॥ अथ समासाश्रयविधिप्रकरणम् ॥
985: घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (6-3-43)
भाषितपुंस्काद्यो ङी
तदन्तस्यानेकाचो ह्रस्वः स्यात् घरूपकल्पप्रत्ययेषु परेषु चेलडादिषु चोत्तरपदेषु ।
ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली ।
ब्रह्मणिब्रुवा । ब्रह्मणिगोत्रेत्यादि । ब्रूञः पचाद्यचि वच्यादेशगुणयोरभावो निपात्यते
। चेलडादीनि वृत्तिविषये कुत्सनवाचीनि । तैः ‘कुत्सितानि कुत्सनैः’(सू. 732) इति समासः । ङ्यः किम् । दत्तातरा । भाषितपुंस्कात्किम् ।
आमलकीतरा । कुवलीतरा ॥
986: नद्याः शेषस्यान्यतरस्याम् (6-3-44)
अङ्यन्तनद्या
ङ्यन्तस्यैकाचश्च घादिषु ह्रस्वो वा स्यात् । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा ।
स्त्रितरा । स्त्रीतरा ॥ कृन्नद्या न (वा 3938) ॥ लक्ष्मीतरा ॥
987: उगितश्च (6-3-45) उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् ।
वादुषितरा । ह्रस्वाभावपक्षे तु ‘तसिलादिषु’–(सू. 836) इति पुंवत् । विद्धत्तरा । वृत्त्यादिषु
विदुषीतरेत्यप्युदाहृतम् तन्निर्मूलम् ॥
988: हृदयस्य हृल्लेखयदण्लासेषु (6-3-50)
हृदयं लिखतीति हृल्लेखः ।
हृदयस्य प्रियं ह्रद्यम् । हृदयस्येदं हार्दम्। ह्रल्लासः । लेखेत्यणन्तस्य
ग्रहणम् । घञि तु ह्रदयलेखः । लेखग्रहणमेव ज्ञापकम् उत्तरपदाधिकारे तदन्तविधिर्नास्ति
(प 26) इति ॥
989: वा शोकष्यञ्रोगेषु (6-3-51) ह्रच्छोकः । ह्रदशोकः । सौहार्द्यम् । सौहृदय्यम् ।
ह्रद्रोगः । ह्रदयरोगः । ह्रदयशब्दपर्यायो ह्रच्छब्दोऽप्यस्ति । तेन सिद्धे
प्रपञ्चार्थमिदम् ॥
990: पादस्य पदाज्यातिगोपहतेषु (6-3-52)
एषुत्तरपदेषु पादस्य पद
इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । अज्यतिभ्यां पादे च (उ 570-571) इतीण् प्रत्ययः । अजेर्व्याभावो निपातनात् । पदगः ।
पदोपहतः ॥
991: पद्यत्यतदर्थे (6-3-53) पादस्य पत्स्यादतर्थे यति परे । पादो विध्यन्ति पद्याः
शर्कराः । अतदर्थे किम् । पादार्थमुदकं पाद्यम् । ‘पादार्घाभ्यां च’(सू. 2093) इति यत् ॥ इके चरतावुपसंख्यानम् (वा 3958) ॥ पादाभ्यां
चरति पदिकः । पर्पादित्वात् ष्ठन् ॥
992: हिमकाषिहतिषु च (6-3-54) पद्धिमम् । पत्काषी । पद्धतिः ॥
993: ऋचः शे (6-3-55) ऋचः पादस्य पत्स्याच्छे परे । गायत्रीं पच्छः शंसति । पादं
पादमित्यर्थः । ऋचः किम्। पादशः कार्षापणं ददाति ॥
994: वा घोषमिश्रशब्देषु (6-3-56) पादस्य पत् । पद्घोषः । पादघोषः । पन्मिश्र । पादमिश्रः ।
पच्छब्दः । पादशब्दः ॥ निष्के चेति वाच्यम् (वा 3959) ॥ पन्निष्कः । पादनिष्कः ॥
995: उदकस्योदः संज्ञायाम् (6-3-57)
उदमेघः ॥ उत्तरपदस्य चेति
वक्तव्यम् (वा 3969) ॥ क्षीरोदः ॥
996: पेषंवासवाहनधिषु च (6-3-58) उदपेषं पिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे
तु पूर्वेण सिद्धम् ॥
997: एकहलादौ पूरयितव्येऽन्यतरस्याम् (6-3-59)
उदकुम्भः । उदककुम्भः ।
एकेति किम् । उदकस्थाली । पूरयितव्येति किम् । उदकपर्वतः ॥
998: मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च (6-3-60)
उदमन्थः । उदकमन्थः ।
उदौदनः । उदकौदनः ॥
999: इको ह्रस्वोऽङ्यो गालवस्य (6-3-61)
इगन्तस्याङ्यन्तस्य
ह्रस्वो वा स्यादुत्तरपदे । ग्रामणिपुत्रः ग्रामणीपुत्रः। इकः किम् । रमापतिः ।
अङ्यः इति किम् । गौरीपतिः । गालवग्रहणं पूजार्थम् । अन्यतरस्यामित्यनुवृत्तेः ॥
इयङुवङ्भाविनामव्ययानां च नेति वाच्यम् (वा 3963) ॥ श्रीमदः । भ्रूभङ्गः ।
शुक्लीभावः ॥ अभ्रुकुंसादीनामिति वक्तव्यम् (वा 3964) ॥ भ्रुकुंसः । भ्रुकुटिः ।
भ्रूकुंसः । भ्रूकुटिः । अकारोऽनेन विधीयत इति व्याख्यान्तरम् । भ्रकुंसः ।
भ्रकुटिः । भ्रुवा कुंसो भाषणं शोभा वा यस्य स स्त्रीवेषधारी नर्तकः । भ्रुवः
कुटिः कौटिल्यम् ॥
1000: एक तद्धिते च (6-3-62) एकशब्दस्य ह्रस्वः स्यात्तद्धिते उत्तरपदे च । एकस्या
आगतमेकरूप्यम् । एकक्षीरम् ॥
1001: ङ्यापोः संज्ञाछन्दसोर्बहुलम् (6-3-63)
रेवतिपुत्रः । अजक्षीरम् ॥
1002: त्वे च (6-3-64) त्वप्रत्यये ङ्यापोर्वा ह्रस्वः । अजत्वम् । अजात्वम् ।
रोहिणित्वम् । रोहिणीत्वम् ॥
1003: ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे (6-1-13)
ष्यङन्तस्य पूर्वपदस्य
सम्प्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुषे ॥
1004: सम्प्रसारणस्य (6-3-139) सम्प्रसारणस्य दीर्घः स्यादुत्तरपदे । कौमुदगन्ध्यायाः
पुत्रः कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभाषया ह्रस्वो न ।
स्त्रीप्रत्यये चानुपसर्जनेन (प 27) इति तदादिनियमप्रतिषेधात् ।
परमकारीषगन्धीपुत्रः । उपसर्जने तु तदादिनियमान्नेह । अतिकारीषगन्ध्यापुत्रः ॥
1005: बन्धुनि बहुव्रीहौ (6-1-14) बन्धुशब्दे उत्तरपदे ष्यङः सम्प्रसारणं स्याद्बहुव्रीहौ ।
कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धु । बहुव्रीहाविति किम् । कारीषगन्ध्याया
बन्धुः कारीषगन्ध्याबन्धुः क्लीबनिर्देशस्तु शब्दस्वरूपापेक्षया ॥
मातज्मातृकमातृषु वा (वा 3449) ॥ कारीषगन्धीमातः । कारीषगन्ध्यामातः ।
कारीषगन्धीमातृकः । कारीषगन्ध्यामातृकः । कारीषगन्धीमाता । कारीषगन्ध्यामाता ।
अस्मादेव निपातनान्मातृशब्दस्य मातजादेशः ‘नद्युतश्च’(सू. 833) इति कब्विकल्पश्च । बहुव्रीहावेवेदम् । नेह
कारीषगन्ध्याया माता कारीषगन्ध्यामाता । चित्त्वसामर्थ्याच्चित्स्वरो
बहुव्रीहिस्वरं बाधते ॥
1006: इष्टकेषीकामालानां चिततूलभारिषु (6-3-65)
इष्टकादीनां तदन्तानां च
पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु ह्रस्वः स्यात् । इष्टकचितम् ।
पक्वेष्टकचितम् । इषीकतूलम् । मुञ्जेषीकतूलम् । मालभारि । उत्पलमालभारि ॥
1007: कारेसत्यागदस्य (6-3-70) मुम् स्यात् । सत्यङ्कारः । अगदङ्कारः ॥ अस्तोश्चेति
वक्तव्यम् (वा 3973) ॥ अस्तुङ्कारः ॥ धेनोर्भव्यायाम् (वा 3975) ॥ धेनुम्भव्या ॥
लोकस्य पृणे (वा 3976) ॥ लोकम्पृणः । पुणः इति मूलविभुजादित्वात्कः ॥
इत्येऽनभ्याशस्य (वा 3977) ॥ अनभ्याशमित्यः । दूरतः परिहर्तव्य इत्यर्थः ॥
भ्राष्ट्राग्न्योरिन्धे (वा 3978) ॥ भ्राष्टमिन्धः । अग्निमिन्धः ॥ गिलेऽगिलस्य
(वा 3979) ॥ तिमिङ्गिलः । अगिलस्य किम् । गिलगिलः ॥ गिलगिले च (वा 3980) ॥
तिमिङ्गिलगिलः ॥ उष्णभद्रयोः करणे (वा 3981) ॥ उष्णङ्करणम् । भद्रङ्करणम् ॥
1008: रात्रेः कृति विभाषा (6-3-72)
रीत्रिञ्चरः । रात्रिचरः ।
रात्रिमटः । रात्र्यटः । अखिदर्थमिदं सूत्रम् । खिति तु ‘अरुर्द्विषत्’–(सू. 2942) इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः ॥
1009: सहस्य सः संज्ञायाम् (6-3-78)
उत्तरपदे । सपलाशम् ।
संज्ञायां किम् । सहयुध्वा ॥
1010: ग्रन्थान्ताधिके च (6-3-79) अनयोः परयोः सहस्य सः स्यादुत्तरपदे । समुहूर्तं
ज्योतिषमधीते । सद्रोणा खारी ॥
1011: द्वितीये चानुपाख्ये (6-3-80)
अनुमेये द्वितीये सहस्य सः
स्यात् । सराक्षसीका निशा । राक्षसी साक्षादनुपलभ्यमाना निशयाऽनुमीयते ॥
1012: समानस्य च्छन्दस्यमूर्धप्रभृत्यदर्केषु (6-3-84)
समानस्य सः स्यादुत्तरपदे
न तु मूर्धादिषु । अनु भ्राता सगर्भ्यः । अनु सखा सयूथ्यः । योनः सनुत्यः । तत्र
भव इत्यर्थे ‘सगर्भसयूथसनुताद्यत्’(सू. 3460) अमूर्धादिषु किम् । समानमूर्धा । समानमूर्धा ।
समानप्रभृतयः । समानोदर्काः । समानस्य इति योगो विभज्यते । तेन सपक्षः साधर्म्यं
सजातीयमित्यादि सिद्धमिति काशिका । अथवा सहशब्दः सदृशवचनोऽप्यस्ति । सदृशः सख्या
ससखीति यथा । तेनायमस्वपदविग्रहो बहुव्रीहिः । समानः पक्षोऽस्येत्यादि ॥
1013: ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु (6-3-85)
एषु द्वादशसूत्तरपदेषु
समानस्य सः स्यात् । सज्योतिः । सजनपद इत्यादि ॥
1014: चरणे ब्रह्मचारिणि (6-3-86) ब्रह्मचारिण्युत्तरपदे समानस्य सः स्याच्चरणे समानत्वेन
गम्यमाने । चरणः शाखा । ब्रह्म वेदः, तदध्ययनार्थं व्रतमपि ब्रह्म, तच्चरतीति ब्रह्मचारी । समानः सः सब्रह्मचारी ॥
1015: तीर्थे ये (6-3-87) तीर्थे उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात्
। सतीर्थ्यः, एकगुरुकः । ‘समानतीर्थेवासी’(सू. 1658) इति यप्रत्ययः ॥
1016: विभाषोदरे (6-3-88) यादौ प्रत्यये विवक्षिते इत्येव । सोदर्यः । समानोदर्यः ॥
1017: दृग्दृशवतुषु (6-3-89) सदृक् । सदृशः ॥ दृक्षे चेति वक्तव्यम् (वा 3992) ॥ सदृक्षः
। वतुरुत्तरार्थः ॥
1018: इदंकिमोरीश्की (6-3-90) दृग्दृशवतुषु इदम् ईश् किमः की स्यात् । ईदृक् । ईदृशः ।
कीदृक् । कीदृशः । वतूदाहरणं वक्ष्यते ॥ । दृक्षे चेति वक्तव्यम् (वा 3992) ॥
ईदृक्षः । कीदृक्षः । ‘आ सर्वनाम्नः’(सू. 430) ॥ दृक्षे च (वा 3992) ॥ तादृक् । तदृशः । तावान् ।
तादृक्षः । दीर्घः । मत्वोत्वे । अमूदृक् । अमूदृशः । अमूदृक्षः ॥
1019: समासेऽङ्गुलेः सङ्गः (8-3-80)
अङ्गुलिशब्दात्सङ्गस्य
सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे किम् । अङ्गुलेः सङ्गः ॥
1020: भीरोः स्थानम् (8-3-81) भीरुशब्दात् स्थानस्य सस्य मूर्धन्यः स्यात्समासे ।
भीरुष्ठानम् । असमासे तु । भीरोः स्थानम् ॥
1021: ज्योतिरायुषः स्तोमः (8-3-83)
आभ्यां स्तोमस्य सस्य
मूर्धन्यः स्यात्समासे । ज्यातिष्टोमः । आयुष्टोमः । समासे किम् । ज्योतिषः स्तोमः
॥
1022: सुषामादिषु च (8-3-98) सस्य मूर्धन्यः । शोभनं साम यस्य सुषामा । सुषन्धिः ।
1023: एति संज्ञायामगात् (8-3-99) सस्य मूर्धन्यः । हरिषेणः । एति किम् । हरिसक्थम् ।
संज्ञायां किम् । पृथुसेनः । अगकारात् किम् । विष्वक्सेनः । इण्कोरित्येव ।
सर्वसेनः ॥
1024: नक्षत्राद्वा (8-3-100) एति सस्य संज्ञायामगकारान्मूर्धन्यो वा । रोहिणीषेणः ।
रोहिणीसेनः । अगकारात्किम् । शतभिषक्सेनः । आकृतिगणोऽयम् ॥
1025: अषष्ठ्यतृतीयास्थस्यान्यस्य
दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु (6-3-99)
अन्यशब्दस्य दुगागमः
स्यादाशीरादिषु परेषु । अन्यदाशीः । अन्यदाशा । अन्यदाशा । अन्यदास्था ।
अन्यदास्थितः । अन्यदुत्सकः । अन्यदूतिः । अन्यद्रागः । अन्यदीयः । अषष्ठीत्यादि
किम् । अन्यस्यान्येन वाशीः अन्याशीः ॥ कारके छे च नायं निषेधः (वा 5048) ॥
अन्यस्य कारकः, अन्यत्कारः । अन्यस्यायमन्यदीयः । गहादेराकृतिगणत्वाच्छः॥
1026: अर्थे विभाषा (6-3-100) अन्यदर्थः । अन्यार्थः ॥
1027: कोः कत्तत्पुरुषेऽचि (6-3-101)
अजादावुत्तरपदे ।
कुत्सितोऽश्वः कदश्वः । कदन्नम् । तत्पुरुषे किम् । कूष्ट्रो राजा ॥ त्रौ च (वा
3998) ॥ कुत्सितास्त्रयः कत्त्रयः ॥
1028: रथवदयोश्च (6-3-102) कद्रथः । कद्वदः ॥
1029: तृणे च जातौ (6-3-103) कत्तृणम् ॥
1030: का पथ्यक्षयोः (6-3-104) कापथम् । काक्षः । अक्षशब्देन तत्पुरुषः । अक्षिशब्देन
बहुव्रीहिर्वा ॥
1031: ईषदर्थे (6-3-105) ईषज्जलं काजलम् । अजादावपि परत्वात्कादेशः । काम्लः ॥
1032: विभाषा पुरुषे (6-3-106) कापुरुषः । कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे हि
पूर्वविप्रतिषेधान्नित्यमेव। ईषत्पुरुषः कापुरुषः ॥
1033: कवं चोष्णे (6-3-107) उष्णशब्दे उत्तरपदे कोः कवं का च वा स्यात् । कवोष्णम् ।
कोष्णम् । कदुष्णम् ॥
1034: पृषोदरादीनि यथोपदिष्टम् (6-3-109)
पृषोदरप्रकाराणि
शिष्टैर्यथोच्चरितानि तथैव साधूनि स्युः । पृषतः उदरं पृषोदरम् । तलोपः ।
वारिवाहको बलाहकः । पूर्वपदस्य वः, उत्तरपदादेश्च लत्वम् ।
भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् ।
गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरम् ॥
दिक्छब्देभ्यस्तीरस्य तारभावो वा (वा 3999) ॥ दक्षिणतारम् ।
दक्षिणतीरम् । उत्तरतारम् । उत्तरतीरम्॥ दुरो दाशनाशदभध्येषूत्वमुत्तरपदादेः
ष्टुत्वं च (वा 4001) ॥ दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन
दभ्यते दूडभः । खल् त्रिभ्यः । दम्भेर्नलोपो निपात्यते । दुःखेन ध्यायतीति दूढ्यः
। ‘आतश्च’(सू. 2898) इति कः । ब्रुवन्तोऽस्यां सीदन्तीति बृसी । ब्रुवच्छब्दस्य बृ आदेशः,
सदेरधिकरणे डट् । आकृतिगणोऽयम् ॥
1035: संहितायाम् (6-3-114) अधिकारोऽयम् ॥
1036: कर्णे लक्षणस्याऽविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य
(6-3-115)
कर्णशब्दे परे
लक्षणवाचकस्य दीर्घः । द्विगुणाकर्णः । लक्षणस्य किम् । शोभनकर्णः । अविष्टादीनां
किम् । विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः
। छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः ॥
1037: नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ (6-3-116)
क्विबन्तेषु एषु परेषु
पूर्वपदस्य दीर्घः । उपानत् । नीवृत् । प्रावृट् । मर्मावित् । नीरुक् । अभीरुक् ।
ऋतीषट् । परीतत् । क्वौ इति किम् । परिणहनम् । ‘विभाषा पुरुषे’(सू. 1032) इत्यतो मण्डूकप्लुत्या विभाषानुवर्तते सा च व्यवस्थिता ।
तेन गतिकारकयोरेव । नेह । पटुरुक्। तिग्मरुक् ॥
1038: वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् (6-3-117)
कोटरादीनां वने परे
किंशुलुकादीनां गिरौ परे च दीर्घः स्यात्संज्ञायाम् ॥
1039: वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः (8-4-4)
वनशब्दस्योत्तरपदस्य एभ्य
एव णत्वं नान्येभ्यः। इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्याः । तेषां
कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः ।
पुरगावणम् । मिश्रकावणम् । सिध्रकावणम् । सारिकावणम् । कोटरावणम् । एभ्य एवेति
किम् । असिपत्रवनम् । वनस्याग्रे अग्रेवणम् । राजदन्तादिषु निपातनात्सप्तम्या
अलुक् । प्रातिपदिकार्थमात्रे प्रथमा । किंशुलुकागिरिः ॥
1040: वले (6-3-118) वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । कृषीवलः ॥
1041: मतौ बह्वचोऽनजिरादीनाम् (6-3-119)
अमरावती । अनजिरादीनां
किम् । अजिरवती । बह्वचः किम्। व्रीहिमती । संज्ञायामित्येव । नेह । वलयवती ॥
1042: शरादीनां च (6-3-120) शरावती ॥
1043: इको वहेऽपीलोः (6-3-121) इगन्तस्य दीर्घः स्याद्वहे । ऋषीवहम् । इकः किम् ।
पिण्डवहम् । अपीलोः किम् । पीलुवहम् ॥ अपील्वादीनामिति वाच्यम् (वा 4005) ॥
दारुवहम् ॥
1044: उपसर्गस्य घञ्यमनुष्ये बहुलम् (6-3-122)
उपसर्गस्य बहुलं दीर्घः
स्याद्घञन्ते परे नतु मनुष्ये । परीपाकः। परिपाकः । अमनुष्ये किम् । निषादः ॥
1045: इकः काशे (6-3-123) इगन्तस्योपसर्गस्य दीर्घः स्यात्काशे । वीकाशः । नीकाशः ।
इकः किम् । प्रकाशः॥
1046: अष्टनः संज्ञायाम् (6-3-125) उत्तरपदे दीर्घः । अष्टापदम् । संज्ञायां किम् । अष्टपुत्रः
॥
1047: चितेः कपि (6-3-127) एकचितीकः ॥
1048: नरे संज्ञायाम् (6-3-129) विश्वानरः ॥
1049: मित्रे चर्षौ (6-3-130) विश्वामित्रः । ऋषौ किम् । विश्वमित्रो माणवकः ॥ शुनो
दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः (वा 5049) ॥ श्वादन्तः इत्यादि
॥
1050: प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि
(8-4-5)
एभ्यो वनस्य णत्वं स्यात्
। प्रवणम्। कार्ष्यवणम् । इह षात्परत्वाण्णत्वम् ॥
1051: विभाषौषधिवनस्पतिभ्यः (8-4-6)
एभ्यो वनस्य णत्वं वा
स्यात् । दूर्वावणम् । दूर्वावनम् । शिरीषवणम् । शिरीषवनम् ॥
द्व्यच्त्र्यज्भ्यामेव (वा 4984) ॥ नेह । देवदारुवनम् ॥ इरिकादिभ्यः प्रतिषेधो
वक्तव्यः (वा 4985) ॥ इरिकावनम् । मिरिकावनम् ॥
1052: वाहनमाहितात् (8-4-8) आरोप्य यदुह्यते तद्वाचिस्थान्निमित्तात्परस्य वाहननकारस्य
णत्वं स्यात् । इक्षुवाहणम् । आहितात् किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं
वाहनमित्यर्थः । वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ॥
1053: पानं देशे (8-4-9) पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे
गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । पीयते
इति पानम् । कर्मणि ल्युट् ॥
1054: वा भावकरणयोः (8-4-10) पानस्येत्येव । क्षीरपाणम् । क्षीरपानम् ॥ गिरिनद्यादीनां
वा (वा 4989) ॥ गिरिणदी । गिरिनदी । चक्रणितम्बा । चक्रनितम्बा ॥
1055: प्रातिपदिकान्तनुम्विभक्तिषु च (8-4-11)
पूर्वपदस्थान्निमित्तात्परस्य
एषु स्थितस्य नस्य णो वा स्यात् । प्रातिपदिकान्ते, माषवापिणौ । नुमि, व्रीहिवापाणि । विभक्तौ, माषवापेण । पक्षे माषवापिनावित्यादि ॥ उत्तरपदं
यत्प्रातिपदिकं तदन्तस्यैव णत्वम् (वा 4990) ॥ नेह । गर्गाणां भगिनी गर्गभगिनी ।
अतएव नुम्ग्रहणं कृतम् । अङ्गस्य नुम्विधानात्तद्भक्तो हि नुम् नतूत्तरपदस्य ।
किंच । प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुम्ग्रहणम् । प्रेन्वनमित्यादौ
तु क्षुभ्नादित्वान्न ॥ युवादेर्न (वा 4999) ॥ रम्ययूना । परिपक्वानि । ‘एकाजुत्तरपदे
णः’(सू. 307) । नित्यमित्युक्तम् । वृत्रहणौ । हरिं मानयतीति हरिमाणी ।
नुमि,
क्षीरपाणि । विभक्तौ, क्षीरपेण । रम्यविणा ॥
1056: कुमति च (8-4-13) कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि ।
हरिकामेण ॥
1057: पदव्यवायेऽपि (8-4-38) पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन ।
चतुरङ्गयोगेन ॥ अतद्धित इति वाच्यम् (वा 5015) ॥ आर्द्रगोमयेण । शुष्कगोमयेण ॥
1058: कुस्तुम्बुरूणि जातिः (6-1-143)
अत्र सुण्निपात्यते ।
कुस्तुम्बुरु धान्याकम् । क्लीबत्वमतन्त्रम् । जातिः किम् । कुतुम्बुरूणि ।
कुत्सितानि तिन्दुकीफलानीत्यर्थः ॥
1059: अपरस्पराः क्रियासातत्ये (6-1-144)
सुण्निपात्यते । अपरस्पराः
सार्था गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः । क्रियेति किम् । अपरपरा
गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः ॥
1060: गोष्पदं सेवितासेवितप्रमाणेषु (6-1-145)
सुट् सस्य षत्वं च
निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते,
अगोष्पदान्यरण्यानि । प्रमाणे,
गोष्पदमात्रं क्षेत्रम् । सेवितेत्यादि किम् । गोः पदं
गोपदम् ॥
1061: आस्पदं प्रतिष्ठायाम् (6-1-146)
आत्मयापनाय स्थाने सुट्
निपात्यते । आस्पदम् । प्रेति किम् । आपदापदम् ॥
1062: आश्चर्यमनित्ये (6-1-147) अद्भुते सुट् । आश्चर्यं यदि स भुञ्जीत । अनित्ये किम् ।
आचर्यं कर्मं शोभनम् ॥
1063: वर्चस्केऽवस्करः (6-1-148) कुत्सितं वर्चो वर्चस्कम्, अन्नमलं तस्मिन् सुट् । अवकीर्यत इत्यवस्करः । वर्चस्के
किम् । अवकरः ॥
1064: अपस्करो रथाङ्गम् (6-1-149) अपकरोऽन्यः ॥
1065: विष्किरः शकुनौ वा (6-1-150) पक्षे विकिरः । वावचनेनैव सुड्विकल्पे सिद्धे विकिरग्रहणं
तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत् इति वृत्तिस्तन्न । भाष्यविरोधात् ॥
1066: प्रतिष्कशश्च कशेः (6-1-152) कश गतिशासनयोरित्यस्य प्रतिपूर्वस्य पचाद्यचि सुट्
निपात्यते षत्वं च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । कशे किम् ।
प्रतिगतः कशां प्रतिकशोऽश्वः । यद्यपि कशेरेव कशा तथापि कशेरिति धातोर्ग्रहणमुपसर्गस्य
प्रतेर्ग्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न ॥
1067: प्रस्कण्वहरिश्चन्द्रावृषी (6-1-153)
हरिश्चन्द्रग्रहणममन्त्रार्थम्
। ऋषीति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः ॥
1068: मस्करमस्करिणौ वेणुपरिव्राजकयोः (6-1-154)
मकरशब्दोऽव्युत्पन्नस्तस्य
सुडिनिश्च निपात्यते । वेण्विति किम् । मकरो ग्राहः । मकरी समुद्रः ॥
1069: कास्तीराजस्तुन्दे नगरे (6-1-155)
ईषत्तीरमस्यास्तीति
कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । नगरे किम् ।
कातीरम् । अजतुन्दम् ॥
1070: कारस्करो वृक्षः (6-1-156) (ग 153) कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः ।
केचित्तु कस्कादिष्विदं पठन्ति न सूत्रेषु ॥
1071: पारस्करप्रभृतीनि च संज्ञायाम् (6-1-157)
एतानि ससुट्कानि
निपात्यन्ते नाम्नि । पारस्करः । किष्किन्धा ॥ तद्बृहतोः करपत्योश्चोरदेवतयोः सुट्
तलोपश्च (वा 3713) ॥ तात्पूर्वं चर्त्वेन दकारोऽपि बोध्यः । तद्बृहतोर्दकारतकारौ
लुप्येते । करपत्योस्तु सुट् । चोरदेवतयोरिति समुदायोपाधिः । तस्करः । बृहस्पतिः ।
प्रायस्य चित्तिचित्तयोः (वा 3714) ॥ प्रायश्चित्तिः । प्रायश्चित्तम् ।
वनस्पतिरित्यादि । आकृतिगणोऽयम् ॥
॥ इति समासाश्रयविधिप्रकरणम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें