वैयाकरणसिद्धान्तकौमुदी (हलन्तपुँल्लिङ्गप्रकरणम्)

 

॥ अथ हलन्तपुंलिङ्गप्रकरणम्‌ ॥

324: हो ढः (8-2-31) हस्य ढः स्याज्झलि पदान्ते च । ‘हल्ङ्याप्’(सू. 252) इति सुलोपः । पदान्तत्वाद्धस्य ढः। जश्त्वचर्त्वे । लिट् । लिड् । लिहौ । लिहः । लिहम् । लिहौ । लिहः । लिहा । लिड्भ्याम् । लिट्त्सु । लिट्सु ॥

325: दादेर्धातोर्धः (8-2-32) उपदेशे दादेर्धातोर्हस्य घः स्याज्झलि पदान्ते च । उपदेशे किम् । अधोगित्यत्र यथा स्यात् । दामलिहमात्मन इच्छति दामलिह्यति । ततः क्विपि दामलिट् । अत्र माभूत् ॥

326: एकाचो बशो भष् झषन्तस्य स्ध्वोः (8-2-37) धातोरवयवो य एकाज्झषन्तस्तदवयवस्य बशः स्थाने भष् स्यात्सकारे ध्वशब्दे पदान्ते च । एकाचो धातोरिति सामानाधिकरण्येनाऽन्वये तु इह न स्यात् । गर्दभमाचष्टे गर्दभयति । ततः क्विप् । णिलोपः । गर्धप् । झलीति निवृत्तं स्ध्वोर्ग्रहणसामर्थ्यात् । तेनेह न । दुग्धम् । दोग्धा । व्यपदेशिवद्भावेन धात्ववयवत्वाद्भष्भावः । जश्त्वचर्त्वे । धुक् । धुग् । दुहौ । दुहः । षत्वचर्त्वे । धुक्षु ॥

327: वा द्रुहमुहष्णुहष्णिहाम् (8-2-33) एषां हस्य वा घः स्याज्झलि पदान्ते च । पक्षे ढः । ध्रुक् । ध्रुग् । ध्रुट् । ध्रुड् । द्रुहौ । द्रुहः । ध्रुग्भ्याम् । ध्रुड्भ्याम् । ध्रुक्षु । ध्रुट्त्सु । ध्रुट्सु । एवं मुहष्णुहष्णिहाम् ॥

328: इग्यणः संप्रसारणम् (1-1-45) यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् ॥

329: वाह ऊठ् (6-4-132) भस्य वाहः संप्रसारणमूठ् स्यात् ॥

330: संप्रसारणाच्च (6-1-108) संप्रसारणादचि परे पूर्वरूपमेकादेशः स्यात् । ‘एत्येधत्यूठ्सु’(सू. 73) । विश्वौहः। विश्वौहेत्यादि । छन्दस्येव ण्विरिति पक्षे णिजन्ताद्विच् ॥

331: चतुरनडुहोरामुदात्तः (7-1-98) अनयोराम् स्यात्सर्वनामस्थाने स चोदात्तः ॥

332: सावनडुहः (7-1-82) अस्य नुम् स्यात्सौ परे । आदित्यधिकारादवर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमा आम् न बाध्यते । अमा च नुम् न बाध्यते । सोर्लोपः । नुम्विधिसामर्थ्यात् ‘वसुस्रंसु’(सू. 334) इति दत्वं न । संयोगान्तलोपस्याऽसिद्धत्वान्नलोपो न । अनड्वान् ॥

333: अम् संबुद्धौ (7-1-99) चतुरनडुहोरम् स्यात्संबुद्धौ । आमोऽपवादः । हे अनड्वन् । अनड्वाहौ । अनड्वाहः। अनडुहः । अनडुहा ॥

334: वसुस्रंसुध्वंस्वनडुहां दः (8-2-72) सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते । अनडुद्भ्यामित्यादि । सान्तेति किम् । विद्वान् । पदान्ते इति किम् । स्रस्तम् । ध्वस्तम् ॥

335: सहेः साडः सः (8-3-56) साड्रूपस्य सहेः सस्य मूर्धन्यादेशः स्यात् । तुराषाट् । तुराषाड् । तुरासाहौ । तुरासाहः । तुराषाड्भ्यामित्यादि । तुरं सहत इत्यर्थे ‘छन्दसि सहः’(सू. 3409) इति ण्विः । लोके तु साहयतेः क्विप् । ‘अन्येषामपि’(सू. 3539) इति पूर्वपदस्य दीर्घः । इति हान्ताः ॥

336: दिव औत् (7-1-84) दिविति प्रातिपदिकस्य औत्स्यात्सौ परे । अल्विधित्वेन स्थानिवत्त्वाभावात् ‘हल्ङ्याप्’(सू. 252) इति सुलोपो न । सुद्यौः । सुदिवौ । सुदिवः । सुदिवम् । सुदिवौ ॥

337: दिव उत् (6-1-131) दिवोऽन्तादेश उकारः स्यात्पदान्ते । सुद्युभ्याम् । सुद्युभिः । चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः । चतुर्भ्यः ॥

338: षट् चतुर्भ्यश्च (7-1-55) षट्संज्ञकेभ्यश्चतुरश्च परस्यामो नुडागमः स्यात् । णत्वम् । द्वित्वम् । चतुर्ण्णाम् । चतुर्णाम् ॥

339: रोः सुपि (8-3-16) सप्तमीबहुवचने परे रोरेव विसर्जनीयो नान्यरेफस्य । षत्वम् । षस्य द्वित्वे प्राप्ते ॥

340: शरोऽचि (8-4-49) अचि परे शरो न द्वे स्तः । चतुर्षु । प्रियचत्वाः । हे प्रियचत्वः । प्रियचत्वारौ । प्रियचत्वारः । गौणत्वे तु नुट् नेष्यते । प्रियचतुराम् । प्राधान्ये तु स्यादेव । परमचतुर्णाम् । इति रेफान्ताः । कमलं कमलां वा आचक्षाणः कमल् । कमलौ । कमलः । षत्वं कमल्षु । इति लान्ताः ॥

341: मो नो धातोः (8-2-64) धातोर्मस्य नः स्यात्पदान्ते । नत्वस्यासिद्धत्वान्नलोपो न । प्रशाम्यतीति प्रशान् । प्रशामौ । प्रशामः । प्रशान्भ्यामित्यादि ॥

342: किमः कः (7-2-103) किमः कः स्याद्विभक्तौ । अकच्सहितस्याप्ययमादेशः । कः । कौ । के । कम् । कौ । कान् । इत्यादि सर्ववत् ॥

343: इदमो मः (7-2-108) इदमो मस्य मः स्यात्सौ परे । त्यदाद्यत्वापवादः ॥

344: इदोऽय् पुंसि (7-2-111) इदम इदोऽय् स्यात्सौ पुंसि । सोर्लोपः । अयम् । त्यदाद्यत्वं पररूपत्वं च ॥

345: दश्च (7-2-109) इदमो दस्य मः स्याद्विभक्तौ । इमौ । इमे । त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः ॥

346: अनाप्यकः (7-2-112) अककारस्येदम इदोऽन् स्यादापि विभक्तौ । आबिति टा इत्यारभ्य सुपः पकारेण प्रत्याहारः । अनेन ॥

347: हलि लोपः (7-2-113) अककारस्येदम इदो लोपः स्यादापि हलादौ। ‘नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे’ (वा 490) ॥

348: आद्यन्तवदेकस्मिन् (1-1-21) एकस्मिन् क्रियामाणं कार्यमादाविवाऽन्त इव स्यात् । आभ्याम् ॥

349: नेदमदसोरकोः (7-1-11) अककारयोरिमदसोर्भिस ऐस् न स्यात् । एत्वम् । एभिः । अत्वम् । नित्यत्वात् ङेः स्मै, पश्चाद्धलि लोपः । अस्मै । आभ्याम् । एभ्यः । अस्मात् । आभ्याम् । एभ्यः । अस्य । अनयोः । एषाम् । अस्मिन् । अनयोः । एषु । ककारयोगे तु अयकम् । इमकौ । इमके । इमकम् । इमकौ । इमकान् । इमकेन । इमकाभ्याम् । इत्यादि ॥

350: इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ (2-4-32) अन्वादेशविषयस्येदमोऽनुदात्तोऽशादेशः स्यात्तृतीयादौ । अश्वचनं साकच्कार्थम् ॥

351: द्वितीयाटौस्स्वेनः (2-4-34) द्वितीयायां टौसोश्च परतः इदमेतदोरेनादेशः स्यादन्वादेशे । किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । यथाऽनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वमिति । एनम् । एनौ । एनान् । एनेन । एनयोः । इति मान्ताः । गणयतेर्विच् । सुगण् । सुगणौ । सुगणः । सुगण्ठ्सु । सुगण्ट्सु । सुगण्सु । क्विप् । ‘अनुनासिकस्य क्विझलोः’(सू. 2666) इति दीर्घः। सुगाण् । सुगाणौ । सुगाणः । सुगाण्ठ्सु । सुगाण्ट्सु । सुगाण्सु । इति णान्ताः । परत्वादुपधादीर्घः, हल्ङ्यादिलोपः । ततो नलोपः । राजा ॥

352: न ङिसंबुद्ध्योः (8-2-8) नस्य लोपो न स्यात् ङौ संबुद्धौ च । हे राजन् । ङौ तु छन्दस्युदाहरणम् । ‘सुपां सुलुक्’ (सू. 3561) इति ङेर्लुक् । निषेधसामर्थ्यात्प्रत्ययलक्षणम् । परमे व्योमन् । ‘ङावुत्तरपदे प्रतिषेधो वक्तव्यः’ (वा 4785) ॥ चर्मणि तिला अस्य चर्मतिलः । ब्रह्मणि निष्ठा अस्य ब्रह्मनिष्ठः । राजानौ । राजानः । राजानम् । राजानौ । ‘अल्लोपोऽनः’(सू. 234) । श्चुत्वम् । न चाऽल्लोपः स्थानिवत् । पूर्वत्रासिद्धे तन्निषेधात् । नाऽपि बहिरङ्गतयाऽसिद्ध । यथोद्देशपक्षे षाष्ठीं परिभाषां प्रति श्चुत्वस्यासिद्धतयाऽन्तरङ्गाभावेन परिभाषाया अप्रवृत्तेः। जञोर्ज्ञः । राज्ञः । राज्ञा ॥

353: नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति (8-2-2) सुब्विधौ स्वरविधौ संज्ञाविधौ कृतितुग्विधौ च नलोपोऽसिद्धः, नान्यत्र राजाश्वः इत्यादौ । इत्यसिद्धत्वादात्वमेत्वमैस्त्वं च न । राजभ्याम् । राजभिः । राज्ञे । राजभ्यः । राज्ञः । राज्ञोः । राज्ञाम् । राज्ञि । राजनि ॥ प्रतिदीव्यतीति प्रतिदिवा । प्रतिदिवानौ । प्रतिदिवानः । अस्य भविषयेऽल्लोपे कृते ॥

354: हलि च (8-2-77) रेफवान्तस्य धातोरुपधाया इको दीर्घः स्याद्धलि । न चाल्लोपस्य स्थानिवत्त्वम् । दीर्घविधौ तन्निषेधात् । बहिरङ्गपरिभाषा तूक्तन्यायेन न प्रवर्तते । प्रतिदीव्नः । प्रतिदीव्नेत्यादि ॥ यज्वा । यज्वानौ । यज्वानः ॥

355: न संयोगाद्वमन्तात् (6-4-137) वकारमकारान्तसंयोगात्परस्याऽनोऽकारस्य लोपो न स्यात् । यज्वनः । यज्वना । यज्वभ्यामित्यादि । ब्रह्मणः । ब्रह्मणा । ब्रह्मभ्याम् इत्यादि ॥

356: इन्हन्पूषार्यम्णां शौ (6-4-12) एषां शावेवोपधाया दीर्घो नान्यत्र । इति निषेधे प्राप्ते ॥

357: सौ च (6-4-13) इन्नादीनामुपधाया दीर्घः स्यादसंबुद्धौ सौ परे । वृत्रहा । हे वृत्रहन् । ‘एकाजुत्तरपदे’(सू. 307) इति णत्वम् । वृत्रहणौ । वृत्रहणः । वृत्रहणम् । वृत्रहणौ ॥

358: हो हन्तेर्ञ्णिन्नेषु (7-3-54) ञिति णिति च प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वं स्यात् ॥

359: हन्तेरत्पूर्वस्य (8-4-22) उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णत्वं नान्यस्य । प्रहण्यात् ॥ (अत्पूर्वस्य) हन्तेरत्पूर्वस्यैव नस्य णत्वं नान्यस्य । प्रघ्नन्ति । योगविभागसामर्थ्यात् अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (प 62)  इति न्यायं बाधित्वा ‘एकाजुत्तरपदे’(सू. 307) इति णत्वमपि निवर्त्यते । नकारे परे कुत्वविधिसामर्थ्यादल्लोपो न स्थानिवत् । वृत्रघ्नः । वृत्रघ्ना । इत्यादि । यत्तु वृत्रघ्न इत्यादौ वैकल्पिकं णत्वं माधवेनोक्तं तद्भाष्यवार्तिकविरुद्धम् । एवं शार्ङिन्, यशस्विन्, अर्यमन्, पूषन् । यशस्विन्निति विन्प्रत्यये इनोऽनर्थकत्वेऽपि ‘इन्हन्’ (सू. 356) इत्यत्र ग्रहणं भवत्येव । ‘अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति’(प 17) इति वचनात् । अर्यम्णि । अर्यमणि । पूष्णि । पूषणि ॥

360: मघवा बहुलम् (6-4-128) मघवन्शब्दस्य वा तृ इत्यन्तादेशः स्यात् । ऋ इत् ॥

361: उगिदचां सर्वनामस्थानेऽधातोः (7-1-70) अधातोरुगितो नलोपिनोऽञ्चतेश्च नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । मघवान् । इह दीर्घे कर्तव्ये संयोगान्तलोपस्याऽसिद्धत्वं न भवति बहुलग्रहणात् । तथाच ‘श्वन्नुक्षन्’ (उ 157) इति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धमाश्रित्यैतत्सूत्रं प्रत्याख्यातमाकरे । हविर्जक्षिति निःशङ्कोः मखेषु मघवानसाविति भट्टिः । मघवन्तौ । मघवन्तः । हे मघवन् । मघवन्तम् । मघवन्तौ । मघवतः । मघवता । मघवद्भ्यामित्यादि । तृत्वाभावे । मघवा छन्दसीवनिपौ चेति वनिबन्तं मध्योदात्तं छन्दस्येव । अन्तोदात्तं तु लोकेऽपीति विशेषः । मघवानौ । मघवानः । सुटि राजवत् ॥

362: श्वयुवमघोनामतद्धिते (6-4-133) अन्नन्तानां भसंज्ञकानामेषामतद्धिते परे संप्रसारणं स्यात् । ‘संप्रसारणाच्च’(सू. 330) । ‘आद्गुणः’(सू. 69) । मघोनः । अन्नन्तानां किम् । मघवतः । मघवता । स्त्रियां मघवती । अतद्धिते किम् । माघवनम् । मघोना । मघवभ्यामित्यादि । शुनः । शुना । श्वभ्यामित्यादि । युवन् शब्दे वस्योत्वे कृते ॥

363: न संप्रसारणे संप्रसारणम् (6-1-37) संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात् । इति यकारस्य नेत्वम् । अतएव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम् । यूनः । यूना । युवभ्यामित्यादि । अर्वा । हे अर्वन् ॥

364: अर्वणस्त्रसावनञः (6-4-127) नञा रहितस्यार्वन्नन्तस्याङ्गस्य तृ इत्यन्तादेशः स्यान्न तु सौ । उगित्त्वान्नुम्। अर्वन्तौ । अर्वन्तः । अर्वन्तम् । अर्वन्तौ । अर्वतः । अर्वता । अर्वद्भ्यामित्यादि ॥ अनञः किम् । अनर्वा। यज्ववत्॥

365: पथिमथ्यृभुक्षामात् (7-1-85) एषामाकारोऽन्तादेशः स्यात्सौ परे । आआत् इति प्रश्लेषेण शुद्धाया एव व्यक्तेर्विधानान्नानुनासिकः ॥

366: इतोऽत्सर्वनामस्थाने (7-1-86) पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे ॥

367: थो न्थः (7-1-87) पथिमथोस्थस्य न्थादेशः स्यात्सर्वनामस्थाने परे । पन्था । पन्थानौ । पन्थानः । पन्थानम् । पन्थानौ ॥

368: भस्य टेर्लोपः (7-1-88) भसंज्ञकस्य पथ्यादेष्टेर्लोपः स्यात् । पथः । पथा । पथिभ्यामित्यादि । एवं मन्थाः । ऋभुक्षाः । स्त्रियां नान्तलक्षणे ङीपि भत्वाट्टिलोपः । सुपथी । सुमथी । नगरी । अनृभुक्षी सेना । आत्वं नपुंसकेन भवति ‘न लुमता’(सू. 263) इति प्रत्ययलक्षणनिषेधात् । सुपथि वनम् । ‘संबुद्धौ नपुंसकानां नलोपो वा वाच्यः’(वा 4786) । हे सुपथिन् । सुपथि । ‘नलोपः सुप्स्वर’(सू. 353) इति नलोपस्यासिद्धत्वाद्ध्रस्वस्य गुणो न । द्विवचने भत्वाट्टिलोपः । सुपथी । शौ सर्वनामस्थानत्वात् सुपन्थानि । पुनरपि । सुपथि । सुपथी । सुपन्थानि । सुपथा । सुपथे । सुपथिभ्यामित्यादि ॥

369: ष्णान्ता षट् (1-1-24) षान्ता नान्ता च सङ्ख्या षट्संज्ञा स्यात् । ‘षड्भ्यो लुक्’(सू. 261) । पञ्च । पञ्च । सङ्ख्या किम् । विप्रुषः । पामानः । शतानि सहस्त्राणीत्यत्र संनिपातपरिभाषया न लुक् । सर्वनामस्थानसंनिपातेन कृतस्य नुमस्तदविघातकत्वात् । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । ‘षट्चतुर्भ्यश्च’(सू. 338) इति नुट् ॥

370: नोपधायाः (6-4-7) नान्तस्योपधाया दीर्घः स्यान्नामि परे । नलोपः । पञ्चानाम् । पञ्चसु । परमपञ्च । परमपञ्चानाम् । गौणत्वे तु न लुङ्नुटौ । प्रियपञ्चा । प्रियपञ्चानौ । प्रियपञ्चानः । प्रियपञ्चाम् । एवं सप्तन् नवन् दशन् ॥

371: अष्टन आ विभक्तौ (7-2-84) अष्टन आत्वं स्याद्धलादौ विभक्तौ ॥

372: अष्टाभ्य औश् (7-1-21) कृताकारादष्टनः परयोर्जश्शसोरौश् स्यात् । अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । वैकल्पिकं चेदमष्टन आत्वम् । ‘अष्टनो दीर्घात्’(सू. 3718) इति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । अष्टौ । अष्टौ । परमाष्टौ । परमाष्टौ । अष्टाभिः । अष्टाभ्यः । अष्टाभ्यः । अष्टानाम् । अष्टासु । आत्वाभावे । अष्ट । अष्ट । इत्यादि पञ्चवत् । गौणत्वे त्वात्वाऽभावे राजवत् । शसि प्रियाष्ट्नः । इह पूर्वस्मादपि विधावल्लोपस्थानिवद्भावान्न ष्टुत्वम् । कार्यकालपक्षे बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वा । प्रियाष्टा इत्यादि । जश्शसोरनुमीयमानमात्त्वं प्राधान्य एव न तु गौणतायाम् । तेन प्रियाष्ट्नो हलादावेव वैकल्पिकमात्त्वम् । प्रियाष्टाः । प्रियाष्टाभ्याम् । प्रियाष्टाभिः । प्रियाष्टाभ्यः । प्रियाष्टाभ्यः । प्रियाष्टासु ।‘प्रियाष्ट्नो राजवत्सर्गं हाहावञ्चापरं हलि’ । इति नान्ताः । भष्भावः । जशत्वचर्त्वे । भुत् । भुद् । बुधौ । बुधः । बुधा । भुद्भ्याम् । भुत्सु । इति घान्ताः ॥

373: ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च (3-2-59) एभ्यः क्विन्स्यात् । अलाक्षणिकमपि किंचित्कार्यं निपातनाल्लभ्यते । निरुपपदाद्युजेः क्विन् । कनावितौ ॥

374: कृदतिङ् (3-1-93) संनिहिते धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात् ॥

375: वेरपृक्तस्य (6-1-67) अपृक्तस्य वेर्लोपः स्यात् । ‘कृत्तद्धित’(सू. 179) इति प्रातिपदिकत्वात्स्वादयः ॥

376: युजेरसमासे (7-1-71) युजेः सर्वनामस्थाने नुम् स्यादसमासे । सुलोपः । संयोगान्तस्य लोपः ॥

377: क्विन्प्रत्ययस्य कुः (8-2-62) क्विन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः स्यात्पदान्ते । नस्य कुत्वेनाऽनुनासिको ङकारः । युङ् । ‘नश्चापदान्तस्य’ (सू. 123) इति नुमोऽनुस्वारः । परसवर्णः । तस्याऽसिद्धत्वात् ‘चोः कुः’(सू. 378) इति कुत्वं न । युञ्जौ । युञ्जः । युञ्जम् । युञ्जौ । युजः । युजा । युग्भ्याम् इत्यादि । असमासे किम् ॥

378: चोः कुः (8-2-30) चवर्गस्य कवर्गः स्याज्झलि पदान्ते च । इति कुत्वम् । ‘क्विन्प्रत्ययस्य’(सू. 377) इति कुत्वस्याऽसिद्धत्वात् । सुयुक् । सुयुग् । सुयुजौ । सुयुजः । युजेरिति धातुपाठपठितेकारविशिष्टस्यानुकरणं न त्विका निर्देशः । तेनेह न । युज्यते समाधत्ते इति युक् । युज समाधौ दैवादिक आत्मनेपदी । संयोगान्तलोपः । खन् । खञ्जौ। खञ्जः । इत्यादि । ‘व्रश्च’(सू. 294) इति षत्वम् । जश्त्वचर्त्वे । राट् । राड् । राजौ । राजः । राट्सु । राट्त्सु। एवं विभ्राट् । देवेट् । देवेजौ । देवेजः । विश्वसृट् । विश्वसृड् । विश्वसृजौ । विश्वसृजः । इह सृजियज्योः कुत्वं नेति क्लीबे वक्ष्यते । परिमृट् । षत्वविधौ राजिसाहचर्यात् टुभ्राजृ दीप्ताविति फणादिरेव गृह्यते । यस्तु एजृभ्रेजृभ्राजृदीप्ताविति तस्य कुत्वमेव । विभ्राक् । विभ्राग् । विभ्राग्भ्यामित्यादि । ‘परौ व्रजेः षः पदान्ते’(उ. 217) । परावुपपदे व्रजेः क्विप्स्याद्दीर्घश्च पदान्तविषये षत्वं च । परित्यज्य सर्वं व्रजतीति परिव्राट् । परिव्राजौ । परिव्राजः ॥

379: विश्वस्य वसुराटोः (6-3-128) विश्वशब्दस्य दीर्घः स्याद्वसौ राट्शब्दे च परे । विश्वं वसु यस्य स विश्वावसुः । राडिति पदान्तोपलक्षणार्थम् । चर्त्वमविवक्षितम् । विश्वाराट् । विश्वाराड् । विश्वराजौ । विश्वराजः। विश्वाराड्भ्यामित्यादि ॥

380: स्कोः संयोगाद्योरन्ते च (8-2-29) पदान्ते झलि च परे यः संयोगस्तदाद्योः सकारककारयोर्लोपः स्यात् । भृट् । भृड् । सस्य श्चुत्वेन शः । तस्य जश्त्वेन जः । भृज्जौ । भृज्जः । ‘ऋत्विग्’(सू. 373) इत्यादिना ऋतावुपपदे यजेः क्विन् । क्विन्नन्तत्वात्कुत्वम् । ऋत्विक् । ऋत्विग् । ऋत्विजौ । ऋत्विजः । ‘रात्सस्य’(सू. 280) इति नियमान्न संयोगान्तलोपः । ऊर्क । ऊर्ग । ऊर्जौ । ऊर्जः । त्यदाद्यत्वं पररूपत्वं च ॥

381: तदोः सः सावनन्त्ययोः (7-2-106) त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ परे । स्यः । त्यौ । त्ये। त्यम् । त्यौ । त्यान् । सः । तौ । ते । परमसः । परमतौ । परमते । द्विपर्यन्तानामित्येव । नेह त्वम् । नच तकारोच्चारणसामर्थान्नेति वाच्यम् । अतित्वमिति गौणे चरितार्थत्वात् । संज्ञायां गौणत्वे चात्वसत्वे न । त्यद् । त्यदौ । त्यदः । अतित्यद् । अतित्यदौ । अतित्यदः । यः । यौ । ये । एषः । एतौ । एते । अन्वादेशे तु । एनम् । एनौ। एनान् । एनेन । एनयोः ॥

382: ङेप्रथमयोरम् (7-1-28) युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः स्यात् ॥

383: मपर्यन्तस्य (7-2-91) इत्यधिकृत्य ॥

384: त्वाहौ सौ (7-2-94) युष्मदस्मदोर्मपर्यन्तस्य त्व अह इत्येतावादेशौ स्तः सौ परे ॥

385: शेषे लोपः (7-2-90) आत्वयत्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यस्य लोपः स्यात् । ‘अतो गुणे’(सू. 191) ।‘अमि पूर्वः’(सू. 194) त्वम् । अहम् । ननु ‘त्वं स्त्री’‘अहं स्त्री’ इत्यत्र ‘त्व अम्’‘अह अम्’ इति स्थिते अमि पूर्वरूपं परमपि बाधित्वाऽन्तरङ्गत्वाट्टाप् प्राप्नोति । सत्यम् । अलिङ्गे युष्मदस्मदी । तेन स्त्रीत्वाभावान्न टाप् । यद्वा शेष इति सप्तमी स्थानिनोऽधिकरणत्वविवक्षया । तेन मपर्यन्ताच्छेषस्य अद् इत्यस्य लोपः । सच परोऽप्यन्तरङ्गे ‘अतो गुणे’(सू. 191) कृते प्रवर्तते । तेनादन्तत्वाऽभावान्न टाप् । परमत्वम् । परमाहम् । अतित्वम् । अत्यहम् ॥

386: युवावौ द्विवचने (7-2-92) द्वयोरुक्तौ युष्मदस्मदोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ ॥

387: प्रथमायाश्च द्विवचने भाषायाम् (7-2-88) इह युष्मदस्मदोराकारोऽन्तादेशः स्यात् । औङीत्येव सुवचम् । भाषायां किम् । युवं वस्त्राणि । मपर्यन्तस्य (सू. 383) किम् । साकच्कस्य माभूत् । युवकाम् । आवकाम् । त्वया मयेत्यत्र त्व्या म्येति माभूत् । युवकाभ्याम् आवकाभ्याम् इति च न सिद्ध्येत् ॥

388: यूयवयौ जसि (7-2-93) स्पष्टम् । यूयम् । वयम् । परमयूयम् । परमवयम् । अतियूयम् । अतिवयम् । इह शेषे लोपोऽन्त्यलोप इति पक्षे जसः शी प्राप्तः । ‘अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्’(प 93) इति न भवति । ‘ङेप्रथमयोः’(सू. 382)  इत्यत्र मकारान्तरं प्रश्लिष्य अम् मान्त एवावशिष्यते नतु विक्रियते इति व्याख्यानाद्वा ॥

389: त्वमावेकवचने (7-2-97) एकस्योक्तौ युष्मदस्मदोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ ॥

390: द्वितीयायां च (7-2-87) युष्मदस्मदोराकारः स्यात् । त्वाम् । माम् । युवाम् । आवाम् ॥

391: शसो न (7-1-29) नेत्यविभक्तिकम् । युष्मदस्मद्भ्यां परस्य शसो नकारः स्यात् । अमोपवादः । ‘आदेः परस्य’(सू. 44) । ‘संयोगान्तस्य लोपः’(सू. 54) । युष्मान् । अस्मान् ॥

392: योऽचि (7-2-89) अनयोर्यकारादेशः स्यादनादेशेऽजादो परे । त्वया । मया ॥

393: युष्मदस्मदोरनादेशे (7-2-86) अनयोराकारः स्यादनादेशे हलादौ विभक्तौ परे । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥

394: तुभ्यमह्यौ ङयि (7-2-95) अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो ङयि । अमादेशः । ‘शेषे लोपः’(सू. 385) । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । अतितुभ्यम् । अतिमह्यम् । युवाभ्याम् । आवाभ्याम् ॥

395: भ्यसोभ्यम् (7-1-30) भ्यसो भ्यम् अभ्यम् वा आदेशः स्यात् । आद्यः शेषे लोपस्यान्त्यलोपत्व एव । तत्राङ्गवृत्तपरिभाषया एत्वं न । अभ्यम् तु पक्षद्वयेऽपि साधुः । युष्मभ्यम् । अस्मभ्यम् ॥

396: एकवचनस्य च (7-1-32) आभ्यां पञ्चम्येकवचनस्य अत्स्यात् । त्वत् । मत् । ङसेश्चेति सुवचम् । युवाभ्याम् । आवाभ्याम् ॥

397: पञ्चम्या अत् (7-1-31) आभ्यां पञ्चम्या भ्यसोऽत्स्यात् । युष्मत् । अस्मत् ॥

398: तवममौ ङसि (7-2-96) अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि ॥

399: युष्मदस्मद्भ्यां ङसोऽश् (7-1-27) स्पष्टम् । तव । मम । युवयोः । आवयोः ॥

400: साम आकम् (7-1-33) आभ्यां परस्य साम आकम् स्यात् । भाविनः सुटो निवृत्त्यर्थं ससुट्कनिर्देशः । युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः । आवयोः । युष्मासु । अस्मासु ॥

समस्यमाने द्वयेकत्ववाचिनी युष्मदस्मदी ।

समस्यमाने द्वयेकत्ववाचिनी युष्मदस्मदी ।

समासार्थोऽन्यसङ्ख्यश्येत्स्तो युवावौ त्वमावपि ॥ 1

सुजस्ङेङस्सु परत आदेशाः स्युः सदैव ते ।

त्वाहौ यूयवयौ तुभ्यमह्यौ तवममावपि ॥ 2

एते परत्वाद्बाधन्ते युवावौ विषये स्वके ।

त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधतः ॥ 3

द्व्येकसङ्ख्यः समासार्थो बह्वर्थे युष्मदस्मदी ।

तयोरद्व्येकतार्थत्वान्न युवावौ त्वमौ न च ॥ 4

त्वां मां वा अतिक्रान्त इति विग्रहे । अतित्वम् । अत्यहम् । अतित्वाम् । अतिमाम् । अतियूयम् । अतिवयम् । अतित्वाम् । अतिमाम् । अतित्वाम् । अतिमाम् । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वभ्यम् । अतिमभ्यम् । ङसिङ्यसोः । अतित्वत् । अतिमत् । भ्यामि प्राग्वत् । अतितव । अतिमम । अतित्वयोः । अतिमयोः । अतित्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । अतित्वयोः । अतिमयोः। अतित्वासु । अतिमासु । युवाम् आवां वा अतिक्रान्त इति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअम् औट्सु । अतियुवाम् । अतियुवाम् । अतियुवाम् । अत्यावाम् । अत्यावाम् । अत्यावाम् । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् ३ । अत्यावाभ्याम् ३ । अतियुवाभिः । अत्यावाभिः । भ्यसि । अतियुवभ्यम् । अत्यावभ्यम् । ङसिभ्यसोः । अतियुवत् । अतियुवत् । अत्यावत् । अत्यावत् । ओसि । अतियुवयोः। अतियुवयोः । अत्यावयोः । अत्यावयोः । अतियुवाकम् । अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु । युष्मानस्मान्वा अतिक्रान्त इति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअमौट्सु । अतियुष्माम् । अतियुष्माम् । अतियुष्माम् । अत्यस्माम्।अत्यस्माम् । अत्यस्माम् । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् ३ । अत्यस्माभ्याम् ३ । अतियुष्माभिः । अत्यस्माभिः । भ्यसि । अतियुष्मभ्यम् । अत्यस्मभ्यम् । ङसिभ्यसोः । अतियुष्मत् 2 । अत्यस्मत् 2 । ओसि । अतियुष्मयोः ।अतियुष्मयोः । अत्यस्मयोः ।अत्यस्मयोः । अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु । अत्यस्मासु ॥

401: पदस्य (8-1-16)

402: पदात् (8-1-17)

403: अनुदात्तं सर्वमपादादौ (8-1-18) इत्यधिकृत्य ॥

404: युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ (8-1-20) पदात्परयोरपादादौ स्थितयोरनयोः षष्ठ्यादिविशिष्टयोर्वांनावित्यादेशौ स्तस्तौ चानुदात्तौ ॥

405: बहुवचनस्य वस्नसौ (8-1-21) उक्तविधयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः । वान्नावोरपवादः ॥

406: तेमयावेकवचनस्य (8-1-22) उक्तविधयोरनयोः षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः ॥

407: त्वामौ द्वितीयायाः (8-1-23) द्वितीयैकवचनान्तयोस्त्वा मा एतौ स्तः ॥

श्रीशस्त्वाऽवतु मा पीह दत्तात्ते मेपि शर्म सः ।

स्वामी ते मेपि स हरिः पातुवामपि नौ विभुः ॥ 1

सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः ।

सोऽव्याद्वो नः शिवं वो नो दद्यात्सेव्योऽत्र वः स नः ॥ 2

पदात्परयोः किम् । वाक्यादौ माभूत् । त्वां पातु । मां पातु । अपादादौ किम् ॥ वेदैरशेषैः संवेद्योऽस्मान्कृष्णः सर्वदाऽवतु । स्थग्रहणाच्छ्रूयमाणविभक्तिकयोरेव । नेह इति युष्मत्पुत्रो ब्रवीति । इत्यस्मत्पुत्रो ब्रवीति । ‘समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः’ (वा 4714) ।‘एकतिङ्वाक्यम्’ (वा 1199) । तेनेह न। ओदनं पच तव भविष्यति । इह तु स्यादेव । शालीनां ते ओदनं दास्यामीति ।‘एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः’ (वा 4717) । अन्वादेशे तु नित्यं स्युः । धाता ते भक्तोऽस्ति । धाता तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव ॥

408: न चवाहाहैवयुक्ते (8-1-24) चादिपञ्चकयोगे नैते आदेशाः स्युः । हरिस्त्वां मां च रक्षतु । कथं त्वां मां वा न रक्षेदित्यादि । युक्तग्रहणात्साक्षाद्योगेऽयं निषेधः । परम्परासंबन्धे तु आदेशः स्यादेव । हरो हरिश्च मे स्वामी ॥

409: पश्यार्थैश्चानालोचने (8-1-25) अचाक्षुषज्ञानार्थैर्धातुभिर्योगे एते आदेशा न स्युः । चेतसा त्वा समीक्षते । परम्परासंबन्धेऽप्ययं निषेधः । भक्तस्तव रूपं ध्यायति । आलोचने तु-भक्तस्त्वा पश्यति चक्षुषा ॥

410: सपूर्वायाः प्रथमाया विभाषा (8-1-26) विद्यमानपूर्वात्प्रथमान्तात्परयोरनयोरन्वादेशेऽप्येते आदेशा स्युः । भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम् । त्वा मेति वा ॥

411: सामन्त्रितम् (2-3-48) संबोधने या प्रथमा तदन्तमामन्त्रितसंज्ञं स्यात् ॥

412: आमन्त्रितं पूर्वमविद्यमानवत् (8-1-72) स्पष्टम् । अग्ने तव । देवास्मान्पाहि । अग्ने नय । अग्न इन्द्र वरुण । इह युष्मदस्मदोरादेशस्तिङन्तनिघात आमन्त्रितनिघातश्च न । सर्वादा रक्ष देव नः इत्यत्र तु देवेत्यस्याविद्यमानवद्भावेऽपि ततः प्राचीनं रक्षेत्येतदाश्रित्यादेशः । एवं इमं मे गङ्गे यमुने इति मन्त्रे यमुन इत्यादिभ्यः प्राचीनामन्त्रिताविद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्य सर्वेषां निघातः ॥

413: नामन्त्रिते समानाधिकरणे सामान्यवचनम् (8-1-73) विशेष्य समानाधिकरणे आमन्त्रिते परे नाविद्यमानवत्स्यात् । हरे दयालोः नः पाहि । अग्ने तेजस्विन् । ‘विभाषितं विशेषवचने’(सू. 3655) । अत्र भाष्यम्--बहुवचनमिति वक्ष्यामीति । बहुवचनान्तं विशेष्यं समानाधिकरणे आमन्त्रिते विशेषणे परेविद्यमानवद्वा। यूयं प्रभवः । देवाः शरण्याः । युष्मान् भजे । देवाः शरण्याः । वो भजे इति वा । इहान्वादेशेऽपि वैकल्पिका आदेशाः । सुपात् । सुपाद् । सुपादौ । सुपादः । सुपादम् । सुपादौ ॥

414: पादः पत् (6-4-130) पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः स्यात् । सुपदः । सुपदा । सुपद्भ्यामित्यादि । अग्निं मन्थतीत्यग्निमत् । अग्निमद् । अग्निमथौ । अग्निमथः । अग्निमद्भ्यामित्यादि । ‘ऋत्विग्-’(सू. 373) इत्यादिसूत्रेणाञ्चेः सुप्युपपदे क्विन् ॥

415: अनिदितां हल उपधायाः क्ङिति (6-4-24) हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः स्यात्किति ङिति च । ‘उगिदचाम्’(सू. 361) इति नुम् । ‘संयोगान्तस्य लोपः’(सू. 54) । नुमो नकारस्य ‘क्विन्प्रत्ययस्य कुः’(सू. 377) इति कुत्वेन ङकारः । प्राङ् । अनुस्वारपरसवर्णो । प्राञ्चौ । प्राञ्चः । प्राञ्चम् । प्राञ्चौ ॥

416: अचः (6-4-138) लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः स्यात् ॥

417: चौ (6-3-138) लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः स्यात् । प्राचः । प्राचा । प्राग्भ्यामित्यादि । प्रत्यङ् । प्रत्यञ्चौ । प्रत्यञ्चः । प्रत्यञ्चम् । प्रत्यञ्चौ । ‘अचः’ (सू. 416) इति लोपस्य विषयेऽन्तरङ्गोऽपि यण् न प्रवर्तते । ‘अकृतव्यूहाः’(प 57) इति परिभाषया । प्रतीचः । प्रतीचा । अमुमञ्चतीति विग्रहे अदस्-अञ्च् इति स्थिते ॥

418: विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये (6-3-92) अनयोः सर्वनाम्नश्च टेरद्र्यादेशः स्यादप्रत्ययान्तेऽञ्चतौ परे । अदद्रि-अञ्च इति स्थिते यण् ॥

419: अदसोऽसेर्दादु दो मः (8-2-80) अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य च मः । उ इति ह्रस्वदीर्घयोः समाहारद्वन्द्वः । आन्तरतम्याद्ध्रस्वव्यञ्जनयोर्ह्रस्वो दीर्घस्य दीर्घः । अमुमुयङ् । अमुमुयञ्चौ । अमुमुयञ्चः । अमुमुयञ्चम् । अमुमुयञ्चौ । अमुमुईचः । अमुमुईचा । अमुमुयग्भ्यामित्यादि । मुत्वस्याऽसिद्धत्वान्न यण् । ‘अन्त्यबाधेऽन्त्यसदेशस्य (प 104) इति परिभाषामाश्रित्य परस्यैव मुत्वं वदतां मते अदमुयङ् । अः सेः सकारस्य स्थाने यस्य सोऽसिरिति व्याख्यानात् त्यदाद्यत्वविषय एव मुत्वं नान्यत्रेति पक्षे अदद्यङ् । उक्तं च (भाष्ये) ॥

अदसोऽद्रेः पृथङ् मुत्वं केचिदिच्छन्ति लत्ववत् ।

केचिदन्त्यसदेशस्य नेत्येकऽसेर्हि दृश्यते । इति ॥

विष्वद्गेवयोः किम् । अश्वाची । अञ्चतौ किम् । विष्वग्युक् । अप्रत्यये किम् । विष्वगञ्चनम् । अप्रत्ययग्रहणं ज्ञापयति अन्यत्र धातुग्रहणे तदादिविधिरिति । तेनाऽयस्कारः । ‘अतः कृकमि’(सू. 160) इति सः । उदङ् । उदञ्चौ। उदञ्चः । शसादावचि ॥

420: उद ईत् (6-4-139) उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भसायकारस्य ईत्स्यात् । उदीचः । उदीचा । उदग्भ्यामित्यादि ॥

421: समः समि (3-6-93) वप्रत्ययान्तेऽञ्चतौ परे । सम्यङ् । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा ॥

422: सहस्य सध्रिः (6-3-95) वप्रत्ययान्तेऽञ्चतौ परे । सध्र्यङ् ॥

423: तिरसस्तिर्यलोपे (6-3-94) अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते परे तिरसस्तिर्यादेशः स्यात् । तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । तिर्यञ्चम् । तिर्यञ्चौ । तिरश्चः । तिरश्चा । तिर्यग्भ्यामित्यादि ॥

424: नाञ्चेः पूजायाम् (6-4-30) पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । प्राङ् । प्राञ्चौ । प्राञ्चः । नलोपाभावादकारलोपो न । प्राञ्चः । प्राञ्चा । प्राङ्भ्याम् । प्राङ्क्षु । प्राङ्षु । एवं पूजार्थे प्रत्याङ्ङादयः । क्रुञ्च कौटिल्याल्पीभावयोः । अस्य ‘ऋत्विग्’(सू. 373) आदिना नलोपाभावोऽपि निपात्यते । क्रुङ् । क्रुञ्चौ । क्रुञ्चः । क्रुङ्भ्यामित्यादि ।‘चोः कुः’(सू. 378) । पयोमुक् । पयोमुग् । पयोमुचौ । पयोमुचः । ‘व्रश्च’(सू. 294) इति षत्वम् । ‘स्कोः’(सू. 380) इति सलोपः । जश्त्वचर्त्वे । सुवृट् । सुवृड् । सुवृश्चौ । सुवृश्चः । सुवृश्चा। सुवृट्सु । सुवृट्त्सु ।‘वर्तमाने पृषन्महद्बृहज्जगच्छतृवच्च’(उ. 241) एते निपात्यन्ते शतृवच्चैषां कार्यं स्यात् । उगित्त्वान्नुम् । ‘सान्तमहतः’(सू. 317) इति दीर्घः । मह्यते पूज्यते इति महान् । महान्तौ । महान्तः । महतः । महता । महद्भ्यामित्यादि ॥

425: अत्वसन्तस्य चाऽधातोः (6-4-14) अत्वन्तस्योपधाया दीर्घः स्याद्धातुभिन्नासन्तस्य चासंबुद्धौ सौ परे । परं नित्यं च नुमं बाधित्वावचनसामर्थ्यादादौ दीर्घः । ततो नुम् । धीमान् । धीमन्तौ । धीमन्तः । हे धीमन् । शसादौ महद्वत् । धातोरप्यत्वन्तस्य दीर्घः । गोमन्तमिच्छति गोमानिवाचरतीति वा क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । ‘उगिदचाम्’(सू. 361) इति सूत्रेऽज्ग्रहणं नियमार्थं । धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेवेति । तेन स्नत् ध्वत् इत्यादौ न । अधातोरिति तु अधातुभूतपूर्वस्यापि नुमर्थम् । गोमान् । गोमन्तौ । गोमन्तः । इत्यादि ।‘भातेर्डवतुः’(उ. 63) । भवान् । भवन्तौ । भवन्तः । शत्रन्तस्य त्वत्वन्त्वाभावान्न दीर्घः । भवतीति भवन् ॥

426: उभे अभ्यस्तम् (6-1-5) षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः ॥

427: नाभ्यस्ताच्छतुः (7-1-78) अभ्यस्तात्परस्य शतुर्नुम् न स्यात् । ददत् । ददद् । ददतौ । ददतः ॥

428: जक्षित्यादयः षट् (6-1-6) षड्धातवोऽन्ये जक्षितिश्च सप्तम एतेऽभ्यस्तसंज्ञाः स्युः । जक्षत् । जक्षद् । जक्षतौ। जक्षतः । एवं जाग्रत् । दरिद्रत् । शासत् । चकासत् । दीधीवेव्योर्ङित्त्वेऽपि छान्दसत्वाद्व्यत्ययेन परस्मैपदम्। दीध्यत् । वेव्यत् । गुप् । गुब् । गुपौ । गुपः । गुब्भ्यामित्यादि । इति पान्ताः ॥

429: त्यदादिषु दृशोऽनालोचने कञ्च (3-2-60) त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेर्धातोः कञ् स्याच्चात् क्विन् ॥

430: आ सर्वनाम्नः (6-3-91) सर्वनाम्न आकारोऽन्तादेशः स्याद्दृग्दृशवतुषु । कुत्वस्याऽसिद्धत्वात् ‘व्रश्च’(सू. 294) इति षः । तस्य जश्त्वेन डः । तस्य कुत्वेन गः । तस्य चर्त्वेन पक्षे कः । तादृक् । तादृग् । तादृशौ । तादृशः । षत्वापवादत्वात्कुत्वेन खकार इति कैयटहरदत्तादिमते तु चर्त्वाभावपक्षे ख एव श्रूयेत नतु गः । जश्त्वं प्रति कुत्वस्यासिद्धत्वात् । ‘दिगादिभ्यो यत्’(सू. 1429) इति निर्देशान्नासिद्धत्वमिति वा बोध्यम् । ‘व्रश्च’(सू. 294) इति षत्वम् । जश्त्वचर्त्वे । विट् । विड् । विशौ । विशः । विशम् ॥

431: नशेर्वा (8-2-63) नशे कवर्गोऽन्तादेशो वा स्यात्पदान्ते । नक् । नग् । नट् । नड् । नशौ । नशः । नग्भ्याम् । नड्भ्यामित्यादि ॥

432: स्पृशोऽनुदके क्विन् (3-2-58) अनुदके सुप्युपपदे स्पृशेः क्विन्स्यात् । धृतस्पृक् । घृतस्पृग् । घृतस्पृशौ । घृतस्पृशः । क्विन् प्रत्ययो यस्मादिति बहुव्रीह्याश्रयणात् क्विप्यपि कुत्वम् । स्पृक् । षडगकाः प्राग्वत् । ञिधृषा प्रागल्भ्ये । अस्मात् ‘ऋत्विक्’(सू. 373) आदिना क्विन् द्वित्वमन्तोदात्तत्वं च निपात्यते । कुत्वात्पूर्वं जश्त्वेन डः । गः । कः । धृष्णोतीति दधृक् । दधृग् । दधृषौ । दधृषः । दधृग्भ्यामित्यादि । रत्नानि मुष्णातीति रत्नमुट् । रत्नमुड् । रत्नमुषौ । रत्नमुषः ।‘षड्भ्यो लुक्’(सू. 261) षट् । षड् । षड्भिः । षड्भ्यः । षड्भ्यः ।‘षट्चतुर्भ्यश्च’(सू. 338) इति नुट् । अनाम् इति पर्युदासान्न ष्टुत्वनिषेधः । ‘यरोऽनुनासिक’(सू. 116) इति विकल्पं बाधित्वा ‘प्रत्यये भाषायां नित्यम्‌’ (वा 5017) । इति वचनान्नित्यमनुनासिकः । षण्णाम् । षट्त्सु,  षट्सु । तदन्तविधिः । परमषट्। परमषण्णाम् । गौणत्वे तु-प्रियषषः । प्रियषषाम् । रुत्वं प्रति षत्वस्यासिद्धत्वात् ‘ससजुषो रुः’(सू. 162) इति रुत्वम् ॥

433: र्वोरुपधाया दीर्घ इकः (8-2-76) रेफवान्तस्य धातोरुपधाया इको दीर्घः स्यात्पदान्ते । पिपठीः । पिपठिषौ। पिपठिषः । पिपठीर्भ्याम् । ‘वा शरि’(सू. 151) इति वा विसर्जनीयः ॥

434: नुम्विसर्जनीयशर्व्यवायेऽपि (8-3-58) एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः स्यात् । ष्टुत्वेन पूर्वस्य षत्वम् । पिपठीष्षु । पिपठीःषु । प्रत्येकमिति व्याख्यानादनेकव्यवधाने षत्वं न । निंस्स्व । निंस्से । नुम्ग्रहणं नुम्स्थानिकानुस्वारोपलक्षणार्थमिति व्याख्यानात् । तेनेह न । सुहिन्सु । पुंसु । अतएव न शर्ग्रहणेन गतार्थता । ‘रात्सस्य’(सू. 339) इति सलोपे विसर्गः । चिकीः । चिकीर्षौ । चिकीर्षः । ‘रोः सुपि’(सू. 339) इति नियमान्न विसर्गः । चिकीर्षु ।‘दमेर्डोसिः’(उ. 227) । डित्त्वसामर्थ्याट्टिलोपः । षत्वस्यासिद्धत्वाद्रुत्वविसर्गौ । दोः। दोषौ । दोषः । ‘पद्दनो’(सू. 228) इति वा दोषन् । दोष्णः । दोष्णा । दोषः । दोषा । विश प्रवेशने । सन्नन्तात् क्विप् । संयोगान्तलोपः । ‘व्रश्च’(सू. 294) इति षः । जश्त्वचर्त्वे । विविट् । विविड् । विविक्षौ । विविक्षः । ‘स्कोः’ (सू.380) इति कलोपः । तट् । तड् । तक्षौ । तक्षः । गोरट् । गोरड् । गोरक्षौ । गोरक्षः । तक्षिरक्षिभ्यां ण्यन्ताभ्यां क्विपि तु ‘स्कोः’(सू. 380) इति न प्रवर्तते । णिलोपस्य स्थानिवद्भावात् । ‘पूर्वत्रासिद्धीये न स्थानिवत्’ (वा 433) । इति त्विह नास्ति । ‘तस्य दोषः संयोगादिलोपलत्वणत्वेषु’ (वा. 440)  इति निषेधात् । तस्मात्संयोगान्तलोप एव । तक् तग् । गोरक् । गोरग् ।‘स्कोः’ (सू. 380)  इति कलोपं प्रति कुत्वस्यासिद्धत्वात्संयोगान्तलोपः । पिपक् । पिपग् । एवं विवक् । दिधक् । पिस् गतौ । सुष्टु पेसतीति सुपीः । सुपिसौ । सुपिसः । सुपिसा । सुपीर्भ्याम् । सुपीःषु । सुपीष्षु । एवं सुतूः । तुस खण्डने । विद्वान् । विद्वांसौ । विद्वांसः । हे विद्वन् । विद्वांसम् । विद्वांसौ ॥

435: वसोः संप्रसारणम् (6-4-131) वस्वन्तस्य भस्य संप्रसारणं स्यात् । पूर्वरूपत्वं षत्वम् । विदुषः । विदुषा । ‘वसुस्रुं’(सू. 334) इति दत्वम् । विद्वद्भ्यामित्यादि । सेदिवान् । सेदिवांसौ । सेदिवांसः । सेदिवांसम् । अन्तरङ्गोऽपीडागमः संप्रसारणविषये न प्रवर्तते । ‘अकृतव्यूहाः-’ (प 57) इति परिभाषया । सेदुषः । सेदुषा । सेदिवद्भ्यामित्यादि । ‘सान्तमहतः’(सू. 317) इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते नतु धातोः । महच्छब्दसाहचर्यात् । सुष्ठु हिनस्तीति सुहिन् । सुहिंसौ । सुहिंसः । सुहिन्भ्याम् । सुहिन्त्सु । ध्वत् । ध्वद् । ध्वसौ । ध्वसः । ध्वद्भ्याम् । एवं स्रत् ॥

436: पुंसोऽसुङ् (7-1-89) सर्वनामस्थाने विवक्षिते पुंसोऽसुङ् स्यात् । उकार उच्चारणार्थः । बहुपुंसी इत्यत्र ‘उगितश्च’(सू. 455) इति ङीबर्थं कृतेन ‘पूञो डुम्सुन्’ (पातेर्डुम्सुन्) इति प्रत्ययस्योगित्त्वेनैव नुम्सिद्धेः । पुमान् । हे पुमन् । पुमांसौ । पुमांसः । पुंसः । पुंसा । पुंभ्याम् । पुंभिः । पुंसु । ‘ऋदुशन-’ (सू.276) इत्यनङ् । उशना । उशनसौ । उशनसः ।‘अस्य संबुद्धौ वाऽनङ्नलोपश्च वा वाच्यः’ (वा 5037) । हे उशनन् । हे उशन । हे उशनः । उशनोभ्यामित्यादि । अनेहा । अनेहसौ । अनेहसः । हे अनेहः । अनेहोभ्यामित्यादि । वेधाः । वेधसौ । वेधसः । हे वेधः । वेधोभ्यामित्यादि । अधातोरित्युक्तेर्न दीर्घः । सुष्ठु वस्ते सुवः । सुवसौ । सुवसः । पिण्डं ग्रसते पिण्डग्रः । पिण्डग्लः । ग्रसु ग्लसु अदने ॥

437: अदस औ सुलोपश्च (7-2-107) अदस औकारोन्तादेशः स्यात्सौ परे सुलोपश्च । ‘तदोः सः सौ’(सू. 381) इति दस्य सः । असौ । ‘औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च’ (वा 4482) । प्रतिषेधसंनियोगशिष्टमुत्वं तदभावे न प्रवर्तते । असकौ । असुकः । त्यदाद्यत्वं । पररूपत्वम् । वृद्धिः । ‘अदसोऽसेः’(सू. 419) इति मत्वोत्वे । अमू । ‘जसः शी’(सू. 214) । ‘आद्गुणः’(सू. 69) ॥

438: एत ईद्बहुवचने (8-2-81) अदसो दात्परस्यैत ईत्स्याद्दस्य च मो बह्वर्थोक्तौ । अमी । ‘पूर्वत्रासिद्धम्’(सू. 12) इति विभक्तिकार्यं प्राक्, पश्चादुत्वमत्वे । अमुम् । अमू । अमून् । मुत्वे कृते घिसंज्ञायां नाभावः ॥

439: न मु ने (8-2-3) नाभावे कर्तव्ये कृते च मुभावो नासिद्धः स्यात् । अमुना । अमूभ्याम् ।अमूभ्याम् । अमूभ्याम् । अमीभिः । अमुष्मै । अमीभ्यः । अमुष्मात् । अमुष्य । अमुयोः । अमीषाम् । अमुष्मिन् । अमुयोः । अमीषु । इति सान्ताः ॥

॥ इति हलन्तपुल्लिङ्गप्रकरणम्‌ ॥

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)