॥ अथ तिङन्तभ्वादिप्रकरणम्
॥
2151: वर्तमाने लट् (3-2-123) वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ ॥
2152: लः कर्मणि च भावे चाकर्मकेभ्यः (3-4-69)
लकाराः सकर्मकेभ्यः कर्मणि
कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ॥
2153: लस्य (3-4-77) अधिकारोऽयम् ॥
2154: तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (3-4-78)
एतेऽष्टादशलादेशाः...