॥ अथ द्वन्द्वसमासप्रकरणम् ॥
901: चार्थे द्वन्द्वः (2-2-29) अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः । अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः । मिलितानामन्वय इतरेतरयोगः । समूहः समाहारः । तत्रेश्वरं गुरुं च भजस्वेति समुच्चये, भिक्षामट गां चानयेत्यन्वाचये च न समासोऽसामर्थ्यात् । धवखदिरौ । संज्ञापरिभाषम् । अनेकोक्तेर्होतृपोतृनेष्टोद्गातारः । द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे तु होतापोतानेष्टोद्गातारः ॥
902: राजदन्तादिषु परम् (2-2-31) एषु पूर्वप्रयोगार्हं परं स्यात् । दन्तानां राजा राजदन्तः ॥ धर्मादिष्वनियमः (वा 1418) ॥ अर्थधर्मौ । धर्मार्थौ । दम्पती । जम्पती । जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते । आकृतिगणोऽयम् ॥
903: द्वन्द्वे घि (2-2-32) द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ ॥ अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे (वा 1410) ॥ हरिगुरुहराः । हरिहरगुरवः ॥
904: अजाद्यदन्तम् (2-2-33) इदं द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ । बहुष्वनियमः । अश्वरथेन्द्राः । इन्द्राश्वरथाः ॥ घ्यन्तादजाद्यदन्तं विप्रतिषेधेन (वा 1426) ॥ इन्द्राग्नी ॥
905: अल्पाच्तरम् (2-2-34) शिवकेशवौ ॥ ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण (वा 1421) ॥ हेमन्ताशिशिरवसन्ताः । कृत्तिकारोहिण्यौ । समाक्षराणां किम् । ग्रीष्मवसन्तौ ॥ लघ्वक्षरं पूर्वम् (वा 1413) ॥ कुशकाशम् ॥ अभ्यर्हितं च (वा 1412) ॥ तापसपर्वतौ ॥ वर्णानामानुपूर्व्येण (वा 1415) ॥ ब्राह्मणक्षत्रियविट्शूद्राः ॥ भ्रातुर्ज्यायसः (वा 1616) ॥ युधिष्ठिरार्जुनौ ॥
906: द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् (2-4-2) एषां द्वन्द्व एकवत्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकम् । रथिकाश्वारोहम् । समाहारस्यैकत्वादेकत्वे सिद्धे नियमार्थं प्रकरणम् । प्राण्यङ्गादीनां समाहार एव यथा स्यात् ॥
907: अनुवादे चरणानाम् (2-4-3) चरणानां द्वन्द्व एकवत्स्यात्सिद्धस्योपन्यासे ॥ स्थेणोर्लुङीति वक्तव्यम् (वा 1535-1536) ॥ उदगात्कठकालापम् । प्रत्यष्ठात्कठकौथुमम् ॥
908: अध्वर्युक्रतुरनपुंसकम् (2-4-4) यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्वमेधम् । अध्वर्युक्रतुः किम् । इषुवज्रौ सामवेदे विहितौ । अनपुंसकं किम् । राजसूयवाजपेये । अर्धर्चादी ॥
909: अध्ययनतोऽविप्रकृष्टाख्यानाम् (2-4-5) अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्व एकवत् । पदकक्रमकम् ॥
910: जातिरप्राणिनाम् (2-4-6) प्राणिवर्ज्यजातिवाचिनां द्वन्द्व एकवत् । धानाशष्कुलि । प्राणिनां तु विट्शूद्राः । द्रव्यजातीयानामेव । नेह । रूपरसौ । गमनाकुञ्चने । जातिप्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु बदरामलकानि ॥
911: विशिष्टलिङ्गो नदीदेशोऽग्रामाः (2-4-7) ग्रामवर्ज्यनदीदेशवाचिनां भिन्नलिङ्गानां समाहारे द्वन्द्व एकवत्स्यात् । उद्ध्यश्च इरावती च उद्ध्येरावति । गङ्गा च शोणश्च गङ्गाशोणम् । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । भिन्नलिङ्गानां किम् । गङ्गायमुने । मद्रकेकयाः । अग्रामाः किम् । जाम्बवं नगरम् । शालूकिनी ग्रामः । जाम्बवशालूकिन्यौ ॥
912: क्षुद्रजन्तवः (2-4-8) एषां समाहारे द्वन्द्व एकवत्स्यात् । यूकालिक्षम् । आ नकुलात्क्षुद्रजन्तवः ॥
913: येषां च विरोधः शाश्वतिकः (2-4-9) एषां प्राग्वत् । अहिनकुलम् । गोव्याघ्रम् । काकोलूकमित्यादौ परत्वात् ‘विभाषा वृक्षमृग’(सू. 916) इति प्राप्तं चकारेण बाध्यते ॥
914: शूद्राणामनिरवसितानाम् (2-4-10) अबहिष्कृतानां शूद्राणां प्राग्वत् । तक्षायस्कारम् । पात्राद्बहिष्कृतानां तु चण्डालमृतपाः ॥
915: गवाश्वप्रभृतीनि च (2-4-11) यथोच्चारितानि साधूनि स्युः । गवाश्वम् । दासीदासमित्यादि ॥
916: विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् (2-4-12) वृक्षादीनां सप्तानां द्वन्द्वः, अश्ववडवेत्यादि द्वन्द्वत्रयं च प्राग्वद्वा ॥ । वृक्षादौ विशेषाणामेव ग्रहणम् (वा 518) ॥ प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः । रुरुपृषतम् । रुरुपृषताः । कुशकाशम् । कुशकाशाः । व्रीहियवम् । व्रीहियवाः । दधिघृतम् । दधिघृते । गोमहिषम् । गोमहिषाः । शुकबकम् । शुकबकाः । अश्ववडवम् । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे ॥ फलसेनाङ्वनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम् (वा 1540) ॥ बदराणि चामलकानि च बदरामलकम् । ‘जातिरप्राणिनाम्’(सू. 910) इत्येकवद्भावः । नेह । बदरामलके । रथिकाश्वारोहौ । प्लक्षन्यग्रोधावित्यादि । ‘विभाषावृक्ष’–(सू. 916) इति सूत्रे येऽप्राणिनस्तेषां ग्रहणं ‘जातिरप्राणिनाम्’(सू. 910) इति नित्ये प्राप्ते विकल्पार्थम् । पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये प्राप्ते । मृगाणां मृगैरेव शकुनीनां तैरेवोभयत्र द्वन्द्वः । अन्यैस्तु सहेतरेतरयोग एव इति नियमार्थ मृगाकृनिग्रहणम् । एवं पूर्वापरमधरोत्तरमित्यपि । अश्ववडवग्रहणं तु पक्षे नपुंसकत्वार्थम् । अन्यथा परत्वात् ‘पूर्ववदश्ववडवौ’(सू. 813) इति स्यात् ॥
917: विप्रतिषिद्धं चानधिकरणवाचि (2-4-13) विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात् । शीतोष्णम् । शीतोष्णे । वैकल्पिकः समाहारद्वन्द्वः ‘चार्थे’(सू. 901) इति सूत्रेण प्राप्तः स विरुद्धार्थानां यदि भवति तर्ह्यद्रव्यवाचिनामेवेति नियमार्थमिदम् । तेन द्रव्यवाचिनामितरेतरयोग एव । शीतोष्णे उदके स्तः । विप्रतिषिद्धं किम् । नन्दकपाञ्चजन्यौ । इह पाक्षिकः समाहारद्वन्द्वो भवत्येव ॥
918: न दधिपयआदीनि (2-4-14) एतानि नैकवत्स्युः । दधिपयसी । इध्माबर्हिषी । निपातनाद्दीर्घः । ऋक्सामे। वाङ्मनसे ॥
919: अधिकरणैतावत्त्वे च (2-4-15) द्रव्यसङ्ख्यावगमे एकवदेवेति नियमो न स्यात् । दश दन्तोष्ठाः ॥
920: विभाषा समीपे (2-4-16) अधिकरणैतावत्त्वस्य सामीप्येन परिच्छेदे समाहार एवेत्येवंरूपो नियमो वा स्यात् । उपदाशं दन्तोष्ठम् । उपदश दन्तोष्ठाः ॥
921: आनङ् ऋतो द्वन्द्वे (6-3-25) विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यादुत्तरपदे परे । होतापोतारौ । होतृपोतृनेष्टोद्गातारः । मातापितरौ । ‘पुत्रेऽन्यतरस्याम्’ (सू. 980) इत्यतो मण्डूकप्लुत्या पुत्र इत्यनुवृत्तेः । पितापुत्रौ ॥
922: देवताद्वन्द्वे च (6-3-26) इहोत्तरपदे परे आनङ् । मित्रावरुणौ ॥ वायुशब्दप्रयोगे प्रतिषेधः (वा 3907) ॥ अग्निवायू । वाय्वग्नी । पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेन ब्रह्मप्रजापती इत्यादौ नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतं नापि लोके प्रसिद्धं साहचर्यम् ॥
923: ईदग्नेः सोमवरुणयोः (6-3-27) देवताद्वन्द्वे इत्येव ॥
924: अग्नेः स्तुत्स्तोमसोमाः (8-3-82) अग्नेः परेषामेषां सस्य षः स्यात्समासे । अग्निष्टुत् । अग्निष्टोमः । अग्नीषोमौ । अग्नीवरुणौ ॥
925: इद्वृद्धौ (6-3-28) वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्याद्देवताद्वन्द्वे । अग्नामरुतौ देवते अस्य आग्निमारुतं कर्म । अग्निवरुणौ देवते अस्य आग्निवारुणम् । ‘देवताद्वन्द्वे च’(सू. 1239) इत्युभयपदवृद्धिः । अलौकिके वाक्ये आनङमीत्त्वं च बाधित्वा इत् । वृद्धौ किम् । आग्नेन्द्रः । ‘नेन्द्रस्य परस्य’(सू. 1240) इत्युत्तरपदवृद्धिप्रतिषेधः ॥ विष्णौ न (वा 3909) ॥ आग्नावैष्णवम् ॥
926: दिवो द्यावा (6-3-29) देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी । द्यावाक्षामा ॥
927: दिवसश्च पृथिव्याम् (6-3-30) दिव इत्येव । चाद् द्यावा । आदेशे अकारोच्चारणं सकारस्य रुत्वं माभूदित्येतदर्थम् । द्यौश्च पृथिवी च दिवस्पृथिव्यौ । द्यावापृथिव्यौ ॥ । छन्दसि दृष्टानुविधिः ॥ द्यावा चिदस्मै पृथिवी । दिवस्पृथिव्योररतिमित्यत्र पदकारा विसर्गं पठन्ति ॥
928: उषासोषसः (6-3-31) उषस्शब्दस्योषादेशो देवताद्वन्द्वे । उषासासूर्यम् ॥
929: मातरपितरावुदीचाम् (6-3-32) मातरपितरौ । उदीचां किम् । मातापितरौ ॥
930: द्वन्द्वाच्चुदषहान्तात्समाहारे (5-4-106) चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात्समाहारे । वाक् च त्वक्च वाक्त्वचम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । समाहारे किम् । प्रावृट्शरदौ ॥
॥ इति द्वन्द्वसमासप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें