वैयाकरणसिद्धान्तकौमुदी (हलन्तनपुंसकलिङ्गप्रकरणम्)

 ॥ अथ हलन्तनपुंसकलिङ्ग-प्रकरणम्‌ ॥

स्वमोर्लुक् । दत्वम् । स्वनडुत्-स्वनडुद्, स्वनडुही । ‘चतुरनडुहोः’ (सू. 331) इत्याम् । स्वनड्वांहि । पुनस्तद्वत् । शेषं पुंवत् । इति हान्ताः ॥ ‘दिव उत्’ (सू. 337) अहर्विमलद्यु । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पूर्वपदस्येवोत्तरखण्डस्यापि पदसंज्ञायां प्राप्तायाम् ‘उत्तरपदत्वे चापदादिविधौ प्रतिषेधौ प्रतिषेधः’ (वा. 480) इति प्रत्ययलक्षणं न । विमलदिवी, विमलदिवि । अपदादिविधौ किम् । दधिसेचौ । इह षत्वनिषेधे कर्तव्ये पदत्वमस्येव । चकारस्य कुत्वे तु न । इति वान्ताः ॥  वाः, वारी । अझलन्तस्वान्न नुम् । वारि । चत्वारि इति । रेफान्ताः ॥ ‘न लुमता’ (सू. 263) इति कादेशो न । किम्, के कानि  । इदम्, इमे, इमानि । ‘अन्वादेशे नपुंसके एनद्वक्तव्यः’ (वा. 1569) । एनत्, एने, एनानि । एनेन । एनयोः । एनयोः । इति मान्ताः ॥ ब्रह्म, ब्रह्मणी । सम्बुद्धौ नपुंसकानां न लोपो वा वाच्यः । हे ब्रह्मन-हे ब्रह्म । ‘रोऽसुपि’ (सू. 172) । अहर्भाति । ‘विभाषा ङिश्योः’ (सू. 237) । अह्नी, अहनी, अहानि ॥

443: अहन् (8-2-68) अहन्नित्यस्य रुः स्यात्पदान्ते । अहोभ्याम् । अहोभिः । इह अहः अहोभ्यामित्यादौ रत्वरुत्वयोरसिद्धत्वान्नलोपे प्राप्ते । अहन्नित्यावर्त्य नलोपाभावं निपात्य द्वितीयेन रुर्विधेयः । तदन्तस्यापि रुत्वरत्वे । दीर्घाण्यहानि यस्मिन् स दीर्घाहो निदाघः । इह हल्ङ्यादिलोपे प्रत्ययलक्षणेनाऽसुपीति निषेधाद्रत्वाभावे रुः । तस्यासिद्धत्वान्नान्तलक्षण उपधादीर्घः । संबुद्धौ तु हे दीर्घाहो निदाघः । दीर्घाहानौ । दीर्घाहानः । दीर्घाह्ना । दीर्घाहोभ्याम् । दण्डि । दण्डिनी । दण्डीनि । स्रग्वि । स्रग्विणी । स्रग्वीणि । वाग्मि । वाग्मिनी । वाग्मीनि । बहुवृत्रह । बहुवृत्रघ्नी-बहुवृत्रहणी, बहुवृत्रहाणि । बहुपूष, बहुपूष्णी, बहुपूषाणि । बहर्यम, बह्वर्यम्णि । बह्वर्यमणी । इति नान्ताः ॥ असृजः पदान्ते कुत्वम् । सृजेः क्विनो विधानात् । विश्वसृडादौ तु न । ‘सृजिदृशोः’(सू. 2405) इति सूत्रे ‘रज्जुसृड्भ्याम्’ इति भाष्यप्रयोगात् । यद्वा ‘व्रश्च’(सू. 294) आदि सूत्रे सृजियज्योः पदान्ते षत्वं कुत्वापवादः । स्रग्ऋत्विक्शब्दयोस्तु निपातनादेव कुत्वम् । असृक्शब्दस्तु अस्यतेरौणादिके ऋजित्यये बोध्यः । असृक् । असृग् । असृजी । असृञ्जि । ‘पद्दन्न’(सू. 228) इति वा असन् । असानि । असृजा । अस्ना । असृग्भ्याम् । असभ्यामित्यादि । ऊर्क् । ऊर्ग् । ऊर्जी । ऊर्न्जि । नरजानां संयोगः ।‘बहूर्जि नुम्प्रतिषेधः’ (वा 4331) ।‘अन्त्यात्पूर्वो वा नुम्’ (वा 4332) । बहूर्जि । बहूर्ञ्जि वा कुलानि ॥ त्यत्, त्यद्। त्ये । त्यानि । तत्, तद् । ते । तानि । यत्, यद् । ये । यानि । एतत्, एतद् । एते । एतानि । अन्वादेशे तु एनत् । बोभिद्यतेः क्विप् । बेभित्, बेभिद् । बेभिदी । शावल्लोपस्य स्थानिवत्त्वादझलन्तत्वान्न नुम् । अजन्तलक्षणस्तु नुम् न । स्वविधौ स्थानिवत्त्वाभावात् । बेभिदि ब्राह्मणकुलानि चेच्छिदि ॥

गवाक्छब्दस्य रूपाणि क्लीबेऽर्चागतिभेदतः ।

असन्ध्यवङपूर्वरूपैर्नवाधिकशतं मतम् ॥ 1 ॥

स्वम्सुप्सु नव षड् भादौ षट्के स्युस्त्रीणि जश्शसोः ।

चत्वारि शेषे दशके रूपाणीति विभावय ॥ 2 ॥

तथाहि । गामञ्चतीति विग्रहे ‘ऋत्विक्’(सू. 373) आदिना क्विन् । गतौ नलोपः । ‘अवङ् स्फोटायनस्य’(सू. 88) इत्यवङ् । गवाक् । गवाग् । ‘सर्वत्र विभाषा’(सू. 87) इति प्रकृतिभावे, गोअक् - गोअग् । पूर्वरूपे, गोऽक् । गोऽग् । पूजायां नस्य कुत्वेन ङः । गवाङ् । गोअङ् । गोऽङ् । अम्यपि एतान्येव नव । औङः शी । भत्वात् ‘अचः’(सू. 416) इत्यल्लोपः । गोची । पूजायां तु गवाञ्ची । गोअञ्ची । गोऽञ्ची ।‘जश्शसोः शिः’(सू. 312) । शेः सर्वनामस्थानत्वान्नुम् । गवाञ्चि । गोअञ्चि । गोऽञ्चि । गतिपूजनयोस्त्रीण्येव । गोचा । गवाञ्चा । गोअञ्चा । गोऽञ्चा। गवाग्भ्याम् । गोअग्भ्याम् । गोऽग्भ्याम् । गवाङ्भ्याम् । गोअङ्भ्याम् इत्यादि । सुपि तु ङान्तानां, पक्षे‘ङ्णोः कुक्’ (सू.130) इति कुक् । गवाङ्क्षु । गवाङ्षु । गवाक्षु । गोअक्षु । गोक्षु । न चेह । ‘चयो द्वितीयाः’ (वा 5023) इति पक्षे ककारस्य खकारेण षण्णामाधिक्यं शङ्क्यम् । चर्त्वस्यासिद्धत्वात् । कुक्पक्षे तु तस्यासिद्धत्वाज्जश्त्वाऽभावे पक्षे द्वितीयादेशास्त्रीणि रूपाणि वर्द्धन्त एव ॥

ऊह्यमेषां द्विर्वचनानुनासिकविकल्पनात् ।

रूपान्यश्वाक्षिभूतानि (527) भवन्तीति मनीषिभिः ॥ 1 ॥

तिर्यक् । तिरश्ची । तिर्यञ्चि । पूजायां तु । तिर्यङ् । तिर्यञ्ची । तिर्यञ्चि । यकृत् । यकृती । यकृन्ति । ‘पद्दन्’(सू. 228) इति वा यकन् । यकानि । यक्ना । यकृता । शकृत् । शकृती । शकृन्ति । शकानि । शक्ना । शकृता । ददत् । ददती ॥

444: वा नपुंसकस्य (7-1-79) अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य नुम्वा स्यात्सर्वनामस्थाने परे । ददन्ति । ददति । तुदत् ॥

445: आच्छीनद्योर्नुम् (7-1-80) अवर्णान्तादङ्गात्परो यः शतुरवयवस्तदन्तस्याङ्गस्य नुम् वा स्याच्छीनद्योः परतः । तुदन्ती । तुदती । तुदन्ति । भात् । भान्ती । भाती । भान्ति । पचत् ॥

446: शप्श्यनोर्नित्यम् (7-1-81) शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् स्याच्छीनद्योः परतः । पचन्ती । पचन्ति । दीव्यत् । दीव्यन्ती । दीव्यन्ति । इति तान्ताः ॥ स्वप् । स्वब् । स्वपी । नित्यात्परादपि नुमः प्राक् ‘अप्तृन्’ (सू.277) इति दीर्घः, प्रतिपदोक्तत्वात् । नुम्, स्वाम्पि । निरवकाशत्वं प्रतिपदोक्तत्वमिति पक्षे तु प्रकृते तद्विरहान्नुमेव । स्वम्पि । स्वपा । ‘अपो भि’ (सू.442) । स्वद्भ्याम् । स्वद्भिः । इति पान्ताः । ‘अर्तिपृवपि’(उ 274) इत्यादिना धनेरुस् । षत्वस्यासिद्धत्वाद्रुत्वम् । धनुः । धनुषी । ‘सान्त’(सू. 317) इति दीर्घः । ‘नुम्विसर्जनीय’ (सू. 434) इति षत्वम् । धनूंषि । धनूषा । धनुर्भ्याम् । एवं चक्षुर्हविरादयः । पिपठिषतेः क्विप् । र्वोः (सू. 433) इति दीर्घः । पिपठीः । पिपठिषी । अल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणो नुम् न । स्वविधौ स्थानिवत्त्वाभावादजन्तलक्षणोऽपि नुम् न । पिपठिषि । पिपठीर्भ्यामित्यादि । पयः । पयसी । पयांसि । पयसा । पयोभ्यामित्यादि । सुपुम् । सुपुंसी । सुपुमांसि । अदः । विभक्तिकार्यम् । उत्वमत्वे । अमू । अमूनि । शेषं पुंवत् । इति सान्ताः ॥

॥ इति हलन्तनपुंसकलिङ्गप्रकरणम्‌ ॥

                                                           ⟹  वैयाकरणसिद्धान्तकौमुदी (अव्ययप्रकरणम्‌)

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (16) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (18) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (11) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रतियोगिता (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (4) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (46) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)