
अजाद्योः । नेदिष्ठः ।
नेदीयान् । साधिष्ठः । साधीयान् ॥
2015: स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादि परं पूर्वस्य च
गुणः (6-4-156) एषां यणादिपरं लुप्यते पूर्वस्य च गुण इष्ठादिषु ।
स्थविष्ठः । दविष्ठः । यविष्ठः । ह्रसिष्ठः । क्षेपिष्ठः । क्षोदिष्ठः । एवमीयम् ।
ह्रस्वक्षिप्रक्षुद्राणां पृथ्वादित्वात् ह्रसिमा । क्षेपिमा । क्षोदिमा ॥
2016: प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां
प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः (6-4-157)
प्रयादीनां क्रमात्प्रादयः
स्युरिष्ठादिषु । प्रेष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः ।
बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्राघिष्ठः । वृन्दिष्ठः ।
एवमीयसुन् । प्रेयान् । प्रियोरुबहुलगुरुदीर्घाणां पृत्वादित्वादिमनिच् ।
प्रेमेत्यादि ॥
2017: बहोर्लोपो भू च बहोः (6-4-158)
बहोः परयोरिमेयसोर्लोपः
स्याद्बहोश्च भूरादेशः । भूमा । भूयान् ॥
2018: इष्ठस्य यिट् च (6-4-159) बहोः परस्य इष्ठस्य लोपः स्यात् यिडागमश्च । भूयिष्ठः ॥
2019: युवाल्पयोः कनन्यतरस्याम् (5-3-64)
एतयोः कनादेशो वा
स्यादिष्ठेयसोः । कनिष्ठः । कंनीयान् । पक्षे यविष्ठः । अल्पिष्ठः । इत्यादि ॥
2020: विन्मतोर्लुक् (5-3-65) विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन स्रग्वी
स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥
2021: प्रशंसायां रूपम् (5-3-66) सुबन्तात्तिङन्ताच्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं
पचति पचतिरूपम् ॥
2022: ईषदसमाप्तौ कल्पब्देश्यदेशीयरः (5-3-67)
ईषदूनो विद्वान्
विद्वत्कल्पः । यशस्कल्पम् । यजुः कल्पम् । विद्वद्देश्यः । विद्वद्देशीयः ।
पचतिकल्पम् ॥
2023: विभाषा सुपो बहुच् पुरस्तात्तु (5-3-68)
ईषदसमाप्तिविशिष्टेऽर्थे
सुबन्ताद्बहुज्वा स्यात्स च प्रागेव नतु परतः । ईषदूनः पटुर्बहुपटुः । पटुकल्पः ।
सुपः किम् । यजतिकल्पम् ॥
2024: प्रकारवचने जातीयर् (5-3-69) प्रकारवति चायम् । थाल् तु प्रकारमात्रे । पटुप्रकारः
पटुजातीयः ॥
2025: प्रागिवात्कः (5-3-70) ‘इवे प्रतिकृतौ’(सू. 2051) इत्यतः प्राक् काधिकारः ॥
2026: अव्ययसर्वनाम्नामकच् प्राक् टेः (5-3-71)
‘तिङश्च’(सू. 2002) इत्यनुवर्तते ॥
2027: कस्य च दः (5-3-72) कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च ॥
2028: अज्ञाते (5-3-73) कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके ॥
ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र तु सुबन्तस्य टेः प्रागकच्
(वा 3284) ॥ युवकयोः । आवकयोः । युष्मकासु । अस्मकासु । युष्मकाभिः । अस्मकाभिः ।
ओकारेत्यादि किम् । त्वयका । मयका ॥ अकच्प्रकरणे तूष्णीमः कां वक्तव्यः (वा 3285) ॥
मित्त्वादन्तादचः परः । तूष्णीकामास्ते ॥शीले को मलोपश्च (वा 3286) ॥ तूष्णींशीलः
तूष्णीकः । पचतकि । जल्पतकि । धकित् । हिरकुत् ॥
2029: कुत्सिते (5-3-74) कुत्सितोऽश्वोऽश्वकः ॥
2030: संज्ञायां कन् (5-3-75) कुत्सिते कन् स्यात्तदन्तेन चेत्संज्ञा गम्यते । शूद्रकः ।
राधकः । स्वरार्थं वचनम् ॥
2031: अनुकम्पायाम् (5-3-76) पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ॥
2032: नीतौ च तद्युक्तात् (5-3-77) सामदानादिरुपायो नीतिस्तस्यां
गम्यमानायामनुकम्पायुक्तात्कप्रत्ययः स्यात् । हन्त ते धानकाः । गुडकाः । एहकि ।
अद्धकि । पूर्वेणानुकम्प्यमानात्प्रत्ययः । अनेन तु परम्परासंबन्धेऽपीति विशेषः ॥
2033: बह्वचो मनुष्यनाम्नष्ठज्वा (5-3-78)
पूर्वसूत्रद्वयविषये ॥
2034: घनिलचौ च (5-3-79) तत्रैव ॥
2035: ठाजादावूर्ध्वं द्वितीयादचः (5-3-83)
अस्मिन्प्रकरणे
यष्ठोऽजादिप्रत्ययश्च तस्मिन्प्रत्ये परे प्रकृतेर्द्वितीयादच ऊर्ध्वं सर्वं
लुप्यते । अनुकम्पितो देवदत्तो देविकः । देवियः । देविलः । देवदत्तकः । अनुकम्पितो
वायुदत्तो वायुदत्तकः । ठग्ग्रहणमुको द्वितीयत्वे कविधानार्थम् ॥ वायुकः । पितृकः
॥ चतुर्थादच उर्ध्वस्य लोपो वाच्यः (वा 3296) ॥ अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः
॥ अनजादौ च विभाषा लोपो वक्तव्यः (वा 3297) ॥ देवदत्तकः । देवकः ॥ लोपः पूर्वपदस्य
च (वा 3298) ॥ दत्तिकः । दत्तियः । दत्तिलः । दत्तकः ॥ विनापि प्रत्ययं
पूर्वोत्तरपदयोर्वा लोपो वाच्यः (वा 3299) ॥ देवदत्तः । दत्तः । देवः ॥ सत्यभामा ।
भामा । सत्या॥उवर्णाल्ल इलस्य च (वा 3302) ॥ भानुदत्तः, भानुलः ॥ ऋवर्णादपि (वा
5054) ॥ सवित्रियः । सवितृलः ॥
चतुर्थादनजादौ च लोपः पूर्वपदस्य च ।
अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ॥ 1 ॥ (वा 3299-3300) ॥
2036: प्राचामुपादेरडज्वुचौ च (5-3-80)
उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये
अडच् वुच् एतौ स्तः । चाद्यथाप्राप्तम् । प्राचांग्रहणं पूजार्थम् । अनुकम्पित
उपेन्द्रदत्तः उपडः । उपकः । उपिकः । उपियः । उपिलः । उपेन्द्रदत्तकः । षड् रूपाणि
॥
2037: जातिनाम्नः कन् (5-3-81) मनुष्यनाम्न इत्येव । जातिशब्दो यो
मनुष्यनामधेयस्तस्मात्कन्स्यादनुकम्पायां नीतौ च । सिंहकः । शरभकः । रासभकः ॥
द्वितीयं संध्यक्षरं चेत्तदादेर्लोपो वक्तव्यः (वा 3303) ॥ कहोडः । कहिकः ॥
एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः (वा 3306) ॥ वागाशीर्दत्तः वाचिकः । कथं
षडङ्गुलिदत्तः षडिक इति ॥ षषष्ठाजादिवचनात्सिद्धम् (वा 3307) ॥
2038: शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् (5-3-84)
एषां मनुष्यनाम्नां ठाजादौ
परे तृतीयादच ऊर्ध्वं लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शेवलदत्तः
शेवलिकः । शेवलियः । सेवलिलः । सुपरिकः । विशालिकः। वरुणिकः । अर्यमिकः ॥
2039: अजिनान्तस्योत्तरपदलोपश्च (5-3-82)
अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां
कन् तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः ॥
2040: अल्पे (5-3-85) अल्पं तैलं तैलकम् ॥
2041: ह्रस्वे (5-3-86) ह्रस्वो वृक्षो वृक्षकः ॥
2042: संज्ञायां कन् (5-3-87) ह्रस्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् । पूर्वस्यापवादः
। वंशकः । वेणुकः॥
2043: कुटीशमीशुण्डाभ्यो रः (5-3-88)
ह्रस्वः कुटी कुटीरः ।
शमीरः । शुण्डारः ॥
2044: कुत्वा डुपच् (5-3-89) ह्रस्वा कुतूः कुतुपः । कुतूः कृत्तेः स्नेहपात्रं ह्रस्वा
सा कुतुपः पुमान् ॥
2045: कासूगोणीभ्यां ष्टरच् (5-3-90)
आयुधविशैषः कासूः ।
ह्रस्वा सा कासूतरी गोणीतरी ॥
2046: वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे (5-3-91)
वत्सतरः । द्वितीयं वयः
प्राप्तः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रवृत्तिनिमित्ततनुत्व एवायम् ॥
2047: किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् (5-3-92)
अनयोः कतरो वैष्णवः । यतरः
। ततरः । महाविभाषाया कः । यः । सः ॥
2048: वा बहूनां जातिपरिप्रश्ने डतमच् (5-3-93)
बहूनां मध्ये एकस्य
निर्धारणे डतमच् वा स्यात् । जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । कतमो भवतां
कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः । महाविभाषया । यः । सः ॥
किमोऽस्मिन्विषये डतरजपि ॥ कतरः ॥
2049: एकाच्च प्राचाम् (5-3-94) डतरच् डतमच्च स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः ॥
2050: अवक्षेपणे कन् (5-3-95) व्याकरणकेन गर्वितः व्याकरणकः । येनेतरः कुत्स्यते तदिहोदाहरणम्
। स्वतः कुत्सिते तु ‘कुत्सिते’(सू. 2029) इत्यस्य ॥
॥ इति तद्धिताधिकारे प्रागिवीयप्रकरणम् ॥
॥ अथ तद्धिताधिकारे
स्वार्थिकप्रकरणम् ॥
2051: इवे प्रतिकृतौ (5-3-96) कन् स्यात् । अश्व इव प्रतिकृतिः अश्वकः । प्रतिकृतौ किम् ।
गौरिव गवयः ॥
2052: संज्ञायां च (5-3-97) इवार्थे कन् स्यात्समुदायेन चेत्संज्ञा गम्यते ।
अप्रतिकृत्यर्थमारम्भः । अश्वसदृशस्य संज्ञा । अश्वकः । उष्ट्रकः ॥
2053: लुम्मनुष्ये (5-3-98) संज्ञायां विहितस्य कनो लुप्स्यान्मनुष्ये वाच्ये । चञ्चा
तृणमयः पुमान् । चञ्चेव मनुष्यश्चञ्चा । वर्ध्रिका ॥
2054: जीविकार्थे चापण्ये (5-3-99) जीविकार्थं यदविक्रीयमाणं तस्मिवन्वाच्ये कनो लुप्स्यात् ।
वासुदेवः । शिवः । स्कन्दः । देवलकानां जीविकार्थासु देवप्रतिकृतिष्विदम् । अपण्ये
किम् । हस्तिकान्विक्रीणीते ॥
2055: देवपथादिभ्यश्च (5-3-100) कनो लुप्स्यात् । देवपथः । हंसपथः । आकृतिगणोऽयम् ॥
2056: वस्तेर्ढञ् (5-3-101) इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् । वस्तिरिव
वास्तेयम् । वास्तेयी ॥
2057: शिलाया ढः (5-3-102) शिलेव शिलेयम् । शिलाया इति योगविभागाड्ढञपीत्येके ।
शैलेयम् ॥
2058: शाखादिभ्यो यः (5-3-103) शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः
॥
2059: द्रव्यं च भव्ये (5-3-104) द्वव्यमयं ब्राह्मणः ॥
2060: कुशाग्राच्छः (5-3-105) कुशाग्रमिव कुशाग्रीया बुद्धिः ॥
2061: समासाच्च तद्विषयात् (5-3-106)
इवार्थविषयात्समासाच्छः
स्यात् । काकतालीयो देवदत्तस्य वधः । इह काकतालसमागमसदृशस्चौरसमागम इति समासार्थः
॥ तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः। अतर्कितोपनत इति
फलितोऽर्थः ॥
2062: शर्करादिभ्योऽण् (5-3-107) शर्करेव शार्करम् ॥
2063: अङ्गुल्यादिभ्यष्ठक् (5-3-108)
अङ्गुलीव आङ्गुलिकः । भरुजेव
भारुजिकः ॥
2064: एकशालायाष्ठजन्यतरस्याम् (5-3-109)
एकशालाशब्दादिवार्थे ठज्वा
पक्षे ठक् । एकशालेव एकशालिकः। ऐकशालिकः ॥
2065: कर्कलोहितादीकक् (5-3-110) कर्कः शुक्लोऽश्वः स इव कार्कीकः । लौहितीकः स्फटिकः ॥
2066: पूगाञ्योऽग्रामणीपूर्वात् (5-3-112)
इवार्थो निवृत्तः ।
नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगास्तद्वाचकात्स्वार्थे ञ्यः
स्यात् । लौहितध्वज्यः । ‘व्रातच्फञोरस्त्रियाम्’(सू. 1100) । व्राते । कापोतपाक्यः । च्फञ् । कौञ्जायन्यः ।
ब्राध्नायन्यः ॥
2067: आयुधजीविसङ्घाञ्यड्वाहीकेष्वब्राह्मणराजन्यात् (5-3-114)
वाहीकेषु य
आयुधजीविसङ्घस्तद्वाचिनः स्वार्थे ल्युट् । क्षौद्रक्यः । मालव्यः । टित्वान्ङीप्
। क्षौद्रकी । आयुधेति किम् । शबराः । अब्राह्मणेति किम् । गौपालकाः । शालङ्कायनाः
। ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये स्वरूपग्रहणम् ॥
2068: वृकाट्टेण्यण् (5-3-115) आयुधजीविसङ्घवाचकात्स्वार्थे । वार्केण्यः । आयुधेति किम् ।
जातिशब्दान्मा भूत् ॥
2069: दामन्यादित्रिगर्तषष्ठाच्छः (5-3-116)
दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घवाचिभ्यः
स्वार्थे छः स्यात् । त्रिकर्तः षष्ठो वर्गो येषां ते त्रिगर्तषष्ठाः ॥
आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी ॥
क्रौष्टुकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जालकिः ॥
दामनीयः । दामनीयौ । दामनयः । औलपि । औलपीयः । त्रिगर्तः ।
कौण्डोपरथीयः । दाण्डकीयः ॥
2070: पर्श्वादियौधेयादिभ्योऽणञौ (5-3-117)
आयुधजीविसङ्घवाचिभ्य एभ्यः
क्रमादणञौ स्तः स्वार्थे । पार्शवः । पार्शवौ । पर्शवः । यौधेयः । यौधेयौ ।
यौधेयाः ॥
2071: अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् (5-3-118)
अभिजिदादिभ्योऽणन्तेभ्यः
स्वार्थे यञ् स्यात् । अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शलावत्यः । शैखावत्यः
। शामीवत्यः । और्णावत्यः । श्रौमत्यः ॥
2072: ञ्यादयस्तद्राजाः (5-3-119) ‘पूगाञ्यः’-(सू. 2066) इत्यारभ्य उक्ता एतत्संज्ञाः स्युः । तेनास्त्रियां बहुषु
लुक् । लोहितध्वजाः । कपोतपाकाः । कौञ्जायनाः । ब्राध्नायना इत्यादि ॥
2073: पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च (5-4-1)
लोपवचनमनैमित्तिकत्वार्थम्
। अतो न स्थानिवत् । ‘पादः पत्’(सू. 414) । ‘तद्धितार्थ’(सू. 728) इति समासे कृते प्रत्ययः । वुन्नन्तं स्त्रियामेव । द्वौ
द्वौ पादौ ददाति द्विपदिकाम् ॥ द्विशतिकाम् ॥ पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात्
(वा 3314) ॥ द्विमोदकिकाम् ॥
2074: दण्डव्यवसर्गयोश्च (5-4-2) वुन् स्यात् । अवीप्सार्थमिदम् । द्वौ पादौ दण्डितः
द्विपदिकाम् । द्विशतिकाम्। व्यवसृजति ददातीत्यर्थः ॥
2075: स्थूलादिभ्यः प्रकारवचने कन् (5-4-3)
जातीयरोऽपवादः । स्थूलकः ।
अणुकः ॥ चञ्चद्बृहतोरुपसंख्यानम् (वा 3315) ॥ चञ्चत्कः । बृहत्कः ॥ सुराया अहौ (ग
सू 130) । सुरावर्णोऽहिः सुरकः ॥
2076: अनत्यन्तगतौ क्तात् (5-4-4) छिन्नकम् । भिन्नकम् । अभिन्नकम् ॥
2077: न सामिवचने (5-4-5) सामिपर्याये उपपदे क्तान्तान्न कन् । सामिकृतम् । अर्धकृतम्
। अनत्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कन् न प्राप्तः । इदमेव
निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति । बहुतरकम् ॥
2078: बृहत्या आच्छादने (5-4-6) कन् स्यात् । द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥
आच्छादने किम् । बृहती छन्दः ॥
2079: अषडक्षाशितङ्ग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः (5-4-7)
स्वार्थे । अषडक्षीणो
मन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । आशिता गावोऽस्मिन्नित्याशितङ्गवीनमरण्यम् ।
निपातनात्पूर्वस्य मुम् । अलं कर्मणे अलंकर्मीणः । अलंपुरुषीणः । ईश्वराधीनः ।
नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् ॥ अन्येऽपि केचित्स्वार्थिकाः प्रत्यया
नित्यमिष्यते । तमबादयः प्राक्कनः । ञ्यादयः प्राग्वुनः । आमादयः प्राङ्मयटः ।
बृहतीजात्यन्ताः समासान्ताश्चेति भाष्यम् ॥
2080: विभाषाञ्चेरदिक्स्त्रियाम् (5-4-8)
अदिक्स्त्रीवृत्तेरञ्चत्यन्तात्प्रातिपदिकात्खः
स्याद्वा स्वार्थे । प्राक्, प्राचीनम् । प्रत्यक्, प्रतीचीनम् । अवाक्, अवाचीनम् । निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः ।
अर्वन्तमञ्चतीति अर्वाक् अर्वाचीनम् । अदिक्स्त्रियां किम् । प्राची दिक् । उदीची
दिक् । दिग्ग्रहणं किम् । प्राचीना ब्राह्मणी । स्त्रीग्रहणं किम् । प्राचीनं
ग्रामादाम्राः ॥
2081: जात्यन्ताच्छ बन्धुनि (5-4-9)
ब्राह्मणजातीयः । बन्धुनि
किम् । ब्राह्मणजातिः शोभना । जातेर्व्यञ्जकं द्रव्यं बन्धु ॥
2082: स्थानान्ताद्विभाषा सस्थानेनेति चेत् (5-4-10)
सस्थानेन तुल्येन चेत्
स्थानान्तमर्थवदित्यर्थः । पितृस्थानीयः । पितृस्थानः । सस्थानेन किम् । गोः
स्थानम् ॥
2083: अनुगादिनष्ठक् (5-4-13) अनुगदतीत्यनुगादी । स एव आनुगादिकः ॥
2084: विसारिणो मत्स्ये (5-4-16) अण् स्यात् । वैसारिणः । मत्स्ये इति किम् । विसारी
देवदत्तः ॥
2085: संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् (5-4-17)
अभ्यावृत्तिर्जन्म ।
क्रियाजन्मगणनवृत्तेः संख्याशब्दात्स्वार्थे कृत्वसुच् स्यात् । पञ्चकृत्वो
भुङ्क्ते । संख्यायाः किम् । भूरिवारान्भुङ्क्ते ॥
2086: द्वित्रिचतुर्भ्यः सुच् (5-4-18)
कृत्वसुचोऽपवादः ।
द्विर्भुङ्क्ते । त्रिः । ‘रात्सस्य’(सू. 280) । चतुः ॥
2087: एकस्य सकृच्च (5-4-19) सकृदित्यादेशः स्याच्चात्सुच् । सकृद्भुङ्क्ते । ‘संयोगान्तस्य’(सू.
54) इति सुचो लोपः न तु ‘हल्ङ्याप्’- (सू. 252) इति । अभैत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् ॥
2088: विभाषा बहोर्धाऽविप्रकृष्टकाले (5-4-20)
अविप्रकृष्ट आसन्नः ।
बहुधा दिवसस्य भुङ्क्ते । आसन्नकाले किम् । बहुकृत्वो मासस्य भुङ्क्ते ॥
2089: तत्प्रकृतवचने मयट् (5-4-21) प्राचुर्येण प्रस्तुतं प्रकृतं तस्य वचनं प्रतिपादनम् ।
भावेऽधिकरणे वा ल्युट् । आद्ये प्रकृतमन्नमन्नमयम् । अपूपमयम् । यवागूमयी । द्वितीये
अन्नमयो यज्ञः । अपूपमयं पर्व ॥
2090: समूहवच्च बहुषु (5-4-22) सामूहिकाः प्रत्यया अतिदिश्यन्ते चान्मयट् । मोदकाः
प्रकृताः मौदकिकम् । मोदकमयम् । शाष्कुलिकम् । शष्कुलीमयम् । द्वितीयेऽर्थे ।
मौदकिको यज्ञः । मोदकमयः ॥
2091: अनन्तावसथेतिहभेषजाञ्यः (5-4-23)
अनन्त एवानन्त्यम् । आवसथ
एवावसथ्यम् । इतिहेति निपातसमुदायः । ऐतिह्यम् । भेषजमेव भैषज्यम् ॥
2092: देवतान्तात्तादर्थ्ये यत् (5-4-24)
तदर्थ एव तादर्थ्यम् ।
स्वार्थे ष्यञ् । अग्निदेवतायै इदम् अग्निदेवत्यम् । पितृदेवत्यम् ॥
2093: पादार्घाभ्यां च (5-4-25) पादार्थमुदकं पाद्यम् । अर्घ्यम् ॥ नवस्य नू आदेशः
त्नप्तनप्खाश्च प्रत्यया वक्तव्याः (वा 3327) ॥ नूत्नम् । नूतनम् । नवीनम् ॥ नश्च
पुराणे प्रात् (वा 3328) । पुराणार्थे वर्तमानात्प्रशब्दान्नो वक्तव्यः ॥
चात्पूर्वोक्ताः । प्रणम् । प्रत्नम् । प्रतनम् । प्रीणम् ॥ भागरूपनामभ्यो धेयः
(वा3330) ॥ भागधेयम् । रूपधेयम् । नामधेयम् ॥ आग्नीध्रसाधारणादञ् (वा 3334) ।
आग्नीध्रम् । साधारणम् । स्त्रियां ङीप् । आग्नीध्री । साधारणी ॥
2094: अतिथेर्ञ्यः (5-4-26) तादर्थ्ये इत्येव । अतिथय इदमातिथ्यम् ॥
2095: देवात्तल् (5-4-27) देव एव देवता ॥
2096: अवेः कः (5-4-28) अविरेवाविकः ॥
2097: यावादिभ्यः कन् (5-4-29) याव एव यावकः । मणिकः ॥
2098: लोहितान्मणौ (5-4-30) लोहित एव मणिर्लोहितकः ॥
2099: वर्णे चानित्ये (5-4-31) लोहितकः कोपेन ॥ । लोहिताल्लिङ्गबाधनं वा ॥ लोहितिका
लोहिनिका कोपेन ॥
2100: रक्ते (5-4-32) लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्कन्स्यात्
॥लिङ्गबाधनं वा (वा 3322) इत्येव ॥ लोहितिका लोहिनिका शाटी ॥
2101: कालाच्च (5-4-33) ‘वर्णे चानित्ये’(सू. 2099) ‘रक्ते’(सू. 2100) इति द्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः पटः ।
कालिका शाटी ॥
2102: विनयादिभ्यष्ठक् (5-4-34) विनय एव वैनयिकः । सामयिकः ॥ उपायो ह्रस्वत्वं च (ग सू 144)
॥ औपयिकः ॥
2103: वाचो व्याहृतार्थायाम् (5-4-35)
संदिष्टार्थायां वाचि
विद्यमानाद्वाक्शब्दात्स्वार्थे ठक् स्यात् । संदेशवाग् वाचिकं स्यात् ॥
2104: तद्युक्तात्कर्मणोऽण् (5-4-36)
कर्मैव कार्मणम् । वाचिकं
श्रुत्वा क्रियमाणं कर्मेत्यर्थः ॥
2105: औषधेरजातौ (5-4-37) स्वार्थेऽण् । औषधं पिबति । अजातौ किम् । ओषधयः क्षेत्रे
रूढाः ॥
2106: प्रज्ञादिभ्यश्च (5-4-38) प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । दैवतः । बान्धवः ॥
2107: मृदस्तिकन् (5-4-39) मृदेव मृत्तिका ॥
2108: सस्नौ प्रशंसायाम् (5-4-40) रूपपोऽपवादः । प्रशस्ता मृत् मृत्सा । मृत्स्ना ।
उत्तरसूत्रेऽन्यतरस्यांग्रहणान्नित्योऽयम् ॥
2109: बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् (5-4-42)
बहूनि ददाति बहुशः ।
अल्पानि अल्पशः ॥ बह्वल्पार्थन्मङ्गलामङ्गलवचनम् (वा 3338) ॥ नेह । बहूनि
ददात्यनिष्टेषु । अल्पं ददात्याभ्युदयिकेषु ॥
2110: संख्यैकवचनाच्च वीप्सायाम् (5-4-43)
द्वौ द्वौ ददाति द्विशः ।
माषं माषं माषशः । प्रस्थशः । परिमाणशब्दा वृत्तावेकार्था एव । संख्यैकवचनात्किम्
। घटं घटं ददाति । वीप्सायां किम् । द्वौ ददाति । कारकादित्येव । द्वयोर्द्वयोः
स्वामी ॥
2111: प्रतियोगे पञ्चम्यास्तसिः (5-4-44)
प्रतिना कर्मप्रवचनीयेन
योगे या पञ्चमी विहिता तदन्तात्तसिः स्यात्। प्रद्युम्नः कृष्णतः प्रति ॥
आद्यादिभ्य उपसंख्यानम् (वा 3339) ॥ आदौ आदितः । मध्यतः । पृष्ठतः । पार्श्वतः ।
आकृतिगणोऽयम् । स्वरेण स्वरतः । वर्णतः ॥
2112: अपादाने चाहीयरुहोः (5-4-45) अपादाने या पञ्चमी तदन्तात्तसिः स्यात् । ग्रामादागच्छति ।
ग्रामतः । अहीयरुहोः किम् । स्वर्गाद्धीयते । पर्वतादवरोहति ॥
2113: अतिग्रहाऽव्यथनक्षेपेष्वकर्तरि तृतीयायाः (5-4-46)
अकर्तरि तृतीयान्ताद्वा
तसिः स्यात् । अतिक्रम्य ग्रहोऽतिग्रहः । चारित्रेणातिगृह्यते ।
चारित्रतोऽतिगृह्यते । चारित्रेणान्यनतिक्रम्य वर्तत इत्यर्थः । अव्यथनमचलनम्।
वृत्तेन न व्यथते । वृत्ततो न व्यथते । वृत्तेन न चलतीत्यर्थः । क्षेपे । वृत्तेन
क्षिप्तः । वृत्ततः क्षिप्तः। वृत्तेन निन्दित इत्यर्थः । अकर्तरीति किम् ।
देवदत्तेन क्षिप्तः ॥
2114: हीयमानपापयोगाच्च (5-4-47) हीयमानपापयुक्तादकर्तरि तृतीयान्ताद्वा तसिः । वृत्तेन
हीयते । वृत्तेन पापः । वृत्ततः । क्षेपस्याविवक्षायामिदम् । क्षेपे तु पूर्वेण
सिद्धम् । अकर्तरि किम् । देवदत्तेन हीयते ॥
2115: षष्ठ्या व्याश्रये (5-4-48) षष्ठ्यान्ताद्वा तसिः स्यान्नानापक्षसमाश्रये । देवा
अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । अर्जुनस्य पक्षे इत्यर्थः । व्याश्रये
किम् । वृक्षस्य शाखा ॥
2116: रोगाच्चापनयने (5-4-49) रोगवाचिनः षष्ठ्यन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकातः
कुरुः । प्रतीकारमस्याः कुर्वित्यर्थः । अपनयने किम् । प्रवाहिकायाः प्रकोपनं
करोति ॥
2117: कृभ्वस्तियोगे संपद्यकर्तरि च्विः (5-4-50)
अभूततद्भाव इति वक्तव्यम्
(वा 3340) ॥ विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात्स्वार्थे
च्विर्वा स्यात्करोत्यादिभिर्योगे ॥
2118: अस्य च्वौ (7-4-32) अवर्णस्य ईत्स्यात् च्वौ । वेर्लोपः । च्व्यन्तात्वादव्ययत्वम्
। अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति । ब्रह्मीभवति । गङ्गीस्यात् ॥
अव्ययस्य च्वावीत्वं नेति वाच्यम् (वा 5052) ॥ दोषाभूतमहः । दिवाभूता रात्रिः ।
एतच्च ‘अव्ययीभावश्च’(सू. 451) इति सूत्रे भाष्ये उक्तम् ॥
2119: क्यच्व्योश्च (6-4-152) हलः परस्यापत्ययकारस्य लोपः स्यात् क्ये च्वौ च परतः ।
गार्गीभवति ॥
2120: च्वौ च (7-4-26) च्वौ परे पूर्वस्य दीर्घः स्यात् । शुचीभवति । पटूस्यात् ।
अव्ययस्य दीर्घत्वं नेति केचित्तन्निर्मूलम् । स्वस्ति स्यादिति तु महाविभाषया
च्वेरभावात्सिद्धम् । स्वस्तीस्यादित्यपि पक्षे स्यादिति चेदस्तु । यदि नेष्यते
तर्ह्यनभिधानात् च्विरेव नोत्पद्यते इत्यस्तु । ‘रीङृतः’(सू. 1234) । मात्रीकरोति ॥
2121: अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च (5-4-51)
एषां लोपः स्यात् च्विश्च
। अरूकरोति । उन्मनीस्यात् । उच्चक्षूकरोति । विचेतीकरोति । विरहीकरोति ।
विराजीकरोति ॥
2122: विभाषा सातिः कार्त्स्न्ये (5-4-52)
च्विविषये सातिर्वा
स्यात्साकल्ये ॥
2123: सात्पदाद्योः (8-3-111) सस्य षत्वं न स्यात् । दधि सिञ्चति । कृत्स्नं शस्त्रमग्निः
संपद्यतेऽग्निसाद्भवति । अग्नीभवति । महाविभाषया वाक्यमपि । कार्त्स्ये किम् ।
एकदेशेन शुक्लीभवति पटः ॥
2124: अभिविधौ संपदा च (5-4-53) संपदाकृभ्वस्तिभिश्च योगे सातिर्वा स्याद्व्याप्तौ । पक्षे
कृभ्वस्तियोगे च्विः। संपदा तु वाक्यमेव । अग्निसात्संपद्यते अग्निसाद्भवति
शस्त्रम् । अग्नीभवति । जलसात्संपद्यते जलाभवति लवणम् । एकस्या व्यक्तेः
सर्वावयवावच्छेदेनान्यथात्वं त्वभिविधिः ॥
2125: तदधीनवचने (5-4-54) सातिः स्यात्कृभ्वस्तिभिः संपदा च योगे । राजसात्करोति ।
राजसात्संपद्यते । राजाधीनमित्यर्थः ।
2126: देये त्रा च (5-4-55) तदधीने देये त्रा स्यात्सातिश्च कृभ्वादियोगे । विप्राधीनं
देयं करोति विप्रत्रा करोति। विप्रत्रा संपद्यते । पक्षे विप्रसात्करोति । देये
किम् । राजसाद्भवति राष्ट्रम् ॥
2127: देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् (5-4-56)
एभ्यो द्वितीयान्तेभ्यः
सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा । बहुलोक्तेरन्यत्रापि ।
बहुत्रा जीवतो मनः ॥
2128: अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् (5-4-57)
द्व्यच् अवरं न्यूनं न तु
ततो न्यूनम् । अनेकाजिति यावत् । तादृशमर्धं यस्य तस्माड्डाच्
स्यात्कृभ्वस्तिभिर्योगे ॥ डाचि विवक्षिते द्वे बहुलम् (वा 4697) ॥ नित्यमाम्रेडिते
डाचीति वक्तव्यम् (वा 3638) ॥ डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः
पररुपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । अव्यक्तानुकरणात्किम् ।
दृषत्करोति । द्व्यजवरार्धात्किम् । श्रत्करोति । अवरेति किम् । खरटखरटाकरोति ।
त्रपटत्रपटाकरोति । अनेकाच इत्येव सूत्रयितुमुचितम् । एवं हि डाचीति परसप्तम्येव
द्वित्वे सुवचेत्यवधेयम् । अनितौ किम् । पटिति करोति ॥
2129: कृञो द्वितीयतृतीयशम्बबीजात्कृषौ (5-4-58)
द्वितायादिभ्यो डाच्
स्यात्कृञ एव योगे कर्षणेऽर्थे । बहुलोक्तेरव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम्
। द्वितीयं तृतीयं कर्षणं करोति द्वितीयाकरोति । तृतीयाकरोति । शम्बशब्दः
प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षति शम्बाकरोति । बीजेन सह
कर्षति बीजाकरोति ॥
2130: संख्यायाश्च गुणान्तायाः (5-4-59)
कृञो योगे कृषौ डाच्
स्यात् । द्विगुणाकरोति क्षेत्रम् । क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः ॥
2131: समयाच्च यापनायाम् (5-4-60) कृषाविति निवृत्तम् । कृञो योगे डाच् स्यात् । समयाकरोति ।
कालं यापयतीत्यर्थः ॥
2132: सपत्रनिष्पत्रादतिव्यथने (5-4-61)
सपत्र्त्राकरोति मृगम् । सपुङ्खशरप्रवेशनेन
सपत्रं करोतीत्यर्थः । निष्पत्र्त्राकरोति । अतिव्यथने किम् । सपत्रं निष्पत्रं वा
करेति भूतलम् ॥
2133: निष्कुलान्निष्कोषणे (5-4-62)
निष्कुलाकरोति दाडिमम् ।
निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ॥
2134: सुखप्रियादानुलोम्ये (5-4-63)
सुखाकरोति । प्रियाकरोति
गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः ॥
2135: दुःखात्प्रातिलोम्ये (5-4-64)
दुःखाकरोति स्वामिनम् ।
पीडयतीत्यर्थः ॥
2136: शूलात्पाके (5-4-65) शूलाकरोति मांसम् । शूलेन पचतीत्यर्थः ॥
2137: सत्यादशपथे (5-4-66) सत्याकरोति भाण्डं वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः
। शपथे तु सत्यं करोति विप्रः ॥
2138: मद्रात्परिवापणे (5-4-67) मद्रशब्दो मङ्गलार्थः । परिवापणं मुण्डनम् । मद्राकरोति ।
माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः ॥भद्राच्चेति वक्तव्यम् (वा 3344) ॥ भद्राकरोति
। अर्थः प्राग्वत् । परिवापणे किम् । मद्रं करोति । भद्रं करोति ॥
॥ इति तद्धिताधिकारे स्वार्थिकप्रकरणम् ॥
॥ अथ द्विरुक्तप्रकरणम् ॥
2139: सर्वस्य द्वे (8-1-1) इत्यधिकृत्य ।
2140: नित्यवीप्सयोः (8-1-4) आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्विर्वचनं स्यात्
। आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचति पचति । भुक्त्वा भुक्त्वा ।
वीप्सायाम् । वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः ।
2141: परेर्वर्जने (8-1-5) परि परि वङ्गेभ्यो वृष्टो देवः । वङ्गान्परिहृत्येत्यर्थः
॥परेर्वर्जने वावचनम् (वा 4683) ॥ परि वङ्गेभ्यः ।
2142: उपर्यध्यधसः सामीप्ये (8-1-7)
उपर्युपरि ग्रामम् ।
ग्रामस्योपरिष्टात्समीपे देशे इत्यर्थः । अध्यधि सुखम् ।
सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकम् । लोकस्याधस्तात्समीपे
देशे इत्यर्थः ।
2143: वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु (8-1-8)
असूयायाम् । सुन्दर
सुन्दर वृथा ते सौन्दर्यम् । सम्मतौ, देव देव वन्द्योऽसि । कोपे, दुर्विनीत दुर्विनीत इदानीं ज्ञास्यसि । कुत्सने,
धानुष्क धानुष्क वृथा ते धनुः,
भर्त्सने चोर चोर घातयिष्यामि त्वाम् ।
2144: एकं बहुव्रीहिवत् (8-1-9) द्विरुक्तः एकशब्दो बहुव्रीहिवत्स्यात् । तेन
सुब्लोपपुंवद्भावौ । एकैकमक्षरम् । इह द्वयोरपि सुपोर्लुकि कृते
बहुव्रीहिवद्भावादेव प्रातिपदिकत्वात्समुदायात्सुप् । एकैकया आहुत्या । इह
पूर्वभागे पुंवद्भावादवग्रहे विशेषः । 'न बहुव्रीहौ' (सू. 222) इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् ।
तेनातिदिष्टबहुव्रीहौ सर्वनामतास्त्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते
प्रत्याख्यातमेतत् । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विग्रहे निषेधकं न तु
बहुव्रीहावितीहातिदेशशङ्कैव नास्ति । एकैकस्मै देहि ।
2145: आबाधे च (8-1-10) पीडायां द्योत्यायां द्वे स्तो बहुव्रीहिवच्च । गतगतः ।
विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्भावात्सुब्लुक् । गतगता । इह
पुंवद्भावः ।
2146: कर्मधारयवदुत्तरेषु (8-1-11) इह उत्तरेषु द्विर्वचनेषु कर्मधारयवत्कार्यम् ॥प्रयोजनं
सुब्लोपपुंवद्भावान्तोदात्तत्वानि (वा 4689) ॥
2147: प्रकारे गुणवचनस्य (8-1-12) सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच्च कर्मधारयवत् ।
‘कर्मधारयवदुत्तरेषु-’(सू. 2146) इत्यधिकारात् । तेन पूर्वभागस्य पुंवद्भावः 'समासस्य' (सू. 3734) इत्यन्तोदातत्वं च । पटुपट्वी । पटुपटुः । पटुसदृशः ।
ईषत्पटुरिति यावत् । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते ।
शुक्लशुक्लं रूपम् । शुक्लशुक्लः पटः ॥आनुपूर्व्ये द्वे वाच्ये
(वा 4692) ॥ मूले मूले
स्थूलः ॥सम्भ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः (वा 5056) ॥ सर्प
सर्व,
बुध्यस्व बुध्यस्व । सर्प सर्प सर्प बुध्यस्व बुध्यस्व
बुध्यस्व । 'क्रियासमभिहारे च' (वा 4695) लुनीहि लुनीहीत्येवायं लुनाति । 'नित्यवीप्सयोः' (सू. 2140) इति सिद्धे भृशार्थे द्वित्वार्थमिदम् । पौनःपुन्येऽपि
लोटा सह समु्चित्य द्योतकतां लब्धुं वा ॥कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये,
समासवच्च बहुलम् (वा 4700) ॥ बहुलग्रहणादन्यपरयोर्न
समासवत् । इतरशब्दस्य तु नित्यम् ॥असमासवद्भावे पूर्वपदस्थस्य सुपं सुर्वक्तव्यः
(वा 4700) । अन्योऽन्यं विप्रा नमन्ति अन्योऽन्यौ । अन्योऽन्यान् । अन्योऽन्येन
कृतम् । अन्योऽन्यस्मै दत्तमित्यादि । 'अन्योऽन्येषां पुष्करैरामृशन्तः'
इति माघः । एवं परस्परम् । अत्र कस्कादित्वाद्विसर्गस्य सः
। इतरेतरम् । इतरेतरेणेत्यादि ॥स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा
वक्तव्यः (वा 4701) ॥ अन्योन्याम्-अन्योन्यम् । परस्पराम्-परस्परम् ।
इतरेतराम्-इतरेतरं वा । इमे ब्राह्मण्यौ कुले वा भोजयतः । अत्र केचित् । आमादेशो
द्वितीयाया एव । भाष्यादौ तथैवोदाहृतत्वात् । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु
पुंवदेव रूपमित्याहुः । अन्ये तूदाहरणस्य दिङ्मात्रत्वात्सर्वविभक्तीनामादेशमाहुः
। दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमोः । समासे सोरलुक्चेति सिद्धं
बाहुलकात्त्रयम्॥ तथाहि । अन्योऽन्यं परस्परमित्यत्र दलद्वयेऽपि टाप्प्राप्तः । न
च सर्वनाम्नो वृत्तिमात्रे (वा) ॥ इति पुंवद्भावः । अन्यपरयोरसमासवद्भावात् । न च
द्विर्वचनमेव वृत्तिः । 'यां यां प्रियः प्रैक्षत कातराक्षी सा सा'
इत्यादावतिप्रसङ्गात् । 'अन्योऽन्यमितरेतरम्' इत्यत्र च 'अद्ड्डतरादिभ्यः-' (सू. 315) इत्यद्ड् प्राप्तः । 'अन्योऽन्यसंसक्तमहस्त्रियामम्'
'अन्योऽन्याश्रयः',
'परस्पराक्षिसादृश्यम्'
'अपरस्परैः'
इत्यादौ सोर्लुक्च प्राप्तः । सर्वं बाहुलकबलेन समाधेयम् ।
प्रकृतवार्तिकभाष्योदाहरणम् 'स्त्रियाम्' (सू. 453) इति सूत्रे 'अन्योऽन्यसंश्रयं त्वेतद्' इति भाष्यं चात्र प्रमाणमिति ।
2148: अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् (8-1-13)
प्रियप्रियेण ददाति ।
प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विर्वचने कर्मधारयवद्भावात्सुपि लुकि
तदेव वचनम् । अतिप्रियमपि वस्त्वनायासेन ददातीत्यर्थः ॥
2149: यथास्वे यथायथम् (8-1-14) यथास्वम् इति वीप्सायामव्ययीभावः । योऽयमात्मा यच्चात्मीयं
तद्यथास्वम् । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते । यथायथं ज्ञाता ।
यथास्वभावमित्यर्थः । यथात्मीयमिति वा ।
2150: द्वन्द्वं
रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु (8-1-15)
द्विशब्दस्य द्विर्वचनं
पूर्वपदस्य अम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु । तत्र
रहस्यं द्वन्द्वशब्दस्य वाच्यम् । इतरे विषयभूताः। द्वन्द्वं मन्त्रयते ।
रहस्यमित्यर्थः । मर्यादा स्थित्यनतिक्रमः । आचतुरं हीमे पशवो द्वन्द्वं
मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति । पौत्रेण प्रपौत्रेणापि मर्यादीकृत्य ।
व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्क्रान्ताः द्विवर्गसम्बन्धेन
पृथगवस्थिताः । द्वन्द्वं यज्ञपात्राणि पयुनक्ति । द्वन्द्वं सङ्कर्षणवासुदेवौ ।
अभिव्यक्तौ साहचर्येणेत्यर्थः । योगविभागादन्यत्रापि द्वन्द्वमिष्यते॥
॥ इति द्विरुक्तप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें