मुनित्रयं नमस्कृत्य
तदुक्तीः परिभाव्य च ।
वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥ 1 ॥
अथ संज्ञाप्रकरणम्
अइउण् । ऋलृक् । एओङ् ।
ऐऔच् । हयवरट् । लण् । ञमङणनम् । झभञ् । घढधष् । जबगडदश् । खफछठथचटतव् ।
कपय् । शषसर् । हल् ॥
इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि । एषामन्त्या इतः । लण्सूत्रेऽकारश्च
। हकारादिष्वकार उच्चारणार्थः ।
1: हलन्त्यम् (1-3-3) ‘हल्’ (म.सू. 14) इति सूत्रेऽन्त्यमित्स्यात् ।
2: आदिरन्त्येन सहेता (1-1-71) अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् ।
इति हल्संज्ञायाम् । हलन्त्यम् 1-3-3 उपदेशेऽन्त्यं हलित्स्यात् । उपदेश आद्योच्चारणम् । ततःअण्
अच् इत्यादिसंज्ञासिद्धौ ॥
3: उपदेशेऽजनुनासिक इत् (1-3-2)
उपदेशेऽनुनासिकोऽजित्संज्ञः
स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । ‘लण्’ (म. सू. 6) सूत्रस्थावर्णेन
सहोच्चार्यमाणो रेफो रलयोः संज्ञा । प्रत्याहारेष्वितां न ग्रहणम् । ‘अनुनासिक’
इत्यादिनिर्देशात् । नह्यत्र ककारे परेऽच्कार्यं दृश्यते । ‘आदिरन्त्येन’- (सू. 2)
इत्येतत्सूत्रेण कृताः सञ्ज्ञाः प्रत्याहारशब्देन व्यवह्रियन्ते ॥
4: ऊकालोऽज्झ्रस्वदीर्घप्लुतः (1-2-27)
उश्च ऊश्च ऊ३श्च वः । वां
काल इव कालो यस्य सोऽच् क्रमाद्ध्रस्वदीर्घप्लुतसंज्ञः स्यात् । स
प्रत्येकमुदात्तादिभेदेन त्रिधा ॥
5: उच्चैरुदात्तः (1-2-29) ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे
निष्पन्नोऽजुदात्तसंज्ञः स्यात् । आ ये ॥
6: नीचैरनुदात्तः (1-2-30) स्पष्टम् । अ॒र्वाङ् ॥
7: समाहारः स्वरितः (1-2-31) उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन्सोऽच्
स्वरितसंज्ञः स्यात् ॥
8:
तस्यादित
उदात्तमर्धह्रस्वम् (1-2-32) ह्रस्वग्रहणमतन्त्रम् । स्वरितस्यादितोऽर्धमुदात्तं बोध्यम्
। उत्तरार्धं तु परिशेषादनुदात्तम् । तस्य चोदात्तस्वरितपरत्वे श्रवणं स्पष्टम् ।
अन्यत्र तूदात्तश्रुतिः प्रातिशाख्ये प्रसिद्धा । ‘क्व१ वोऽश्वाः‘‘रथानां
न ये२राः‘‘श॒तच॑क्रं॒
यो॒॑३ ह्यः’इत्यादिष्वनुदात्तः । ‘अ॒ग्निमी॑ळे‘
इत्यादावुदात्तश्रुतिः । स नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा ॥
9: मुखनासिकावचनोऽनुनासिकः (1-1-8)
मुखसहितनासिकयोच्चार्यमाणो
वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् - अ इ उ ऋ एषां वर्णानां
प्रत्येकमष्टादशभेदाः । लृवर्णस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादश,
तेषां ह्रस्वाभावात् ॥
10: तुल्यास्यप्रयत्नं सवर्णम् (1-1-9)
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं
यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् । अकुहविसर्जनीयानां कण्ठः ।
इचुयशानां तालु । ऋटुरषाणां मूर्धा । लृतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ ।
ञमङणनानां नासिका च । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् ।
जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुस्वारस्य। इति स्थानानि । यत्नो
द्विधा - आभ्यन्तरो बाह्यश्च । आद्यश्चतुर्धा -
स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयत्नं स्पर्शानाम् ।
ईषत्स्पृष्टमन्तस्थानाम् । विवृतमूष्मणां स्वराणां च । ह्रस्वस्याऽवर्णस्य प्रयोगे
संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् । तथाहि॥
11: अ अ (8-4-68) (इति) विवृतमनूद्य संवृतोऽनेन विधीयते । अस्य चाष्टाध्यायीं
सम्पूर्णां प्रत्यसिद्धत्वाच्छास्त्रदृष्ट्या विवृतत्वमस्त्येव। तथा च सूत्रम् ॥
12: पूर्वत्रासिद्धम् (8-2-1) अधिकारोऽयम् । तेन सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा
त्रिपाद्यमपि पूर्वं प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्नस्त्वेकादशधा
- विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति
॥
खयां यमाः खयः ⌒⌣क⌒⌣पौ विसर्गः शर एव च ।
एते श्वसानुप्रदाना अघोषाश्च विवृण्वते ॥
कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः ।
अयुग्मा
वर्गयमगा यणश्चाल्पासवः स्मृताः ॥
वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये
प्रसिद्धः । पलिक्क्नीः, चख्ख्नतुः, अग्ग्निः, घ्घ्नन्तीत्यत्र क्रमेण कखगघेभ्यः
परे तत्सदृशा एव यमाः । तत्र वर्गाणां प्रथमद्वितीयाः - खयस्तथा तेषामेव यमाः,
जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत्येतेषां विवारः, श्वासोऽघोषश्च ।
अन्येषां तु संवारो नादो घोषश्च । वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ
यरलवाश्चाल्पप्राणाः । अन्ये महाप्राणा इत्यर्थः । बाह्यप्रयत्नाश्च यद्यपि
सवर्णसंज्ञायामनुपयुक्तास्तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्त इति बोध्यम् ।
कादयो मावसानाः स्पर्शाः । यरलवा अन्तस्थाः । शषसहा ऊष्माणः । अचः स्वराः । ⌒⌣कः ⌒⌣प
इति इति कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अं अः इत्यचः
परावनुस्वारविसर्गौ । इति स्थानप्रयत्नविवेकः । ‘ऋलृवर्णयोर्मिथः सावर्ण्यं
वाच्यम्’ (वा 150) । अकारहकारयोरिकारशकारयोर्ऋकारषकारयोर्लृकारसकारयोश्च मिथः
सावर्ण्ये प्राप्ते –
13: नाऽऽज्झलौ (1-1-10) आकारसहितोऽच् आच् स च हल् चेत्येतौ मिथः सवर्णौ न स्तः ।
तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा
दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् । तथा हि –
14: अणुदित्सवर्णस्य चाप्रत्ययः (1-1-69)
प्रतीयते विधीयत इति
प्रत्ययः, अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञा स्यात् । अत्राण् परेण णकारेण । कु
चु टु तु पु एते उदितः । तदेवम् । अ इत्यष्टादशानां संज्ञा । तथेकारोकारौ ।
ऋकारस्त्रिंशतः । एवम् लृकारोऽपि । एचो द्वादशानाम् । एदैतोरोदौतोश्च न मिथः
सावर्ण्यम् । ‘ऐऔच्’ इति सूत्रारम्भसामर्थ्यात् । तेनैचश्चतुर्विंशतेः संज्ञाः
स्युरिति नापादनीयम् । ‘नाज्झलौ’(सू. 13) इति निषेधो यद्यप्याक्षरसमाम्नायिकानामेव तथापि
हकारस्याऽऽकारो न सवर्णः । तत्राऽऽकारस्यापि प्रश्लिष्टत्वात् । तेन ‘विश्वपाभिः’
इत्यत्र ‘हो ढः’(सू. 324) इति ढत्वं न भवति । अनुनासिकाननुनासिकाभेदेन यवला द्विधा
। तेनाननुनासिकास्ते द्वयोर्द्वयोः संज्ञा ॥
15: तपरस्तत्कालस्य (1-1-70) तः परो यस्मात्स च तात्परश्चोच्चार्यमाणः समकालस्यैव संज्ञा
स्यात् । तेन ‘अत्’‘इत्’‘उत्’ इत्यादयः षण्णां संज्ञा । ‘ऋत्’ इति द्वादशानाम् ॥
16: वृद्धिरादैच् (1-1-1) आदैच्च वृद्धिसंज्ञः स्यात् ॥
17: अदेङ्गुणः (1-1-2) अदेङ् च गुणसंज्ञः स्यात् ॥
18: भूवादयो धातवः (1-3-1) क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः ॥
19: प्राग्रीश्वरान्निपाताः (1-4-56)
इत्यधिकृत्य ॥
20: चादयोऽसत्त्वे (1-4-57) अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः ॥
21: प्रादयः (1-4-58) अद्रव्यार्थाः प्रादयस्तथा ॥
22: उपसर्गाः क्रियायोगे (1-4-59)
23: गतिश्च (1-4-60) प्रादयः क्रियायोगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्युः । प्र
परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति
परि उप - एते प्रादयः ॥
24: न वेति विभाषा (1-1-44) निषेधविकल्पयोर्विभाषा संज्ञा स्यात् ॥
25: स्वं रूपं शब्दस्याशब्दसंज्ञा (1-1-68)
शब्दस्य स्वं रूपं संज्ञि
शब्दशास्त्रे या संज्ञा तां विना ॥
26: येन विधिस्तदन्तस्य (1-1-72) विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य ।
समासप्रत्ययविधौ प्रतिषेधः । उगिद्वर्णग्रहणवर्जम् ॥
27: विरामोऽवसानम् (1-4-110) वर्णानामभावोऽवसानसंज्ञः स्यात् ॥
28: परः संनिकर्षः संहिता (1-4-109)
वर्णानामतिशयितः सन्निधिः
संहितासंज्ञः स्यात् ॥
29: सुप्तिङन्तं पदम् (1-4-14) सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ॥
30: हलोऽनन्तराः संयोगः (1-1-7) अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ॥
31:
ह्रस्वं लघु (1-4-10)
32: संयोगे गुरु (1-4-11) संयोगे परे ह्रस्वं गुरुसंज्ञं स्यात् ॥
33:
दीर्घं च (1-4-12)
दीर्घं च गुरुसंज्ञं
स्यात् ॥
॥ इति संज्ञाप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें