॥ अथाव्ययप्रकरणम् ॥
447: स्वरादिनिपातमव्ययम् (1-1-37)
स्वरादयो
निपाताश्चाव्ययसंज्ञाः स्युः । स्वर्, अन्तर्, प्रातर्, पुनर्, सनुतर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, ऋते, युगपत्, आरात्, पृथक्, ह्यस्,श्वस्, दिवा, रात्रौ, सायम्, चिरम्, मनाक्, ईषत्, जोषम्, तूष्णीम्, बहिस्, अवस्, समया, निकषा, स्वयम्, वृथा, नक्तम्, नञ्, हेतौ, इद्धा, अद्धा, सामि । ‘वत्’ (ग 4) । ब्राह्मणवत्,
क्षत्रियवत्, सना, सनत्, सनात्, उपधा, तिरस्, अन्तरा, अन्तरेण, ज्योक्, कम्, शम्, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, श्रौषट्, वौषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मृषा, मिथ्या, मुधा, पुरा, मिथो, मिथस्, प्रायस्, मुहुस्, प्रवाहुकम्, प्रवाहिका, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्धम्, नमस्, हिरुक्, धिक्, अथ, अम्, आम्, प्रताम्, प्रशान्, प्रतान्, मा, माङ् । आकृतिगणोऽयम् । इति स्वरादयः । च,
वा, ह, अह, एव, एवम्, नूनम्, शश्वत्, युगपत्, भूयस्, कूपत्, कुवित्, सूपत्स, कुवित्, नेत्, चेत्, चण्, कच्चित्, किंचित्, यत्र, नह, हन्त, माकिः, माकिम्, नकिः, आकिम्, माङ्, नञ्, यावत्, तावत्, त्वै, द्वै, रै, श्रौषट्, वौषट्, स्वाहा, स्वधा, वषट्, (ओम्) , तुम्, तथाहि, खलु, किल, अथो, अथ, सुष्ठु, स्म, आदह ।‘उपसर्गविभक्तिस्वरप्रतिरूपकाश्च’ (ग 16) । अवदत्तम्,
अहंयुः, अस्तिक्षीरा । अ, आ, इ, ई, उ, ऊ, ए, ऐ, ओ, औ, पशु, शुकम्, यथाकथाच, पाट्, प्याट्, अङ्ग, है, हे, भोः, अये, द्य, विषु, एकपदे, युत्, आतः । चादिरप्याकृतिगणः। इतिचादयः ॥
448: तद्धितश्चाऽसर्वविभक्तिः (1-1-38)
यस्मात्सर्वा
विभक्तिर्नोत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्तव्यम् । तसिलादयः
प्राक् पाशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः । अम् । आम् । कृत्वोर्थाः ।
तसिवती । नानाञाविति । तेनेह न । पचतिकल्पम् । पचतिरूपम् ॥
449: कृन्मेजन्तः (1-1-39) कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारं स्मारम्
। जीवसे । पिबध्यै ॥
450: क्त्वातोसुन्कसुनः (1-1-40) एतदन्तमव्ययं स्यात् । कृत्वा । उदेतोः । विसृपः ॥
451: अव्ययीभावश्च (1-1-41) अधिहरि ॥
452: अव्ययादाप्सुपः (2-4-82) अव्ययाद्विहितस्यापः सुपश्च लुक् स्यात् । तत्र शालायाम् ।
विहितविशेषणान्नेह। अत्युच्चैसौ । अव्ययसंज्ञायां यद्यपि तदन्तविधिरस्ति तथापि न
गौणे ।‘आब्ग्रहणं व्यर्थमलिङ्गत्वात्’वा (वा 1633) ॥
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥
इति(भाष्योक्ता) श्रुतिर्लिङ्गकारकसङ्ख्याभावपरा
॥
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।
आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥
वगाहः । अवगाहः । पिधानम् । अपिधानम् ॥
॥ इति
अव्ययप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें