॥ अथ सर्वसमासशेषप्रकरणम् ॥
कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । परार्थाभिधानं वृत्तिः । वृत्यर्थावबोधकं वाक्यं विग्रहः । स द्विविधः । लौकिकौऽलौकिकश्च । परिनिहितत्वात्साधुर्लौकिकः । प्रयोगानर्होऽसाधुरलौकिकः । यथा राज्ञः पुरुषः, राजन् अस् पुरुष सु इति । अविग्रहो नित्यसमासः, अस्वपदविग्रहो वा । समासश्चतुर्विध इति तु प्रायोवादः । अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्वाधिकारबहिर्भूतानामपि ‘सह सुपा’ (सू. 649) इति समासविधानात् । पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधानस्तत्पुरुषः, अन्यपदार्थप्रधानो बहुव्रीहिः, उभयपदार्थप्रधानो द्वन्द्वः, इत्यपि प्राचां वादः प्रायोऽभिप्रायः । सूपप्रति उन्मत्तगङ्गम् इत्याद्यव्ययीभावे अतिमालादौ तत्पुरुषे, द्वित्राः इत्यादिबहुव्रीहौ, दन्तौष्ठम् इत्यादिद्वन्द्वे चाभावात् । तत्पुरुषविशेषः कर्मधारयः । तद्विशेषो द्विगुः । अनेकपदत्वं द्वन्द्वबहुव्रीह्योरेव । तत्पुरुषस्य क्वचिदेवेत्युक्तम् । किं च ।
सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा ।
सुबन्तेनेति विज्ञेयः समासः षडविधो बुधैः ॥
सुपां सुपा, राजपुरुषः । तिङा, पर्यभूषयत् । नाम्ना, कुम्भकाराः । धातुना, कटप्रूः, अजस्रम् । तिङां तिङा, पिबतखादता । खादतमोदता । तिङां सुपा । कृन्त विचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा । एहीडादयोऽन्यपदार्थे इति मयूरव्यंसकादौ पाठात्समासः ।
॥ इति सर्वसमासशेषप्रकरणम् ॥
॥ अथ सर्वसमासान्तप्रकरणम् ॥
940: ऋक्पूरब्धूः पथामानक्षे (5-4-74) अ अनक्षे इति च्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्योऽन्तावयवः स्यात् अक्षे या धूस्तदन्तस्य तु न । अर्धर्चः । अनृचबह्वृचावध्येतर्येव । नेह - अनुक्साम । बह्वृक् सूक्तम् । विष्णोः पूः विष्णुपुरम् । क्लीबत्वं लोकात् । विमलापं सरः ॥
941: द्व्यन्तरुपसर्गेभ्योऽप ईत् (6-3-97) अप इति कृतसमासान्तस्यानुकरणम् । षष्ठ्यर्थे प्रथमा । एभ्योऽपस्य ईत्स्यात् । द्विर्गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् । समापो देवयजनमिति तु समा आपो यस्मिन्निति बोध्यम् । कृतसमासान्तग्रहणान्नेह । स्वप् । स्वपी ॥ अवर्णान्ताद्वा (वा 5045) ॥ प्रेपम् । परेपरम् । प्रापम् । परापम् ॥
942: ऊदनोर्देशे (6-3-98) अनोः परस्यापस्य ऊत्स्याद्देशे । अनूपो देशः । राजधुरा । अक्षे तु अक्षधूः । दृढधुरक्षः। सखिपथः । रम्यपथो देशः ॥
943: अच् प्रत्यन्ववपूर्वात्सामलोम्नः (5-4-75) एतत्पूर्वात्सामलोमान्तात्समासादच् स्यात् । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् ॥ कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते (वा 5046) । कृष्णभूमः । उदग्भूमः । पाण्डुभूमः । द्विभूमः प्रासादः ॥ संख्याया नदीगोदावरीभ्यां च (वा 5047) ॥ पञ्चनदम् । सप्तगोदावरम् । अजिति योगविभागादन्यत्रापि । पद्मनाभः ॥
944: अक्ष्णोऽदर्शनात् (5-4-76) अचक्षुः पर्यायादक्ष्णोऽच् स्यात्समासान्तः । गवामक्षीव गवाक्षः ॥
945:अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दि-वाहर्दिवसरजसनिःश्रेयसपुरषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः (5-4-77) एते पञ्चविंशतिरजन्ता निपात्यन्ते । आद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि चत्वार्यस्य अचतुरः । विचतुरः । सुचतुरः॥ त्र्युपाभ्यां चतुरोऽजिष्यत (वा 3351) ॥ त्रिचतुराः । चतुर्णां समीपे उपचतुराः । तत एकादा द्वन्द्वाः । स्त्रीपुंसौ । धेन्वनडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्च दारगावम् । ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनाट्टिलोपः । पदष्ठीवम् । निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा वा नक्तन्दिवम् । रात्रौ च दिवा च रात्रिन्दिवम् । रात्रेर्मान्तत्वं निपात्यते । अहनि च दिवा च अहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीहौ तु सरजः पङ्कजम् । निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह । निःश्रेयान् पुरुषः । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । द्व्यायुषम् । त्र्यायुषम् । ततो द्वन्द्वः । ऋग्यजुषम् । ततस्त्रयः कर्मधारयाः । जातोक्षः । महोक्षः । वृद्धोक्षः । शुनः समीपमुपशुनम्। टिलोपाभावः सम्प्रसारणं च निपात्यते । गोष्ठे श्वा गोष्ठश्वः ॥
946: ब्रह्महस्तिभ्यां वर्चसः (5-4-78) अच्स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् ॥ पल्यराजभ्यां चेति वक्तव्यम् (वा 3352) ॥ पल्यवर्चसम् । राजवर्चसम् ॥
947: अवसमन्धेभ्यस्तमसः (5-4-79) अवतमसम् । संतमसम् । अन्धयतीत्यन्धं पचाद्यच् । अन्धं तमः अन्धतमसम् ॥
948: श्वसो वसीयःश्रेयसः (5-4-80) वसुशब्दः प्रशस्तवाची ततः ईयसुनि वसीयः । श्वस्शब्द उत्तरपदार्थप्रशंसामाशीर्विषयतामाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसम् । श्वः श्रेयसं ते भूयात् ॥
949: अन्ववतप्ताद्रहसः (5-4-81) अनुरहसम् । अवरहसम् । तप्तरहसम् ॥
950: प्रतेरुरसः सप्तमीस्थात् (5-4-82) उरसि इति प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः ॥
951: अनुगवमायामे (5-4-83) एतन्निपात्यते दीर्घत्वे । अनुगवं यानम् । ‘यस्य चायामः’(सू. 670) इति समासः ॥
952: द्विस्तावा त्रिस्तावा वेदिः (5-4-84) अच्प्रत्यष्टिलोपः समासश्च निपात्यते । यावती प्रकृतौ वेदिस्ततो द्विगुणा त्रिगुणा वाऽश्वमेधादौ तत्रेदं निपातनम् । वेदिरिति किम् । द्विस्तावती त्रिस्तावती रज्जुः ॥
953: उपसर्गादध्वनः (5-4-85) प्रगतोऽध्वानं प्राध्वो रथः ॥
954: न पूजनात् (5-4-69) पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा । स्वतिभ्यामेव (वा 3346) ॥ नेह परमराजः । पूजनात् किम् । गामतिक्रन्तोऽतिगवः । ‘बहुव्रीहौ सक्थ्यक्ष्णोः’–(सू. 852) इत्यतः प्रागेवायं निषेधः । नेह । सुसक्थः । स्वक्षः ॥
955: किमः क्षेपे (5-4-70) क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ताः न स्युः । कुत्सितो राजा किंराजा । किंसखा । किंगौः । क्षेपे किम् । किंराजः । किंसखः । किंगवः ॥
956: नञस्तत्पुरुषात् (5-4-71) समासान्तो न । अराजा । असखा । तत्पुरुषात् किम् । धुरं शकटम् ॥
957: पथो विभाषा (5-4-72) नञ्पूर्वात्पथो वा समासान्तः । अपथम् । अपन्थाः । तत्पुरुषादित्येव । अपथो देशः । अपथं वर्तते ॥
॥ इति सर्वसमासान्तप्रकरणम् ॥
॥ अथालुक्समासप्रकरणम् ॥
958: अलुगुत्तरपदे (6-3-1) अलुगधिकारः प्रागानङः उत्तरपदाधिकारस्त्वापादसमाप्तेः ॥
959: पञ्चम्याः स्तोकादिभ्यः (6-3-2) एभ्यः पञ्चम्या अलुक्स्यादुत्तरपदे । स्तोकान्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः । उत्तररपदे किम् । निष्क्रान्तः स्तोकान्निस्तोकः ॥ ब्राह्मणाच्छंसिन उपसंख्यानम् (वा 3878) ॥ ब्राह्मणे विहितानि शस्त्राणि उपचारात् ब्राह्मणानि तानि शंसतीति ब्राह्मणच्छंसी ऋत्विग्विशेषः । द्वितीयार्थे पञ्चम्युपसंख्यानादेव ॥
960: ओजःसहोऽम्भस्तमसस्तृतीयायाः (6-3-3) ओजसाकृतमित्यादि ॥ अञ्जस उपसंख्यानम् (वा 3880) ॥ अञ्जसाकृतम् । आर्जवेन कृतमित्यर्थः ॥ पुंसानुजो जनुषान्ध इति च (वा 3881) ॥ यस्याग्रजः पुमान् स पुंसानुजः । जनुषान्धो जात्यन्धः ॥
961: मनसः संज्ञायाम् (6-3-4) मनसागुप्ता ॥
962: आज्ञायिनि च (6-3-5) मनस इत्येव । मनसा आज्ञातुं शीलमस्य मनसाज्ञायी ॥
963: आत्मनश्च (6-3-6) आत्मनस्तृतीयाया अलुक्स्यात् ॥पूरण इति वक्तव्यम् (वा 3882) ॥ पूरणप्रत्ययान्ते उत्तरपदे इत्यर्थः । आत्मनापञ्चमः । जनार्दनस्त्वामात्मचतुर्थ एवेति बहुव्रीहिर्बोध्यः । पूरणे किम् । आत्मकृतम् ॥
964: वैयाकरणाख्यायां चतुर्थ्याः (6-3-7) आत्मन इत्येव । आत्मनेपदम् । आत्मनेभाषाः । तादर्थ्ये चतुर्थेषा । चतुर्थीति योगविभागात्समासः ॥
965: परस्य च (6-3-8) परस्मैपदम् । परस्मैभाषाः ॥
966: हलदन्तात्सप्तम्याः संज्ञायाम् (6-3-9) हलन्ताददन्ताच्च सप्तम्या अलुक् संज्ञायाम् । त्वचिसारः ॥
967: गवियुधिभ्यां स्थिरः (8-3-95) आभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अत्र गवीति वचनादेवालुक्। युधिष्ठिरः । अरण्येतिलकाः । अत्र ‘संज्ञायाम्’(सू. 721) इति सप्तमीसमासः ॥ हृद्द्युभ्यां च (वा 3885) ॥ हृदिस्पृक् । दिविस्पृक् ॥
968: कारनाम्नि च प्राचां हलादौ (6-3-10) प्रचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या अलुक्। मुकुटेकार्षापणम् । दृषदिमाषकः । पूर्वेण सिद्धे नियमार्थम् । कारनाम्न्येव, प्राचामेव, हलादावेवेति । कारनाम्नि किम् । अभ्याहितपशुः । कारादन्यस्यैतद्देशस्य नाम । प्राचां किम् । यूथपशुः । हलादौ किम् । अविकटोरणः । हलदन्तात्किम् । नद्यां दोहो नदीदोहः ॥
969: मध्याद्गुरौ (6-3-11) मध्येगुरुः ॥ अन्ताच्च (वा 3894) ॥ अन्तेगुरुः ॥
970: अमूर्धमस्तकात्स्वाङ्गादकामे (6-3-12) कण्ठेकालः । उरसिलोमा । अमूर्धमस्तकात् किम् । मूर्धशिखः । मस्तकशिखः । अकामे किम् । मुखे कामोऽस्य मुखकामः ॥
971: बन्धे च विभाषा (6-3-13) हलदन्तात्सप्तम्या अलुक् । हस्तेबन्धः हस्तबन्धः हलदन्तेति किम् । गुप्तिबन्धः॥
972: तत्पुरुषे कृति बहुलम् (6-3-14) स्तम्बेरमः । कर्णेजपः । क्वचिन्न । कुरुचरः ॥
973: प्रावृट्शरत्कालदिवां जे (6-3-15) प्रावृषिजः । शरदिजः । कालेजः । दिविजः । पूर्वस्यायं प्रपञ्चः ॥
974: विभाषा वर्षक्षरशरवरात् (6-3-16) एभ्यः सप्तम्या अलुक् जे । वर्षेजः । वर्षजः । क्षरेजः । क्षरजः । शरेजः। शरजः । वरेजः । वरजः ॥
975: घकालतनेषु कालनाम्नः (6-3-17) सप्तम्या विभाषाऽलुक् स्यात् । घे । पूर्वाह्णेतरे । पूर्वाह्णतरे । पूर्वाह्णेतमे। पूर्वाह्णतमे । काले । पूर्वाह्णेकाले । पूर्वाह्णकाले । तने । पूर्वाह्णेतने । पूर्वाह्णतने ॥
976: शयवासवासिष्वकालात् (6-3-18) खेशयः । खशयः । ग्रामेवासः । ग्रामवासः । ग्रामेवासी । ग्रामवासी । हलदन्तात् इत्येव । भूमिशयः ॥ अपो योनियन्मतुषु (वा 3876) ॥ अप्सु योनिरुत्पत्तिर्यस्य सोऽप्सुयोनिः । अप्सु भवोऽप्सव्यः । अप्सुमन्तावाज्यभागौ ॥
977: नेन्सिद्धबध्नातिषु च (6-3-19) इन्नन्तादिषु सप्तम्या अलुङ्न । स्थण्डिलशायी । सांकाश्यसिद्धः । चक्रबद्धः॥
978: स्थे च भाषायाम् (6-3-20) सप्तम्या अलुङ्न । समस्थः । भाषायां किम् । कृष्णोऽस्याखरेष्ठः ॥
979: षष्ठ्या आक्रोशे (6-3-21) चौरस्यकुलम् । आक्रोशे किम् । ब्राह्मणकुलम् ॥ वाद्गिक्पश्यद्भ्यो युक्तिदण्डहरेषु (वा 3897) ॥ वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः ॥ आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च (वा 3898-3899) ॥ आमुष्यापत्यमामुष्यायणः । नडादित्वात्फक् । अमुष्यपुत्रस्य भाव आमुष्यपुत्रिका । मनोज्ञादित्वाद्वुञ्। एवमामुष्यकुलिका ॥ देवानांप्रिय इति च मूर्खे (वा 3900) ॥ अन्यत्र देवप्रियः ॥ शेपपुच्छलाङ्गलेषु शुनः (वा 3901) ॥ शुनः शेपः । शुनः पुच्छः । शुनोलाङ्गूलः ॥ दिवसश्च दासे (वा 3902) ॥ दिवोदासः ॥
980: पुत्रेऽन्यतरस्याम् (6-3-22) षष्ठ्याः पुत्रे परेऽलुग्वा निन्दायाम् । दास्याः पुत्रः । दासीपुत्रः । निन्दायां किम्। ब्राह्मणीपुत्रः ॥
981: ऋतो विद्यायोनिसम्बन्धेभ्यः (6-3-23) विद्यासंबन्धयोनिसंम्बन्धवाचिन ऋदन्तात्षष्ठ्या अलुक् । होतुरन्तेवासी । होतुः पुत्रः । पितुरन्तेवासी । पितुः पुत्रः ॥ विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम् (वा 3903) ॥ नेह । होतृधनम् ॥
982: विभाषा स्वसृपत्योः (6-3-24) ऋदन्तात्षष्ठ्या अलुग् वा स्वसृपत्योः परयोः ॥
983: मातुः पितुर्भ्यामन्यतरस्याम् (8-3-85) आभ्यां स्वसुः सस्य षो वा स्यात्समासे । मातुःस्वसा । मातुःष्वसा। पितुःष्वसा । पितुःस्वसा । लुक्पक्षे तु ॥
984: मातृपितृभ्यां स्वसा (8-3-84) आभ्यां परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृष्वसा । असमासे तु । मातुः स्वसा । पितुः स्वसा ॥
॥ इति अलुक्समासप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें