॥ अथ तद्धिकाधिकारप्रकरणे अथापत्यादिविकारान्तार्थसाधारणः
प्रत्ययाः ॥
1072: समर्थानां प्रथमाद्वा (4-1-82)
इदं पदत्रयमधिक्रियते । ‘प्राद्गिशः’-
(सू. 1947) इति यावत् । सामर्थ्यं परिनिष्ठितत्वम् । कृतसंधिकार्यत्वमिति यावत् ॥
1073: प्राग्दीव्यतोऽण् (4-1-83) ‘तेन दीव्यति’(सू. 1550) इत्यतः प्रागणधिक्रियते ॥
1074: अश्वपत्यादिभ्यश्च (4-1-84) एभ्योण् स्यात् प्राग्दीव्यतीयेष्वर्थेषु । वक्ष्यमाणस्य
ण्यस्याऽपवादः ॥
1075: तद्धितेष्वचामादेः (7-2-117) ञिति णिति च प्रत्यये परेऽचामादेरचो वृद्धिः स्यात् ॥
1076: किति च (7-2-118) किति तद्धिते च तथा । अश्वपतेरपत्यादि आश्वपतम् । गाणपतम् ।
गाणपत्यो मन्त्र इति तु प्रामादिकमेव ॥
1077: दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः (4-1-85)
दित्यादिभ्यः
पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यात्। अणोऽपवादः ॥ दैत्यः ।
अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः । यमाच्चेदि काशिकायाम् ॥ याम्यः ॥
पृथिव्या ञाञौ (वा 2554) ॥ पार्थिवा । पार्थिवी ॥ देवाद्यञञौ (वा 2555) ॥ दैव्यम्
। दैवम् ॥बहिषष्टिलोपो यञ्च (वा 2556) ॥ बाह्यः ॥ ईकक्च (वा 2557) ॥ बाहीकः
॥स्थाम्नोऽकारः (वा 2559) ॥ अश्वत्थामः । पृषोदरादित्वात्सस्य तः ॥ भवार्थे तु
लुग्वक्तव्यः (वा 2882) ॥ अश्वत्थामा ॥ लोम्नोऽपत्येषु बहुष्वकारः (वा 2560) ॥
बाह्वादीञोऽपवादः । उडुलोमाः । उडुलोमान् । बहुषुकिम् ?
औडुलोमिः ॥ गोरजादिप्रसङ्गे यत् (वा 2561) ॥ गव्यम् ।
अजादिप्रसङ्गे किम् ? । गोभ्यो हेतुभ्यः आगतं गोरूप्यम् ॥ गोमयम् ॥
1078: उत्सादिभ्योऽञ् (4-1-86) औत्सः ॥ अग्निकलिभ्यां ढक् वक्तव्यः (वा 2689) ॥ अग्नेरपत्यादि
आग्नेयम् । कालेयम्॥
॥ इत्यपत्यादिविकारार्थसाधारणः प्रत्ययाः ॥
॥ अथापत्याधिकारप्रकरणम्
॥
1079: स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् (4-1-87)
‘धान्यानां भवने’(सू. 1802) इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रामान्नञ्स्नञौ
स्तः । स्त्रैणः । पौंस्नः । वत्यर्थे न, ‘स्त्री पुंवच्च’(सू. 932) इति ज्ञापकात् । स्त्रीवत् । पुंवत् ॥
1080: द्विगोर्लुगनपत्ये (4-1-88) द्विगोर्निमित्तं यस्तद्धितोऽजादिरनपत्यार्थः
प्राग्दीव्यतीयस्तस्य लुक्स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः ।
द्विगोर्निमित्तम्इति किम्? । पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । अजादिः किम् ?
पञ्चगर्गरूप्यम् । अनपत्ये किम् ?
द्वयोर्मित्रयोरपत्यं द्वैमित्रिः ॥
1081: गोत्रेऽलुगचि (4-1-89) अजादौ प्राग्दीव्यतीये विवक्षते गोत्रप्रत्ययस्यालुक्
स्यात् । गर्गाणां छात्राः । ‘वृद्धाच्छः’(सू. 1337) ॥
1082: आपत्यस्य च तद्धितेऽनाति (6-4-151)
हलः परस्यापत्ययकारस्य
लोपः स्यात्तद्धिते परे न त्वाकारे । गार्गीयाः । प्राग्दीव्यतीये किम् ?
गर्गेभ्यो हितं गार्गीयम् । अचि किम् ?
गर्गेभ्य आगतं गर्गरूप्यम् ॥
1083: यूनि लुक् (4-1-90) अजादौप्राग्दीव्यतीये प्रत्यये विवक्षिते युवप्रत्ययस्य
लुक् स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः, वक्ष्यमाणः फिन्, ततो यून्यण्, ग्लौचुकायनः । तस्य च्छात्रोऽपि ग्लौचुकायनः । अणो लुकि
वृद्धत्वाभावाच्छो न ॥
1084: पैलादिभ्यश्च (2-4-59) एभ्यो युवप्रत्ययस्य लुक् । ‘पीलाया वा’-(सू. 1121) इत्यण्, तस्मात् ‘अणो द्व्यचः’(सू. 1180) इति फिञ्, तस्य लुक् । पैलः पिता पुत्रश्च । तद्राजाच्चाणः (ग 21) ।
द्व्यञ्मगध-इत्यण्णन्तादाङ्गशब्दात् ‘अणो द्व्यचः’-(सू. 1180) इति फिञो लुक् । आङ्गः पिता पुत्रश्च ॥
1085: इञः प्राचाम् (2-4-60) गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक्स्यात्,
तच्चेद् गोत्रं प्राचां भवति । पन्नागारस्य अपत्यम् । ‘अत
इञ्’(सू. 1095) ,
‘ञञिञोश्च’(सू. 1103) इति फक् । तस्य लुक् । पान्नागारिः पिता पुत्रश्च ।
प्राचाम् किम् । दाक्षिः पिता । दाक्षायणः पुत्रः ॥
1086: न तौल्वलिभ्यः (2-4-61) तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुक् न स्यात् ।
पूर्वेण प्राप्तः । तुल्वलः, तत इञि फक्, तौल्वलिः पिता । तौल्वलायनः पुत्रः ॥
1087: फक्फिञोरन्यतरस्याम् (4-1-91)
‘यूनि लुक्’-(सू. 1083) इति नित्ये लुकि प्राप्ते विकल्पार्थे सूत्रम् ।
कात्यायनस्य छात्राः कातीयाः-कात्यायनीयाः । यस्कस्यापत्यं यास्कः,
शिवाद्यण् । तस्यापत्यं युवा यास्कायनिः । ‘अणो द्व्यचः’-
(सू. 1180) इति फिञ् । तस्य छात्राः यास्कीयाः-यास्कायनीयाः ॥
1088:
तस्यापत्यम् (4-1-92)
षष्ठ्यन्तात्कृतसन्धेः
समर्थादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः । उपगोरपत्यम् औपगवः । आदिवृद्धिरन्त्योपधावृद्धी
बाधते ॥
तस्येदमित्यपत्येऽपि बाधनार्थं कृतं भवेत् ।
उत्सर्गः शेष एवासौ वृद्धाऽन्यस्य प्रयोजनम् ॥
(वा 2581-2584) योगविभागस्तु भानोरपत्यं भानवः ।
कृतसन्धेःकिम् ? सौत्थितिः । अकृतव्यूहपरिभाषया सावुत्थितिःमाभूत् । समर्थपरिभाषया नेह । वस्त्रमुपगोरपत्यं
चैत्रस्य । प्रथमात्किम् ? अपत्यवाचकात् षष्ठ्यर्थे माभूत् । वाग्रहणाद्वाक्यमपि । ‘दैवयज्ञि’–
(सू. 1201) इति सूत्रादन्यतरस्यां ग्रहणानुवृत्तेः समासोऽपि ।
उपग्वपत्यम् । जातित्वान् ङीष् । औपगवा । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः ।
पौंस्नः ॥
1089: अपत्यं पौत्रप्रभृति गोत्रम् (4-1-162)
अपत्यत्वेन विवक्षितं
पौत्रादि गोत्रसंज्ञं स्यात् ॥
1090: जीवति तु वंश्ये युवा (4-1-163)
वंश्ये पित्रादौ जीवति
पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव न गोत्रसंज्ञम् ॥
1091: भ्रातरि च ज्यायसि (4-1-164) ज्येष्ठे भ्रातरि जीवति कनीयान् चतुर्थादिर्युवा स्यात् ॥
1092: वान्यस्मिन्त्सपिण्डे स्थविरतरे जीवति (4-1-165)
भ्रातुरन्यस्मिन्सपिण्डे
स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यात् । एकं
जीवतिग्रहणमपत्यस्य विशेषणम्, द्वितीयं सपिण्डस्य । तरब्निर्देश उभयोरुत्कर्षार्थः ।
स्थानेन वयसा चोत्कृष्टे पितृव्ये मातामहे भ्रातरि वा जीवति । गार्यस्यापत्यं
गार्यायणः-गार्यो वा । स्थविर इति किम् ? स्थानवयोन्यूने गार्ग्य एव । जीवति इति किम् ?
मृते मृतो वा गार्ग्य एव ॥ वृद्धस्य च पूजायामिति वाच्यम्
(वा 2654) ॥ गोत्रस्यैव वृद्धसंज्ञा प्राचाम् । गोत्रस्य युवसंज्ञा पूजायां
गम्यमानायाम् । तत्र भवान्गार्ग्यायणः । पूजा- इति किम् । गार्ग्यः ॥यूनश्च
कुत्सायां गोत्रसंज्ञेति वाच्यम् (वा 2651) ॥ गार्ग्यो जाल्मः । कुत्सिते किम् ।
गार्ग्यायणः ॥
1093: एको गोत्रे (4-1-93) गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यं
औपगवः । गार्ग्यः । नाडायनः॥
गोत्रे स्वैकोनसंख्यानां प्रत्ययानां परम्परा ।
यद्वा स्वद्व्यूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते ॥ 1 ॥
अपत्यं पितुरेव स्यात्ततः प्राचामपीति च ।
मतभेदेन तद्धान्यै सूत्रमेतत्तथोत्तरम् ॥ 2 ॥
पितुरेवापत्यमिति पक्षे हि उपगोस्तृतीये वाच्ये औपगवादिञ्
स्यात् । चतुर्थे त्वाजीवज्ज्येष्ठे मृतवंश्ये औपगवेः फक् । इत्थं फगिञोः
परम्परायां मूलाच्छततमे गोत्रे एकोनशतं प्रत्ययाः स्युः । पितामहादीनामपीति
मुख्यपक्षे तु तृतीये वाच्ये उपगोरणा इष्टे सिद्धेऽपि अण्णन्तादिञपि स्यात्,
चतुर्थे फक् इति फगिञोः परम्परायां शततमे
गोत्रेऽष्टनवतिरनिष्टप्रत्ययाः स्युः । अतो नियमार्थमिदं सूत्रम् । एवमुत्तरसूत्रेऽप्यूह्यम्
॥
1094: गोत्राद्यून्यस्त्रियाम् (4-1-94)
यून्यपत्ये
गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात् । स्त्रियां तु न युवसंज्ञा । गर्गस्य
युवापत्यं गार्ग्यायणः । स्त्रियां गोत्रत्वादेक एव प्रत्ययः ॥
1095: अत इञ् (4-1-95) अदन्तं यत्प्रातिपदिकं
तत्प्रकृतिकात्षष्ठ्यन्तादिञ्स्यादपत्येऽर्थे । दाक्षिः ॥
1096: बाह्वादिभ्यश्च (4-1-96) बाहविः । औडुलोमिः । आकृतिगणोऽयम् ॥
1097: सुधातुरकङ् च (4-1-97) चादिञ् । सुधातुरपत्यं सौधातकिः ॥
व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम् (वा 2611) ॥
1098: न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् (7-3-3)
पदान्ताभ्यां
यकारवकाराभ्यां परस्य न वृद्धिः, किंतु ताभ्यां पूर्वौ क्रमादैचावागमौ स्तः । वैयासकिः ।
वारुडकिः । इत्यादि ॥
1099: गोत्रे कुञ्जादिभ्यश्चञ् (4-1-98)
1100: व्रातच्फञोरस्त्रियाम् (5-3-113)
व्रातवाचिभ्यश्च्फञन्तेभ्यश्च
स्वार्थे ञ्यः स्यान्न तु स्त्रियाम् । कौञ्जायन्यः। बहुत्वे
तद्राजत्वाल्लुग्वक्ष्यते । ब्राध्नायन्यः । स्त्रियां कौञ्जायनी,
गोत्रत्वेन जातित्वान्ङिष् । अनन्तरापत्ये- कौञ्जिः ।
1101: नडादिभ्यः फक् (4-1-99) गोत्रे इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः ॥
1102: हरितादिभ्योऽञः (4-1-100) एभ्योऽञन्तेभ्यो यूनि फक् । हारितायनः । इङ गोत्राधिकारेऽपि
सामर्थ्याद्यून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । विदाद्यन्तर्गणो हरितादिः
॥
1103: यञिञोश्च (4-1-101) गोत्रे यौ यञिञौ तदन्तात् फक् स्यात् । ‘अनाति’ इत्युक्तेः ‘आपत्यस्य’-
(सू. 1082) इति यलोपो न, गार्ग्यायणः । दाक्षायणः ॥
1104: शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु (4-1-102)
गोत्रे फक् । अञिञोरपवादः
। आद्यौ बिदादी । शारद्वतायनो भार्गवश्चेत् । शारद्वतोऽन्यः । शौनकायनो
वात्स्यश्चेत् । शौनकोऽन्यः । दार्भायणः आग्नायणश्चेत् । दार्भिरन्यः ॥
1105: द्रोणपर्वतजीवन्तादन्यतरस्याम् (4-1-103)
एभ्यो गोत्रे फग्वा ।
द्रौणायनः- द्रौणिः । पार्वतायनः- पार्वतिः । जैवन्तायनः- जैवन्तिः । अनादिरिह
द्रोणः । अश्वत्थाम्न्यनन्तरे तूपचारात् ।
1106: अनृष्यानन्तर्ये बिदादिभ्योऽञ् (4-1-104)
एभ्योऽञ् गोत्रे,
ये त्वत्रानृषयः पुत्रादयस्तेभ्योऽनन्तरे । सूत्रे स्वार्थे
ष्यञ् । बिदस्य गोत्रापत्यं बैदः । अनन्तरो बैदिः, बाह्वादेराकृतिगणत्वादिञ् । पुत्रस्यापत्यं पौत्रः ।
दौहित्रः॥
1107: गर्गादिभ्यो यञ् (4-1-105) गोत्र इत्येव । गार्ग्यः । वात्स्यः ॥
1108: यञञोश्च (2-4-64) गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक्स्यात्तत्कृते
बहुत्वे,
न तु स्त्रियाम् । गर्गाः । वत्साः बिदाः । ऊर्वाः ।
तत्कृते इति किम् ? प्रियगार्ग्याः । स्त्रियां तु गार्ग्यः स्त्रियः । गोत्रे
किम् ?
द्वैप्याः । औत्साः । प्रवराध्यायप्रसिद्धमिह गोत्रम् ।
तेनेह न । पौत्राः । दौहित्राः ॥
1109: मधुबभ्र्वोर्ब्राह्मणकौशिकयोः (4-1-106)
गोत्रे यञ् । माधव्यो
ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकऋषिः । बाभ्रवोऽन्यः । बभ्रुशब्दस्य
गर्गादिपाठात्सिद्धे नियमार्थमिदम् । गर्गादिपाठफलं तु लोहितादिकार्यम् ।
बाभ्रव्यायणी ॥
1110: कपिबोधादाङ्गिरसे (4-1-107) गोत्रे यञ्स्यात् । काप्यः । बौध्यः । आङ्गरसे किम् ?
कापेयः । बौधिः॥
1111: वतण्डाच्च (4-1-108) आङ्गिरसे इत्येन । वातण्ड्यः । अनाङ्गिरसे चु गर्गादौ
शिवादौ च पाठाद्यञणौ, वातण्ड्यः-वातण्डः ॥
1112: लुक् स्त्रियाम् (4-1-109) ‘वतण्डाच्च’- (सू. 1111) इति विहितस्य लुक् स्यात् स्त्रियाम् ।
शार्ङ्गरवादित्वान् ङीन् । वतण्डी । अनाङ्गिरसे तु वातण्ड्यायनी । लोहितादित्वात्
ष्फः । अणि तु वातण्डी । ऋषित्वाद्वक्ष्यमाणः ष्यङ् न ॥
1113: अश्वादिभ्यः फञ् (4-1-110) गोत्रे । आश्वायनः ॥ पुंसि जाते (ग सू 69) ॥ पुंसीति तु
प्रकृतिविशेषणम् । जातस्य गोत्रापत्यं जातायनः । पुंसि इति किम् ?
जाताया अपत्यं जातेयः ॥
1114: भर्गात्त्रैगर्ते (4-1-111) गोत्रे फञ् । भार्गयणस्त्रैकर्तः । भार्गिरन्यः ॥
1115: शिवादिभ्योऽण् (4-1-112) गोत्रे इति निवृत्तम् । शिवस्यापत्यं शैवः । गाङ्गः । पक्षे
तिकादित्वात्फिञ् । गाङ्गायनिः । शुभ्रादित्वाड्ढक् । गाङ्गेयः ॥
1116: अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः (4-1-113)
अवृद्धेभ्यो
नदीमानुषीनामभ्योऽण् स्यात् । ढकोऽपवादः । यामुनः । नार्मदः । चिन्तिताया अपत्यं
चैन्तितः । अवृद्धेभ्यः किम् ? वासवदत्तेयः । नदी इत्यादि किम् ?
वैनतेयः । तन्नामिकाभ्यः किम् । शोभनाया अपत्यं शोभनेयः ॥
1117: ऋष्यन्धकवृष्णिकुरुभ्यश्च (4-1-114)
ऋषयो मन्त्रद्रष्टारः ।
वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः, श्वाफल्कः । वृष्णिभ्यः, वासुदेवः । अनिरुद्धः । शौरि इति तु बाह्वादित्वादिञ् ।
कुरुभ्यः,
नाकुलः । साहदेवः । इञ एवायमपवादः,
मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाड्ढक् । आत्रेयः
॥
1118: मातुरुत्संख्यासंभद्रपूर्वायाः (4-1-115)
संख्यादिपूर्वस्य
मातशब्दस्योदादेशः स्यादणप्रत्ययश्च । द्वैमातुरः। षाण्मातुरः । सांमातुरः ।
भाद्रमातुरः । आदेशार्थं वचनम् । प्रत्ययस्तूत्सर्गेण सिद्धः ।
स्त्रीलिङ्गनिर्देशोऽर्थैपेक्षः । तेन धान्यमातुर्न । संख्येति किम् । सौमात्रः ।
शुभ्रादित्वाद्वैमात्रेयः ॥
1119: कन्यायाः कनीन च (4-1-116) ढकोऽपवादोऽण् तत्सन्नियोगेन कनीनादेशश्च । कानीनो व्यासः
कर्णश्च । अनूढाया एवापत्यमित्यर्थः ॥
1120: विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु (4-1-117)
अपत्येऽण् वैकर्णो
वात्स्यः । वैकर्णिरन्यः । शौङ्गो भारद्वाजः । शौङ्गिरन्यः । छागल आत्रेयः ।
छागलिरन्यः । केचित्तु 'शुङ्गाः' इत्याबन्तं पठन्ति । तेषां ढक्प्रत्युदाहरणम् । शौङ्गेयः ॥
1121: पीलाया वा (4-1-118) तन्नामिकाणां बाधित्वा‘द्व्यचः’- (सू. 1124) इति ढकि प्राप्ते पक्षेण्विधीयते । पीलाया अपत्यं
पैलः-पैलेयः ॥
1122: ढक् च मण्डूकात् (4-1-119) चादण् । पक्षे इञ् । माण्डूकेयः । माण्डूकः । माण्डूकिः ॥
1123: स्त्रीभ्यो ढक् (4-1-120) स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् । वैनतेयः ।
बाह्वादित्वात्सौमित्रिः । शिवादित्वात्सापत्नः ॥
1124: द्व्यचः (4-1-121) द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् । तन्नामिकाणोऽपवादः
। दात्तेयः । पार्थः इत्यत्र तु ‘तस्येदम्’(सू. 1500) इत्यण् ॥
1125: इतश्चानिञः (4-1-122) इकारान्ताद् द्व्यचोऽपत्ये ढक् स्यात् न त्विञन्तात् ।
दौलेयः । नैधेयः ॥
1126: शुभ्रादिभ्यश्च (4-1-123) ढक् स्यात् । शुभ्रस्यापत्यं शौभ्रेयः ॥
1127: विकर्णकुषीतकात्काश्यपे (4-1-124)
अपत्ये ढक् । वैकर्णेयः ।
कौषीतकेयः । अन्ये वैकर्णिः । कौषीतकिः॥
1128: भ्रुवो वुक् च (4-1-125) चाड्ढक् । भ्रौवेयः ॥
1129: प्रवाहणस्य ढे (7-3-28) प्रवाहणशब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वापदस्य तु
वा ढे परे । प्रवाहणस्यापत्यं प्रावाहणेयः-प्रवाहणेयः ॥
1130: तत्प्रत्ययस्य च (7-3-29) ढान्तस्य प्रवाहणस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु
वा । प्रवाहणेयस्यापत्यं प्रवाहणेयिः । प्रवाहणेयिः । बाह्यतद्धितनिमित्ता
वृद्धिर्ढाश्रयेण विकल्पेन बाधितुं न शक्यत इति सूत्रारम्भः ॥
1131: कल्याम्यादीनामिनङ् (4-1-126) एषामिनङादेशः स्यात् ढक् च । काल्याणिनेयः । बान्धकिनेयः ॥
1132: कुलटाया वा (4-1-127) इनङ्मात्रं विकल्प्यते ढक् तु नित्यः पूर्वेणैव । कौलटिनेयः
- कौलटेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थं कुलान्यटति तस्याः ‘क्षुद्राभ्यो
वा’(सू. 1137) इति पक्षे ढ्रक् । कौलटेरः ॥
1133: हृद्भगसिन्ध्वन्ते पूर्वपदस्य च (7-3-19)
हृदाद्यन्ते
पूर्वोत्तरपदयोरचामादेरचो वृद्धिर्ञिति णिति किति च। सुहृदोपत्यं सौहार्दः ।
सुभगाया अपत्यं सौभागिनेयः । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः । तेषु भवः
साक्तुसैन्धवः ॥
1134: चटकाया ऐरक् (4-1-128) चटकस्येति वाच्यम् (वा 2624) ॥ लिङ्गविशिष्टपरिभाषया
स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकैरः ॥ स्त्रियामपत्ये लुग्वक्तव्यः
(वा 2625) ॥ तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् ॥
1135: गोधाया ढ्रक् (4-1-129) गौधेरः । शुभ्रादित्वात्पक्षे ढक् । गौधेयः ॥
1136: आरगुदीचाम् (4-1-130) गौधारः । रका सिद्धे आकारोच्चारणमन्यते विधानार्थम् ।
जडस्यापत्यं जाडारः। पण्डस्यापत्यं पाण्डारः ॥
1137: क्षुद्राभ्यो वा (4-1-131) अङ्गहीनाः शीलहीनाश्च क्षुद्रास्ताभ्यो वा ढ्रक् । पक्षे
ढक् । काणेरः - काणेयः । दासेरः - दासेयः ॥
1138: पितृष्वसुश्छण् (4-1-132) अणोऽपवादः । पैतृष्वस्त्रीयः ॥
1139: ढकि लोपः (4-1-133) पितृष्वसुरन्त्यलोपः स्याड्ढकि । अत एव ज्ञापकाड्ढक् ।
पैतृष्वसेयः ॥
1140: मातृष्वसुश्च (4-1-134) पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वस्त्रीयः ।
मातृष्वसेयः ॥
1141: चतुष्पाद्भ्यो ढञ् (4-1-135)
1142: ढे लोपोऽकद्र्वाः (6-4-147) कद्रूभिन्नस्योवर्णान्तस्य भस्य लोपः स्यात् ढे परे ।
कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे ॥
1143: गृष्ट्यादिभ्यश्च (4-1-136) एभ्यो ढञ्स्यात् । अण्ढकोरपवादः । गार्ष्टेयः ।
मित्रयोरपत्यम् । ऋष्यणि प्राप्ते ढञ् ॥
1144: केकयमित्रयुप्रलयानां यादेरियः (7-3-2)
एषां यकारादेरियादेशः
स्यात् । ञिति णिति किति च तद्धिते परे । इति यादेशे प्राप्ते ॥
1145: दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि
(6-4-174)
एतानि निपात्यन्ते । इति
युलोपः । मैत्रेयः । मैत्रेयौ ॥
1146: यस्कादिभ्यो गोत्रे (2-4-63) एभ्योऽपत्यप्रत्ययस्य लुक् स्यात्तत्कृते बहुत्वे । न तु
स्त्रियाम् । मित्रयवः ॥
1147: अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च (2-4-65)
एभ्यो गोत्रप्रत्ययस्य
लुक्स्यात्तत्कृते बहुत्वे । न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः ।
वसिष्ठाः । गोतमाः । अङ्गिरसः ॥
1148: बह्वच इञः प्राच्यभरतेषु (2-4-66)
बह्वचः परो य
इञ्प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक्स्यात्। पन्नागाराः । युधिष्ठिराः
॥
1149: न गोपवनादिभ्यः (2-4-67) एभ्यो गोत्रप्रत्ययस्य लुक् न स्यात् । बिदाद्यन्तर्गणोऽयम्
। गौपवनाः । शैग्रवाः ॥
1150: तिककितवादिभ्यो द्वन्द्वे (2-4-68)
एभ्यो गोत्रप्रत्ययस्य
बहुत्वे लुक् स्यात् द्वन्द्वे । तैकायनयश्च कैतवायनयश्च ।‘तिकादिभ्यः फिञ्’–(सू.
1178) । तस्य लुक् । तिककितवाः ॥
1151: उपकादिभ्योऽन्यतरस्यामद्वन्द्वे (2-4-69)
एभ्यो गोत्रप्रत्ययस्य
बहुत्वे लुग्वा स्यात् द्वन्द्वे चाद्वन्द्वे च । औपकायनाश्च लामकायनाश्च । ‘नडादिभ्यः
फक्’(सू. 1101) । तस्यलुक् । उपकलमकाः - औपकायनलामकायनाः । भ्राष्ट्रककपिष्ठलाः -
भ्राष्ट्रकिकापिष्ठलयः । उपकाः - औपकाः । लमकाः - लामकाः ॥
1152: आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् (2-4-70)
एतयोरवयवस्य
गोत्रप्रत्ययस्याणो यञश्च बहुषु लुक् स्यात् । अवशिष्टस्य प्रकृतिभागस्य
यथासंख्यम् अगस्ति कुण्डिनच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः ॥
1153: राजश्वशुराद्यत् (4-1-137) राज्ञो जातावेवेति वाच्यम् (वा 2627) ॥
1154: ये चाभावकर्मणोः (6-4-168) यादौ तद्धिते परेऽन्प्रकृत्या स्यान्न तु भावकर्मणोः ।
राजन्यः । श्वशुर्यः । जातिग्रहणाच्छूद्रादावुत्पन्नो राजनः ॥
1155: अन् (6-4-167) अणि अन्प्रकृत्या स्यादिति टिलोपो न । अभावकर्मणोः किम् ?
राज्ञः कर्म भावे वा राज्यम् ॥
1156: संयोगादिश्च (6-4-166) इन्प्रकृत्या स्यादणि परे । चक्रिणोऽपत्यं चाक्रिणः ॥
1157: न मपूर्वोऽपत्येऽवर्मणः (6-4-170)
मपूर्वोऽन्प्रकृत्या न
स्यादपत्येऽणि । भाद्रसामः । मपूर्वः किम् ? सौत्वनः अपत्ये किम् ? चर्मणा परिवृतश्चार्मणो रथः । अवर्मणः किम् ?
चक्रवर्मणोऽपत्यं चाक्रवर्मणः ॥ वा हितनाम्न इति वाच्यम्
(वा 4215) ॥ हितनाम्नोऽपत्यं हैतनामः - हैतनामनः ॥
1158: ब्राह्मोऽजातौ (6-4-171) योगविभागोऽत्र कर्तव्यः । ब्राह्मः इति निपात्यते
अनपत्येऽणि । ब्राह्मं हविः । ततो जातौ । अपत्येजातावणि ब्रह्मणष्टिलोपो न स्यात्
। ब्राह्मणोऽपत्यं ब्राह्मणः । अपत्ये किम् ? ब्राह्मी औषधिः ॥
1159: औक्षमनपत्ये (6-4-173) अणि टिलोपो निपात्यते । औक्षं पदम् । अनपत्ये किम् ?
उक्ष्णोऽपत्यमौक्ष्णः ॥
1160: षपूर्वहन्धृतराज्ञामणि (6-4-135)
षपूर्वो योऽन्तस्य
हनादेश्च भस्यातो लोपोऽणि । औक्ष्णः । ताक्ष्णः । भ्रौणघ्नः । धृतराज्ञोऽपत्यं
धार्तराज्ञः । षुपूर्व इति किम् ? साम्नोऽपत्यं सामनः । अणि किम् ?
ताक्षण्यः ॥
1161: क्षत्राद्घः (4-1-138) क्षत्रियः । जातावित्येव । क्षात्रिरन्यः ॥
1162: कुलात्खः (4-1-139) कुलीनः । तदन्तादपि । उत्तरसूत्रे अपूर्वपदात् इति लिङ्गात्
। आढ्यकुलीनः ॥
1163: अपूर्वपदादन्यतरस्यां यड्ढकञौ (4-1-140)
कुलात् इत्येव । पक्षे खः
। कुल्यः - कौलेयकः - कुलीनः । पदग्रहणं किम् ? बहुकुल्यः - बीहुकुलेयकः - बहुकुलीनः ॥
1164: महाकुलादञ्खञौ (4-1-141) अन्यतरस्याम् इत्यनुवर्तते । पक्षे खः । माहाकुलः -
माहाकुलीनः - महाकुलीनः ॥
1165: दुष्कुलाड्ढक् (4-1-142) पूर्ववत्पक्षे खः । दौष्कुलेयः - दुष्कुलीनः ॥
1166: स्वसुश्छः (4-1-143) स्वस्त्रीयः ॥
1167: भ्रातुर्व्यच्च (4-1-144) चाच्छः । अणोऽपवादः । भ्रातृव्यः - भ्रात्रीयः ॥
1168: व्यन्त्सपत्ने (4-1-145) भ्रातुर्व्यन् स्यादपत्ये प्रकृतिप्रत्ययसमुदायेन शत्रौ
वाच्ये । भ्रातृव्यः शत्रुः । पाप्मना भ्रातृव्येणेति तूपचारात् ॥
1169: रेवत्यादिभ्यष्ठक् (4-1-146)
1170: ठस्येकः (7-3-50) अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ॥
1171: गोत्रस्त्रियाः कुत्सने ण च (4-1-147)
गोत्रं या स्त्री
तद्वाचकाच्छब्दाण्णठकौ स्तः कुत्सायाम् । सामर्थ्याद्यूनि । गार्ग्या अपत्यं
गार्गः - गार्गिको वा जाल्मः । भस्याढे तद्धिते इति
पुंवद्भावाद्गार्र्ग्यशब्दाण्णठकौ । ‘यस्य’-(सू. 311) इति लोपः । ‘आपत्यस्य’-(सू. 1082) इति यलोपः ॥
1172: वृद्धाट्ठक् सौवीरेषु बहुलम् (4-1-148)
सुवीरदेशोद्भवाः सौवीराः ।
वृद्धात्सौवीरगोत्राद्यूनि बहुलं ठक्स्यात्कुत्सायाम् । भागवित्तेः - भागवित्तिकः
। पक्षे फक् । भागवित्तायनः ॥
1173: फेश्छ च (4-1-149) फिञन्तासौवीरगोत्रादपत्ये छः ठक् च कुत्सने गम्ये । यमुन्दस्यापत्यं
यामुन्दायनिः। तिकादित्यात् फिञ् । तस्यापत्यं यामुन्दायनीयः - यामुन्दायनीकः ।
कुत्सने किम् ? यामुन्दायनिः । औत्सर्गिकस्यणो ‘ण्यक्षत्रिया’- (सू. 1276) इति लुक् । सौवीर- इति किम् ?
तैकायनिः ॥
1174: फाण्टाहृतिमिमताभ्यां णफिञौ (4-1-150)
सौवीरेषु । नेह यथासंख्यम्
। अल्पाच्तरस्य परनिपाताल्लिङ्गादिति वृत्तिकारः । भाष्ये तु यथासंख्यमेवेति
स्थितम् । फाण्टाहृतः - फाण्टाहृतायनिः । मैमतः, मैमतायनिः ॥
1175: कुर्वादिभ्यो ण्यः (4-1-151) अपत्ये । कौरव्या ब्राह्मणाः । वावदूक्याः ॥ सम्राजः
क्षत्रिये (ग सू 75) ॥ साम्राज्यः । साम्राजोऽन्यः ॥
1176: सेनान्तलक्षणकारिभ्यश्च (4-1-152)
एभ्यो ण्यः । ‘एति
संज्ञायाम्’– (सू. 1023) इति सस्य षः । हारिषेण्यः । लाक्षण्यः । कारिः शिल्पी
तस्मात्तान्तुवाय्यः । कौम्भकार्यः । नापित्यः ॥
1177: उदीचामिञ् (4-1-153) हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः ।
नापितात्तु परत्वात्फिञेव । नापितायनिः ॥ तक्ष्णोऽण उपसंख्यानम् (वा 2540) ॥ ‘षपूर्व’–
(सू. 1160) इत्यनोऽकारलोपः । ताक्ष्णः । पक्षे ताक्षण्यः ॥
1178: तिकादिभ्यः फिञ् (4-1-154) तैकायनिः ॥
1179: कौशल्यकार्मार्याभ्यां च (4-1-155)
अपत्ये फिञ् । इञोऽपवादः ॥
परमप्रकृतेरेवायमिष्यते । प्रत्ययसंनियोगेन प्रकृतिरूपं निपात्यते । कुशलस्यापत्यं
कौशल्यायनिः । कर्मारस्यापत्यं कार्मार्यायणिः ॥ छागवृषयोरपि (वा 2643) ॥
छाग्यायनिः । वार्ष्यायणिः ॥
1180: अणो द्व्यचः (4-1-156) अपत्ये फिञ् । इञोऽपवादः । कार्त्रायणिः । अणः इति किम् ?
दाक्षायणः । द्व्यचः किम् ? औपगविः ॥त्यादादीनां फिञ्वा वाच्यः (वा 5050) ॥ त्यादायनिः
- त्यादः ॥
1181: उदीचां वृद्धादगोत्रात् (4-1-157)
आम्रगुप्तायनिः । प्राचां
तु । आम्रगुप्तिः । वृद्धात् किम् ? दाक्षिः । अगोत्रात्किम् ? औपगविः ॥
1182: वाकिनादीनां कुक्च (4-1-158) अपत्ये फिञ्वा स्यात् । वाकिनस्यापत्यं वाकिनकायनिः -
वाकिनिः ॥
1183: पुत्रान्तादन्यतरस्याम् (4-1-159)
अस्माद्वा फिञ्
सिद्धस्तस्मिन्परे पुत्रान्तस्य वा कुग्विधीयते । गार्गीपुत्रकायणिः-
गार्गीपुत्रायणिः । गार्गीपुत्रिः ॥
1184: प्राचामवृद्धात्फिन्बहुलम् (4-1-160)
ग्लुचुकायनिः ॥
1185: मनोर्जातावञ्यतौ षुक् च (4-1-161)
समुदायार्थो जातिः ।
मानुषः - मनुष्यः ॥
1186: जनपदशब्दात्क्षत्रियादञ् (4-1-168)
जनपदक्षत्रिययोर्वाचकादञ्
स्यादपत्ये । ‘दाण्डिनायन’– (सू.1145) इति सूत्रे निपातनाट्टिलोपः । ऐक्ष्वाकः । ऐक्ष्वाकौ
॥क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत् (वा 2669) ॥
तद्राजमाचक्षामस्तद्राज इत्यन्वर्थसंज्ञासामर्थ्यात् ॥ पञ्चालानां राजा पाञ्चालः ॥
पूरोरण्वक्तव्यः (वा 2670) ॥ पौरवः ॥ पाण्डोडर्यण् (वा 2671) ॥ पाण्ड्यः ॥
1187: साल्वेयगान्धारिभ्यां च (4-1-169)
आभ्यामपत्येऽञ् । ‘वृद्धेत्’–
(सू. 1189) इति ञ्यङोऽपवादः । साल्वेयः । गान्धारः । तस्य
राजन्यप्येवम् ॥
1188: द्व्यञ्मगधकलिङ्गसूरमसादण् (4-1-170)
अञोऽपवादः । द्व्यच् ।
आङ्गः । वाङ्गः । सौह्मः । मागधः । कालिङ्गः । सौरमसः । तस्य राजन्यप्येवम् ॥
1189: वृद्धेत्कोसलाजादाञ्यङ् (4-1-171)
वृद्धात् । आम्बष्ठ्यः ।
सौवीर्यः । इत् । आवन्त्यः । कौसल्यः । अजादस्यापत्यमाजाद्यः ॥
1190: कुरुनादिभ्यो ण्यः (4-1-172) कौरव्यः । नैषध्यः । स नैषधस्यार्थपतेःइत्यादौ तु शैषिकोऽण्
॥
1191: साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् (4-1-173)
साल्वो जनपदस्तदवयवा
उदुम्बरादयस्तेभ्यः प्रत्यग्रथादिभ्यस्त्रिभ्यश्च इञ् । अञोऽपवादः । औदुम्बरिः
प्रात्यग्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् ॥
1192: ते तद्राजाः (4-1-194) अञादय एतत्संज्ञाः स्युः ॥
1193: तद्राजस्य बहुषु तेनैवास्त्रियाम् (2-4-62)
बहुष्वर्थेषु तद्राजस्य
लुक् स्यात्तदर्थकृते बहुत्वे न तु स्त्रियाम् । इक्ष्वाकवः । पञ्चाला इत्यादि ।
कथं तर्हि कौरव्याः पशवः, तस्येव रघोः पाण्ड्याः इति च । कौरव्ये पाण्ड्ये च साधव इति
समाधेयम् । रघूणामन्वयं वक्ष्ये, निरूध्यमाना यदुभिः कथंचित् इति तु रघुयदुशब्दयोस्तदपत्ये
लक्षणया ॥
1194: कम्बोजाल्लुक् (4-1-195) अस्मात्तद्राजस्य लुक्स्यात् । कम्बोजः । कम्बोजौ
॥कम्बोजादिभ्य इति वक्तव्यम् (वा 2674) ॥ चोलः । शकः । द्व्यज्लक्षणस्यणो लुक् ।
केरलः । यवनः । अञो लुक् । कम्बोजाः समरे इति पाठः सुगमः । दीर्घपाठे तु
कम्बोजोऽभिजनो येषामित्यर्थः । सिन्धुतक्षशिलादिभ्योऽणञौ– (सू. 1473) इत्यण् ॥
1195: स्त्रियामवन्तिकुन्तिकुरुभ्यश्च (4-1-176)
तद्राजस्य लुक्स्यात् ।
अवन्ती । कुन्ती । कुरूः ॥
1196: अतश्च (4-1-177) तद्राजस्याकारस्य स्त्रियां लुक् स्यात् । शूरसेनी । मद्री
। कथं माद्रीसुतौ इति । ह्रस्व एव पाठः इति हरदत्तः । भर्गादित्वं वा कल्प्यम् ॥
1197: न प्राच्यभर्गादियौधेयादिभ्यः (4-1-178)
एभ्यस्तद्राजस्य न लुक् ।
पाञ्चाली । वैदर्भी । आङ्गी । वाङ्गी । मागधी । एत् प्राच्याः । भार्गी । कारूशी ।
कैकेयी । केकयीत्यत्र तु जन्यजनकभावलक्षणे पुंयोगे ङीष् । युधा शुक्रा आभ्यां ‘द्व्यचः’-
(सू. 1124) इति ढक् । ततः स्वार्थे ‘पर्श्वादियौधेयादिभ्योऽणञौ’–(सू.
2070) इत्यञ्। ‘शार्ङ्गरवाद्यञः’– (सू. 527) इति ङीन् । ‘अतश्च’- (सू. 1196) इति लुकि तु ढगन्तत्वात् ङीप्युदात्तनिवृत्तिस्वरः स्यात्
। यौधेयी । शौक्रेयी ॥
1198: अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे (4-1-78)
त्र्यादीनामन्त्यमुत्तमं
तस्य समीपमुपोत्तमम्, गौत्रे यावणिञौ विहितावनार्षौ तदन्तयोर्गुरूवोत्तमयोः
प्रातिपदिकयोः स्त्रियां ष्यङादेशः स्यात् ॥ निर्दिश्यमानस्यादेशा भवन्ति ( प 13) इत्यणिञोरेव
। षङावितौ । ‘यङश्चाप्’–(सू. 528) कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या । वाराह्या।
अनार्षयोः किम् ? वासिष्ठी । वैश्वामित्री । गुरुपोत्तमयोः किम् । औपगवी ।
जातिलक्षणो ङीष् । गौत्रे किम् । अहिच्छत्रे जाता आहिच्छत्री ॥
1199: गोत्रावयवात् (4-1-79) गोत्रावयवा गोत्राभिमताः कुलाख्यास्ततो गोत्रे
विहितयोरणिञोः स्त्रियां ष्यङादेशः स्यात् । अगुरूपोत्तमार्थं आरम्भः । पौणिक्या ।
भौणिक्या ॥
1200: क्रौड्यादिभ्यश्च (4-1-80) स्त्रियां ष्यङ् प्रत्ययः स्यात् ।
अगुरूपोत्तमार्थोऽनणिञर्थश्चारम्भः । क्रौड्या । व्याड्या । सूत युवत्याम् (ग सू
55) । सूत्या । भोज क्षत्रिये (ग सू 56) । भोज्या ॥
1201: दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्डेविद्धिभ्योऽन्यतरस्याम्
(4-1-81)
एभ्यश्चतुर्भ्यः ष्यङ्वा ।
अगोत्रार्थमिदं गोत्रेऽपि परत्वात्प्रवर्तते । पक्षे ‘इतो मनुष्य’–(सू. 520) इति ङीष् । दैवयज्ञ्या - दैवयज्ञी । इत्यादि॥
॥ इत्यपत्याधिकारप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें