॥ अथ अव्ययीभावसमासप्रकरणम्
॥
647: समर्थः पदविधिः (2-1-1) पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः ॥
648: प्राक्कडारात्समासः (2-1-3) ‘कडाराः कर्मधारये’(सू. 751) इत्यतः प्राक् समास इत्यधिक्रियते ॥
649: सह सुपा (2-1-4) सह इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते ।
योगविभागस्येष्टसिद्ध्यर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः । स च छन्दस्येव ।
पर्यभूषयत् । अनुव्यचलत् । सुपा सुप्सुपा सह समस्यते । समासत्वात्प्रातिपदिकत्वम्
॥
650: सुपो धातुप्रातिपदिकयोः (2-4-71)
एतयोरवयवस्य सुपो लुक्
स्यात् । ‘भूतपूर्वे चरट्’(सू. 1999) इति निर्देशाद्भूतशब्दस्य पूर्वनिपातः । पूर्वे भूतो
भूतपूर्वः ॥ इवेन समासो विभक्त्यलोपश्च (वा 1236, 1341) ॥ जीमूतस्येव ॥
651: अव्ययीभावः (2-1-5) अधिकारोऽयम् ॥
652:अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्ध्यर्थाभावात्ययासंप्रति-शब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्य-संपत्तिसाकल्यान्तवचनेषु
(2-1-6)
अव्ययमिति योगो विभज्यते ।
अव्ययं समर्थेन सह समस्यते । सोऽव्ययीभावः॥
653: प्रथमानिर्दिष्टं समास उपसर्जनम् (1-2-43)
समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं
स्यात् ॥
654: उपसर्जनं पूर्वम् (2-2-30) समासे उपसर्जनं प्राक्प्रयोज्यम् ॥
655: एकविभक्ति चापूर्वनिपाते (1-2-44)
विग्रहे यन्नियतविभक्तिकं
तदुपसर्जनसंज्ञं स्यात्, न तु तस्य पूर्वनिपातः ॥
656: गोस्त्रियोरुपसर्जनस्य (1-2-48)
उपसर्जनं यो गोशब्दः
स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । ‘अव्ययीभावश्च’(सू.
451) इत्यव्ययत्वम् ॥
657: नाव्ययीभावादतोऽम्त्वपञ्चम्याः (2-4-83)
अदन्तादव्ययीभावात्सुपो न
लुक् किंतु तस्य पञ्चमीं विना अमादेशः । दिशयोर्मध्ये अपदिशम् । क्लीबाऽव्ययं
त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियामित्यमरः ॥
658: तृतीयासप्तम्योर्बहुलम् (2-4-84)
अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलम्भावः
स्यात् । अपदिशम् । अपदिशेन । अपदिशम् । अपदिशे ।
बहुलग्रहणात्सुमद्रमुन्मत्तगङ्गमित्यादौ सप्तम्या नित्यमम्भावः । विभक्तीत्यादेरयमर्थः
। विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते सोऽव्ययीभावः । विभक्तौ
तावत् । हरौ इत्यधिहरि । सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । हरि ङि अधि इत्यलौकिकं
विग्रहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमी ॥
659: अव्ययीभावश्च (2-4-18) अयं नपुंसकं स्यात् ॥ ‘ह्रस्वो नपुंसके प्रातिपदिकस्य’(सू. 318) । गोपायतीति इति गाः पातीति वा गोपाः ।
तस्मिन्नित्यधिगोपम् । समीपे । कृष्णस्य समीपमुपकृष्णम् । समया ग्रामम्,
निकषा लङ्काम्, आराद्वनादित्यत्र तु नाव्ययीभावः ॥अभितः परितः (वा 1442) ॥ ‘अन्यारात्’(सू.
