॥ अथ विसर्गसन्धिप्रकरणम् ॥
150: शर्परे विसर्जनीयः (8-3-35)
शर्परे खरि विसर्जनीयस्य विसर्जनीयः न त्वन्यत् । कः त्सरुः । घनाघनः क्षोभणः । इह यथायथं सत्वं जिह्वामूलीयश्च न ॥
151: वा शरि (8-3-36)
शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात् । हरिः शेते । हरिश्शेते ॥ खर्परे शरि वा विसर्गलोपो वक्तव्यः (वा) ॥ रामस्थाता । हरिस्फुरति । पक्षे विसर्गे सत्वे च त्रैरूप्यम् ॥ कुप्वोः क पौ च 142 ॥ क करोति । कः करोति । क खनति । कः खनति । क पचति । कः पचति । क फलति । कः फलति ॥
152: सोऽपदादौ (8-3-38)
विसर्जनीयस्य सः स्यादपदाद्योः कुप्वोः परयोः ॥पाशकल्पककाम्येष्विति वाच्यम् (वा) ॥ पयस्पाशम् । यशस्कल्पम् । यशस्कम् । यशस्काम्यति ॥ अनव्ययस्येति वाच्यम् (वा) ॥ प्रातः कल्पम् (वा) ॥ काम्ये रोरेवेति वाच्यम् (वा) ॥ नेह । गीः काम्यति ॥
153: इणः षः (8-3-39)
इणः परस्य विसर्गस्य षकारः स्यात्पूर्वविषये । सर्पिष्पाशम् । सर्पिष्कल्पम् । सर्पिष्कम् । सर्पिष्काम्यति ॥
154: नमस्पुरसोर्गत्योः (8-3-40)
गतिसंज्ञयोरनयोर्विसर्गस्य सः कुप्वोः परयोः । नमस्करोति । साक्षात्प्रभृतित्वात्कृञो योगे विभाषा गतिसंज्ञा । तदभावे नमः करोति । पुरोऽव्ययम् 768 इति नित्यं गतिसंज्ञा । पुरस्करोति । अगतित्वान्नेह । पूः पुरौ पुरः प्रवेष्टव्याः ॥
155: इदुदुपधस्य चाप्रत्ययस्य (8-3-41)
इकारोकारोपधस्याप्रत्ययस्य विसर्गस्य षः स्यात्कुप्वोः । निष्प्रत्यूहम् । आविष्कृतम् । दुष्कृतम् । अप्रत्ययस्य किम् । अग्निः करोति । वायुः करोति ॥एकादेशशास्त्रनिमित्तकस्य न षत्वम् (वा) ॥ कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठात् । तेनेह न । मातुः कृपा ॥ मुहुसः प्रतिषेधः (वा) ॥ मुहुः कामा ॥
156: तिरसोऽन्यतरस्याम् (8-3-42)
तिरसः सो वा स्यात् कुप्वोः । तिरस्कर्ता । तिरः कर्ता ॥
157: द्विस्त्रिश्चतुरिति कृत्वोऽर्थे (8-3-43)
कृत्वोऽर्थे वर्तमानानामेषां विसर्गस्य षकारो वा स्यात् कुप्वोः । द्विष्करोति । द्विः करोतीत्यदि । कृत्वोऽर्थे किम् । चतुष्कपालः ॥
158: इसुसोः सामर्थ्ये (8-3-44)
एतयोर्विसर्गस्य षः स्याद्वा कुप्वोः । सर्पिष्करोति । सर्पिःकरोति । धनुष्करोति । धनुः करोति । सामर्थ्यमिह व्यपेक्षा । सामर्थ्ये किम् । तिष्ठतु सर्पिः, पिब त्वमुदकम् ॥
159: नित्यं समासेऽनुत्तरपदस्थस्य (8-3-45)
इसुसोर्विसर्गस्यानुत्तरपदस्थस्य नित्यं षः स्यात् कुप्वोः परयोः । सर्पिष्कुण्डिका । धनुष्कपालकम् । अनुत्तरपदस्थस्येति किम् । परमसर्पि कुण्डिका । कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः । व्यपेक्षायां नित्यार्थश्च ॥
160: अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य (8-3-46)
अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सकारादेशः स्यात्करोत्यादिषु परेषु न तूत्तरपदस्थस्य । अयस्कारः । अयस्कामः । अयस्कंसः । अयस्कुम्भः । अयस्पात्रम् । अयःसहिता कुशा अयस्कुशा । अयस्कर्णी । अतः किम् । गीःकारः । अनव्ययस्य किम् । स्वःकामः । समासे किम् । यशःकरोति । अनुत्तरपदस्थस्य किम् । परमयशःकारः ॥
161: अधः शिरसी पदे (8-3-47)
एतयोर्विसर्गस्य सादेशः स्यात्पदशब्दे परे । अधस्पदम् । शिरस्पदम् । समास इत्येव । अधःपदम् । शिरःपदम् । अनुत्तरपदस्थस्येत्येव । परमशिरःपदम् कस्कादिषु च (वा) ॥ भास्करः ॥
। इति विसर्गसन्धिप्रकरणम् ।
॥ अथ स्वादिसन्धिप्रकरणम् ॥
162: ससजुषो रुः (8-2-66)
पदान्तस्य सस्य सजुष्शब्दस्य च रुः स्यात् । जश्त्वापवादः ॥
163: अतो रोरप्लुतादप्लुते (6-1-113)
अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति । भोभगोअघो 167 इति प्राप्तस्य यत्वस्यापवादः । उत्वं प्रति रुत्वस्यासिद्धत्वं तु न भवति । रुत्वमनूद्य उत्वविधेः सामर्थ्यात् ॥
164: प्रथमयोः पूर्वसवर्णः (6-1-102)
अकः प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्घ एकादेशः स्यात् । इति प्राप्ते ॥
165: नादिचि (6-1-104)
अवर्णादिचिपरे न पूर्वसवर्णदीर्घः । आद्गुणः 69 । एङः पदान्तादति 86 । शिवोऽर्च्यः । अत इति तपरः किम् । देवा अत्र । अतीति तपरः किम् । श्व आगन्ता । अप्लुतात्किम् । एहि सुस्रोत3 अत्र स्नाहि । प्लुतस्यासिद्धत्वादतः परोऽयम् । अप्लुतादिति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वम् । तपरकरणस्य तु न सामर्थ्यं दीर्घनिवृत्त्या चरितार्थत्वात् । अप्लुते इति किम् । तिष्ठतु पय अ3ग्निदत्त । गुरोरनृत 97 इति प्लुतः ॥
166: हशि च (6-1-114)
अप्लुतादतः परस्य रोरुः स्याद्धशि । शिवो वन्द्यः । रोरित्युकारानुबन्धग्रहणान्नेह । प्रातरत्र । भ्रातर्गच्छ । देवास् इह इति स्थिते । रुत्वम् ॥
167: भोभगोअघोअपूर्वस्य योऽशि (8-3-17)
एतत्पूर्वस्य रोर्यादेशः स्यादशि परे । असन्धिः सौत्रः ॥ लोपः शाकल्यस्य 670 । देवा इह । देवायिह । अशि किम् । देवाः सन्ति । यद्यपीह यत्वस्यासिद्धत्वाद्विसर्गो लभ्यते तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । नह्ययमल्विधिः । रोरिति समुदायरूपाश्रयणात् । भोस् भगोस् अघोस् इति सकारान्ता निपाताः । तेषां रोर्यत्वे कृते ॥
168: व्योर्लघुप्रयत्नतरः शाकटायनस्य (8-3-18)
पदान्तयोर्वकारयकारयोर्लघूच्चारणौ वयौ वा स्तोऽशि परे । यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं जायते स लघूच्चारणः ॥
169: ओतो गार्ग्यस्य (8-3-20)
ओकारात्परस्य पदान्तस्यालघुप्रयत्नस्य यकारस्य नित्यं लोपः स्यात् । गार्ग्यग्रहणं पूजार्थम् । भो अच्युत । लघुप्रयत्नपक्षे भोयच्युत । पदान्तस्य किम् । तोयम् ॥
170: उञि च पदे (8-3-21)
अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोप उञि पदे । स उ एकाग्निः । पदे किम् । तन्त्रयुतम् । वेञः संप्रसारणे रूपम् । यदि तु प्रतिपदोक्तो निपात उञिति ग्रहीष्यते तर्ह्युत्तरार्थं पदग्रहणम् ॥
171: हलि सर्वेषाम् (8-3-22)
भोभगोअघोअपूर्वस्य लघ्वलघूच्चारणस्य यकारस्य लोपः स्याद्धलि सर्वेषां मतेन । भो देवाः । भो लक्ष्मि । भो विद्वद्वृन्द । भगो नमस्ते । अघो याहि । देवा नम्याः । देवा यान्ति । हलि किम् । देवायिह ॥
172: रोऽसुपि (8-2-69)
अह्नो रेफादेशः स्यान्न तु सुपि । रोरपवादः । अहरहः । अहर्गणः । असुपि किम् । अहोभ्याम् । अत्राहन्निति रुत्वम् ॥ रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् (वा) ॥ अहोरूपम् । गतमहोरात्रिरेषा । एकदेशविकृतस्यानन्यत्वादहोरात्रः । अहोरथन्तरम् ॥ अहरादीनां पत्यादिषु वा रेफः (वा) ॥ विसर्गापवादः । अहर्पतिः गीर्पतिः । धूर्पतिः । पक्षे विसर्गोपध्मानीयौ ॥
173: रो रि (8-3-14)
रेफस्य रेफे परे लोपः स्यात् ॥
174: ढ्रलोपे पूर्वस्य दीर्घोऽणः (6-3-111)
ढरेफौ लोपयतीति तथा तस्मिन्वर्णेऽर्थाद् ढकाररेफात्मके परे पूर्वस्याणो दीर्घः स्यात् । पुनारमते । हरीरम्यः । शंभूराजते । अणः किम् । तृढः । वृढः । तृहू हिंसायाम् । वृहू उद्यमने । पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । लीढः । अजर्घाः । मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते ॥
175: विप्रतिषेधे परं कार्यम् (1-4-2)
तुल्यबलविरोधे परं कार्यं स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धम् 12 इति रोरि 173 इत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ॥
176: एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6-1-132)
अककारयोरेतत्तदोर्यः सुस्तस्य लोपः स्याद्धलि न तु नञ्समासे । एष विष्णुः । स शंभुः । अकोः किम् । एषको रुद्रः । अनञ्समासे किम् । असःशिवः । हलि किम् । एषोऽत्र ॥
177: सोऽचि लोपे चेत्पादपूरणम् (6-1-134)
सस् इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्येत । सेमामविड्ढि प्रभृतिं य ईशिषे । इह ऋक्पाद एव गृह्यत इति वामनः । अविशेषाच्छ्लोकपादोऽपीत्यपरे । सैष दाशरथी रामः । लोपे चेदिति किम् । स इत् क्षेति । स एव मुक्त्वा । सत्येवेत्यवधारणं तु स्यश्छन्दसि बहुलम् 3526 इति पूर्वसूत्राद्बहुलग्रहणानुवृत्त्या लभ्यते । तेनेह न । सोऽहमाजन्मशुद्धानाम् ॥
। इति स्वादिसन्धिप्रकरणम् ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें