कविरहस्यम्
शास्त्रसंग्रहः प्रथमोऽध्यायः
शास्त्रसंग्रहः अथातः काव्यं
मीमांसिष्यामहे, यथोपदिदेश श्रीकण्ठः परमेष्ठिवैकुण्ठादिभ्यश्चतुःषष्टये
शिष्येभ्यः ।
सोऽपि भगवान्स्वयम्भूरिच्छाजन्मभ्यः
स्वान्तेवासिभ्यः ।
तेषु सारस्वतेयो वृन्दीयसामपि वन्द्यः
काव्यपुरुष आसीत् ।
तं च सर्वसमयविदं दिव्येन चक्षुषा
भविष्यदर्थदर्शिनं भूर्भुवःस्वस्त्रितयवर्तिनीषु प्रजासु हितकाम्यया प्रजापतिः
काव्यविद्याप्रवर्त्तनायै प्रायुङ्क्त ।
सोऽष्टादशाधिकरणीं दिव्येभ्यः
काव्यविद्यास्नातकेभ्यः सप्रपञ्चं प्रोवाच
।
तत्र कविरहस्यं सहस्राक्षः समाम्नासीत्,
औक्तिकमुक्तिगर्भः, रीतिनिर्णयं सुवर्णनाभः,
आनुप्रासिकं प्रचेतायमकं
यमः, चित्रं चित्राङ्गदः, शब्दश्लेषं
शेषः, वास्तवं पुलस्त्यः, औपम्यमौपकायनः,
अतिशयं पराशरः, अर्थश्लेषमुतथ्यः, उभयालङ्कारिकं कुबेरः, वैनोदिकं कामदेवः, रुपकनिरुपणीयं भरतः, रसाधिकारिकं नन्दिकेश्वरः,
दोषाधिकरणं धिषणः, गुणौपदानिकमुपमन्युः,औपनिषदिकं कुचमारः, इति ।
ततस्ते पृथक्पृथक्स्वशास्त्राणि
विरचयाञ्चक्रुः ।
इत्थङ्कारञ्च प्रकीर्णत्वात् सा
किञ्चिदुच्चिच्छिदे ।
इतीयं प्रयोजकाङ्गवती सङ्क्षिप्य सर्वमर्थमल्पग्रन्थेन
अष्टादशप्रकरणी प्रणीता ।
तस्या अयं
प्रकरणाधिकरणसमुद्देशः ।
१ शास्त्रसंग्रहः,
२ शास्त्रनिर्देशः, ३ काव्यपुरुषोत्पत्तिः,
४ शिष्यप्रतिभे, ५ व्युत्पत्तिविपाकाः,
६ पदवाक्यविवेकः, ७ वाक्यविधयः, ८ काकुप्रकाराः, ९ पाठप्रतिष्ठा, १० काव्यार्थयोनयः, ११ अर्थानुशासनं, १२ कविचर्या, १३ राजचर्या, १४
शब्दार्थहरणोपायाः, १५ कवि विशेषः, १६
कविसमयः, १७ देशकालविभागः, १८ भुवनकोशः,
इति कविरहस्यं प्रथममधिकरणमित्यादि
।
इति सूत्राण्यथैतेषां
व्याख्याभाष्यं भविष्यति ।
समासव्यासविन्यासः सैष शिष्यहिताय
नः ॥
चित्रोदाहरणैर्गुर्वी ग्रन्थेन तु
लघीयसी ।
इयं नः काव्यमीमांसा
काव्यव्युत्पत्तिकारणम् ॥
इयं सा काव्यमीमांसा मीमांसायत्र
वाग्लवः ।
वाग्लवं न स जानाति न विजानाति
यस्त्विमाम् ॥
यायावरीयः सङ्क्षिप्य मुनीनां
मतविस्तरम् ।
व्याकरोत्काव्यमीमांसां कविभ्यो राजशेखरः
॥
इति राजशेखरकृतौ काव्यमीमांसायां
कविरहस्ये प्रथमेऽधिकरणे प्रथमोऽध्यायः शास्त्रसङ्ग्रहः ॥
शास्त्रनिर्देशः द्वितीयोऽध्यायः
शास्त्रनिर्देशः इह वाङ्मयमुभयथा
शास्त्रं काव्यं च ।
शास्त्रपूर्वकत्वात्काव्यानां पूर्व
शास्त्रेष्वभिनिविशेत ।
नह्यप्रवर्त्तितप्रदीपास्तमसितत्त्वार्थसार्थमध्यक्षयन्ति ।
तच्च द्विधा अपौरुषेयं पौरुषेयं
च ।
अपौरुषेयं श्रुतिः ।
सा च मन्त्रब्राह्मणे ।
विवृतक्रियातन्त्रा मन्त्राः ।
मन्त्राणां
स्तुतिनिन्दाव्याख्यानविनियोगादिग्रन्थो ब्राह्मणम् ।
ऋग्यजुःसामवेदास्त्रयी ।
अथर्व तुरीयम् ।
तत्रार्थव्यवस्थितपादा ऋचः ।
ताः सगीतयः सामानि ।
अच्छन्दांस्यगीतानि यजूंषि ।
ऋचो यजूंषि सामानि चाथर्वाणि त इमे
चत्वारो वेदाः ।
इतिहासवेदधनुर्वेदौ
गान्धर्वायुर्वेदावपि चोपवेदाः ।
̔वेदोपवेदात्मा सार्ववर्णिकः पञ्चमो
नाट्यवेदः̕इति
द्रौहिणिः ।
̔शिक्षा,
कल्पो, व्याकरणं, निरुक्तं,
छन्दोविचितिः, ज्यौतिषं च षडङ्गानि̕
इत्याचार्याः ।
̔उपकारकत्वादलङ्कारः सत्पममङ्गम्̕इति
यायावरीयः ।
ऋते च तत्स्वरुपपरिंज्ञानाद्वेदार्थानवगतिः।
यथा
̔द्वा सुपर्णा सयुजा सखाया समानं
वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्ति
अनश्नन्नन्यो अभिचाकशीति ॥̕
सेयं शास्त्रोक्तिः ।
प्रत्यधिकरणं च ऋचं यजुः
सामाथर्वणां ब्राह्मणं चोदाहृत्य भाषामुदाहरिष्यामः ।
तत्र वर्णानां
स्थानकरणप्रयत्नादिभिः निष्पत्तिनिर्णयिनी शिक्षा आपिशलीयादिका ।
नानाशाखाधीतानां मन्त्राणां
विनियोजकं सूत्रं कल्पः ।
सा च यजुर्विद्या ।
शब्दानामन्वाख्यानं व्याकरणम् ।
निर्वचनं निरुक्तम् ।
छन्दसां
प्रतिपादियित्रीछन्दोविचितिः ।
ग्रहगणितं ज्यौतिषम्,
अलङ्कारव्याख्यानं तु पुरस्तात् ।
पौरुषेयं तु पुराणम्,
आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रमिति
चत्वारि शास्त्राणि ।
तत्र वेदाख्यानोपनिबन्धनप्रायं
पुराणमष्टादशधा ।
यदाहुः -
सर्गः प्रतिसंहारः कल्पो
मन्वन्तराणि वंशविधिः ।
जगतो यत्र निबद्धं तद्विज्ञेयं
पुराणमिति ॥
̔पुराणप्रविभेद एवेतिहासः̕इत्येके ।
स च द्विधा
परक्रियापुराकल्पाभ्याम् ।
यदाहुः -
̔परक्रिया पुराकल्प इतिहासगतिर्द्विधा ।
स्यादेकनायका पूर्वा द्वितीया
बहुनायका ॥̕
तत्र रामायणं भारतं चोदाहरणे ।
आन्वीक्षिकीं तु विद्यावसरे
वक्ष्यामः ।
निगमवाक्यानां न्यायैः सहस्रेण
विवेक्त्री मीमांसा ।
सा च द्विविधा विधिविवेचनी
ब्रह्मनिदर्शनी च ।
अष्टादशैव
श्रुत्यर्थस्मरणात्स्मृतयः ।
̔तानीमानि चतुर्दश विद्यास्थानानि,
यदुत वेदाश्रत्वारः, षडङ्गानि, चत्वारि शास्त्राणि ̕इत्याचार्याः
।
तान्येतानि कृत्स्नामपि भूर्भुवःस्वस्त्रयीं
व्यासज्य वर्त्तन्ते ।
तदाहुः -
विद्यास्थानानां गन्तुमन्तं न शक्तो
जीवेद्वर्षणां योऽपि साग्रं सहस्रम् ।
तस्मात्सङ्क्षेपादर्थसन्दोह उक्तो
व्यासः संत्यक्तो ग्रन्थभीरुप्रियार्थम् ॥
̔सकलविद्यास्थानैकायतनं पञ्चदशं
काव्यं विद्यास्थानम्̕ इति यायावरीयः ।
गद्यपद्यमयत्वात्कविधर्मत्वात् हितोपदेशकत्वाच्च ।
तद्धि शास्त्रण्यनुधावति ।
̔वार्त्ता कामसूत्रं शिल्पशास्त्रं
दण्डनीतिरिति पूर्वैः सहाष्टादश विद्यास्थानानि̕इत्यपरे ।
आन्वीक्षिकी त्रयी वार्त्ता
दण्डनीतिश्चेति विद्याः ।
̔दण्डनीतिरेवैका विद्या̕इत्यौशनशाः ।
दण्डभयाद्धि कृत्स्नो लोकः स्वेषु
स्वेषु कर्मस्ववतिष्ठते ।
̔वार्त्ता दण्डनीतिर्द्वे विद्ये̕
इति बार्हस्पत्याः ।
वृत्तिर्विनयग्रहणं च
स्थितिहेतुर्लोकयात्रायाः ।
̔त्रयीवार्त्तादण्डनीतयस्तिस्रो
विद्याः̕ इति मानवाः ।
त्रयी हि
वार्त्तादण्डनीत्योरुपदेष्ट्री ।
̔आन्वीक्षिकीत्रयीवार्त्तादण्डनीतयश्चतस्रो
विद्याः̕इति कौटिल्यः ।
आन्वीक्षिक्या हि विवेचिता त्रयी
वार्त्तादण्डनीत्योः प्रभवति ।
̔पञ्चमी साहित्यविद्या̕ इति
यायावरीयः ।
सा हि चसृणामपि विद्यानां
निस्यन्दः ।
आभिर्द्धर्मार्थौ
यद्विद्यात्तद्विद्यानां विद्यात्वम् ।
तत्र त्रयी व्याख्याता ।
द्विधा चान्वीक्षिकी पूर्वोत्तरपक्षाभ्याम् ।
अर्हद्भदन्तदर्शने लोकायत्तं च
पूर्वः पक्षः ।
साङ्ख्यं न्यायवैशेषिकौ
चोत्तरः ।
त इमे षट् तर्काः ।
तत्र च तिस्रः कथा भवन्ति वादो,
जल्पो, वितण्डा च ।
मध्यस्थयोस्तत्त्वावबोधाय वस्तुतत्त्वपरामर्शो
वादः ।
विजिगीषोः स्वपक्षसिद्धये
छलजातिनिग्रहादिपरिग्रहो जल्पः ।
स्वपक्षस्यापरिग्रहित्री परपक्षस्य
दूषयित्री वितण्डा ।
कृषिपाशुपाल्ये वणिज्या च
वार्त्ता ।
आन्वीक्षिकीत्रयीवार्त्तानां
योगक्षेमसाधनो दण्डस्तस्य नीतिर्दण्डनीतिः
।
तस्यामायत्ता लोकयात्रेति
शास्त्राणि ।
सामान्यलक्षणं चैषाम्
सरितामिव प्रवाहास्तुच्छाः प्रथमं
यथोत्तरं विपुलाः ।
ये शास्त्रसमारम्भा भवन्ति लोकस्य
ते वन्द्याः ॥
सूत्रादिभिश्चैषां प्रणयनम् ।
तत्र सूत्रणात्सूत्रम् ।यदाहुः -
अल्पाक्षरमसन्दिग्धं सारवद्विश्चतोमुखम् ।
अस्तोभमनवद्यञ्च सूत्रं सूत्रकृतो
विदुः ॥
सूत्राणां सकलसारविवरणं
वृत्तिः ।
सूत्रवृत्तिविवेचनं पद्धतिः ।
आक्षिप्य भाषणाद्भाष्यम् ।
अन्तर्भाष्यं समीक्षा ।
अवान्तरार्थविच्छेदश्च सा ।
यथासम्भवमर्थस्य टीकनं टीका ।
विषमपदभञ्जिका पञ्जिका ।
अर्थप्रदर्शकारिका कारिका ।
उक्तानुक्तदुरुक्तचिन्ता
वार्त्तिकमिति शास्त्रभेदाः ।
भवति प्रथयन्नर्थं लीनं समभिप्लुतं
स्फुटीकुर्वन् ।
अल्पमनल्पं रचयन्ननल्पं च
शास्त्रकविः ॥
शास्त्रैकदेशस्य प्रक्रिया
प्रकरणम् ।
अध्यायादयस्त्ववान्तरविच्छेदाः कृतिभिः
स्वतन्त्रतया प्रणीता इत्यपरिसङ्ख्येया अनाख्येयाश्च ।
शाब्दार्थयोर्यथावत्सहभावेन विद्या
साहित्यविद्या ।
उपविद्यास्तु चतुःषष्ठिः ।
ताश्च कला इति विदग्धवादः ।
स आजीवः काव्यस्य ।
तमौपनिषदिके वक्ष्यामः ।
इत्यनन्तोऽभियुक्तानामत्र संरम्भविस्तरः ।
त्यक्तो निपुणधीगम्यो
ग्रन्थगौरवकारणात् ॥
इति राजशेखरकृतौकाव्यमीमांसायां
कविरहस्ये प्रथमेऽधिकरणे द्वितीयोऽध्यायः शास्त्रनिर्देशः ॥
काव्यपुरुषोत्पत्तिः
तृतीयोऽध्यायः ३
काव्यपुरुषोत्पत्तिः एवं गुरुभ्यो
गिरः पुण्याः पुराणीः शृणुमः स्म, यत्किलधिषणं
शिष्याः कथाप्रसङ्गे पप्रच्छुः, कीदृशः पुनरसौ सारस्वतेयः
काब्यपुरुषो वो गुरुः ? इति
स तान् बृहताम्पतिरुचे ।
पुरा पुत्रीयन्ती सरस्वती तुषारगिरौ
तपस्यामास ।
प्रीतेन मनसा तां विरिञ्चः प्रोवाच–̔पुत्रं
ते सृजामि ।̕
अथैषा काव्यपुरुषं सुषुवे ।
सोऽभ्युत्थाय सपादोपग्रहं छन्दस्वतीं
वाचमुदचीचरत् -
यदेतद्वाङ्मयं विश्वमर्थमूर्त्या
विवर्त्तते ।
सोऽस्मि काव्यपुमानम्ब पादौ वन्देय
तावकौ ॥
तामाम्नायदृष्टचरीमुपलभ्य भाषाविषये
छन्दोमुद्रां देवी ससम्मदमङ्कपर्यङ्केनादाय तमुदलापयत् ।
̔वत्स ! सच्छन्दस्काया गिरः प्रणेतः
! वाङ्मयमातरमपि मातरं मां विजयसे ।
प्रशस्यतमं चेदमुदाहरन्ति यदुत̔पुत्रात्पराजयो
द्वितीयं पुत्रजन्म̕इति ।
त्वत्तः पूर्वे हि विद्वांसो गद्यं
ददृशुर्न पद्यम् ।
त्वदुपज्ञमथातः छन्दस्वद्वचः
प्रवर्त्स्यति ।
अहो श्लाघनीयोऽसि ।
शब्दार्थौ ते शरीरं,
संस्कृतं मुखं, प्राकृतं बाहुः, जघनमपभ्रंशः, पैशाचं पादौ, उरो
मिश्रम् ।
समः प्रसन्नो मधुर उदार ओजस्वी
चासि ।
उक्तिचणं ते वचो,
रस आत्मा, रोमाणि छन्दांसि, प्रश्नोत्तरप्रवहिलकादिकं च वाक्केलिः, अनुप्रासोपमादयश्च
त्वामलङ्कुर्वन्ति ।
भविष्यतोऽर्थस्याभिधात्री श्रुतिरपि
भवन्तमभिस्तौति -
चत्वारि श्रृङ्गास्त्रयोऽस्य पादा
द्वे शीर्षे सप्तहस्तासोऽस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देवो
मर्त्यानाविवेश ॥
̔तथापि संवृणु प्रगल्भस्य पुंसः
कर्म,
बालोचितं चेष्टस्व̕ इति निगद्य निवेश्य चैनमनोकहाश्रयिणी गण्डशैलतलतल्पे
स्नातुमभ्रगङ्गां जगाम ।
तावच्च कुशान् समिधश्च समाहर्त्तुं
निःसृतो महामुनिरुशनाः परिवृत्ते पूषण्यूष्मोपप्लुतं तमद्राक्षीत् ।
कस्यायमनाथो बाल इति
चिन्तयन्स्वमाश्रमपदमनैषीत् ।
क्षणादाश्वस्तश्च स
सारस्वतेयस्तस्मै छन्दस्वतीं वाचं समचारयत् ।
अकस्माद्विस्मापयन्स चाभ्युवाच -
̔या दुग्धाऽपि न दुग्धेव कविदोग्धृभिरन्वहम् ।
हृदि नः सन्निधत्तां सा सूक्तिधेनुः
सरस्वती ॥̕इति ।
तत्पूर्वकमध्येतृणां च
सुचेधस्त्वमादिदेश ।
ततः प्रभृति तमुशनसं सन्तः
कविरित्याचक्षते ।
तदुपचाराच्च कवयः कवय इति
लोकयात्रा ।
कविशब्दश्च̔कवृवर्णने̕ इत्यस्य
धातोः काव्यकर्मणो रुपम् ।
काव्यैकरुपत्वाच्च सारस्वतेयेऽपि
काव्यपुरुष इति भक्त्या प्रयुञ्जते ।
ततश्च विनिवृत्ता वाग्देवी तत्र
पुत्रमपश्यन्ती मध्येहृदयं चक्रन्द ।
प्रसङ्गागतश्च वाल्मीकिर्मुनिवृषा
सप्रश्रयं तमुदन्तमुदाहृत्य भगवत्यै, भृगुसूतेराश्रमपदमदर्शयत्
।
सापि प्रस्नुतपयोधरा
पुत्रायाङ्कपालीं ददाना शिरसि च चुम्बन्ती स्वस्तिमता चेतसा प्राचेतसायापि महर्षये
निभृतं सच्छन्दांसि वचांसि प्रायच्छत् ।
अनुप्रेषितश्च स तया
निषादनिहतसहतसहचरीकं क्रौञ्चयुवानं करुणक्रेङ्कारया गिरा क्रन्दन्तमुदीक्ष्य
शोकवान् श्लोकमुज्जगाद -
मा निषाद !प्रतिष्ठां
त्वमगमः शाश्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः
काममोहितम् ॥
ततो दिव्यदृष्टिर्देवी तस्मा अपि
श्लोकाय वरमदात्, यदुतान्यदनधीयानो
यः प्रथममेनमध्येष्यते स सारस्वतः कविः संपत्स्यत इति ।
स तु महामुनिः प्रवृत्तवचनो
रामायणमितिहासं समदृभत्॑ , द्वैपायनस्तु श्लोकप्रथमाध्यायी तत्प्रभावेण शतसाहस्रीं
संहितां भारतम् ।
एकदा तु ब्रह्मर्षिवृन्दारकयोः
श्रुतिविवादे दाक्षिण्यवान्देव स्वयम्भूस्तामिमां निर्णेत्रीमुद्दिदेश ।
उपश्रुतवृत्तान्तश्च मातरं
व्रजन्तीं सोऽनुवव्राज ।
वत्स!परमेष्ठिनाऽननुमतस्य ते न
ब्रह्मलोकयात्रा निःश्रेयसायेत्यभिदधाना हठान्न्यवर्तयदेनमात्मना तु प्रववृते ।
ततः स काव्यपुरुषो रुषा
निश्चक्राम ।
प्रियं मित्रमस्य च कुमारः
साक्रन्दं रुदन्नभ्यधीयत गौर्या̔तात! तूष्णीमास्स्व साऽहमेषा निषेधामीति̕निगदन्दी
समचिन्तयत् ।
प्रायः प्राणभृतां प्रेमाणमन्तरेण
नान्यद्बन्धनमस्ति, तदेतस्यवशीकरणं
कामपि स्त्रियं सृजामीति विचिन्तयन्ती साहित्यविद्यावधूमुदपादयदादिशच्चैनामेष ते
रुषा धर्मपतिः पुरः प्रतिष्ठते तदनुवर्त्तस्वैनं निवर्त्तय च ।
भवन्तोऽपि हन्त! मुनयः!काव्यविद्यास्नातकाश्चरितमेतयोः
स्तुध्वमेतद्धि वः काव्यसर्वस्वं भविष्यतीत्यभिधाय भगवती भवानी जोषमासिष्ट ।
तेऽपि तथाकर्त्तुमवतस्थिरे ।
अथ सर्वें प्रथमं प्राचीं दिशं
शिश्रियुर्यत्राङ्गवङ्गसुह्मब्रह्मपुण्ड्राद्या जनपदाः,
तत्राभियुज्जाना तमौमेयी यं वेषं यथेष्टमसेविष्ट, स तत्रत्याभिः स्त्रीभिरन्वक्रियत
।
सा प्रवृत्तिरौड्रमागधी।
तां ते मुनयोऽभितुष्टुवुः-
आर्दार्द्रचन्दनकुचार्पितसूत्रहारः ।
सीमन्तचुम्बिसिचयः
स्फुटबाहुमूलः ।
दूर्वाप्रकाण्डरुचिरास्वगुरुपभोगाद्
गौडाङ्गनासु चिरमेष चकास्तु वेषः ॥
यदृच्छयाऽपि यादृङ्नेपथ्यः स
सारस्वतेय आसीत्तद्वेषाश्च पुरुषा बभूवुः
।
साऽपि सैव प्रवृत्तिः ।
यदपरं नृत्तवाद्यादिकमेषा चक्रे सा
भारती वृत्तिः ।
तां ते मुनय इति समानं पूर्वेण ।
तथाविधाकल्पयापि तया यदवशंवदीकृतः
समासवदनुप्रासवद्योगवृत्तिपरम्परागर्भं (वाक्यं) जगाद सा गौडीया रीतिः ।
तां ते मुनय इति समानं पूर्वेण ।
वृत्तिरीतिस्वरुपं यथावसरं
वक्ष्यामः ।
ततश्च सपञ्चालान्प्रत्युच्चचाल ।
यत्र
पाञ्चालशूरसेनहस्तिनापुरकाश्मीरवाहीकबाह्लीकबाह्लवेयादयो जनपदाः ।
तत्राऽभियुञ्जाना तमौमेयीति समानं
पूर्वेण ।
सा पाञ्चालमध्यमाप्रवृत्तिः ।
तां ते मुनयोऽभितुष्टुवुः
ताटङ्कवल्गनतरङ्गितगण्डलेखमानाभिलम्बिदरदोलिततारहारम् ।
आश्रोणिगुल्फपरिमण्डलितोत्तरीयं
वेषं नमस्यत महोदयसुन्दरीणाम् ॥
किञ्चिदार्द्रमना यन्नेपथ्यः स
सारस्वतेय आसीदिति समानं पूर्वेण ।
साऽपि सैवेति समानं पूर्वेण ।
यदीषन्नृत्तगीतवाद्यविलासादिकमेषा
दर्शयांबभूव सा सात्वती वृत्तिः ।
आविद्धगतिमत्त्वात्सा चारभटी ।
तां ते मुनय इति समानं पूर्वेण ।
तथाविधाकल्पयापि तया यदीषद्वशंवदीकृत
ईषदसमासमीषदनुप्रासमुपचारगर्भञ्च (वाक्यं) जगाद सा पाञ्चाली रीतिः ।
तां ते मुनय इति समानं पूर्वेण ।
ततः सोवन्तीन् प्रत्युच्चचाल ।
यत्रावन्तीवैदिशसुराष्ट्रमालवार्बुदभृगुकच्छादयो
जनपदाः ।
तत्राभियुञ्जाना तमौमेयीति समानं
पूर्वेण ।
सा प्रवृत्तिरावन्ती ।
पाञ्चालमध्यमादाक्षिणात्ययोरन्तरचारिणी
हि सा ।
अत एव सात्वतीकैशिक्यौ तत्र वृत्ती ।
तां ते मुनयोभितुष्टुवुः
पाञ्चालनेपथ्यविधिर्नराणां
स्त्रीणां पुनर्नन्दतु दाक्षिणात्यः ।
यज्जल्पितं यच्चरितादिकं
तदन्योन्यसंभिन्नमवन्तिदेशे ॥
ततश्च स दक्षिणां दिशमाससाद ।
यत्र मलयमेकलपालमंजराः पर्वताः ।
कुन्तलकेरलमहाराष्ट्रगाङ्गकलिङ्गादयो
जनपदाः ।
तत्राभियुञ्जाना तमौमेयीति,
समानं पूर्वेण ।
सा दाक्षिणात्या प्रवृत्तिः ।
तां ते मुनयोऽभितुष्टुवुः ।
आमूलतो
वलितकुन्तलचारुचूडश्चूर्णालकप्रचयलाञ्छितभालभागः
।
कक्षानिवेशनिबिडीकृतनीविरेष
विषश्चिरं जयति केरलकामिनीनाम् ॥
तामनुरक्तमनाः स यन्नेपथ्यः सारस्वतेय
आसीदिति समानं पूर्वेण ।
यद्विचित्रनृत्तगीतवाद्यविलासादिकमेषाविर्भावयामास
सा कैशिकी वृत्तिः ।
तां ते मुनय इति समानं पूर्वेण ।
यदत्यर्थं च स तया वशंवदीकृतः
स्थानानुप्रासवदसमासं योगवृत्तिगर्भं च (वाक्यं)जगाद सा वैदर्भी रीतिः ।
तां ते मुनय इति समानं पूर्वेण ।
तत्र वेषविन्यासक्रमः प्रवृत्तिः,
विलासविन्यासक्रमो वृत्तिः, वचनविन्यासक्रमो
रीतिः ।
̔चतुष्टयी गतिर्वृत्तीनां
प्रवृत्तिनां च देशानां पुनरानन्त्यं तत्कथमिव कात्स्न्र्येन परिग्रहः̕इत्याचार्याः ।
अनन्तानपि हि देशांश्चतुर्धैवाकल्प्य
कल्पयन्ति̔चक्रवर्तिक्षेत्रं सामान्येन तदवान्तरविशेषैः पुनरनन्ता एव̕इति
यायावरीयः ।
दक्षिणात्समुद्रादुदीचीं दिशं प्रति
योजनसहस्रं चक्रवर्तिक्षेत्रं, तत्रैव
नेपथ्यविधिः ।
ततः परं दिव्याद्या अपि यं
देशमधिवसेयुस्तद्देश्यं वेषमाश्रयन्तो निबन्धनीयाः ।
स्वभूमौ तु कामचारः ।
द्वीपान्तरभवानां तदनुसारेण
वृत्तिप्रवृत्ती ।
रीतयस्तु तिस्रस्तास्तु
पुरस्तात् ।
तत्रास्ति मनोजन्मनो देवस्य
क्रीडावासो विदर्भेषु वत्सगुल्मं नाम नगरम्
।
तत्र सारस्वतेयस्तामौमेयीं
गन्धर्ववत्परिणिनाय ।
ततस्तद्वधूवरं विनिवृत्त्य तेषु
प्रदेशेषु विहरमाणं तुषारगिरिमेवाजगाम, यत्र
गौरी सरस्वती च मिथः सम्बन्धिन्यौ तस्थतुः
।
तौ च कृतवन्दनौ दम्पतीदत्त्वाशिषं
प्रभावमयेन वपुषा कविमानसनिवासिनौ चक्रतुः
।
तयोश्च तं सर्गं कविभ्यः
स्वर्गलोकमकल्पतां, यत्र काव्यमयेन
शरीरेण मर्त्त्यमधिवसन्तो दिव्येन देहेन कवय आकल्पं मोदन्ते ।
इत्येष काव्यपुरुषः पुरा सृष्टः
स्वयम्भुवा ।
एवं विभज्य जानानः प्रेत्य चेह च
नन्दति ॥
इति राजशेखरकृतौ काव्यमीमांसायां
कविरहस्ये प्रथमेऽधिकरणे तृतीयोऽध्यायः काव्यपुरुषोत्पत्तिः
शिष्यप्रतिभे चतुर्थोऽध्यायः
शिष्यप्रतिभे द्विविधं शिष्यमाचक्षते
यदुत बुद्धिमानाहार्यबुद्धिश्च ।
यस्य निसर्गतः शास्त्रमनुधावति
बुद्धिः स बुद्धिमान् ।
यस्य च शास्त्राभ्यासः संस्कुरुते
बुद्धिमसावाहार्यबुद्धिः ।
त्रिधा च सा,
स्मृतिर्मतिः प्रज्ञेति ।
अतिक्रान्तस्यार्थस्य
स्मर्त्रीस्मृतिः ।
वर्त्तमानस्य मन्त्री मतिः ।
अनागतस्य प्रज्ञात्री
प्रज्ञेति ।
सा त्रिप्रकाराऽपि
कवीनामुपकर्त्री ।
तयोर्बुद्धिमान् शुश्रूषते शृणोति
गृह्णीते धारयति विजानात्यूहतेऽपोहति तत्त्वं चाभिनिविशते ।
आहार्यबुद्धेरप्येत एव गुणाः किन्तु
प्रशास्तारमपेक्षन्ते ।
अहरहः सुगुरुपासना तयोः प्रकृष्टो
गुणः ।
सा हि बुद्धिविकासकामधेनुः ।
तदाहुः -
̔प्रथयति पुरः
प्रज्ञाज्योतिर्यथार्थपरिग्रहे तदनु जनयत्यूहापोहक्रियाविशदं मनः ।
अभिनिविशते तस्मात्तत्त्वं
तदेकमुखोदयं सह परिचयो विद्यावृद्धैः क्रमादमृतायते ॥̕
ताभ्यामन्यथाबुद्धिर्दुर्बुद्धिः ।
तत्र बुद्धिमतः प्रतिपत्तिः ।
स खलु सकृदभिधानप्रतिपन्नार्थः
कविमार्गं मृगयितुं गुरुकुलमुपासीत ।
आहार्यबुद्धेस्तु द्वयमप्रतिपत्तिः
सन्देहश्च ।
स खल्वप्रतिपन्नमर्थं प्रतिपत्तुं
सन्देहं च निराकर्तुमाचार्यानुपतिष्ठेत ।
दुर्बुद्धेस्तु सर्वत्र मतिविपर्यास
एव ।
स हि नीलीमेचकितसिचयकल्पोऽनाधेयगुणान्तरत्वात्तं
यदि सारस्वतोनुभावः प्रसादयति तमौपनिषदिके वक्ष्यामः।
̔काव्यकर्मणि कवेः समाधिः परं
व्याप्रियते̕ इति श्यामदेवः ।
मनस एकाग्रता समाधिः ।
समाहितं चित्तमर्थान्पश्यति,
उक्तञ्च -
सारस्वतं किमपि तत्सुमहारहस्यं यद्गोचरं
च विदुषां निपुणैकसेव्यम् ।
तत्सिद्धये परमयं परमोऽभ्युपायो
यच्चेतसो विदितवेद्यविधेः समाधिः ॥
̔अभ्यासः̕ इति मङ्गलः ।
̔अविच्छेदेन शीलनमभ्यासः̕ ।
स हि सर्वगामी सर्वत्र निरतिशयं
कौशलमाधत्ते ।
समाधिरान्तरः प्रयत्नो बाह्यस्त्वभ्यासः ।
तावुभावपि शक्तिमुद्भासयन्तः ।
̔सा केवलं काव्ये हेतुः इति
यायावरीयः ।
विप्रसृतिश्च सा
प्रतिभाव्युत्पत्तिभ्याम् ।
शक्तिकर्तृकेहि
प्रतिभाव्युत्पत्तिकर्मणी ।
शक्तस्य प्रतिभाति शक्तश्च
व्युत्पद्यते ।
या शब्दग्राममर्थसार्थमलङ्कारतन्त्रमुक्तिमार्गमन्यदपि
तथाविधमधिहृदयं प्रतिभासयति सा प्रतिभा ।
अप्रतिभस्य पदार्थसार्थः परोक्ष इव,
प्रतिभावतः पुनरपश्यतोऽपि प्रत्यक्ष इव ।
यतो मेघाविरुद्रकुमारदासादयो
जात्यन्धाः कवयः श्रूयन्ते ।
किञ्चन महाकवयोऽपि देशद्वीपान्तरकथापुरुषादिदर्शनेन
तत्रत्यां व्यवहृर्ति निबध्नन्तिस्म ।
तत्र देशान्तरव्यवहारः -
प्राणानामनिलेन वित्तरुचिता
सत्कल्पवृक्षे वने
तोये काञ्चनपद्मरेणुकपिशे
पुण्याभिषेकक्रिया ।
ध्यानं रत्नशिलागृहेषु
विबुधस्त्रीसन्निधौ संयमो
यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी
॥
द्वीपान्तरव्यवहारः -
अनेन सार्द्धं
विहराम्बुराशेस्तीरेषु ताडीवनमर्मरेषु ।
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा
मरुद्भिः ॥
कथापुरुषव्यवहारः -
हरोऽपि
तावत्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः
।
उमामुखे बिम्बफलाधरोष्टे व्यापारयामास
विलोचनानि ॥
आदिग्रहणात् -
तथागतायां परिहासपूर्वं सख्यां सखी
वेत्रभृदाबभाषे ।
बाले व्रजामोऽन्यत इत्यथैनां
वधूरसूयाकुटिलं ददर्श ॥
सा च द्विधा कारयित्री भावयित्री
च ।
कवेरुपकुर्वाणा कारयित्री ।
साऽपि त्रिविधा सहजाऽऽहार्यौपदेशिकी
च ।
जन्मान्तरसंस्कारापेक्षिणी
सहजा ।
इह जन्मसंस्कारयोर्निराहार्या ।
मन्त्रतन्त्राद्युपदेशप्रभवा
औपदेशिकी ।
ऐहिकेन कियतापि संस्कारेण प्रथमां
तां सहजेति व्यपदिशन्ति ।
महता पुनराहार्या ।
औपदेशिक्याः पुनरैहिक एव उपदेशकालः,
ऐहिक एव संस्कारकालः ।
त इमे त्रयोऽपि कवयः सारस्वतः,
आभ्यासिकः, औपदेशिकश्च ।
जन्मान्तरसंस्कारप्रवृत्तसरस्वतीको
बुद्धिमान्सारस्वतः ।
इह जन्माभ्यासोद्भासितभारतीक
आहार्यबुद्धिराभ्यासिकः ।
उपदेशितदर्शितवाग्विभवा
दुर्बुद्धिरौपदेशिकः ।
तस्मान्नेतरौ
तन्त्रशेषमनुतिष्ठताम् ।
̔नहि प्रकृतिमधुरा द्राक्षा
फाणिततसंस्कारमपेक्षते̕इत्याचार्याः ।
̔न̕इति यायावरीयः ।
एकार्थं हि क्रियाद्वयं द्वैगुण्याय
सम्पद्यते ।
̔तेषां पूर्वः पूर्वः श्रेयान्̕इति
श्यामदेवः ।
̔सारस्वतः स्वतन्त्रः
स्याद्भवेदाभ्यासिको मितः ।
औपदेशकविस्त्वत्र वल्गु फल्गु च जल्पति
॥
̔उत्कर्षः श्रेयान्̕इति
यायावरीयः ।
स चानेकगुणसन्निपाते भवति ।
किञ्च -
बुद्धिमत्त्वं च
काव्याङ्गविद्यास्वभ्यासकर्म च ।
कवेश्चोपनिषच्छक्तिस्त्रयमेकत्र
दुर्लभम् ॥
काव्यकाव्याङ्गविद्यासु
कृताभ्यासस्य धीमतः ।
मन्त्रानुष्ठाननिष्ठस्य नेदिष्ठा
कविराजता ॥
कवीनां तारतम्यतश्चैष
प्रायोवादः ।
यथा -
एकस्य तिष्ठति कवेर्गृह एव
काव्यमन्यस्य गच्छति सुहृद्भवनानि यावत् ।
न्यस्याविदग्धवदनेषु पदानि शश्वत्कस्याऽपि
सञ्चरति विश्चकुतूहलीव ॥
सेयं कारयित्री ।
भावकस्योपकुर्वाणा भावयित्री ।
सा हि कवेः श्रममभिप्रायं च भावयति ।
तया खलु फलितः
कवेर्व्यापारतरुः ।
अन्यथा सोऽवकेशी स्यात्कः
पुनरनयोर्भेदो यत्कविर्भावयति भावकश्च कविः इत्याचार्याः ।
तदाहुः -
प्रतिभातारतम्येन प्रतिष्ठा भ्रुवि
भूरिधा ।
भावकस्तु कविः प्रायो न भजत्यधमां
दशम् ॥
̔न̕इति कालिदासः ।
पृथगेव हि कवित्वाद्भावकत्वं,
भावकत्वाच्च कवित्वम् ।
स्वरुपभेदाद्विषयभेदाच्च ।
यदाहुः -
कश्चिद्वाचं रचयितुमलं श्रोतुमेवाऽपरस्तां
कल्याणी ते मतिरुभयथा विस्मयं नस्तनोति ।
नह्येकस्मिन्नतिशयवतां सन्निपातो
गुणानामेकः सूते कनकमुपलस्तत्परीक्षाक्षमोऽन्यः ॥
̔ते च द्विधाऽरोचकिनः,
सतृणाभ्यवहारिणश्च̕इति मङ्गलः
।
̔कवयोपि भवन्ति̕इति वामनीयाः ।
̔चतुर्धा̕इति
यायावरीयःमत्सरिणस्तत्त्वाभिनिवेशिनश्च ।
̔तत्र विवेकिनः पूर्वे
तद्विपरीतास्तु ततोऽनन्तराः̕इति वामनीयाः
।
अरोचकिता हि तेषां नैसर्गिकी,
ज्ञानयोनिर्वा ।
नैसिर्गिकीं हि संस्कारशर्तेनाऽपि
वङ्गमिव कालिकां ते न जहति ।
ज्ञानयोनौ तु तस्यां विशिष्टज्ञेयवति
वचसि रोचकितावृत्तिरेव इति यायावरीयः ।
किञ्च सतृणाभ्यवहारिता
सर्वसाधारणी ।
तथाहि - व्युत्पित्सोः कौतुकिनः
सर्वस्य सर्वत्र प्रथमं सा ।
प्रतिभाविवेकविकलता हि न गुणागुणयोर्विभागसूत्रं
पातयति ।
ततो बहु त्यजति बहु च गृह्णाति ।
विवेकानुसारेण हि बुद्धयो मधु
निष्यन्दन्ते ।
परिणामे तु यथार्थदर्शी स्यात् ।
विभ्रमभ्रंशश्च निःश्रेयसं
सन्तिधत्ते ।
मत्सरिणस्तु प्रतिभातमपि न
प्रतिभातं, परगुणेषु वाचंयमत्वात् ।
स पुनरमत्सरी ज्ञाता च विरलः ।
तदुक्तम् -
कस्त्वं भोः कविरस्मि काप्यभिनवा
सूक्तिः सखे पठ्यतां त्यक्ता काव्यकथैव सम्प्रति मया कस्मादिदं श्रूयताम् ।
यः सम्पग्विविनक्ति दोषगुणयोः सारं,
स्वयं सत्कविः सोऽस्मिन्भावक एव नास्त्यथ भवेद्दैवान्न निर्मत्सरः ॥
तत्त्वाभिनिवेशी तु मध्येसहस्रं
यद्येकस्तदुक्तम् -
शब्दानां विविनक्ति
गुम्फनविधीनामोदते सूक्तिभिः सान्दं लेढि रसामृतं विचिनुते तात्पर्यम्रुद्रां च
यः ।
पुण्यैः सङ्घटते
विवेक्तृविरहादन्तर्मुखं ताम्यतां केषामेव कदाचिदेव सुधियां काव्यश्रमज्ञो
जनः ॥
स्वानी मित्रं च मन्त्री च शिष्यश्याचार्य
एव च ।
कवेर्भवति ही चित्रं किं हि तद्यन्न
भावकः ॥
काव्येन किं कवेस्तस्य
तन्मनोमात्रवृत्तिना ।
नीयन्ते भावकैर्यस्य न निबन्धा दिशो
दश ॥
सन्ति पुस्तकविन्यस्ताः काव्यबन्धा
गृहे गृहे ।
द्वित्रास्तु भावकमनः
शिलापट्टनिकुट्टिताः ॥
सत्काव्ये विक्रियाः
कश्चिद्भावकस्योल्लसन्ति ताः ।
सर्वाभिनयनिर्णीतौ दृष्टा नाट्यसृजा
न,
याः ॥
वाग्भवको
भवेत्कश्चित्कश्चिद्धृदयभावकः ।
सात्त्विकैराङ्गिकैः
कश्चिदनुभावैश्च भावकः ॥
गुणादानपरः कश्चिद्दोषादानपरोऽपरः ।
गुणदोषाहृतित्यागपरः कश्चन
भावकः ॥
अभियोगे समानेऽपि विचित्रो यदयं
क्रमः ।
तेन विद्मः,
प्रसादेऽत्र नृणां हेतुरमानुषः
॥
न निसर्गकविः शास्त्रे न क्षुण्णः
कवते च यः ।
विडम्बयति सात्मानमाग्रहग्रहिलः किल
॥
कवित्वं न स्थितं यस्य काव्ये च
कृतकौतुकः ।
तस्य सिद्धिः
सरस्वत्यास्तन्त्रमन्त्रप्रयोगतः ॥
यदान्तरंवेत्ति
सुधीः स्ववाक्यपरवाक्ययोः ।
तदा स सिद्धो मन्तव्यः,
कुकविः कविरेव वा ॥
कारयित्रीभावयित्र्यावितीमे
प्रतिभाभिदे ।
अथातः कथयिष्यामो व्युत्पत्तिं
काव्यमातरम् ॥
इति राजशेखरकृतौ काव्यमीमांसायां
कविरहस्ये प्रथमेऽधिकरणे शिष्यप्रतिभाव्याख्यानः चतुर्थोऽध्यायः
व्युत्पत्तिकविपाकाःपञ्चमोऽध्यायः
व्युत्पत्तिकविपाकाः̔बहुज्ञता
व्युत्पत्तिः̕इत्याचार्याः ।
सर्वतोदिक्का हि कविवाचः ।
तदुक्तम् -
प्रसरति किमपि कथञ्चन नाभ्यस्ते
गोचरे वचः कस्य ।
इदमेव तत्कवित्वं यद्वाचः
सर्वतोदिक्का ॥
̔उचितानुचितविवेको व्युत्पत्तिः̕इति
यायावरीयः ।
̔प्रतिभाव्युत्पत्त्योः प्रतिभा
श्रेयसी,इत्यानन्दः ।
सा हि कवेरव्युत्पत्तिकृतं
दोषमशेषमाच्छादयति ।
तदाह -
अव्युत्पत्तिकृतो दोषः शक्त्या
संव्रियते कवेः ।
यस्त्वशक्तिकृतस्तस्य झटित्येवावभासते
॥
शक्तिशब्दश्चायमुपचरितः प्रतिभाने
वर्त्तते ।
प्रतिभा यथा -
एतत्किं शिरसि स्थितं मम पितुः,
खण्डं सुधाजन्मनो लालाटं किमिदं विलोचनमिदं, हस्तेऽस्य
किं पन्नगाः ।
इत्थं क्रौञ्चरिपोः क्रमादुपगते
दिग्वाससः शूलिनः प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः ॥
̔व्युत्पत्तिः श्रेयसी̕इति
मङ्गलः ।
सा हि कवेरशक्तिकृतं
दोषमशेषमाच्छादयति ।
तथा हि -
कवेः संव्रियतेशक्तिर्व्युत्पत्त्या
काव्यवर्त्मनि ।
वैदग्धीचित्तानां हेया शब्दस्य
गुम्फना ॥
व्युत्पत्तिर्यथा -
कृतः कण्ठे निष्को नहि किमुत तन्वी
मणिलता कृशं लीलापत्रं श्रवसि निहितं कुण्डलमुचि
।
न कौशेयं चित्रं वसनमवदातं तु वसितं
समासन्नीभूते निधुवनविलासे वनितया ॥
̔प्रतिभाव्युत्पत्ती मिथः समवेते
श्रेयस्यौ̕इति यायावरीयः ।
न खलु लावण्यलाभादृते रुपसम्पदृते
रुपसम्पदो वा लावण्यलब्धिर्महते सौन्दर्याय
।
उभययोगो यथा -
जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः
प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः ।
भर्त्तुर्नृत्यानुकारे जयति
निजतनुस्वच्छलावण्यवापीसम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥
प्रतिभाव्युत्पत्तिमांश्च कविः
कविरित्युच्यते ।
स च त्रिधा ।
शास्त्रकविः
काव्यकविरुभयकविश्च ।
̔तेषामुत्तरोत्तरीयो गरीयान्̕इति
श्यामदेवः ।
̔न̕इति यायावरीयः ।
यथास्वविषये सर्वो गरीयान् ।
नहि राजहंसश्चन्द्रिकापानाय प्रभवति,
नापि चकोरोऽद्भयः क्षीरोद्वरणाय
।
यच्छास्त्रकविः काव्ये रससम्पदं
विच्छिनत्ति ।
यत्काव्यकविःशास्त्रे
तर्ककर्कशमप्यर्थमुक्तिवैचित्र्येण श्लथयति
।
उभयकविस्तूभयोरपि वरीयान्यद्युभयत्र
परं प्रवीणः स्यात् ।
तस्मात्तुल्यप्रभावावेव
शास्त्रकाव्यकवी ।
उपकार्योपकारकभावं तु मिथः शास्त्रकाव्यकाव्योरनुमन्यामहे ।
यच्छास्त्रसंस्कारः
काव्यमनुगृह्णाति शास्त्रैकप्रवणता तु निगृह्णाति
।
काव्यसंस्कारोऽपि शास्त्रवाक्यपाकमनुरुणद्धि
काव्यैकप्रवणता तु विरुणद्धि ।
तत्र त्रिधा शास्त्रकविः ।
यः शास्त्रं विधत्ते,
यश्च शास्त्रे काव्यं संविधत्ते, योऽपि काव्ये
शास्त्रार्थं निधत्ते ।
काव्यकविः पुनरष्टधा ।
तद्यथा - रचनाकविः,
शब्दकविः, अर्थकविः, अलङ्कारकविः,
उक्तिकविः, रसकविः, मार्गकविः,
शास्त्रार्थकविरिति ।
तत्र रचनाकविः -
लोलल्लाङ्गूलवल्लीवलयितबकुलानोकहस्कन्धगोलैर्गोलाङ्गूलैर्नदद्भिः
प्रतिरसितजरत्कन्दरामन्दिरेषु ।
षण्डेषूद्दण्टपिण्डीतगरतरलनाः प्रापिरे
तेन वेलामालङ्घ्योत्तालतल्लस्फुटितपुटकिनीवन्धवो गन्धवाहाः ॥
त्रिधा च
शब्दकविर्नामाख्यातोभयभेदेन ।
तत्र नामकविः -
विद्येव पुंसो महिमेव राज्ञः
प्रज्ञेव वैद्यस्य दयेव साधोः ।
लज्जेव शूरस्य मृजेव यूनो विभूषणं
तस्य नृपस्य सैव ॥
आख्यातकविर्यथा -
उच्चैस्तरां जहसुराजहृषुर्जगर्जुराजघ्निरे
भुजतटीनिकरैः स्फुरद्भिः ।
सन्तुष्टुवुर्मुमुदिरे बहु मेनिरे च
वाचं गुरोरमृतसम्भवलाभगर्भाम् ॥
नामाख्यातकविः -
हतत्विषोन्धाः शिथिलांसबाहवः
स्त्रियो विषादेन विचेतना इव ।
न चुक्रुशुर्नो रुरुदुर्नसस्वनुर्न
चेलुरासुर्लिखिता इव क्षणम् ॥
अर्थकविः -
देवी पुत्रमसूत नृत्यत गणाः किं
तिष्ठतेत्युद्भुजे हर्षाद्भृङ्गिरिटावुदाहृतगिरा चामुण्डयाऽऽलिङ्गिते ।
पायाद्वो
जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयोरन्योन्याङ्कनिपातजर्जरजरत्स्थूलास्थिजन्मा
रवः ॥
द्विधाऽलङ्कारकविः शब्दार्थभेदेन ।
तयोः शब्दालङ्कारः -
न प्राप्तं विषमरणं प्राप्तं पापेन
कर्मणा विषमरणं च ।
न मृतो भागीरथ्यां मृतोऽहमुपगुह्य
मन्दभागी रथ्याम् ॥
अर्थाऽलङ्कारः -
भ्रान्तजिह्वापताकस्य फणच्छत्रस्य
वासुकेः ।
दंष्ट्राशलाकादारिद्यं कर्त्तु
योग्योऽस्ति मे भुजः ॥
उक्तिकविः -
उदरमिदनिन्द्यं मानिनीश्वासलाव्यं
स्तनतटपरिणाहो दोर्लतालेह्यसीमा ।
स्फुरति च वदनेन्दुर्दृक्प्रणालीनिपेयस्तदिह
सुदृशि कल्याः केलयो यौवनस्य ॥
यथा वा -
प्रतीच्छत्याशोकीं
किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम् ।
परिम्लानप्रायामनुवदति दृष्टिः
कमलिनीमितीयं माधुर्यं स्पृशति च तनुत्वं च भजते ॥
रसकविः -
एतां विलाकय तनूदरि ताम्रपर्णीमम्भोनिधौ
विवृतशुक्तिपुटोद्धृतानि ।
यस्याः पयांसि परिणाहिषु
हारमूर्त्त्या वामभ्रुवां परिणमन्ति पयोधरेषु ॥
मार्गकविः -
मूलं बालकवीरुधां सुरभयो जातीतरुणां
त्वचः सारश्चन्दनशाखिनां किसलयान्यार्द्राण्यशोकस्य च ।
शैरीषी कुसुमोग्दतिः परिणमन्मोचं च
सोऽयं गणो ग्रीष्मेणोष्महरः पुरा किल ददे दग्धाय पञ्चेषवे ॥
शास्त्रार्थकविः -
आत्मारामा विहितरतयो निर्विकल्पे
समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः ।
यं वीक्षन्ते कमपि तमसां ज्योतिषां
वा परस्तात्तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम् ॥
एषां द्वित्रैर्गुणैः कनीयान्,
पञ्चकैर्मध्यमः, सर्वगुणयोगी महाकविः ।
दश च कवेरवस्था भवन्ति ।
तत्र च बुद्धिमदाहार्यबुद्धयोः सत्प,
तिस्त्रश्च औपदेशिकस्य ।
तद्यथा - काव्यविद्यास्नातको,
हृदयकविः, अन्यापदेशी, सेविता,
घटमानः, महाकविः, कविराजः,आवेशिक,अविच्छेदी, सङ्क्रामयिता च ।
यः कवित्वकामः
काव्यविद्योपविद्याग्रहणाय गुरुकुलान्युपास्ते स विद्यास्नातकः ।
यो हृदय एव कवते निह्नुते च स
हृदयकविः ।
यः स्वमपि काव्यं
दोषभयादन्यस्येत्यपदिश्य पठति सोऽन्यापदेशी ।
यः प्रवृत्तवचनः
पौरस्त्यानामन्यतमच्छायामभ्यस्यति स सेविता ।
योऽनवद्यं कवते न तु प्रबध्नाति स
घटमानः ।
योऽन्यतरप्रबन्धे प्रवीणः स महाकविः
।
यस्तु तत्र तत्र भाषाविशेषे तेषु
तेषु प्रबन्धेषु तस्मिंस्तस्मिंश्च रसे स्वतन्त्रः स कविराजः ।
ते यदि जगत्यपि कतिपये ।
यो मन्त्राद्युपदेशवशाल्लब्धसिद्धिरावेशसमकालं
कवते स आवेशिकः ।
यो यदैवेच्छति तदैवाविच्छिन्नवचनः
सोविच्छेदी ।
यः कन्याकुमारादिषु सिद्धमन्त्रः
सरस्वतीं सङ्क्रामयति स सङ्क्रामयिता ।
सततमभ्यासवशतः सुकवेः वाक्यं
पाकमायाति ।
कः पुनरयं पाकः? इत्याचार्याः ।
̔परिणामः̕इति मङ्गलः ।
कः पुनरयं परिणामः? इत्याचार्याः ।
सुपां तिङ्गां च श्रवः सैषा
व्युत्पत्तिःइति मङ्गलः ।
सौशब्द्यमेतत् ।
पदनिवेशनिष्कम्पता पाकःइत्याचार्याः
।
तदाहुः -
आवापोद्धरणे तावद्यावद्दोलायते
मनः ।
पदानां स्थापिते स्थैर्ये हन्त
सिद्धा सरस्वती ॥
̔आग्रहपरिग्रहादपि
पदस्थैर्यपर्यवसायस्तस्मात्पदानां परिवृत्तिवैमुख्यं पाकः̕इति वामनीयाः ।
तदाहुः -
यत्पदानि त्यजन्त्येव
परिवृत्तिसहिष्णुताम् ।
तं शब्दन्यासनिष्णाताः शब्दपाकं
प्रचक्षते ॥
̔इयमशक्तिर्न पुनः पाकः̕इत्यवन्तिसुन्दरी
।
यदेकस्मिन्वस्तुनि महाकवीनामनेकोऽपि
पाठः परिपाकवान्भवति, तस्माद्रसोचितशब्दार्थसूक्तिनिबन्धनः
पाकः ।
यदाह -
गुणालङ्काररीत्युक्तिशब्दार्थग्रथनक्रमः
।
स्वदते सुधियां येन वाक्यपाकः स मां
प्रति ॥
तदुक्तम् -
सति वक्तरि सत्यर्थे शब्दे सति रसे
सति ।
अस्ति तन्न विना येन परिस्त्रवति
वाङ्मधु ॥
̔कार्यानुमेयतया यत्तच्छब्दनिवेद्यः
परं पाकोऽभिधाविषयस्तत्सहृदयप्रसिद्धिसिद्ध एव व्यवहाराङ्गमसौ̕इति यायावरीयः ।
स च कविग्रामस्यकाव्यमभ्यस्यतो नवधा
भवति ।
तत्राद्यन्तयोरस्वादु पिचुमन्दपाकम्,
आदावस्वादु परिणामे मध्यमं बदरपाकम्, आदावस्वादु
परिणामे स्वादु मृद्वीकापाकम्, आदौ मध्यममन्ते चास्वादु
वार्त्ताकपाकम्, आद्यन्तयोर्मध्यमं तिन्तिडीकपाकम्, आदौ मध्यममन्ते स्वादु सहकारपाकम्, आदावुत्तममन्ते
चास्वादु क्रमुकपाकम्, आदावुत्तममन्ते मध्यमं त्रपुसपाकम्,
आद्यन्तयोः स्वादु नालिकेरपाकमिति ।
तेषां त्रिष्वपि त्रिकेषु पाकाः
प्रथमे त्याज्याः ।
वरमकविर्न पुनः कुकविः स्यात् ।
कुकविता हि सोच्छ्वासं मरणम् ।
मध्यमाः संस्कार्याः ।
संस्कारो हि सर्वस्य गुणमुत्कर्षयति
।
द्वादशवर्णमपि सुवर्णपावकपाकेन
हेमीभवति ।
शेषा ग्राह्याः ।
स्वभावशुद्धं हि न संस्कारमपेक्षते
।
न मुक्तामणेः शाणस्तारतायै प्रभवति
।
अनवस्थितपाकं पुनः कपित्थपाकमामनन्ति
।
तत्र पलालधूननेन अन्नकणलाभवत्सुभाषितलाभः
।
सभ्यगभ्यस्यतः काव्यं नवधा
परिपच्यते ।
हानोपादानसूत्रेण विभजेत्तद्धि
बुद्धिमान् ॥
अयमत्रैव शिष्याणां दर्शितस्त्रिघिविधो
विधिः ।
किन्तु वैविध्यमप्येतत्त्रिजगत्यस्य
वर्त्तते ॥
इति राजशेखरकृतौ काव्यमीमांसायां
कविरहस्ये प्रथमेऽधिकरणे व्युत्पत्तिकविपाकानां निरुपणं पञ्चमोऽध्यायः ॥