595) इति द्वितीयापञ्चम्योर्विधानसामर्थ्यात् । मद्राणां
समृद्धिः सुमद्रम् । यवनानां व्यृद्धिर्दुर्यवनम् । विगता ऋद्धिव्यृद्धिः ।
मक्षिकाणामभावो निर्मक्षिकम् । हिमस्यात्ययोऽतिहिमम् । अत्ययो ध्वंसः । निद्रा सम्प्रति
न युज्यते इत्यतिनिद्रम्। हरिशब्दस्य प्रकाश इति हरि । विष्णोः पश्चादनुविष्णु ।
पश्चाच्छब्दस्य तु नायं समासः । ततः पश्चात्स्रंस्यते इति भाष्यप्रयोगात् ।
योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । अनुरूपम् । रूपस्य
योग्यमित्यर्थः । अर्थमर्थं प्रति प्रत्यर्थम् । प्रतिशब्दस्य वीप्सायां
कर्मप्रवचनीयसंज्ञाविधानसामर्थ्यात्तद्योगे द्वितीयागर्भं वाक्यमपि ।
शक्तिमनतिक्रम्य यथाशक्ति । हरेः सादृश्यं सहरि । वक्ष्यमाणेन सहस्य सः ।
ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम् । चक्रेण युगपदिति विग्रहे –
660: अव्ययीभावे चाकाले (6-3-81) सहस्य सः स्यादव्ययीभावे न तु काले । सचक्रम् । काले तु
सहपूर्वाह्णम् । सदृशः सख्या ससखि । यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं
गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां सम्पत्तिः सक्षत्रम् ।
ऋद्धेराधिक्यं समृद्धिः । अनुरूप आत्मभावः संपत्तिरिति भेदः । तृणमप्यपरित्यज्य
सतृणमत्ति। साकल्येनेत्यर्थः । नत्वत्र तृणभक्षणे तात्पर्यम् । अन्ते ।
अग्निग्रन्थपर्यन्तमधीते साग्नि ॥
661: यथाऽसादृश्ये (2-1-7) असादृश्ये एव यथाशब्दः समस्यते । तेनेह न यथा हरिस्तथा हरः
। हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन सादृश्य इति वा यथार्थं इति वा प्राप्तं
निषिध्यते ॥
662: यावदवधारणे (2-1-8) यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामा यावच्छ्लोकम् ॥
663: सुप्प्रतिना मात्रार्थे (2-1-9)
शाकस्य लेशः शाकप्रतिः ।
मात्रार्थे किम् । वृक्षं वृक्षं प्रति विद्योतते विद्युत् ॥
664: अक्षशलाकासंख्याः परिणा (2-1-10)
द्यूतव्यवहारे पराजय एवायं
समासः । अक्षेण विपरीतं वृत्तमक्षपरि। शलाकापरि । एकपरि ॥
665: विभाषा (2-1-11) अधिकारोऽयम् । एतत्सामर्थ्यादेव प्राचीनानां नित्यसमासत्वम्
। सुप्सुपेति तु न नित्यसमासः । अव्ययमित्यादिसमासविधानज्ञापकात् ॥
666: अपपरिबहिरञ्चवः पञ्चम्या (2-1-12)
अपविष्णु संसारः अप
विष्णोः । परिविष्णु परि विष्णोः । बहिर्वनम् बहिर्वनात् । प्राग्वनम् प्राग्वनात्
॥
667: आङ् मर्यादाऽभिविध्योः (2-1-13)
एतयोराङ् पञ्चम्यन्तेन वा
समस्यते सोऽव्ययीभावः । आमुक्ति संसारः आ मुक्तेः । आबालं हरिभक्तिः आ बालेभ्यः ॥
668: लक्षणेनाभिप्रती आभिमुख्ये (2-1-14)
आभिमुख्यद्योतकावभिप्रती
चिह्नवाचिना सह प्रागवत् । अभ्यग्नि शलभाः पतन्ति अग्निमभि । प्रत्यग्नि अग्निं
प्रति ।
669: अनुर्यत्समया (2-1-15) यं पदार्थं समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते
सोऽव्ययीभावः । अनुवनमशनिर्गतः । वनस्य समीपं गत इत्यर्थः ।
670: यस्य चायामः (2-1-16) यस्य दैर्घ्यमनुना द्योत्यते तेन लक्षणभूतेनानुः समस्यते ।
अनुगङ्गं वाराणसी गङ्गाया अनु । गङ्गादैर्घ्यसदृशदैर्घ्योपलक्षितेत्यर्थः ।
671: तिष्ठद्गुप्रभृतीनि च (2-1-17)
एतानि निपात्यन्ते । तिष्ठन्त्यो
गावो यस्मिन् काले स तिष्ठद्गुः दोहनकालः। आयतीगवम् इत्यादि । इह शत्रादेशः
पुंवद्भावविरहः समासान्तश्च निपात्यते ॥
672: पारे मध्ये षष्ठ्या वा (2-1-18)
पारमध्यशब्दौ षष्ठ्यन्तेन
सह वा समस्येते । एदन्तत्वं चानयोर्निपात्यते । पक्षे षष्ठीतत्पुरुषः । पारेगङ्गादानय
गङ्गापारात् । मध्ये गङ्गात् गङ्गामध्यात् । महाविभाषया वाक्यमपि । गङ्गायाः
पारात् । गङ्गायाः मध्यात् ॥
673: संख्या वंश्येन (2-1-19) वंशो द्विधा विद्यया जन्मना च । तत्र भवो वंश्यः ।
तद्वाचिना सह संख्या वा समस्यते । द्वौ मुनी वंश्यौ द्विमुनि । व्याकरणस्य
त्रिमुनि । विद्यातद्वतामभेदविवक्षायां त्रिमुनि व्याकरणम् । एकविंशति भारद्वाजम्
॥
674: नदीभिश्च (2-1-20) नदीभिः सह सङ्ख्या प्राग्वत् ॥ समाहारे चायमिष्यते (वा 1246)
॥ सप्तगङ्गम् । द्वियमुनम् ॥
675: अन्यपदार्थे च संज्ञायाम् (2-1-21)
अन्यपदार्थे विद्यमानं
सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् । विभाषाधिकारेऽपि वाक्येन
संज्ञानवगमादिह नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् ॥
676: समासान्ताः (5-4-68) इत्यधिकृत्य ॥
677: अव्ययीभावे शरत्प्रभृतिभ्यः (5-4-107)
शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे
। शरदः समीपमुपशरदम् । प्रतिविपाशम् । शरद् । विपाश् । अनस् । मनस् । उपानह् ।
दिव् । हिमवत् । अनडुह् । दिश् । दृश् । विश् । चेतस् । चतुर् । त्यद् । तद् । यद्
। कियत् । जरायाः जरस् च (ग 147) । उपजरसम् । प्रतिपरसमनुभ्योऽक्ष्णः (ग 148) ॥ ‘यस्येति
च’(सू. 311) ॥ प्रत्यक्षम् । अक्ष्णः परमिति विग्रहे
समासान्तविधानसामर्थ्यादव्ययीभावः । ‘परोक्षे लिट्’(सू. 2171) इति निपातनात्परस्यौकारादेशः । परोक्षम् । परोक्षा
क्रियेत्यादि तु अर्श आद्यचि । समक्षम् । अन्वक्षम् ॥
678: अनश्च (5-4-108) अन्नन्तादव्ययीभावाट्टच् स्यात् ॥
679: नस्तद्धिते (6-4-144) नान्तस्य भस्य टेर्लोपः स्यात्तद्धिते । उपराजम् ।
अध्यात्मम् ॥
680: नपुंसकादन्यतरस्याम् (5-4-109)
अन्नन्तं यत्क्लीबं
तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचर्मम् । उपचर्म॥
681: नदीपौर्णमास्याग्रहायणीभ्यः (5-4-110)
वा टच् स्यात् । उपनदम् ।
उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपाग्रहायणि ॥
682: झयः (5-4-111) झयन्तादव्ययीभावाट्टज्वा । उपसमिधम् । उपसमित् ॥
683:
गिरेश्च
सेनकस्य (5-4-112) गिर्यन्तादव्ययीभावाट्टच् वा स्यात् । सेनकग्रहणं पूजार्थम्
। उपगिरम् । उपगिरि ॥
॥ इति अव्ययीभावसमासप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें